प्रतिदिनं सुभाषितम् संस्कृत श्लोक

.


1. साहित्य संगीत कला विहीनः साक्षात् पशुः पुछ विषाण हीनः । तृणं न खादन्नपि जीवमानः तद् भागधेयं परमं पषूणाम् ॥


2. येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः । ते मर्त्यलोके भुविभारभूताः मनुष्यरूपेण मॄगाश्चरन्ति ॥


3. अधिगत्य गुरोः ज्ञानं छात्रेभ्यो वितरन्ति ये ।

विद्या वात्सल्य निधयः शिक्षका मम दैवतम् ॥


4. अश्वस्य भूषणं वेगो मत्तं स्याद् गजभूषणम् ।

चातुर्यं भूषणं नार्या उद्योगो नरभूषणम् ॥


5. अहं नमामि वरदां ज्ञानदां त्वां सरस्वतीम् ।

प्रयच्छ विमलां बुद्धीं प्रसन्ना भव सर्वदा ॥


6. अपारे काव्यसंसारे कविरेकः प्रजापतिः ।

यथास्मै रोचते विश्वं तथा वै परिवर्तते ॥


7. असितगिरिसमं स्यात् कज्जलं सिन्धु पात्रं

सुरतरुवरशाखा लेखनी पत्रमुर्वी ।

लिखति यदि गृहीत्वा शारदा सर्वकालं

तदपि तव गुणानां ईश पारं न याति ॥


8. ददाति प्रतिगृण्हाति गुह्यमाख्याति पृच्छति ।

भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥


9. क्षते प्रहाराः निपतन्ति अभीक्ष्णं

धनक्षये वर्धति जाठराग्निः ।

आपत्सु वैराणि समुद्भदंति

चिद्रेषु अनर्थाः बहुलीभवंति ॥


10. केशवं पतितं दृष्ट्वा पाण्डवाः हर्षनिर्भराः ।

रुदन्ति कौरवाः सर्वे हा केशव हा केशव गतः ॥


11. वैद्यराज नमस्तुभ्यं यमराजसहोदर ।

यमस्तु हरति प्राणान् वैद्यो प्राणान् धनानि च ॥


12. अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च ।

अजापुत्रं बलिं दद्यात् देवो दुर्बलघातकः ॥


13. चिन्तनीया हि विपदां अदावेव प्रतिक्रिया       

न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ॥


14. आयुशः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते ।

नीयते स वृथा येन प्रमादः सुमहानहो     ॥


15. आत्मनः परितोषाय कवेः काव्यं तथापि तत् ।

स्वामिनो देहलीदीपसमं अन्योपकारकम् ॥


16. ईक्षणं द्विगुणं प्रोक्तां भाषणस्येति वेधसा ।

अक्षिणि द्वे मनुष्याणां जिंव्हा त्वैकेव निर्मिता ॥


17. उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः        ।

न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखं मृगाः ॥


18. उत्तिष्ठ उत्तिष्ठ राजेन्द्र मुखं प्रक्षालयस्व टः ।

प्रभाते रोदिती कुक्कु च वै तु हि च वै तु हि ॥


19. उत्तमो नातिवक्ता स्यात् अधमो बहुभाषते ।

न काञ्चने ध्वनिस्तादृक् यादृक् कांस्ये प्रजायते ॥


20. चिन्तायास्तु चितायास्तु बिन्दु मात्रम् विशेशतः ।

चिता दहति निर्जीवम्, चिन्ता दहति जीवितम् ॥


21. चिता चिन्ता समाप्रोक्ता बिन्दुमात्रं विशेषता ।

सजीवं दहते चिन्ता निर्जीवं दहते चिता ॥


22. उपकारो हि नीचानां अपकरो हि जायते ।

पयःपानं भुजंगाणां केवलं विषवर्धनम् ॥


23. अनुगन्तुं सतां वर्त्म कुत्सितं यदि न शक्यते ।

स्वल्पमप्यनुगन्तव्यं मार्गस्थो न अवसीदति ॥



24. सुन्दरोऽपि सुशीलोऽपि कुलीनोऽपि महाधनः ।

अकुलीनोऽपि विद्यावान् देवैरपि सुपूज्यते ॥


25. उत्तमा आत्मना ख्याताः पितुः ख्याताश्च मध्यमाः । अधमा मातुलात् ख्याताः श्वशुरात् अधमाधमाः ॥

 

26. उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः ।

षडेते यत्र वर्तन्ते तत्र देवः सहायकृत् ॥


27. आदित्यचन्द्रावनलानिलौ च

द्यौर्भूमिरापो हृदयं यमश्च ।

अहश्च रात्रिश्च उभे च

धर्मश्च जानाति नरस्य वृत्तम् ॥


28. न त्वहं कामये राज्यं न स्वर्गं नापुनर्भवम् ।

कामये दुःखतप्तानां प्राणिनाम् आर्तिनाशनम् ॥


29. अजायुद्धमृषिश्राद्धं प्रभाते मेघडम्बरम् ।

दम्पत्योः कलहश्चैव परिणामे न किञ्चन ॥


30. क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।

क्षण त्यागे कुतो विद्या कणत्यागे कुतो धनम् ॥


31. अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते ।

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥


32. परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः । परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम् ॥

 

33. अमन्त्रम् अक्षरं नास्ति नास्ति मूलमनौषदम् ।

अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः ॥


34. एकचक्रो रथो यन्ता विकलो विषमे हयाः ।

आक्रामत्येव तेजस्वी तथ्याप्यर्को नभस्तलम् ॥


35. मधुसिक्तो निम्बखण्डः दुग्धपुष्टो भुजंगमः ।

गंगास्नातोऽपि दुर्जनः स्वभावं नैव मुन्चति ॥


36. एकेनापि सुवृक्षेण पुष्पितेना सुगन्धिना ।

वासितं तद् वनं सर्वं सुप्त्रेण कुलं यथा ॥


37. ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च ।

पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न रक्षयेत् ॥


38. उदये सविता रक्तो रक्तश्चास्तमने तथा ।

सम्पत्तौ च विपत्तौ च साधुनामेकरूपता ॥


39. उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः

दैवेन देयमिति कापुरुषा वदन्ति ।

दैवं निहत्य कुरु पौरुषमात्मशक्त्या

यत्ने कृते यदि न सिध्यति कोऽत्र दोशः ?


40. उपसर्गेण धात्वर्थो बलादन्यत्र नीयते ।

प्रहाराहारसंहारविहारपरिहारवत् ॥


41. एते सत्पुरुषाः परार्थघटकाः स्वार्थान् परित्यज ये

सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।

तेऽमी मानवराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये

ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥


42. अनुदिनमनुतापेनास्म्यहं राम तप्तः

परमकरुण मोहं छिन्धि मायासमेतम् ।

इदमतिचपलं मे मानसं दुर्निवारं

भव्ति च बहु खेदस्त्वां विना धाव शीघ्रम् ॥


43. अनुदिनि अनुतापे तापलो रामराय

परमदिनदयाळा नीरसी मोहमाया

अचपळ मन माज़े नावरे आवरीता

तुज विण शिण होतो धाव रे धाव आता !


44. न भूतपूर्वं न कदापि वार्ता हेम्नः कुरंगः न कदापि दृष्टः । तथापि तॄष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ॥


45. सौवर्णानि सरोजानि निर्मातुं सन्ति शिल्पिनः ।

तत्र सौरभ निर्माणे चतुरः चतुराननः ॥


46. स्वायत्तमेकान्तहितं विधात्रा विनिर्मितं छादनमज्ञतायाः । विषेशतः सर्वविदां समाजे विन्हूषणं मौनमपण्डितानाम् ॥


47. विनिर्मिले ज़ाकण अज्ञतेचे स्वाधीन जे पद्मभवे फुकाचे । मूर्खास जे मौनचि फार साजे सभेस त्यान्च्या बहु जाणते जे ॥


48. गुरुशुश्रूशया विद्या पुष्कलेन धनेन वा ।

अथ वा विद्यया विद्या चतुर्थो न उपलभ्यते   ॥


49. चलत्येकेन पादेन तिष्ठत्येकेन पण्डितः      ।

न समीक्ष्यापरं स्थानं पूर्वमायातनं त्यजेत् ॥


50. कल्पद्रुमः कल्पितमेव सूत् सा कामधुक् कामितमेव दोग्धि  । चिन्तामणिश्चिन्तितमेव दत्ते सतां तु संगः सकलम् प्रसूते । ॥


51. सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् ।

प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः ॥


52. सम्पूर्णकुम्भो न करोति शब्दं

अर्धो घटो घोषमुपैति नूनं  ।

विद्वान् कुलीनो न करोति गर्वं

मूधास्तु जल्पन्ति गुणैर्विहीनाः ॥


53. नारिकेलसमाकारा दृश्यन्तेऽपि हि सज्जनाः ।

अन्ये बदरिकाकारा बहिरेव मनोहराः ॥


54. न भूतपूर्वं न कदापि वार्ता हेम्नः कुरंगः न कदापि दृष्टः । तथापि तॄष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ॥


55. परान्नं प्राप्य दुर्बुद्धे मा प्राणेषु दयां कुरु ।

दुर्लभानि परान्नानि प्रानाः जन्मनि जन्मनि !!


56. न दुर्जनः सज्जनतामुपैति बहुप्रकारैरपि सेव्यमानः । भूयोऽपि सिक्तः पयसा घृतेन न निम्बवृक्षो मधुरत्वमेति ॥


57. केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः 

न स्नानं न विलेपनं न कुसुमं नालंकृता मूर्धजाः ।

वाण्येका समलंकरोति पुरुषं या संस्कृता धार्यते

क्षीयन्ते खलू भूषणानि सततं वाग्भूषणं भूषणम् ॥


58.  किं वाससेत्यत्र विचारणीयं  वासः प्रधानं खलु योग्यतायै । पीताम्बरं वीक्ष्य ददौ स्वकनां दिगम्बरं वीक्ष्य विषं समुद्रः ॥



59. गुणैरुत्तुंगतां याति नोत्तुंगेनासनेन वै ।

प्रासादशिखरस्थोऽपि काको न गरुडायते ॥


60. अशनं मे वसनं मे जाया मे बन्धुवर्गो मे ।

इति मे मे कुर्वाणं कालवृको हन्ति पुरुषाजम् ॥


61. नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।

विक्रमार्जितसत्त्वस्य स्वयमेव म्र्गेन्द्रता ॥


62. अल्पकार्यकराः सन्ति ये नरा बहुभाषिणः ।

शरत्कालिनमेघास्ते नूनं गर्जन्ति केवलम् ॥


63. गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् ।

वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥


64. चित्ते भ्रान्तिर्जायते मद्यपानात् भ्रान्ते चित्ते पापचर्यामुपैति ।

पापं कृत्वा दुर्गतिं यान्ति मूधास्तस्मान्मद्यं नैव पेयं न पेयम् ॥


65. प्रत्यक्ष कविकाव्यं च रूपं च कुलयोषितः ।

गृहवैद्यस्य विद्या च कस्मैचिद्यदि रोचते ॥


66. किन्तु मद्यं स्वभावेन यथौषधं तथा स्मृतम् ।

अयुक्तियुक्तं रोगाय युक्तियुक्तं यथा स्मृतम् ॥


67. वितर वारि द वारि दव आतुरे

चिर पिपासित चातक पोतके ।

प्रचलिते मरुति क्षणं अन्यथा

क्व च भवान् क्व पयः क्व च चातकः ॥


68. वनानि दहतः वह्नेः सखा भवति मारुतः ।

स एव दीप नाषाय कृशे कस्य अस्ति सौहृदम् ॥


69. यत्रानेकः क्वचिदपि गृहे तत्र तिष्टत्यथैको

यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते

इत्थम् नैयौ रजनिदिवसौ लोलयन् द्वाविवाक्षौ

कालः कल्यो भुवनफलके क्रीडति प्राणिसारैः


70. आदित्यस्य गतागतैरहरहः सङ्क्षीयते जीवितं

व्यापरैर्बहुकार्यभारगुरुभिः कालो न विज्नायते

दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते

पीत्वा मोहमयीं प्रमादमदिराम् उन्मत्तभूतां जगत्


71. यदि वा याति गोविन्दः मथुरातः पुनः सखि ।

राधायाः नयन द्वन्द्वे राधा नाम विपर्ययः ॥


72. रत्नैर्महार्हैस्तुतुशुर्न देवा न भेजिरे भीमविषेण भीतिम् । सुधां विना न प्रययुर्विरामं न निश्चिदार्थाद्विरमन्ति धीराः ॥


73. तिलवत् स्निग्धं मनोऽस्तु वाण्यां गुडवन्माधुर्यं

तिलगुडलद्दुकवत् सम्बन्धे अस्तु सुवृत्तत्त्वम् ।

अस्तु विचारे शुभसंक्रमणं मंगलाय यशसे

कल्याणी संक्रान्तिरस्तु वः सदाहमाशंसे ॥


74. द्राक्षा म्लान मुखी जाता शर्करा चाश्मताम् गता । सुभाशित रसम् द्रुश्ट्वा सुधा भीता दिवम् गता ॥


75. सर्वत्र देशे गुणवान् शोभते प्रथितः नरः ।

मणिः शीर्शे गले बाहौ यत्र कुत्र अपि शोभते ॥


76. येन केन प्रकारेण यस्य कस्यापि देहिनः ।

सन्तोशं जनयेत्प्राज्ञः तदेवेश्वरपूजनम् ॥


77. गुणवत्-जनसंसर्गात् याति नीचोऽपि गौरवम् ।

पुष्पमालाप्रसङ्गेन सूत्रं शिरसि धार्यते ॥


78. गुणवत्-जनसंसर्गात् याति नीचोऽपि गौरवम् ।

पुष्पमालाप्रसङ्गेन सूत्रं शिरसि धार्यते ॥


79. यः पठति लिखति पश्यति परिपृच्छती पण्डितान् उपाश्रयति । तस्य दिवाकरकिरणैः नलिनी दलं इव विस्तारिता बुद्धिः ॥


80. बालस्यापि  रवेः पादाः पतन्त्युपरि भूभृताम् ।

तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥


81. यस्य अस्ति वित्तं स वरः कुलिनः

स पण्दितः स श्रुतवान् गुणज्ञः ।

स एव वक्ता स च दर्शनीयः

सर्वे गुणाः काञ्चनं आश्रयन्ते ॥


82. पार्वती फणि बालेन्दु भस्म मन्दाकिनी युता ।

अपवर्ग प्रदा मूर्तिः कथं स्यात् तव शङ्कर ॥


83. सुमित्रा नन्दन आसक्तं इमं राजानं ईक्ष्य वा ।

अथ वा मां कृशतनुं जलधे रोदिषि स्वयम् ॥


84. जीविते यस्य जीवन्ति लोके मित्राणि बान्धवाः ।

सफलं जीवितं तस्य को न स्वार्थाय जीवति ॥


85. चातक धूम समूहं दृष्ट्वा मा धाव वारि धर बुद्ध्या । इह हि भविष्यति भवतः नयन युगादेव वारिणां पूरः ॥


86. जाता शिखण्डिनी प्राक् यथा शिखण्डि तथावगच्छामि । प्रागल्भ्यमधिकमाप्तुं  वाणी बाणो बभूवेति ! ॥


87. दक्षिणे लक्ष्मणो यस्य वामे तु जनक आत्मजा ।

पुरतः मारुतिः यस्य तं वन्दे रघु नन्दनम् ॥


88. दातव्यं भोक्तव्यं धन विषये संचयः न कर्तव्यः ।

पश्य इह मधुकरीणां संचित अर्थं हरन्ति अन्ये ॥


89. त्यजन्ति मित्राणि धनैर्विहीनं दाराश्च पुत्राश्च सुहृज्जनाश्च । तं अर्थवन्तं पुनराश्रयन्ति अर्थो हि लोके पुरुषस्य बन्धुः ॥


90. तृणादपि लघुस्तूलस्तूलादपि च याचकः ।

वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति ॥


91. अयं निजः परो वा इति गणना लघु चेतसाम् ।

उदार चरितानां तु वसुधा एव कुटुम्बकम् ॥


92. अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवति । मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥


93. छायां अन्यस्य कुर्वन्ति तिष्ठन्ति स्वयं आतपे ।

फलानि अपि पर अर्थाय वृक्षाः सत्पुरुषा इव ॥


94. लालयेत् पंच वर्षाणि दश वर्षाणि ताडयेत् ।

प्राप्ते तु षोडशे वर्शे पुत्रे मित्रवद् आचरेत् ॥


95. वैध्यराज नमस्तुभ्यम् यमराज सहोधर 

यमो हरति प्राणान् वैध्यह् प्राणन् धनानि च


96. चिताम् प्रज्वलिताम् द्रुस्त्वा वैध्यह् व विस्मयमागतह् 

नाहम् गतह् न मय् भ्राता कस्येदम् हस्तलागवम् 


97. यथा एकेन न हस्तेन तालिका सम्प्रपद्यते ।

तथा उद्यम परित्यक्तं कर्म न उत्पादयेत् फलम् ॥


98. अष्टादश पुराणानां सारं व्यासेन कीर्तितम् ।

परोपकारः पुण्याय पापाय पर पीडनम् ॥


99. अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च ।

वश्यश्च पुत्रोऽर्थकारी च विद्या षड् जीवलोकस्य सुखानि राजन् ॥


100. अर्थ आगमः नित्यं अरोगिता च प्रिया च भार्या प्रिय वादिनी च ।

वश्यः च पुत्रः अर्थकारी च विद्या षड् जीव लोकस्य सुखानि राजन् ॥


101. अकृत्वा पर सन्तापं अगत्वा खल मन्दिरम् ।

साधोः मार्गं अनुसृत्य यत् स्वल्पं अपि तद् बहु॥


102. आपदि मित्र परीक्षा शूर परीक्षा रण अंगणे भवति । विनये वंश परीक्षा शील परीक्षा धन क्षये भवति ॥


103. विद्वत्त्वं च नृपत्वं च न एव तुल्ये कदाचन ।

स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥


104. गणयन्ति न ये सूर्यं वृष्टिं शीतं च कर्षकाः ।

यतन्ते सस्यलाभाय तैः साकं हि वसामि अहम् ॥


105. मूर्खस्य पंच चिह्नानि गर्वो दुर्वचनं तथा ।

क्रोधश्च दृढवादश्च परवाक्येष्वनादरः ॥


106. अष्टौ गुणा पुरुषं दीपयन्ति प्रज्ञा सुशीलत्वदमौ श्रुतं च ।

पराक्रमश्चाबहुभाषिता  च दानं यथाशक्ति कृतज्ञता च ॥

अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा सुशीलत्व दमौ श्रुतं च ।

पराक्रमः च अ बहु भाषिता  च दानं यथा शक्ति कृतज्ञता च ॥


107. कः न याति वशं लोके मुखं पीण्डेन पूरितः ।

मृदंगः मुख लेपेन करोति मधुरं ध्वनिम् ॥


108. ऐक्यं बलं समाजस्या तदभावे स दुर्बलः ।

तस्मात् ऐक्यं प्रशंसन्ति दृढं राश्त्र हितैषिणः ॥


109. आदौ देवकिदेवगर्भजननं गोपीगृहे वर्धनं

मायापुतनजीवितापहरणं गोवर्धनोद्धारणम् ।

कंसच्छेदनकौरवादिहननं कुन्तीतनूजावनं

एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ॥१६॥


110. गुरुः बन्धुः अबन्धूनां गुरुः चक्षुः अचक्षुषाम् ।

गुरुः पिता च माता च सर्वेषां न्यायवर्तिनाम् ॥


111. गर्वाय परपीडायै दुर्जनस्य धनं बलम् ।

सुजनस्य तु दानाय रक्षणाय च ते सदा ॥


112. अम्बा यस्य उमादेवी जनकः यस्य शंकरः ।

विद्यां ददाति सर्वेभ्यः स नः पातु गजाननः ॥


113. गौरवं प्राप्यते दानात् न तु वित्तस्य संचयात् ।

स्थितिः उच्चैः  पयोदानां पयोधीनां अधः स्थितिः ॥


114. उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः ।

षड् एते यत्र वर्तन्ते देवः तत्र सहायकृत् ॥


115. उपदेशः हि मूर्खाणां प्रकोपाय न शान्तये ।

पयः पानं भुजंगानां केवलं विषवर्धनम् ॥


116. आत्मनः मुख दोषेण बध्यन्ते शुक सारिकाः ।

बकाः तत्र न बध्यन्ते मौनं सर्वार्थ साधनम् ॥


117. खलः करोति दुर्वृत्तं नूनं फलति साधुषु ।

दशाननोऽहरत् सीतां बन्धनं तु महोदधेः ॥


118. कार्यार्थी भजते  लोकः यावत् कार्यं न सिध्यति । उत्तीर्णे च परे पारे नौकायाः किं प्रयोजनम् ॥


119. मनः मधुकरः मेघः मद्यपः मत्कुणः मरुत् ।

मा मदः मर्कटः मत्स्यः मकाराः दश चंचलाः ॥



एक टिप्पणी भेजें

If you have any Misunderstanding Please let me know

और नया पुराने