Mahabharata - महाभारतम्
1. आदिपर्व
आदिपर्व - अध्याय 004
॥ श्रीः ॥
1.4. अध्यायः 004
(अथ पौलोमपर्व ॥ 4 ॥)
Mahabharata - Adi Parva - Chapter Topics
सौतिशौनकसंवादमुखेन कथोपोद्धातः॥ 1 ॥ रोमहर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको नैमिशारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे॥ 1-4-1 (888)पौराणिकः पुराणे कृतश्रमः स कृताञ्जलिस्तानुवाच। `मयोत्तङ्कस्य चरितमशेषमुक्तं जनमेजयस्य सार्पसत्रे निमित्तान्तरमिदमपि।' किं भवन्तः श्रोतुमिच्छन्ति किमहं ब्रवाणीति॥ 1-4-2 (889)तमृषय ऊचुः। 1-4-3x (25)परं रौमहर्षणे प्रवक्ष्यामस्त्वां नः प्रतिवक्ष्यसि वचः शुश्रूषतां कथायोगं नः कथायोगे॥ 1-4-3 (890)तत्र भगवान् कुलपतिस्तु शौनकोऽग्निशरणमध्यास्ते। `दीर्घसत्रत्वात्सर्वाः कथाः श्रोतुं कालोस्ति॥' 1-4-4 (891)यौऽसौ दिव्याः कथा वेद देवतासुरसंश्रिताः। मनुष्योरगगन्धर्वकथा वेद च सर्वशः॥ 1-4-5 (892)स चाप्यस्मिन्मशे सौते विद्वान्कुलपतिर्दिवजः। दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः॥ 1-4-6 (893)सत्यवादी शमपरस्तपस्वी नियतव्रतः। सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम्॥ 1-4-7 (894)तस्मिन्नध्यासति गुरावासनं परमार्चितम्। ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः॥ 1-4-8 (895)सौतिरुवाच। 1-4-9x (26)एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि। तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः॥ 1-4-9 (896)सोऽथ विप्रर्षभः सर्वं कृत्वा कार्यं यथाविधि। देवान्वाग्भिः पितॄनद्भिस्तर्पयित्वाऽऽजगाम ह॥ 1-4-10 (897)यत्र ब्रह्मर्षयः सिद्धाः सुखासीना धृतव्रताः। यज्ञायतनमाश्रित्य सूतपुत्रपुरस्पराः॥ 1-4-11 (898)ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्तदा। उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम्॥ ॥ 1-4-12 (899)इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि चतुर्थोऽध्यायः॥ 4 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-4-7 प्रतिपाल्यतां प्रतीक्ष्यतां॥ 1-4-10 वाग्भिः ब्रह्मयज्ञीयाभिः॥ चतुर्थोऽद्यायः॥ 4 ॥

0 Comments