सप्तरत्नम्
वाञ्छा राजा तथा छेदो वृक्षं वित्तेन किं तथा ।
खर्गोधनेन किं ज्ञेयं सप्तरत्नमिदं क्रमात् ॥
वाञ्छा सज्जनसङ्गमे परगुणे प्रीतिर्गुरौ नम्रता
विद्यायां व्यसनं म्वयोषिति रतिर्लोकापवादाद्भयम् ।
भक्तिश्चक्रिणि शक्तिरात्मदमने संसर्गमुक्तिः खले
रते यत्र वसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः ॥ १॥
राजा धर्मविना द्विजः शुचिविना ज्ञानं विना योगिनः
कान्ता सत्यविना हयो गतिविना भूषा च ज्योतिर्विना ।
योद्धा शूरविना तपो ब्रतविना छन्दो विना गीयते
भ्राता स्नेहविना नरो हरिविना मुञ्चन्ति शीघ्रं बुधाः ॥ २॥
छेदश्चन्दनचूतचम्पकवने रक्षास्ति साकोटके
हिंसा हंसमयूरकोकिलकुले काकेष नित्यादरः ।
मातङ्गेन खर क्रयः समतुला कर्पूरकार्पासयोः
एषा यत्र विचारणा गुणिगणे देशाय तस्मै नमः ॥ ३॥
वृक्षं क्षीणफलं त्यजन्न्ति विहगाः शुष्कं सरः सारसाः
पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः ।
निर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टश्रियं मन्त्रिणः
सर्वे कार्यवशाजनोभिरमते कस्यास्ति को वल्लभः ॥ ४॥
वित्तेन किं वितरणं यदि नास्ति दीने
कि सेवया यदि परोपकृतौ न यत्नः ।
किं सङ्गमेन तनयो यदि नेक्षणीयः
किं यौवनेन विरहो यदि वल्लभायाः ॥ ५॥
स्वर्गः किं यदि वल्लभा निजवधूः किं वा विभूषा विधिः
लावन्यं यदि किं सुधाकरकरः शृङ्गारगर्भा गिरः
मृत्युः किं यदि दुर्जनेष्ववनतिः किं धिक् यदि पार्थना
प्राप्तेष्टः करिकेतनो यदि भवेत् किं कल्पभूमीरुहैः ॥ ६॥
धनेन किं यो न ददाति याचके
बलेन किं यश्च रिपून्न वाधते ।
श्रुतेन किं यो नच धर्ममाचरेत्
किमात्मना यो न जितेन्द्रियो भवेत् ॥ ७॥
इति सप्तरत्नं समाप्तम् ॥
0 Comments
If you have any Misunderstanding Please let me know