१
अइउण्
सूत्राणि:
॥ व्याख्या: ॥
'अइउण्' इति प्रथमं माहेश्वरसूत्रम् । अनेन सूत्रेण 'अ', 'इ', 'उ' इत्येतेषां त्रयाणाम् उपदेशः क्रियते । अन्ते विद्यमानः 'ण्' इत्संज्ञकः अस्ति । अस्य साहाय्येन अण् इति प्रत्याहारः सिद्ध्यति ।
अण् प्रत्याहारे 'अ', 'इ', 'उ' एते त्रयः वर्णाः समाविश्यन्ते । अण्-प्रत्याहारस्य प्रयोगः पाणिनिना उरण् रपरः , ढ्रलोपे पूर्वस्य दीर्घोऽणः , केऽणः तथा अणोऽप्रगृह्यस्यानुनासिकः एतेषु सूत्रेषु कृतः अस्ति ।
ज्ञातव्यम् -
1. अणुदित्सवर्णस्य चाप्रत्ययः इत्यस्मिन् सूत्रे विद्यमानः 'अण्' प्रत्याहारः 'परेण णकारेण' (इत्युक्ते, लण्-प्रत्याहारस्थ-णकारेण) सिद्ध्यति, न हि अण्-प्रत्याहारस्थ-णकारेण ।
2. 'इण्' इति प्रत्याहारः नित्यम् 'परेण णकारेण' (लण्-प्रत्याहारस्थ-णकारेण) सिद्ध्यति, न हि अण्-प्रत्याहारस्थ-णकारेण ।
शास्त्रचर्चा -
छात्रः - ह्रस्व-अकारः संवृतः अस्ति । तस्य दीर्घभेदः (आकारः) तथा प्लुतभेदः (अ३कारः) विवृतरूपेण उच्चार्येते । तर्हि सवर्णग्रहणसमये ह्रस्व-अकारेण दीर्घ-प्लुतभेदयोः ग्रहणं कथं स्यात् ?
आचार्यः - ह्रस्व-अकारेण आकार-अ३कारयोः ग्रहणं कारयितुम् 'अइउण्' सूत्रे पाठितः अकारः प्रतिज्ञया 'विवृतः' स्वीक्रियते । अतः सम्पूर्णे सूत्रपाठे यत्र यत्र अकारस्य निर्देशः भवति, तत्र तत्र विद्यमानः अकारः विवृतः एव ज्ञातव्यः ।
छात्रः - परन्तु ह्रस्व-अकारः प्रयोगे संवृतः एव अस्ति, विवृतः न । तर्हि प्रक्रियायाः अन्ते परन्तु प्रयोगात् पूर्वम् विवृतः अकारः संवृतः कथं भवति ?
आचार्यः - अष्टाध्याय्याः अन्तिमं सूत्रम् अ अ इति अस्ति । प्रक्रियादशायां विवृतः प्रोक्तः अकारः अनेन सूत्रेण पुनः संवृतः पाठ्यते । अनेन प्रयोगार्थं अकारस्य संवृतत्वम् सिदध्यति । त्रिपाद्याः अन्ते विद्यमानम् एतत् सूत्रम् सम्पूर्णाम् अष्टाध्यायीं प्रति असिद्धमस्ति, अतः प्रक्रियादशायाम् तु अकारः विवृतः एव स्वीकर्तव्यः ।
॥ काशिका ॥
अ इ उ इत्यनेन क्रमेण वर्णानुपदिश्यान्ते णकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेन - उरण् रपरः इत्यकारेण ॥ ह्रस्वः अवर्णः प्रयोगे संवृतः । दीर्घप्लुतयोस्तु विवृतत्वम् । तेषां सावर्ण्यप्रसिद्ध्यर्थमकार इह शास्त्रे विवृतः प्रतिज्ञायते । तस्य प्रयोगार्थम् अ अ इति शास्त्रान्ते प्रत्यापत्तिः करिष्यते ॥
॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥
अत्र वृत्तिः – अ, इ, उ इत्येतान् वर्णानुपदिश्यन्ते णकारमितं करोति ( पाणिनिराचार्यः ) प्रत्याहारार्थम् । स णकार एकेन आदिना अकारेण गृह्यते “ उरण् रपरः ”इत्यादिषु सुत्रेषु । अकारोऽत्र विवृतः प्रतिज्ञायते सावर्ण्यार्थम् ।
भाष्यम् – ‘ अकारस्य विवृतोपदेश आकारग्रहणार्थः ’ ।
अकारः संवृत इति शिक्षावाक्यात् संवृतप्रयत्नस्य ह्रस्वाकारस्य विवृतप्रयत्नैर्दीर्घप्लुताकारैः सह सावर्ण्याभावात् कथम् “ अस्य च्वौ ” इत्यादौ दीर्घग्रहः ?“ अणुदित्सवर्णस्य चाप्रत्ययः ” इति सूत्रेण सवर्णानामेव ग्रहणोक्तेः । भिन्नप्रयत्नानां च सावर्ण्याभावात् । एवमिह अग्निदत्त इत्यत्र “ गुरोरनृतोऽनन्त्यस्याप्येकैकस्यप्राचाम् ” इति सूत्रेण प्लुताकारेण सह सवर्णदीर्घो न स्याद् अत एव विवृत एवाकारोऽत्रोपदिष्टः । अत्र भाष्यम् –
‘ अकारस्य विवृतोपदेश आकारग्रहणार्थः’ इति ।
अत्र च शास्त्रान्ते “ अ अ ” इति प्रत्याप्रत्तिसूत्रं ज्ञापकम् ।व्याकरणशास्त्रस्येदमन्तिमं सूत्रं द्विपदम् ।अस्मिंश्च प्रथमोऽकारो विवृतः, द्वितीयः संवृतः, विवृतोऽप्यकार उच्चारणकाले संवृतो भवति । अयम्भावः - अ इति विवृतत्वविशिष्टम् अ इति च संवृतत्वविशिष्टम् अकारमुच्चार्य विवृतोपद्देशेन संवृताकारो विधीयते । सविशेषणे हीति न्यायेन संवृतत्वस्यैव विधेयत्वपर्यवसानम् । अकारस्य च संवृतत्वे शास्त्रीयप्रक्रियादशायामाश्रीयमाणे संवृतत्वविधिवैयर्थ्यापत्तेः । ततः पूर्वमकारो विवृतः प्रतिज्ञायत इति प्रक्रियादशायां वा न दोषः । शास्त्रान्ते विहितस्य संवृतत्वस्य संपूर्णशास्त्रं प्रत्यसिद्धत्वात् । आकारस्य विवृतत्वं च पाणिनीयशिक्षायामुक्तम् –
स्वराणामूष्मणां चैव विवृतं करणं स्मृतम् ।
तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव च ।।
स्वरपदमेज्भिन्नपरम् ह्रस्वाकारान्यपरं च । संवृतोऽकार इति शिक्षान्तरोक्तेः । एवं च ह्रस्वान्याकारस्य इउऋलृवर्णानां च विवृतत्वम् ।
अयम्भावः – “ तुल्यास्यप्रयत्नं सवर्णम् ” इति तुल्यताल्वादिस्थानानां तुल्याभ्यन्तरप्रयत्नानां च वर्णानां सवर्णसञ्ज्ञा विधीयते । “ अणुदित्सवर्णस्य चाप्रत्ययः ” इति सूत्रमाध्यमेन अविधीयमानश्चाण् सवर्णानांग्राहको भवति । तत्र अकारस्य अष्टादश भेदाः प्रोक्ताः । ह्रस्वदीर्घप्लुतेतिभेदेन त्रिविधोऽकारः पुनः प्रत्येकमुदात्तानुदात्तस्वरितेतिभेदेन त्रिविधः सन् नवविधः, सोऽपि प्रत्येकमनुनासिकाननुनासिकभेदेन द्विविधः, एवमष्टादशधाऽकारो भवति । एवमिकारादयोऽपि । तत्राभ्यान्तरप्रयत्नेषु अचां विवारः प्रयत्नः, ह्रस्वस्य तु अवर्णस्य संवृतः । ततश्च अकारस्य आकारादिना प्रयत्नभेदात् परस्परं सवर्णसञ्ज्ञाऽभावे ग्रहणकशास्त्रेण अकार आकारादीन् न गृह्णीयात् । अतोऽत्र सूत्रेऽकारो विवृत उपदिश्यते, ततश्च तुल्यप्रयत्नतया सवर्णः सन् आकारादीन् गृह्णाति । शास्त्रान्ते च “ अ अ ” इति प्रत्यापत्तेः प्रयोगकालेऽकारः संवृतो भवति, शास्त्रजन्यप्रक्रियायान्तु विवृतः, “ पूर्वत्रासिद्धम् ” इत्यस्याधिकारत्वात् “ अ अ ” इत्यस्य सम्पूर्णामष्टाध्यायीं प्रत्यसिद्धत्वात् । काशिकायाञ्चोक्तम् –ह्रस्वमवर्णं प्रयोगे संवृतम्दीर्घप्लुतयोस्तु विवृतत्वम् । तेषां सावर्ण्यप्रसिद्ध्यर्थमकार इह शास्त्रे विवृतः प्रतिज्ञायते ।
भाष्यम् – ‘ वृत्तिसमवायार्थो वर्णानामुपदेशः ’ इति । प्रत्याहारद्वारा वर्णानामुपदेशः पाणिनेर्लाघवेन शास्त्रप्रवृत्त्यर्थ इत्यर्थः, ‘ इष्टबुद्ध्यर्थश्च ’ इतिच । व्याकरणे इष्टानां वर्णानां ज्ञानार्थ इत्यर्थः । इत्सञ्ज्ञकवर्णविशिष्टवर्णोपदेशफलम् अकारादिणन्तादिवर्णानुदिश्य ‘ अण्, अक् ’ इत्यादि सञ्ज्ञाकरणम् । एतेन णकारादीनाम् ‘ ञमङणनम् ’ इत्यत्र प्राधान्येनोपदेशसत्त्वात् ‘ अइउण् ’ इत्यादिषु णकाराद्युपदेशो व्यर्थं इत्यपास्तम् । तेन लाघवेन सूत्रनिर्माणं पाणिनेः सिध्यति । अन्यथा अणादिबोध्यप्रत्येकवर्णमुच्चार्य्य कार्यविधाने महागौरवं स्यादिति भावः । अत एव काशिकायामुक्तम् – अथ किमर्थो वर्णानामुपदेशः ? प्रत्याहारार्थः, प्रत्याहारो लाघवेन शास्त्रप्रवृत्त्यर्थरिति। भट्टोजिदीक्षितेन चोक्तम् वैयाकरणसिद्धान्तकौमुद्याम् – आदिरन्त्येन सहेता इत्येतत्सूत्रेण कृताः सञ्ज्ञाः प्रत्याहारशब्देन व्यवह्रियन्ते । अ इ उ.....इत्यादिक्रमेण वर्णविशेषान् उपदिश्य प्रतिसूत्रञ्चान्ते क्रमविशेषसन्निवेशापेक्षणकारककारादिकमेकैकमनुबन्धमासज्य अन्त्येनानुबन्धेन सह आदिः कश्चित् मिलित्वा आदिविशिष्टानाम् आद्यन्तपदाक्षिप्तमध्यगानां सञ्ज्ञा क्रियते ‘ प्रत्याहार ’ पदवाच्या “ आदिरन्त्येन सहेता ” इति वक्ष्यमाणसूत्रेण । प्रत्याहारेण च व्यवहारे लाघवं भवति, संज्ञाकरणस्य लघ्वर्थत्वात् । यथा – ‘ अच् ’ इति प्रत्याहारेण सर्वेऽपि स्वरवर्णाः, ‘ हल् ’ सञ्ज्ञया सर्वेऽपि व्यञ्जनवर्णाः, ‘ अल् ’ इति सञ्ज्ञया तु सर्वाण्यपि स्वरव्यञ्जनानि साकल्येन बोध्यन्ते । तदेवं लाघवेन शास्त्रप्रवृत्त्यर्थं प्रत्याहारकरणम्, अन्तेऽनुबन्धकरणञ्च ।[१][२]
अत्र चायं रचनाक्रमः –प्राधान्यात् प्रथमस्वराः । तत्र अ इ उ इति प्रथमसूत्रं मूलस्वरत्वात् । रेफलकाररूपव्यञ्जनांशोपस्कृताभ्यां ऋलृभ्यां द्वितीयम् । ‘ अ + इ = ए, अ + उ = ओ ’ इति मूलस्वरद्वयसंकीर्णाभ्यां एओभ्यां तृतीयम् । ‘ अ + अ = आ, आ + इ = ऐ, आ + उ = औ ’ इति संसृष्टाकारविशिष्टसङ्कररूपाभ्यां ऐऔभ्यां चतुर्थम् । ए, ओ, ऐ, औइत्येते स्वराः सङ्कररूपत्वात् सन्ध्यक्षराणीत्युच्यन्ते ।स्वरानन्तरं स्वराणां पूर्वव्यञ्जनानां च मध्यपतितत्वात् मध्यमव्यपदेशभाग्भिः यवरलैः पञ्चमषष्ठे सूत्रे । इ उ ऋ लृ इतिस्वराणां यवरल इति मध्यमानां च सगर्भ्याणां भ्रातृणामिव कोऽपि सजातीयो धर्मः प्रकटमुपलभ्यते, तत्र इ उ ऋ लृ इति स्वराणां क्रममनुसर्त्तुं यवरल इति ( यरलव इति लौकिकक्रमात् भिन्नः ) क्रम उपात्तः । मध्यमानन्तरं वर्ग्याः पठ्यन्ते । ते च साम्प्रदायिकीं रीतिमुल्लङ्घ्य विवारयत्नवतो वर्णान् पृथक्, श्वासयत्नवतो वर्णान् पृथक् इत्यादि भङ्ग्या सङ्घीकृत्य ( अनुनासिकसंज्ञका घोषयत्नका अल्पप्राणयत्नकाश्च वर्णा इति ) व्युत्क्रमेण परिगणिताः । वर्ग्येभ्यःपर उष्माणा वर्णाः पठिताः । सूत्रसीवने च मध्ये मध्ये विच्छेदद्योतनार्थमिव ण्, क्, ङ् इत्यादयः केवलव्यञ्जनरूपा ग्रन्थयो निवेशिताः । अन्ते श्रूयमाणानामेषा केवलव्यञ्जनानां ‘ इत् ’ इति सञ्ज्ञा कृता । अन्यत्रापि ( आगमादेशप्रत्ययादिषु ) इत्सञ्ज्ञितानि व्यञ्जनान्यायोजयत्याचार्यः । इत् नानाप्रकाराणि प्रयोजनान्युद्दिश्य चकार । अक्षरसमाम्नाये तावत् इता प्रत्याहारः प्रयोजनम् । प्रत्याहारो नाम मध्यपतितानां ग्रहणाय आद्यान्तयोर्मेलनम् । तथाहि – उद्दिष्टमेकमक्षरमादाय तेन सह सूत्रान्तपठितानामितां योजनेन सम्पादितः शब्दो मध्यगतानां वर्णानां सञ्ज्ञा भवति “ आदिरन्त्येन सहेता” इति वचनात् । यथा – ‘ अच् ’ इति स्वराणां प्रत्याहारः, ‘ हल् ’ इति व्यञ्जनानाम्, ‘ अल् ’ इति वर्णमात्रस्य । ‘ खर् ’ इति विवारसंवाराघोषाणाम्, ‘ हश् ’ इति संवारनादघोषाणाम्, ‘ जश् ’‘ यण् ’ चेति अल्पप्राणानाम्, ‘ झष् ’‘ शल् ’ चेति महाप्राणानाञ्च सञ्ज्ञा भवति । अनियतसंख्याकैर्वर्णैः सूत्रकरणमपि प्रत्याहारसौकर्यार्थमेव
‘ अइउण् ’ इति सूत्रेऽन्ये विचारणीया ये विषयाः तेऽधः प्रदृश्यन्ते
सन्ध्यभावस्य विचारः -
‘ अइउण् ’ इत्यत्र अकारस्य इकारे परे “ आद्गुणः ” इति सूत्रेण गुण एकारः स्यात्, तदेवैकारस्य उकारेऽचि परे “ एचोऽयवायावः ” इति सूत्रेण अयादेशः स्यात्, ननु तत्सन्धिः कथं न क्रियते ? इति सन्धिविषयिणी जिज्ञासोदेति ।
स्यादेतत्, इह स्वरसन्धिना भाव्यम् । तत्र अ इत्यत्र विभक्तेः रोः स्थाने “ भोभगोअघोअपूर्वस्य योऽशि ” इति सूत्रेण यादेशः स्यात्, तस्य यकारस्य “ लोपः शाकल्यस्य ” इति सूत्रेण लोपः स्यात् ।अतोऽत्र ‘ वृक्ष इह ’ इत्यादाविव लोपासिद्ध्या सन्धिर्नेति समाधानेऽपि, इकारस्य “ इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च” इति सूत्रेण इकारस्य ह्रस्वः स्यात्, ह्रस्वविधिसामर्थ्यान्न स्वरसन्धिः, ऋकारस्य लृकारे परे “ ऋत्यकः ” इति सूत्रेण प्रकृतिभावाच्च समाधानसम्भवेऽपि ‘ एओङ् ’,‘ ऐऔच् ’ इत्यत्र एकारस्य ओकारे परे, ऐकारस्य औकारे परे च “ एचोऽयवायावः ” इति सूत्रेण एकारैकारयोः स्थाने ‘ अय् ’‘ आय् ’ एतावादेशौ दुर्वारौ
अस्य समाधानं त्वेवं वर्तते यद् स्पष्टप्रतिपत्त्यर्थं गुणादीनामभावः ।
यद्वा अत्र सौत्रत्वात् सन्धिर्न भवति । यथा – “ भोभगोअघोअपूर्वस्य योऽशि ” इति सूत्रे असन्धि सौत्रः । ‘ अइउण् ’ इत्यादीनां चतुर्दशसूत्रत्वव्यवहारस्तु चतुर्दशानुबन्धघटितत्वात् ।
यद्वा वर्णानामसन्दिग्धत्वेन बोधनाय संहिताविरहान्न स्वरसन्धिः भवति । अत एव असंहितायां यणादिनिवृत्त्यर्थो हि “ परः सन्निकर्षः संहिता ”इति सूत्रेण संहिताधिकारः ज्ञेयः । उक्तञ्च –
संहितैकपदे नित्यानित्या धातूपसर्गयोः ।
नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ।। इति ।
एकमेव पदमित्येकपदम्, तत्र संहिता नित्या । यथा – ‘ राजयति अस्य राजानमिच्छति ’ इति विग्रहे क्यच्प्रत्ययेन निष्पन्नस्य समुदायस्य तिङन्तत्वेन पदत्वात् उत्तरखण्डस्य ‘ यति ’ इत्यस्य च अपदत्वाद् एकपदत्वम् । धातूपसर्गयोः संहिता नित्या । यथा – ‘ प्रेक्ष्यते, पर्यभूषयत् ’ इत्यादौ नियमेन धातूपसर्गयोः संहिता विवक्षा अत एव यण्घटित प्रयोग एव साधुः । समासे संहिता नित्या अवान्तरपदविभागाभावात् समासे ह्येकपदत्वात् । यथा – ‘ देवेन्द्रः ’ । सा संहिता वाक्ये विवक्षां वक्तुमिच्छापेक्षते । यथा– ‘ हे रोहिणि त्वमसि शीलवतीषु धन्या एनं निवारय पतिं सखि दुर्विनीतम् ’ इत्यत्र धन्या एनमित्यस्य संहिताविरहात् सन्धिः न भवति । अत्र विवक्षाधीना संहिता ज्ञेया । तेन वाक्ये विवक्षितः सन्धिर्भवति न त्वविवक्षित इति ।
ननूक्तरीत्या ‘ अइउण् ’ इत्यादीनां सुबन्तत्वतिङन्तत्वयोरभावेन पदत्वाभावात् पदसमूहरूपवाक्यत्वस्यैवाभावसत्त्वात् अवाक्यत्वाद्वाक्यीयाऽविवक्षा कथमत्रेति चेत् ।
तत्र परिनिष्ठितत्वेन सुबन्तपदतुल्यपरिनिष्ठितसमूहस्यापि वाक्यत्वेन ग्रहणेनादोषात् ।अत एव ‘ गो इत्ययमाह ’ इत्यत्र गोशब्दस्य अपदत्वेन वाक्यघटकत्वाभावेपि संहिताया अविवक्षा सिद्धा ।
ननु वाक्ये संहिताया अनित्यत्वादिति तच्चिन्त्यम् परस्परार्थान्वयप्रतियोग्यर्थानुपस्थापकत्वेन वाक्यत्वाभावात् ।
‘ अइउण् ’ इत्यादिषु वृद्धोक्त्या वाक्ये संहिताया अविवक्षा सुगमा । न च ‘ सुप्तिङन्तचयो वाक्यम् ’ इति लक्षितवाक्यत्वस्याप्यभावादविवक्षाया अप्यभावः, कारिकायां वाक्यपदेन एकपद-समास-धातूपसर्गभिन्नस्य शिष्टोच्चरितशब्दसमुदायस्य विवक्षितत्वात्, तादृशसमुदायत्वस्य ‘ अइउण् ’ इत्यादावक्षतत्वात् ।
यद्वा ‘ अ इ उ ’ इत्यादीनां स्वरत्वात्‘ उपसर्गविभक्तिस्वरप्रतिरूपकाश्च ’ इति चादिगणान्तर्गतसूत्रेण चादित्वबोधनेन निपातत्वात् “निपात एकाजनाङ् ” इति सूत्रेण प्रगृह्यसञ्ज्ञायाम् “ प्लुतप्रगृह्या अचि नित्यम् ” इति सूत्रेण प्रकृतिभावेन सन्धिः न भवति ।
‘ अइउण् ’ इत्यादौ वर्णसमाम्नायो स्वरसन्धिस्तु न प्रवर्तते, वर्णोपदेशकालेऽजादिसञ्ज्ञानामनिष्पादादिति कैयटः । तन्मतं कौस्तुभे दीक्षितेन निरस्तम् । उद्द्योते नागेशभट्टेन कैयटमतनिरासे दीक्षितोक्तवाक्यानि तत्र तत्र यथायथं स्वीकृतानि ।
विभक्त्यभावस्य विचारः -
ननु ‘ अइउण् ’ इत्यत्र विभक्तेरनुत्पादेन पदत्वासम्भवात्, पदत्वन्तु “ सुप्तिङन्तं पदम् ” इति सूत्रेण विभक्त्यन्तं पदमिति पदसञ्ज्ञाविधानात् । अतोऽत्र ‘ अपदं न प्रयुञ्जीत ’ इति भाष्यवचनेन ‘ अइउण् ’ इति प्रयोगार्हः कथं स्यात् ? ।
अपदं न प्रयुञ्जीतेति निषेधस्तु अपरिनिष्ठितपरत्वेन ग्रहणेनादोषात् ।
नन्वेवमपि चात्र प्रतिवर्णं यद्यपि स्वरूपस्य धात्वादिस्थस्य वाऽनुकार्यस्याकारादेरुपस्थापकम्, अर्थोपस्थापकत्वरूपार्थवत्त्वेन च प्रातिपदिकत्वाद्विभक्त्युत्पत्त्या भाव्यम्, तथापि विभक्त्यश्रवणे को हेतुरित्याशङ्कोदेति।
‘ अ इ उ ’ इत्यादीनां स्वरत्वात्‘ उपसर्गविभक्तिस्वरप्रतिरूपकाश्च ’ इति चादिगणान्तर्गतसूत्रेण चादित्वबोधनेन निपातत्वम् “ स्वरादिनिपातमव्ययम् ” इति सूत्रेण अव्ययसञ्ज्ञा भवति तया अव्ययासञ्ज्ञया उत्पन्नाया अपि विभक्तेः “अव्ययादाप्सुपः” इति सूत्रेण लुक् भवति ।
ननु ‘ हयवरट् ’ इत्यादीनां स्वरत्वाभावत्वेन निपाताव्ययसञ्ज्ञारहितत्वाद्चेत्यादिना तेभ्यो निष्पन्नाया विभक्तेः लुग् न भवति । अत एवात्र विभक्त्युत्पत्त्या भाव्यम् तथापि विभक्त्यश्रवणे को हेतुरिति शङ्का पुनरुदेति ।
अस्य समाधानं शब्दकौस्तुभे भट्टोजीदीक्षितेनेत्थं कृतम् - अत्र अकारादीनां स्वरूपेण अनुकार्येण वा सतोऽप्यर्थवत्त्वस्याविवक्षितत्वात्प्रातिपदिकत्वं नेति ‘ गवित्ययमाह ’ इत्यादाविव विभक्तेरनुत्पात्तिः “ सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः ” इति सूत्रेण लुग्वा ( इयमेवमानुपूर्वीका श्रुतिरेवेति सुपामिति लुगिति तत्त्वम् ) ‘ छन्दोवत्सूत्रानि ’ इति भाष्यकारेष्ट्या छन्दोगेषु व्याकरणसूत्रेष्वपि छान्दसकार्यातिदेशात् “ यू स्त्र्याख्यौ नदी ” इति सूत्रे छन्दःप्रदेशेषु गौणमुख्यन्यायो न प्रवर्त्तते इति वक्ष्यमाणत्वाद्वा । प्रदीपेऽपि कैयट एवं समाधानं कृतवान् अत्राकारादीनांस्वरूपेणानुकार्येण वा सतोऽप्यर्थवत्त्वस्याविवक्षितत्वाद्विभक्त्यनुत्पत्तिः । अत्र अर्थवत्त्वस्याविवक्षितत्वाद्विभक्त्यनुत्पत्तिः इति कैयटवचनं व्याचक्षाणो नागेशस्तु एवं प्रत्यपीपदत् – शब्दजन्यज्ञानविषयो हि शब्दस्यार्थः । एवं च स्वरूपमपि स्वजन्यबोधविषयत्वेनार्थः । अनुकार्यमर्थ इति तु स्पष्टमेव । एवं विद्यमानस्याप्यर्थवत्त्वस्याविवक्षितत्वात् – ‘ अर्थवत् ’ सूत्रेऽग्रहणादित्यर्थः । स्वरूपस्य श्रोत्रगृहीतस्यैव शाब्दे भानोपपत्तौ न तत्र शक्तिः कल्प्या । अनुकार्यं च सादृश्येनोपस्थापयतीति न तत्रापि वृत्तिः । वृत्त्याऽर्थबोधकत्वं चार्थवत्त्वं ‘ अर्थवत् ’ सूत्रे निविष्टमिति भावः । अनुकरणत्वभङ्गान्न विभक्तिरिति तत्त्वम्, सौत्रत्वाद्वा । अर्थात् केयटमतेन अर्थवत्त्वसद्भावेऽपि तस्याविवक्षिततया प्रातिपदिकत्वाभावः । नागेशस्तु एतन्मतमसहमान आह – यद् स्वरूपबोधकतारूपाऽनुकार्योपस्थापकतारूपा वा याऽर्थवत्ता अकारादावस्ति, न सा प्रातिपदिकत्वोपयोगिनी । प्रातिपदिकसञ्ज्ञाविधायकसूत्रे हि वृत्त्याऽर्थविषयकबोधजनकत्वरूपमर्थवत्त्वम् । अनुकरणं ह्यनुकार्यानुकरणयोरभेदविवक्षापक्षे न वृत्त्यानुकार्यमुपस्थापयति, किन्तु सादृश्यज्ञानाधीनम् । स्वरूपन्तु श्रोत्रगृहीतत्वमात्रेण शाब्दे भासते इति न तत्राऽपि वृत्तिः । एवञ्च वृत्त्याऽर्थबोधकतारूपार्थवत्त्वादेव न प्रातिपदिकसञ्ज्ञा, ततश्च विभक्त्यभावः ।[३]
अत्रेदं समीक्षणम् – अनुकार्यानुकरणयोरभेदविवक्षापक्षे अनुकरणेन अनुकार्यस्यसादृश्यज्ञानाधीनोपस्थित्या वृत्तिमत्त्वरूपार्थवत्त्वाभावाद्न प्रातिपदिकत्वम् । अयम्भावः – ‘ अइउ ’ इत्यादीनि चतुर्दशसूत्राणि श्रुतेः अनुकरणरूपत्वेन अनुकार्यानुकरणयोरभेदविवक्षापक्षे अनुकरणेन अनुकार्यस्य सादृश्यसम्बन्धेन उपस्थिततया शक्तिलक्षणान्यतरज्ञानाधीनोपस्थित्या अर्थविषयकबोधजनकस्यैव अर्थवत्सूत्रे अर्थवत्पदेन ग्रहणात् प्रकृते सादृश्यसम्बन्धेन उपस्थितस्य अनुकार्यस्य बोधकत्वेन अनुकरणस्य तथाविधार्थबोधकत्वाभावन्न प्रातिपदिकत्वम् । अतस्तत्र पक्षे नागेशेन प्रोक्तं युक्तम् । यत्र तु भेदविवक्षापक्षः तत्र अनुकार्यनिरूपितायाः शक्तेः अनुकरणे स्वीकारात् शक्त्या अर्थबोधकत्वेन अर्थवत्त्वात् प्रातिपदिकत्वेऽवश्यं विभक्त्युत्पत्तिः स्यात् । पक्षद्वयस्यापि सूत्रकारसम्मतत्वात्। अभेदविवक्षायां ‘ भू सत्तायाम् ’ इत्यविभक्तिनिर्देशात् । भेदविवक्षायान्तु “ भुवो वुग्लुङ्लिटोः ” इति सविभक्तिकनिर्देशात् । अत एव नागेशः सौत्रत्वाद्वा इति समाधानान्तरमाह भेदविवक्षापक्षं तथा ‘ हयवरट् ’ इत्यादीनां स्वरत्वाभावत्वेन निपाताव्ययसञ्ज्ञारहितत्वाद् चेत्यादिना तेभ्यो निष्पन्नाया विभक्तेः लुग् न भवतीति पक्षंमनसिकृत्येति मन्यामहे । न च भेदपक्षे सुबन्तत्वेन द्वन्द्वापत्तिः, अनुकरणे सह विवक्षाया अभावात् ।
कारप्रत्ययाभावस्य विचारः -
यदीमेऽकारादयो वर्णवाचकास्तर्हि‘ वर्णात्कारः ’ इति वार्त्तिकेन तेभ्यः कारप्रत्ययः कथं न भवति ? तदभावे तु ‘ अइउण् ’ इत्यादयो न वर्णवाचका इति विज्ञेयमिति शङ्कायाः शब्दकौस्तुभे भट्टोजीदीक्षितः समाधानमाह - कारप्रत्ययस्तु न भवति बहुलग्रहणात् । स हि “ रोगाख्यायां ण्वुल् बहुलम् ” इत्यत्रोपसंख्यातः । [४]
अन्तरमपि समादधात् दीक्षितः – अन्ये तु ‘ इक्श्तिपौ धातुनिर्देशे ’ ( वार्त्तिकम् ) इत्यतो निर्देशशब्दः कारप्रत्ययविधावनुवर्तते । निर्देशश्च प्रतिपादनम् । तेन प्रयोगविशेषनिर्दिष्टानां वर्णानां प्रतिपादने प्रत्ययः, इह तु आनुपूर्वीसम्पादनमात्रे तात्पर्यम्, न तु ‘ कविपुत्र ’ इत्यादौ दृष्टानामकारादीनां प्रतिपादने । अतः कारप्रत्ययाभाव इत्याहुः । एतच्च समाधानं नास्मदीयेन मनसा समाधेयम्, अकारादीनामनुकरणतया अनुकार्यस्य धात्वादिस्थस्याकारादेः प्रतिपादकतायाः पूर्वमेव प्रतिपादितत्वात्, स्वरूपबोधकत्वाच्च । [५]
यद्वा अनुकार्यानुकरणयोरभेदविवक्षापक्षे तु अर्थवत्त्वस्याविवक्षिततया वर्णवाचित्वाभावात्कारप्रत्ययाभावः ।
यद्वा वार्त्तिकं दृष्ट्वा सूत्रकृतः प्रवृत्त्यसम्भवान्न कारप्रत्ययः ।
ननु ‘ ण् ’ इत्यनुबन्धस्य ‘ अइउण् ’‘ लण् ’ इत्युभयत्र करणेन अण्प्रत्याहारेइण्प्रत्याहारे च सन्देहः स्यादिति चेन्न, ‘ सन्देहे व्याख्यानतो निर्णयः कर्तव्यः ’ इत्यर्थस्यभाष्यकृतैवोक्तत्वात् । तथा हि – “ अणुदित्सवर्णस्य चाप्रत्ययः ” इत्येतत्परिहाय पूर्वेणाण्ग्रहणम्, परेणेण्ग्रहणम्, इति व्याख्यास्यामः इति । तदुक्तम् –
परेणैवेण्ग्रहाः सर्वे पूर्वेणैवाण्ग्रहा मताः ।
ऋतेऽणुदित्सवर्णस्येत्येतदेकंपरेण तु ।। इति ।
एतत्सूत्रस्थेनान्त्येनेता णकारेण सह आदिरकारः ‘ अण् ’ प्रत्याहारो भवति अ इ उ वर्णानां वाचकः । तस्य विधिप्रदेशाः “ अणोऽप्रगृह्यस्यानुनासिकः ” इत्यादयः ।
काशिका प्रत्याहारप्रकरणम् [१]
वैयाकरणसिद्धान्तकौमुदी – संज्ञाप्रकरणम् [२]
शब्दकौस्तुभः – अइउण् इति सूत्रे[३]
अष्टाध्यायी – (३-३-१०८ सूत्रे वार्त्तिकम् )[४]
शब्दकौस्तुभे ‘ अइउण् ’ सूत्रे[५]
२
ऋऌक्
सूत्राणि:
॥ व्याख्या: ॥
'ऋऌक्' इति द्वितीयं माहेश्वरसूत्रम् । अनेन सूत्रेण 'ऋ', 'ऌ' इत्येतयोः द्वयोः उपदेशः क्रियते । अन्ते विद्यमानः 'क्' इत्संज्ञकः अस्ति । अस्य साहाय्येन 'अक्', 'इक्', 'उक्' एते त्रयः प्रत्याहाराः सिद्ध्यन्ति ।
अक् प्रत्याहारे 'अ, इ ,उ, ऋ, ऌ' एते स्वराः समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः पाणिनिना अकः सवर्णे दीर्घः तथा ऋत्यकः इत्यत्र कृतः दृश्यते ।
इक् प्रत्याहारे 'इ ,उ, ऋ, ऌ' एते स्वराः समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः पाणिनिना बहुषु सूत्रेषु कृतः अस्ति । कानिचन उदाहरणानि - इको गुणवृद्धी , एचः इग्घ्रस्वादेशे , इकोऽचि विभक्तौ ।
उक् प्रत्याहारे 'उ, ऋ, ऌ' एते स्वराः समाविश्यन्ते । अस्य प्रत्याहारस्य कानिचन उदाहरणानि - उगितश्च , इसुसुक्तान्तात् कः , उगिदचां सर्वनामस्थानेऽधातोः ।
शास्त्रचर्चा -
छात्रः - 'ऋऌक्' अस्मिन् सूत्रे ऌकारस्य किम् प्रयोजनम् ?
आचार्यः - अक्, इक्, उक् - एतेषु प्रत्याहारेषु ऌकारस्यापि ग्रहणं स्यात् इति ।
छात्रः - परन्तु ऌकारः न कुत्रचित् भाषायां प्रयुक्तः दृश्यते । अकः सवर्णे दीर्घः , इको यणचि एतादृशानां सूत्राणाम् अध्ययने ऌकारस्य उदाहरणानि नैव पाठ्यन्ते । निर्दिश्यन्ते चेदपि केवलं 'ऌकारः' इत्यनेनैव शब्दप्रयोगेण तानि पाठितानि सन्ति । तर्हि किं साध्यते माहेश्वरसूत्रेषु अस्य पृथक् उपदेशेन ?
आचार्यः - 'कॢपँ' धातौ ऌकारः प्रयुक्तः अस्ति । तदर्थं ऋऌक्-सूत्रे ऌकारग्रहणम् क्रियते ।
छात्रः - परन्तु कॢपँ-धातोः औपदेशिकरूपम् तु 'कृपँ' इति ऋकारोपधम् एव । अस्य ऋकारस्य अक्/इक्/उक्-प्रत्याहारस्थ-ऋकारेण अवश्यं ग्रहणं भवति । अस्य ऋकारस्य ऌकारादेशः कृपो रो लः इत्यनेन त्रिपादीसूत्रेण कृतः अस्ति । अतः माहेश्वरसूत्रेषु ऌकारस्य भिन्ननिर्देशः किमर्थम् ?
आचार्यः - अन्येषु अपि बहुषु प्रत्याहारेषु ऌकारः प्रयुज्यते । यथा - अच्-प्रत्याहारेण ऌकारस्यापि ग्रहणं भवति । अयं अच्-प्रत्याहारः प्रक्रियायां कृपो रो लः इत्यस्य प्रयोगात् अनन्तरम् यदा प्रयुज्यते तदा तेन ऌकारस्यापि ग्रहणम् इष्यते ।
छात्रः - तत्कथम् ?
आचार्यः 'कॢप्प्त' इत्यस्य शब्दस्य सिद्धौ अनचि च इत्यनेन द्वित्वम् इष्यते, तदर्थम् च 'अच्' प्रत्याहारे ऌकारस्यापि ग्रहणम् आवश्यकम् । एवमेव, 'प्रकॢप्त' (प्रकॢ॑प्त॒) अस्मिन् शब्दे ऌकारस्य स्वरितस्वरविधानार्थम् तस्य 'अच्' प्रत्याहारे ग्रहणम् आवश्यकमस्ति यतः केवलम् स्वराणामेव उदात्तानुदात्तस्वरितादयः भेदाः सन्ति । एवमेव 'कॢ३प्तशिख' इत्यत्र ऌकारस्य प्लुतसंज्ञाविधानार्थमपि तस्य अच्-प्रत्याहारे ग्रहणम् आवश्यकम्, यतः ह्रस्वदीर्घप्लुतादयः भेदाः अपि स्वराणामेव विद्यन्ते ।
छात्रः - तर्हि 'अच्' प्रत्याहारे ऌकारः इष्यते इति स्पष्टम् । परन्तु तदर्थम् 'ऋऌक्' इत्यस्मिन्नेव सूत्रे ऌकारः स्यात् इति न आवश्यकम् । अन्यत्रापि ऌकारः भवितुमर्हति, यथा - 'ऐऔच्' सूत्रे ऌकारस्य ग्रहणं कृत्वा अपि अच्-प्रत्याहारे तस्य समावेशः भवेत् । अतः 'ऋऌक्' इत्यस्मिन्नेव सूत्रे किमर्थम् ऌकारः पाठितः अस्ति इति इतोऽपि संशयः ।
आचार्यः - येषाम् उच्चारणे वाचि वा सम्यक् शक्तिः न विद्यते तादृशाः जनाः प्रायः ऋकारस्य उच्चारणमपि 'ऌ' इत्येव कुर्वन्ति । यथा - ऋषिः इत्यस्य स्थाने 'ऌषिः', 'ऋतकः' इत्यस्य स्थाने 'ऌतकः', 'ऋक्' इत्यस्य स्थाने 'ऌक्' । एतादृशेषु शब्देषु प्रयुक्तस्य 'ऌ'कारस्यापि ऋकारं यावत् एव सन्धिकार्याणि भवेयुः इति विचिन्त्य माहेश्वरसूत्रेषु ऋकारात् अनन्तरम् अव्यवहितरूपेण ऌकारस्य निर्देशः क्रियते । यथा, पितृ + आज्ञा = पित्राज्ञा इत्यत्र यथा इक्-वर्णस्य (ऋकारस्य) यणादेशः भवति, तथैव अशुद्धरूपेण उच्चारितस्य 'पितॢ' शब्दस्य विषये अपि 'पितॢ + आज्ञा = पित्लाज्ञा' इत्यत्र ऌकारस्य यणादेशं (लकारादेशं) कारयितुम् इक्-प्रत्याहारे ऋकारेण सह ऌकारस्यापि ग्रहणमावश्यकं वर्तते ।
॥ काशिका ॥
ऋ ऌ इत्येतौ वर्णावुपदिश्य पूर्वांश्चान्ते ककारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति त्रिभिः - अकः सवर्णे दीर्घः इत्यकारेण, इको गुणवृद्धी इतीकारेण, उगितश्च इत्युकारेण ॥ अकारादयो वर्णाः प्रचुरप्रयोगविषयास्तेषां सुज्ञानमुपदेशे प्रयोजनम् । ऌकारस्तु कॢपिस्थः एव प्रयुज्यते, कॢपेश्च पूर्वत्रासिद्धम् इति लत्वमसिद्धम् । तस्यासिद्धत्वाद् ऋकार एव अच्कार्याणि भविष्यन्तीति किमर्थं ऌकार उपदिश्यते ? लत्वविधानाद्यानि पराण्यच्कार्याणि तानि ऌकारे यथा स्युरिति । कानि पुनस्तानि ? प्लुतः स्वरितो द्विर्वचनम् । 'कॢ३प्तशिखः', 'प्रकॢप्तः', 'कॢप्तः', 'कॢप्तवान्' - इति । यच्चाशक्तिजमसाधुशब्दरूपं, तदनुकरणस्यापि साधुत्वमिष्यते । तत्स्थस्यापि ऌकारस्याच्कार्यप्रतिपत्त्यर्थम् ऌकारोपदेशः क्रियते । 'ऋतकः' इति प्रयोक्तव्ये शक्तिवैकल्यात् कुमारी 'ऌतकः' इति प्रयुङ्क्ते, तदन्योऽनुकरोति 'कुमार्यॢतकः' इत्याह - इति ॥
॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥
वृत्तिः – ऋ लृ इत्येतौ वर्णावुपदिश्य पूर्वांश्चान्ते ककारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति त्रिभिः अ-इ-उ इत्येतैः । अक् - अकः सवर्णे दीर्घः । इक् -इको गुणवृद्धी । उक् -उगितश्च।।
भाष्यम् – लृकारोपदेशो यदृच्छाशक्तिजानुकरणप्लुत्याद्यर्थः
‘ ऋलृक् ’ ककारोऽगादिप्रत्याहारार्थः । नन्वक्षरसमाम्नाये लृकारोपदेशस्य किमपि प्रयोजनं न दृश्यते । यच्च कथञ्चिद् दृश्यते तदपि क्लृपिस्थस्यैव क्लृपेश्च लत्वस्याऽसिद्धत्वात् ऋकारस्यैवाच्कार्याणि भविष्यन्ति । तन्नास्ति वर्णसमाम्नाये लृकारोपदेशस्य किञ्चित्फलमिति चेन्न, ‘ हे क्लृ३प्तशिख ’ इत्यादौ “ गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् ” इति सूत्रेण प्लुतार्थम्, ‘ प्रक्लृप्त ’ इत्यत्र “ उदात्तादनुदात्तस्य स्वरितः ” इति सूत्रेण स्वरितार्थम्, ‘ क्लृप्तवान् ’ इत्यत्र “ अनचि च ” इति सूत्रेण द्वित्वार्थम्, तदुपदेशस्य चारितार्थ्यात् । न च “ कृपो रो लः ” इत्यनेनोक्तस्थले “ पूर्वत्रासिद्धम् ”इत्यनेन लत्वस्यासिद्धत्वाद् ऋकारबुद्ध्या पूर्वोक्तानि अच्कार्याणि स्युरितिवाच्यम्, प्लुत-स्वरित-द्वित्वविधायकशास्त्राणाम् “ कृपो रो लः ” इति सूत्रापेक्षया परत्रिपादीस्थत्वेन तद्दृष्ट्याऽसिद्धत्वासम्भवात्, कयाचिद् ‘ ऋतक ’ इति प्रयोक्तव्ये ऋकारस्य वक्तुमशक्यतया ‘ लृतक ’ इति प्रयुक्ते तस्यानुकरणे ‘ कुमार्य्य्लृतकः ’ इत्याह इत्यत्र यणर्थञ्च तस्यावश्यकत्वात् ।
ननु विधिप्रदेशेषु ऋकारेणाष्टादशस्वभेदानामिव द्वादशलृवर्णभेदानामपि ग्रहसम्भवाद् इहलृकारोपदेशो व्यर्थः ।
न च मूर्द्धदन्तरूपस्थानभेदेन सावर्ण्याभावात् कथं ग्रहणकशास्त्रप्रवृत्तिरिति वाच्यम् ।
‘ ऋलृवर्णयोर्मिथः सावर्ण्यं वाच्यम् ’ इति वाचनिकसावर्ण्येन तत्सिद्धिः ।
न च तदेव नारभ्यमिति वाच्यम् ।
“ उपसर्गादृति धातौ ” इति सूत्रात् “ वा सुप्यापिशलेः ” इत्यत्र ऋतीत्यनुवृत्त्या प्राल्कारीयतीत्यत्रवृद्धिविकल्पप्रवृत्त्यर्थं तदावश्यकत्वात् ।
अत एव अकाराद्युपदेशे यथा तत्सवर्णानामाकारादीनां लाभात्पृथगाकारादयो नोपदिष्टास्तथा ऋलृवर्णयोरपि सावर्ण्यात् ऋकारोपदेशेनैवोभयग्रहणसिद्धेः किं पृथगुपदेश इति प्रश्नो भवति ।
उच्यते । ऋलृवर्णयोः सावर्ण्यस्यानित्यतां ज्ञापयितुमुभयोरुद्देशः । तत्फलं तु क्लृप्ता शिखा यस्य स क्लृप्तशिखस्तस्य दूरात्सम्बोधने क्लृप्तशिखेत्यत्र प्लुतभवनम् । ऋलृवर्णयोः सावर्ण्यस्य नित्यत्वे तु गुरोरनृतोऽनन्त्यस्यापीत्यत्रानृत इति निषेधादृकारस्येव लृकारस्यापि प्लुतो न स्यादित्यर्थः । एवञ्च ऋलृवर्णयोःसावर्ण्येन अकारादीनां ह्रस्वानामेवोपदेशेऽपि दीर्घाकारादीनां विधिसूत्रेषु ग्रहणवदृकारेण लृकारस्याप्यच्कार्याणि स्युरिति वाच्यम्, जातिपक्षे विजातीयत्वेन ग्रहणासम्भवात् । यदि ऋलृवर्णयोःइति वार्त्तिकेन जातेरेव परस्परमतिदेशस्तदोक्तदोषाभावेऽपि लृकारस्य साधुत्वबोधनार्थ एवावश्यको वर्णसमाम्नाये पाठः ।
३
एओङ्
सूत्राणि
॥ व्याख्या: ॥
'एओङ्' इति तृतीयं माहेश्वरसूत्रम् । अनेन सूत्रेण 'ए', 'ओ' इत्येतयोः द्वयोः उपदेशः क्रियते । अन्ते विद्यमानः 'ङ्' इत्संज्ञकः अस्ति । अस्य साहाय्येन 'एङ्' इति एकः एव प्रत्याहारः सिद्ध्यति । अस्मिन् प्रत्याहारे एकारः तथा ओकारः समाविश्येते ।
एङ्-प्रत्याहारस्य प्रयोगः अदेङ् गुणः , एङ् प्राचां देशे , एङ्ह्रस्वात् सम्बुद्धेः एङि पररूपम् , एङः पदान्तादति इत्यत्र कृतः दृश्यते ।
॥ काशिका ॥
ए ओ इत्येतौ वर्णावुपदिश्यान्ते ङकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेन - एङि पररूपम् इत्येकारेण ॥
॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥
वृत्तिः – ‘ ए, ओ ’ इत्येतौ वर्णावुपदिश्य पूर्वांश्चान्ते ङकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेन “ एङि पररूपम् ” इत्येकारेण ।।
४
ऐऔच्
सूत्राणि:
॥ व्याख्या: ॥
'ऐऔच्' इति चतुर्थं माहेश्वरसूत्रम् । अनेन सूत्रेण 'ऐ', 'औ' इत्येतयोः द्वयोः उपदेशः क्रियते । अन्ते विद्यमानः 'च्' इत्संज्ञकः अस्ति । अस्य साहाय्येन 'अच्', 'इच्' , 'एच्', 'ऐच्' एते चत्वारः प्रत्याहाराः सिद्ध्यन्ति ।
अच् - अस्मिन् प्रत्याहारे सर्वे स्वराः विद्यन्ते । अतएव स्वराणाम् 'अच्' इत्यपि अन्या संज्ञा भवति । अस्य प्रत्याहारस्य प्रयोगः बहुषु सूत्रेषु कृतः अस्ति । कानिचन उदाहरणानि एतानि - नाज्झलौ , अचश्च , इको यणचि ।
इच् - अस्मिन् प्रत्याहारे अवर्णम् (इत्युक्ते, अकार-आकार-अ३कारान्) विहाय अन्ये सर्वे स्वराः विद्यन्ते । इच्-प्रत्याहारस्य प्रयोगस्य कानिचन उदाहरणानि एतानि - इजादेश्च गुरुमतोऽनृच्छः , नादिचि ।
एच् - अस्मिन् प्रत्याहारे सर्वे संयुक्तस्वराः (ए, ऐ, ओ, औ) समाविश्यन्ते । एच्-प्रत्याहारस्य प्रयोगस्य उदाहरणानि एतानि - कृन्मेजन्तः , एच इग्घ्रस्वादेशे , आदेच उपदेशेऽशिति , वृद्धिरेचि ।
ऐच् - अस्मिन् प्रत्याहारे 'ऐ', 'औ' एतौ स्वरौ समाविश्येते । अस्य प्रत्याहारस्य प्रयोगः वृद्धिरादैच् , न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच् , प्लुतावैच इदुतौ एतेषु सूत्रेषु कृतः अस्ति ।
शास्त्रचर्चा - 1 -
छात्रः - प्रत्याहारनिर्माणस्ये इत्संज्ञकवर्णानां ग्रहणम् न क्रियते । यथा, 'अच्' प्रत्याहारस्य वर्णेषु 'अण्'-इत्यस्य णकारः, 'ऋऌक्'-इत्यस्य ककारः, एओङ्-इत्यस्य ङकारः तथा च ऐऔच्-इत्यस्य चकारः न स्वीक्रियते । अस्य किम् प्रमाणम् , कारणम् च ?
आचार्यः - अस्य स्पष्टीकरणार्थम् भाष्यकारेण एकं श्लोकवार्त्तिकं पाठितमस्ति - प्रत्याहारेऽनुबन्धानां कथमज्ग्रहणेषु न ? आचारादप्रधानत्वाल्लोपश्च बलवत्तरः । अस्मिन् श्लोके 'इत्संज्ञवर्णानां ग्रहणं किमर्थं न भवति' इत्यस्य त्रीणि उत्तराणि उक्तानि सन्ति -
(अ) आचारात् - ण्, क्, ङ् आदीनाम्, इत्युक्ते 'प्रत्याहारस्य मध्ये विद्यमानानाम्' इत्-संज्ञकवर्णांनां प्रत्याहारेषु ग्रहणं क्रियते चेत् यानि कार्याणि भवेयुः तानि व्यवहारे (शिष्टप्रयोगे) न कृतानि दृश्यन्ते । यथा, 'अच्' प्रत्याहारे यदि 'ऋऌक्'-इत्यस्य ककारस्यापि ग्रहणं स्यात्, तर्हि न धातुलोप आर्धधातुके अस्मिन् सूत्रे विद्यमानस्य तकारोत्तरस्य उकारस्य इको यणचि इति 'अच्'संज्ञकस्य ककारस्य उपस्थितौ यणादेशे (वकारादेशे) कृते, 'न धातुलोप आर्धधात् व् के' इति प्राप्ते, लोपो व्योर्वलि इत्यनेन वकारस्य लोपे कृते 'आर्धधात्के' इति शब्दः जायेत । परन्तु सूत्रे 'आर्धधातुके' इत्यत्र उकारस्य पृथक् रूपेण श्रवणम् भवति । अतः 'आचारेण' (प्रयोगेण) एतत् स्पष्टी भवति यत् मध्यगानां इत्संज्ञकवर्णानां प्रत्याहारेषु ग्रहणं न भवति - इति ।
(आ) अप्रधानत्वात् - 'अइउण्' इत्यस्मिन् प्रथममाहेश्वरसूत्रे णकारं विहाय अन्ये सर्वे स्वराः उपदिष्टाः सन्ति । णकारात् अनन्तरमपि 'ऋऌक्' इत्यत्र स्वराः एव उपदिश्यन्ते । इत्युक्ते, अत्र स्वरोपदेशः मुख्यः (प्रधानः) । एतेषाम् स्वराणाम् रचनायाः मध्ये स्थापितानि 'ण्, क्, ङ्' एतानि व्यञ्जनानि अप्रधानानि सन्ति । प्रधानस्य ग्रहणे अप्रधानस्य ग्रहणं न भवतीति न्यायम् अनुसृत्य अत्र अचां ग्रहणे मध्यगानां (इत्युक्ते, व्यञ्जनानां) ग्रहणं न भवति ।
(इ) लोपः बलवत्तरः - प्रत्याहाराणां निर्माणम् आदिरन्त्येन सहेता इत्यनेन सूत्रेण भवति । अस्मिन् सूत्रे 'इता' इति शब्देन इत्संज्ञकवर्णानां निर्देशः क्रियते । अतः प्रत्याहारविधानात् पूर्वमेव इत्संज्ञायाः विधानम् करणीयम् । तदर्थम् हलन्त्यम् इदं सूत्रं प्रयुज्यते । अनेन सूत्रेण माहेश्वरसूत्रान्ते विद्यमानानां ण्, क्, ङ् एतादृशानाम् वर्णानाम् इत्संज्ञा भवति । इत्संज्ञायां प्राप्तायाम् तस्य लोपः इत्यनेन एषाम् लोपः अपि जायते । अतः प्रत्याहारनिर्माणात् पूर्वमेव इत्संज्ञकवर्णाः लुप्यन्ते । अयं लोपः नित्यत्वात्, परत्वात् च आदिरन्त्येन सहेता इत्यपेक्षया बलवत्तरः अस्ति । लोपे कृते ण्, ङ् आदीनां व्यञ्जनानाम् प्रत्याहारेषु ग्रहणम् न हि सम्भवति ।
शास्त्रचर्चा -2 -
छात्रः - आ, ए, ऐ एतादृशानां वर्णानाम् उच्चारणसमये अन्यवर्णानाम् अपि अवयवरूपेण उच्चारणं भवति । यथा, आकारस्य उच्चारणसमये अकारस्य उच्चारणम्, एकारस्य उच्चारणसमये अकार-इकारयोः उच्चारणम् - आदयः । कुत्रचित् कस्यचन वर्णस्य उच्चारणसमये समानरूपकस्य भिन्नवर्णस्य अपि उच्चारणं सम्भवति । यथा - ऋकारस्य उच्चारणसमये रेफस्य उच्चारणम् , ऌकारस्य उच्चारणसमये लकारस्य उच्चारणम् - आदयः । अस्यां स्थितौ मुख्यवर्णस्य ये अवयवभूताः वर्णाः, तद्विशिष्टानि कार्याणि अपि मुख्यवर्णस्य उपस्थितौ भवन्ति वा ? यथा - 'वने + अत्र' इति स्थिते एकारस्य अवयवभूतः यः इकारः तद्विशिष्टः यणादेशः अत्र भवेत् वा ?
आचार्यः नैव नैव । वर्णेषु विद्यमानाः ये एकदेशाः (अवयवाः) तेषाम् कार्याणि अत्र नैव प्रवर्तन्ते, यतः एतेषाम् एकदेशानाम् (अवयवानाम्) अत्र न हि वर्णसंज्ञा विधीयते । सम्पूर्णरूपेण यस्य उच्चारणं भवति, तस्यैव 'वर्ण' इति संज्ञा भवति, अवयवरूपेण उच्चार्यमाणस्य अंशस्य न । इत्युक्ते 'ए' इति उच्चारिते तदवयस्य 'इ' इत्यस्य पृथक् वर्णसंज्ञा न क्रियते । अतः 'इ'विशिष्टानि वर्णकार्याणि तत्र न भवन्ति ।
छात्रः - परन्तु एवमस्ति चेत् 'पितृ + नाम्' इत्यत्र नकारस्य णत्वं न सम्भवेत्, यतः णत्वविधायके सूत्रे रषाभ्यां नो णः समानपदे इत्यत्र केवलं रेफस्य निर्देशः कृतः अस्ति, न हि ऋकारस्य । वस्तुतस्तु 'पितृ + नाम्' इत्यत्र ऋकारस्य उपस्थितौ अपि णत्वं इष्यते, तत् च कारयितुम् ऋकारे रेफविशिष्टस्य कार्यस्य अतिदेशः आवश्यकः । अतः मुख्यवर्णे अवयवीभूतस्य वर्णस्य कार्यमपि भवेदेव इति मे मतिः ।
आचार्यः - सत्यम् । आहत्य त्रिषु स्थलेषु रेफविशिष्टं कार्यम् ऋकारे अपि इष्टम् अस्ति -
(अ) तस्मान्नुड् द्विहलः अनेन सूत्रेण अभ्यासस्य नुडागमः उच्यते । एतादृशः नुडागमः तदा एव भवति यदा अङ्गे द्वौ हल्-वर्णौ स्तः । यथा, 'अन्ज्' इत्यस्य लिट्-लकारस्य रूपसिद्धौ द्वित्वे कृते 'आ + अन्ज्' इति प्राप्ते अङ्गे 'न्ज्' इति द्वौ हल्-वर्णौ विद्येते अतः 'आ' इति अभ्यासस्य नुडागमं कृत्वा 'आनञ्ज' इति अन्तिमं रूपं सिद्ध्यति । अयं नुडागमः ऋकारस्य विषये अपि इष्यते । तदर्थम् रेफम् ऋकारस्य अवयवं मत्वा रेफस्य हल्-गुणधर्मम् ऋकारेऽपि अतिदिश्य ऋध्, ऋच् - एतादृशानां धातूनां लिट्लकारस्य रूपेषु (आनर्ध, आनर्च - इत्यत्र) नुडागमः भवितुमर्हति ।
(आ) कृपो रो लः इत्यत्र रेफस्य यथा लकारादेशः विधीयते, तथैव ऋकारस्यापि ऌकारादेशः इष्यते, येन 'कॢप्तम्', 'कॢप्तिः' आदीनि रूपाणि साधुत्वं प्राप्नुवन्ति । अत्रापि रेफम् ऋकारस्य अवयवरूपेण स्वीकृत्य तद्विशिष्टं कार्यम् ऋकारे अतिदिश्यते ।
(इ) रषाभ्यां नो णः समानपदे इत्यनेन रेफस्य उपस्थितौ नकारस्य यः 'विनामः' (मूर्धन्यादेशः इत्यर्थः) विधीयते, सः ऋकारस्यापि उपस्थितौ इष्यते, येन 'पितॄणाम्', 'मातॄणाम्' आदीनि रूपाणि सिद्ध्यन्ति । अत्रापि रेफविशिष्टम् कार्यम् ऋकारे अतिदिष्टमस्ति ।
एते त्रयः विधयः भाष्यकारेण नुड्विधिलादेशविनामेषु ऋकारे प्रतिविधातव्यम् इत्यस्मिन् एकस्मिन्नेव वार्त्तिके पाठिताः सन्ति । 'नुड्-विधिः, 'लादेशः', तथा 'विनामः (मूर्धन्यादेशः)' एतेषु विषयेषु ऋकारे अवयवभूतस्य रेफस्य गुणः अतिदिश्यते - इति अस्य वार्त्तिकस्य आशयः ।
छात्रः - एवमस्ति चेत् रषाभ्यां नो णः समानपदे इत्यत्र ऋवर्णान्नस्य णत्वं वाच्यम् इति यत् वार्त्तिकं पाठ्यते, तस्य न किञ्चन प्रयोजनम् ?
आचार्यः - सत्यम् । नुड्विधिलादेशविनामेषु ऋकारे प्रतिविधातव्यम् अस्मिन् पक्षे तस्य वार्त्तिकस्य न किञ्चन प्रयोजनम् ।
छात्रः - तर्हि ऋवर्णान्नस्य णत्वं वाच्यम् इति वार्त्तिकम् किमर्थम् पाठ्यते ?
आचार्यः - अत्र पक्षद्वयं विद्यते । एकस्मिन् पक्षे नुड्विधिलादेशविनामेषु ऋकारे प्रतिविधातव्यम् इति सिद्धान्तरूपेण स्वीकृत्य 'आनर्च', 'कॢप्त', 'पितॄणाम्' इत्येतेषां साधुत्वं प्रतिपाद्यते । अयम् ग्रहणपक्षः । अस्मिन् पक्षे ऋवर्णान्नस्य णत्वं वाच्यम् इति वार्त्तिकम् अनावश्यकम् । परन्तु अत्र अपरः अपि कश्चन पक्षः विद्यते । अस्मिन् पक्षे 'ऋकारे रेफः न कदाचित् अतिदिश्यते' इत्येव मत्वा नुड्विधिलादेशविनामेषु ऋकारे प्रतिविधातव्यम् इति वार्त्तिकं सिद्धान्तरूपेण न स्वीक्रियते । अस्यां स्थितौ 'आनर्च', 'कॢप्त', 'पितॄणाम्' इत्येतेषां साधुत्वज्ञापनार्थम् वार्त्तिकानि अन्यज्ञापकानि वा दीयन्ते । अस्मिन् पक्षे ऋवर्णान्नस्य णत्वं वाच्यम् इति वार्त्तिकमावश्यकम् । अयम् अग्रहणपक्षः । रषाभ्यां नो णः समानपदे इत्यत्र भाष्यकारेण एतयोः द्वयोः अपि पक्षयोः विषये विमर्शः कृतः अस्ति ।
॥ काशिका ॥
ऐ औ इत्येतौ वर्णावुपदिश्य पूर्वांश्चान्ते चकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति चतुर्भिः - अचः परस्मिन् पूर्वविधौ इत्यकारेण, इच एकाचोऽम्प्रत्ययवच्च इतीकारेण, एचोऽयवायावः इत्येकारेण, वृद्धिरादैच् इत्यैकारेण ॥ प्रत्याहारेऽनुबन्धानां कथमज्ग्रहणेषु न ? आचारादप्रधानत्वाल्लोपश्च बलवत्तरः । वर्णेषु ये वर्णैकदेशाः वर्णान्तरसमानाकृतयस्तेषु तत्कार्यं न भवति, तच्छायानुकारिणो हि ते, न पुनस्त एव । पृथक्प्रयत्ननिर्वर्त्यं हि वर्णमिच्छन्त्याचार्याः । नुड्विधिलादेशविनामेषु ऋकारे प्रतिविधातव्यम् । तस्मान्नुड् द्विहलः इति नुड्विधौ ऋकारग्रहणम् - 'आनृधतुः', 'आनृधुः' । कृपो रो लः इति लादेशे ऋकारग्रहणम् - 'कॢप्तः', 'कॢप्तवान्' । रषाभ्यां नो णः समानपदे इति विनामे ॠकारग्रहणम् - 'कर्तॄणाम्' ॥
॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥
वृत्तिः – ‘ ऐ, औ ’ इत्येतौ वर्णावुपदिश्य पूर्वांश्चान्ते चकारमितं करोति प्रत्याहारार्थम् ।
भाष्यम् – ‘ सन्ध्यक्षरेषु विवृतत्वात् । यदत्रावर्णं विवृततरं तदन्यस्मादवर्णात् । ये अपीवर्णोवर्णे विवृततरे ते अन्याभ्यामिवर्णोवर्णाभ्याम् ’ ।। अत एव तत्र प्रयत्नभेदादेव एङैचोः परस्परंसावर्ण्याभावः । अर्थात् सन्ध्यक्षरेषु अकार-इकार-उकारवर्णाः लोकेऽन्येभ्यः अकार-इकार-उकारवर्णेभ्यो विवृततराः सन्ति तस्मात्प्रयत्नवैषम्यात् अन्तरतमत्वाऽभावात् प्राप्ताः सर्वे विधयः निरस्ताः भवन्तीति विज्ञेयम् ।
ननु कण्ठतालुस्थानिनोर्विवृतप्रयत्नवतोश्चैकारैकारयोरेवं कण्ठौष्ठस्थानिनोर्विवृतप्रयत्नवतो - श्चौकारौकारयोस्तुल्यत्वेन “ तुल्यास्यप्रयत्नं सवर्णम्” इति सूत्रेण परस्परं सावर्ण्यं कथं न स्यात् ? ।
अस्य समाधानं वैयाकरणसिद्धान्तकौमुद्यामित्थं कृतम् – ‘ एदैतोरोदौतोश्च न मिथः सावर्ण्यम् । कुतो न सावर्ण्यमत आह – ‘ ऐऔच् ’ इति सूत्रारम्भसामर्थ्यात् ’ ।
अत्रेदमेव हृदयं यद् - यदि हि एदैतोरोदौतोश्च मिथः सावर्ण्यं स्यात्तर्हि ह्रस्वाकारादिभिर्दीर्घाकारादीनामिव एकारेण ऐकारस्य ओकारेण औकारस्य च ग्रहणसम्भवात् ‘ ऐऔच् ’ इति सूत्रं नारभ्येत, आरभ्यते चातः एदैतोरोदौतोश्च न मिथः सावर्ण्यमिति कल्प्यत इत्याशयः । ‘ अच्, इच्, एच् ’ इत्यादि प्रत्याहारास्तु ङकारेणैव निर्वाह्याः । ‘ एच्, एङ् ’ इति प्रत्याहारद्वयग्रहणसामर्थ्यात् एदैतोः ओदौतोश्च न मिथः सावर्ण्यम् ।
ननु ‘ ऐऔच् ’ इति सूत्राभावे “ वृद्धिरादैच् ” इत्यत्र ‘ वृद्धिरादेङ् ’ इति न्यासे गुणवृद्धिसञ्ज्ञाविधायकसूत्रयोर्विषयविभागो न सिद्ध्यतीति तदर्थं ‘ ऐऔच् ’ इति सूत्रमावश्यकमेवेति चेन्न । अत्राप्येङित्येव पठितव्यं तत्र गुणसूत्रे च मिथः सवर्णसञ्ज्ञावादिनये चतुर्णां ग्रहणेन दोषाभावात् । न च “ एचोऽयवायावः ” इत्यत्र एचां चतुर्णां क्रमादयाद्यादेशसिद्ध्यर्थम् ‘ एओङ् ’‘ ऐऔच् ’ इति सूत्रद्वयमप्यावश्यकमेवेति कथं ‘ ऐऔच् ’ इति सूत्रानर्थक्यप्रसङ्गशङ्केति वाच्यम् । “ स्थानेऽन्तरतमः ” इति सूत्रेणैव एचां क्रमादयाद्यादेशाः सिद्ध्यन्तीति तदर्थम् ‘ ऐऔच् ’ इति सूत्रोपन्यासस्यानावश्यकत्वात् ।
नचैवमपि ‘ ऐऔच् ’ इति सूत्राभावे “ न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामेच् ” इतिसूत्रे ऐजिति प्रत्याहारो न सिद्ध्येत् – “ न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामेङ् ” इति न्यासे तु भाव्यमानस्य सवर्णाग्राहकत्वेन ‘ वैयाकरणः ’, ‘ सौवश्वः ’ इत्यादावेदोतावेवागमौ स्तो नत्वैदौतौ ततश्च वैयर्थ्याभावात् । ‘ ऐऔच् ’ इति सूत्रं सावर्ण्याभावं न ज्ञापयेदिति वाच्यम् । “ न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामेच् ” इति सूत्रेऽपि ऐजित्यस्य स्थाने ‘ ऐऔ ’ इति स्वरूपतोऽवश्यं पठनीयम् । अन्यथा प्रत्याहारेण एङोरपि ग्रहणात् लक्ष्यवैरूप्यापत्तिः । परञ्च तेन पाठेनाप्युक्तलक्ष्यसिद्ध्यातदर्थमैऔजिति सूत्रस्यानुपयोगात् ।
वस्तुतस्तु स्वरूपज्ञानाय ऋलृवर्णवदैकारौकारयोरप्युपदेश आवश्यक एव, अन्यथा ‘ अनुपदिष्टं सत्कथं शक्यं विज्ञातुम् –असच्च कथं शक्यं प्रतिपत्तुम् ’ इति भाष्यात् तेषामसाधुत्वं स्यात् । अत एव इष्टबुद्ध्यर्थश्च वर्णानामुपदेशः इत्यपि भगवता पतञ्जलिना अभिहितम् । तथा च ‘ एओङ् ’ इति सूत्रस्थभाष्यप्रामाण्येन ‘ ऐऔ ’ इत्यनयोर्वर्णयोरसत्त्वशङ्कावारणाय ‘ ऐऔच् ’ इति सूत्रमावश्यकमेवेति न तद्व्यर्थमित्युच्यते तदा तु “ प्लुतावैच इदुतौ ” इति पूर्वसूत्रादैच् पदानुवृत्त्यैव सिद्धे “ एचोऽप्रगृह्यस्यादूराद्धूतेपूर्वस्यार्धस्याऽऽदुत्तरस्येदुतौ ” इत्युत्तरसूत्रे एज्ग्रहणस्यानर्थक्यप्रसङ्गादेदैतोरोदौतोश्च न मिथः सावर्ण्यमिति वक्तव्यम् ’ । एवञ्च ङकारचकाररूपपृथगनुबन्धद्वयकरणसामर्थ्यादेव सावर्ण्याभावः साधनीयः । तथा च एङो विवृततरप्रयत्नवत्त्वमैचश्च विवृततमप्रयत्नवत्त्वमित्येवं रूपेण तयोः प्रयत्नभेदात् सावर्ण्याभावोपपत्तौ तदर्थमैऔजिति सूत्रवैयर्थ्यद्वारा तयोः सावर्ण्याभावो न भवितुमर्हतीति ज्ञेयम् । [१][२]
यद्यपि ग्रहणकशास्त्रबलादेव स्वरूपज्ञानसम्भवे सवर्णसञ्ज्ञावादे स्वरूपज्ञानायैकारौकारयोरुच्चारणं व्यर्थमेवेति स्वरूपज्ञानं नान्यथासिद्धफलमिति वक्तुं शक्यते, तथापि यथा एकारौकाराभ्यामुपदिष्टाभ्याम् ऐकारौकारयोरपि स्वरूपसाधुत्वज्ञानसम्भवस्तथैवैकारौकाराभ्यां चाप्युपदिष्टाभ्यामेकारौकारयोः स्वरूपसाधुत्वज्ञानसम्भव इति कयोर्वर्णसमाम्नाय उपदेश इत्यत्र विनिगमकाभावेन चतुर्णामप्युपदेशः स्वरूपज्ञानायापेक्षितः ।
‘ एओङ् ’‘ ऐऔच् ’ इत्यत्र ङकारचकारावेङेजादिप्रत्याहारार्थौ ।
इमानि ‘ ए ऐ ओ औ ’ इति सन्ध्यक्षराणि । तानि सन्धिजानि मन्तव्यानि । स्वरेष्विमानि चत्वार्यक्षराणि नहि स्वयमुद्भूतानि, किन्तु द्वयोर्द्वयोर्वर्णयोः सन्धौ सति निष्पद्यन्ते । स्थानद्वयोच्चार्यमाणत्वमैषां सन्धिजत्वं द्रढयति ।
ननु अवर्णस्येवर्णेन सह सन्धावेकारः, अवर्णस्योवर्णेन सह ओकारो भवति । एषां सन्ध्यक्षराणां पूर्वो भागोऽकारः, एकारैकारयोः परो भाग इकारः, ओकारौकारयोः परो भाग उकारश्च भवति । स्थानमपि एकारैकारयोः ‘ अ इ ’ वर्णाभ्यां तुल्यं कण्ठतालु, ओदौतोश्च ‘ अ उ ’ वर्णाभ्यां तुल्यं कण्ठोष्ठम् । “ तस्यादित उदात्तमर्धह्रस्वम् ”,“ एचोऽप्रगृह्यस्यादूराद्धूतेपूर्वस्यार्धस्याऽऽदुत्तरस्येदुतौ”इत्यदिसूत्रवचनात् । वार्त्तिकाकारोऽप्याह – ‘ ऐचोश्चोत्तरभूयस्त्वात् ’ इति । अत एव ‘ अग्ने इन्द्रः ’ इत्यत्र “ अकः सवर्णे दीर्घः ” इति सूत्रेण परावयवकार्यं दीर्घत्वं प्राप्नोति, “ एचोऽयवायावः ” इति सूत्रेण समुदायकार्यम् अयादेशत्वञ्च । तत्रान्तरङ्गत्वात् तत्र च साक्षाच्चोदितत्वात्, प्रत्यक्षत्वात् वाऽवयवकार्यप्रसङ्गः, अवयवावगतिपूर्वकत्वाद्धि समुदायावगमस्य समुदायकार्यं बहिरङ्गम्, अयादीनां त्ववकाशः ‘ अग्ने आयाहि ’ इति । नन्वत्राप्यवयवस्य यादेशेन भाव्यमिति चेद्, न ‘ येन प्राप्ते ’ इति यकारादेशस्यैवायादयो बाधकाः स्युः । तत्र यथा दधीन्द्र इत्यत्र दधिशब्दस्य इकारः सवर्णदीर्घत्वं प्रतिपद्यते, एवमेकारस्थोऽपि प्रतिपद्येत । नैवम्, एषु सन्ध्यक्षरेषु भागद्वयसत्त्वेऽपि अवयवानां तिरोहितत्वात्, समुदायसंपादनरूपे कार्ये च पारतन्त्र्यात् स्वकार्यस्याप्रयोजकत्वाद्, नरसिंहवत् जात्यन्तराक्रान्तत्वेन वा वर्णान्तरसारूप्यमात्रेण तत्कार्याप्रवर्तनादवयवकार्यस्य सवर्णदीर्घत्वं न भवति । गोनौग्रहणं चात्र ज्ञापकम् । यदि हि भागा अपि स्वतन्त्रवर्णप्रयुक्तं कार्यं प्रवर्तयेयुस्तर्हि “ गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत् ” इति “ नौद्व्यचष्ठन् ” इति च सूत्रद्वये द्व्यज्ग्रहणेनैव गतार्थत्वाद् गोशब्दं नौशब्दं च नोपाददीत । तेन ‘ अग्ने इदम् ’‘ वायो उदकम् ’ इत्यत्र “ अकः सवर्णे दीर्घः ” इति सूत्रेण सवर्णदीर्घत्वं न भवति । तथा ‘ अग्न एति ’ इत्यत्र “ एङः पदान्तादति ” इति सूत्रेण पूर्वरूपमेकादेशो न, ‘ आलूय ’‘ प्रमाय ’ इत्यत्र “ ह्रस्वस्य पिति कृति तुक् ”इति सूत्रेण तुङागमो न, ‘ मालाभिः ’ इत्यत्र “ अतो भिस ऐस् ” इति सूत्रेण ऐसादेशो न, ‘ याता ’ इत्यत्र “ अतो लोपः ” इति सूत्रेण आकारलोपो न, ‘ वाचा तरति ’ इत्यत्र “ नौद्व्यचष्ठन् ” इति सूत्रेन ठन्प्रत्ययो न, ‘ वाचो निमित्तम् ’ इत्यत्र “ गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत् ” इति सूत्रेण यत्प्रत्ययश्च न भवति ।
‘ ए ऐ ’ इत्यनयोरकारेकारप्रयुक्तम् ‘ ओ औ ’ इत्यनयोरकारोकारप्रयुक्तं कार्यन्तु सन्ध्यक्षरत्वेऽपि न भवति, “ दीर्घात् ” इति पृथक्सूत्रकरणेन द्विमात्रिकेणैकमात्रिककार्याभावज्ञापनात् । अत एव ‘ अग्ने एति ’ अत्र “ एङः पदान्तादति ” इति पूर्वरूपम्, ‘ अग्ने इन्द्रः ’‘ वायो उदकम् ’ अत्र “ अकः सवर्णे दीर्घः ” इत्यादि कार्यं न । अन्यथा “ छे च ”इत्यनेनैव दीर्घेऽपि तुकि सिद्धे “ दीर्घात् ” इति योगविभागो व्यर्थमेव स्यात् ।
एवम् ‘ ऋ लृ ’ इत्यत्र रेफलकारप्रयुक्तः प्रातर्ऋतम् इत्यत्र “ रो रि ” इति लोपः, शरद् लृकारः इत्यत्र “ तोर्लि ” इति लत्वञ्च न, मध्ये प्रतीयमानरेफलकारयोः सत्त्वेन पूर्वोत्तरवर्त्त्यज्भागेन व्यवधानात् । यच्चाव्यवधानानिमित्तकं कार्यं तद्भवत्येव, यथा ‘ आनृजे ’ इत्यत्र “ तस्मान्नुड् द्विहलः ” इति नुट् । वस्तुतस्तु द्विहलः इति प्रत्याख्यातं भाष्ये । न च ‘ आट ’ इत्यादौ नुडापत्तिः ‘ आनशे ’ इत्यत्र तस्मान्नुड् इति नुटि सिद्धे “ अश्नोतेश्च ” इति सूत्रस्य एकहल्घटितस्य नुट् चेत्तर्हि अश्नोतेरेवेति नियमार्थता स्वीकारेणादोषात् । “ क्षुभ्नादिषु च ” इति सूत्रेण क्षुभ्नादिगणे ‘ तृप्नोति ’ इत्यस्य णत्वनिषेधार्थपाठवैयर्थ्येन ऋकारान्नस्य णत्वं भवतीति ज्ञापनेन ‘ ऋवर्णान्नस्य णत्वम् ’ इति वार्त्तिकं न कर्तव्यमिति भाष्ये प्रोक्तम् ।
पृथक्प्रयत्ननिष्पाद्यो हि वर्णः, सन्ध्यक्षरेषु ऋकारादिषु च वर्णसादृश्यावगाहिनोऽवयवाः, न तु ते वर्णाः । अत एव ऋकारादिषु ज्ञापकादिना णत्वादिकार्यं साधितं भाष्ये ।
प्रत्याहारेऽनुबन्धानामग्रहणम् -
‘ अइउण् ’, ‘ ऋलृक् ’, ‘ एओङ् ’, ‘ ऐऔच् ’ इति प्रत्याहारसूत्रेषु य एते प्रत्याहारार्थाः ‘ ण्, क्, ङ्, च् ’ इति अनुबन्धाः क्रियन्ते। तत्रेयं जिज्ञासोदेति यद् यदा “ आदिरन्त्येन सहेता” इति सूत्रेण अन्त्येन इता सह आदिरुच्चार्यमाण आद्यन्ताक्षिप्तानां मध्यानां स्वस्य च सञ्ज्ञा भवति, तदा यथा अच् सञ्ज्ञा मध्यवर्त्तिनामिकारादीनां बोधो भवति, तथैव ‘ अण् ’, ‘ अक् ’,‘ एङ् ’ इत्यादिप्रत्याहारबोध्यसमुदायघटकेषु मध्यगानाम् ‘ ण्, ङ्, क् ’ इत्येतेषामित्सञ्ज्ञाकानामपि अज्ग्रहणेन भाव्यम् । ततश्च अनुनासिका इत्यत्र ककाररूपेऽचि परे इकारस्य स्थाने यणादेशः कस्मान्न भवति ? ।
ननु नासैव नासिका इति “ न सामिवचने ” इति सूत्रज्ञापितात्यन्तस्वार्थिककप्रत्ययस्य कप्प्रत्ययावधिकस्वादित्वेन “ स्वादिष्वसर्वनामस्थाने ” इत्यनेन सूत्रेण पदत्वे “ इकोऽसवर्णे शाकल्यस्यह्रस्वश्च” इत्यनेन सूत्रेण प्रकृतिभावे ह्रस्वे वा यण् न स्यात् ।
न च इत्सञ्ज्ञाकानामनुबन्धानां ह्यज्ग्रहणेन ककारस्याच्त्वात् “ यचि भम् ” इत्यनेन सूत्रेण भत्वेन पदसञ्ज्ञाबाधात् “ इकोऽसर्वणे शाकल्यस्य ह्रस्वश्च ” इत्यस्य सूत्रस्य प्राप्तिः न भवति ।
न चैवमुक्तम्, “ यचि भम् ” इति सूत्रे ‘ य् ’ इत्यस्य अच्त्व-हल्त्वोभयानाश्रयत्वेन तत्साहचर्य्यादचोऽप्यच्त्व-हल्त्वोभयानाश्रयस्यैव ग्रहणेन ककारस्योभयाश्रयत्वेन भत्वाप्राप्तेः । एतेन भत्वात् “ यस्येति च ” इति सूत्रेण इकारस्य लोप एव स्यादिति यणोऽपादानमसङ्गतमित्यपास्तमिति चेन्न, प्रकृतिभावस्य वैकल्पित्वेन तदभावपक्षे यण्प्राप्तेः ।
न चैवमपि प्रकृतिभावपक्षमादाय निर्देशसङ्गतिः स्यात् ।
यणं कृत्वा प्रयोगे धर्माधिक्येन ऋषेश्च धर्मपक्षपातित्वेन यण्करणस्यैवौचित्यात् । ङमो ह्रस्वादचि ङमुण्नित्यम् इत्यत्र ङकाररूपेऽचि परे “ इको यणचि ” इत्यनेन सूत्रेण यणादेशः प्रसज्येत, तच्चानिषटमाद्येत । इयमाशङ्का वार्त्तिककृता इत्थं परिहृता –[३]
‘ आचारात् ’ आचार्याणामुपचारात्, तृषिमृषिकृषेः काश्यपस्य, पापाणके कुत्सितैः, एकः पूर्वपरयोः, ङमो ह्रस्वादचि ङमुण्नित्यम् इत्यादिषु सूत्रेषु न आचार्याः अच्कार्याणि कृतवन्तः ।
‘ अप्रधानत्वात् ’ न खल्वेतेषामक्षुप्राधान्येनोपदेशः क्रियते । एतेषान्तु हल्षु प्राधान्येनोपदेशः कृतः । एषा ह्याचार्यस्य शैली दृश्यते यत्तुल्यजातीयांस्तुल्यजातीयेषूपदेशति – अचोऽक्षु, हलो हल्षु ।
‘ लोपश्च बलवत्तरः ’ लोपः खल्वपि तावत् बलवत्तरो भवति । परत्वान्नित्यत्वाद्वा “ आदिरन्त्येन सहेता” इत्यनेन सूत्रेणाच्सञ्ज्ञाविधानकालेऽनुबन्धानां लोपादसन्निधानादच् सञ्ज्ञा न प्रवर्तते । अनुबन्धा ह्युच्चारण एव सन्ति, इत्सञ्ज्ञाप्रतिबन्द्धं च कार्यमसन्त एव प्रतिपादयन्ति । स्वतस्तु न किञ्चित्कार्यं प्रतिपद्यन्ते ।
तदुक्तमत्र सङ्ग्रहः –
प्रत्याहारेऽनुबन्धानां कथमज्ग्रहणेषु न ।
आचारादप्रधानत्वाल्लोपश्चबलवत्तरः ।।
अथवा
ऊकालोऽजिति वा योगस्तत्कालानां यथा भवेत् ।
अचांग्रहणमच्कार्यंतानैषांनभविष्यति ।।
अथवा योगविभागः करिष्यते – ऊकालोऽच् ‘ उ, ऊ, उ३ ’ इत्येवं कालो अज्भवति । ततः – ह्रस्वदीर्घप्लुतसञ्ज्ञश्च भवति – उकालोऽच् ।
सिद्धेऽच्त्वे योगविभागेन कालविशेषावच्छिन्नस्याच्त्वं नियम्यते ततोऽनुबन्धानामूकालत्वाऽभावादच्त्वाऽभावः ।।
अथवा –
ह्रस्वादीनां वचनात् प्राग्यावत्तावद्योगोऽस्तु ।
अच्कार्याणियथास्युस्तत्कालेष्वक्षु ।।
एष एवार्थः वार्त्तिककृतोच्यते – ह्रस्वादीनामिति ह्रस्वदीर्घप्लुतः इत्यतः प्राक् ‘ ऊकालोऽच् ’ इतितावदस्तु, अज्निमित्तकार्याणि तत्कालेष्वक्षुकर्तुमर्हाणि यथा स्युः ।
महाभाष्यम् – प्रत्याहारसूत्रम् – ३-४[१]
वैयाकरणसिद्धान्तकौमुदी – भावबोधिनीटीका – पृ. ९[२]
सिद्धान्तकौमुद्याः लक्ष्मीटीका ( पृ. २० )[३]
५
हयवरट्
सूत्राणि:
॥ व्याख्या: ॥
'हयवरट्' इति पञ्चमं माहेश्वरसूत्रम् । अनेन सूत्रेण 'ह्', 'य्', 'व्', 'र्' एतेषां चतुर्णां व्यञ्जनानाम् उपदेशः क्रियते । अन्ते विद्यमानः टकारः इत्संज्ञकः अस्ति । अस्य साहाय्येन 'अट्' इति एकः प्रत्याहारः सिद्ध्यति । अस्मिन् प्रत्याहारे सर्वे स्वराः तथा च 'ह्', 'य्', 'व्', 'र्' एतानि चत्वारि व्यञ्जनानि समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः आहत्य चतुर्षु सूत्रेषु कृतः दृश्यते - आतोऽटि नित्यम् , दीर्घाटि समानपदे अट्कुप्वाङ्नुम्व्यवायेऽपि , शश्छोटिः । एतानि सर्वाण्यपि सूत्राणि त्रिपाद्यां विद्यते इति अत्र विशेषः द्रष्टव्यः । सपादसप्ताध्याय्याम् अट्-प्रत्याहारस्य प्रयोगः नैव कृतः अस्ति ।
अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - अटां मध्ये विसर्जनीय-जिह्वामूलीय-उपध्मानीयानाम् अपि उपदेशः कर्तव्यः । इत्युक्ते, अट्-प्रत्याहारेण यत् किमपि कार्यम् उच्यते, तत् कार्यम् विसर्गस्य उपस्थितौ, जिह्वामूलीयस्य उपस्थितौ, उपध्मानीयस्य च उपस्थितौ अपि भवति । यथा अट्कुप्वाङ्नुम्व्यवायेऽपि इत्यनेन सूत्रेण अट्-वर्णस्य व्यवधाने यत् णत्वं विधीयते, तत् णत्वम् 'उरःकेण' इत्यत्र विसर्गस्य उपस्थितौ, 'उर≍केण' इत्यत्र जिह्वामूलीयस्य उपस्थितौ, तथा च 'उर≍पेण' इत्यत्रउपध्मानीयस्य उपस्थितौ अपि इष्यते । अतः अट्-प्रत्याहारे एतेषाम् त्रयाणाम् ग्रहणम् आवश्यकम् ।
शास्त्रचर्चा -
छात्रः - 'हयवरट्' अस्मिन् प्रत्याहारे रेफः यकारात् परः अस्ति । अयं रेफः वस्तुतः यकारात् पूर्वम् पाठनीयः । इत्युक्ते, 'हरवयट्' इति सूत्रं स्यात् - इति मे मतिः ।
आचार्यः - किम् कारणम् ?
छात्रः - 'हयवरट्' सूत्रे यदि रेफः यकारात् अनन्तरम् गृह्यते, तर्हि यरोऽनुनासिकेऽनुनासिको वा इत्यस्मिन् सूत्रे विद्यमानेन यर्-प्रत्याहारेण ('शषसर्' इत्यत्र स्थापितेन इत्संज्ञकरेफेण अयं प्रत्याहारः सिद्ध्यति) रेफस्यापि ग्रहणं स्यात् । एतादृशं ग्रहणं क्रियते चेत् 'स्वर् + नयति' इत्यत्र यर्-वर्णस्य (इत्युक्ते रेफस्य) नकारे परे (इत्युक्ते अनुस्वारे परे) विकल्पेन अनुनासिकादेशः, इत्युक्ते णकारादेशः भवेत्, येन 'स्वण् + नयति' इति सिद्ध्येत् ।
आचार्यः - रेफस्य अनुनासिकादेशः णकारः कथम् ?
छात्रः - उच्चारणस्थानसाधर्म्यात् । ऋटुरषाणां मूर्धा इति रेफस्य णकारस्य उच्चारणस्थानं मूर्धा एव ।
आचार्यः - सत्यम् । परन्तु यरोऽनुनासिकेऽनुनासिको वा अस्मिन् सूत्रे विद्यमानानां अन्येषां वर्णानां विषये स्थानसाधर्म्यम् तथा च आभ्यन्तरप्रयत्नसाधर्म्यम् - द्वयोरपि साधर्म्यं विद्यते । यथा, टकारस्य स्थाने जायमानः णकारः स्थानेन अपि णकारसदृशः अस्ति, आभ्यन्तरप्रयत्नेन अपि । अस्यां स्थितौ रेफस्य विषये णकारेण सह केवलं स्थानसाधर्म्यम् एव विद्यते, न हि आभ्यन्तरप्रयत्नस्य साधर्म्यम् । अतः यरोऽनुनासिकेऽनुनासिको वा अस्मिन् सूत्रे रेफः स्थानिरूपेण नैव भवितुम् अर्हति । अतः यर्-प्रत्याहारेण रेफस्य ग्रहणं क्रियते चेदपि न दोषाय ।
छात्रः - परन्तु तत्र कश्चन अन्यः दोषः अवश्यं भवेत् । यर्-प्रत्याहारे यदि रेफः अपि स्वीक्रियते, तर्हि अचो रहाभ्यां द्वे इत्यनेन 'मद्रहृदः', 'भद्रहृदः' एतादृशेषु स्थलेषु हकारात् परस्य रेफस्यापि द्वित्वं स्यात् - यत् न इष्यते ।
आचार्यः - अचो रहाभ्यां द्वे अस्मिन् सूत्रे निमित्तवाची रेफः स्पष्टरूपेण 'रहाभ्याम्' इत्यनेन प्रोक्तः अस्ति । स्थानिवाची रेफः तु केवलं यर-प्रत्याहारे एव गृहीतः अस्ति (इत्युक्ते, 'अनुमितः अस्ति') । अस्यांस्थितौ 'प्रत्यक्षानुमितयोः प्रत्यक्षं बलीयः' इति न्यायेन प्रत्यक्षेण निर्दिष्टम् कार्यम् एव स्वीक्रियते, न हि अनुमितं कार्यम् । अस्य सूत्रस्य प्रयोगे रेफः केवलं निमित्तरूपेणैव स्वीक्रियते, न हि स्थानिरूपेण । अतएव यर्-प्रत्याहारे रेफस्य ग्रहणम् क्रियते चेदपि तस्य द्वित्वं नैव सम्भवति ।
छात्रः - परन्तु तत्र अन्यः अपि कश्चन दोषः सम्भवति । यकारात् अनन्तरम् रेफः पाठ्यते चेत् यय्-प्रत्याहारे रेफस्य समावेशः स्यात्, येन 'कुण्डं रथेन' इत्यत्र वा पदान्तस्य इति परसवर्णः स्यात् ।
आचार्यः - रेफस्य न कश्चन सवर्णः विद्यते । णकाररेफौ सवर्णौ न, तयोः आभ्यन्तररप्रयत्नभेदात् । अतः अत्र यय्-प्रत्याहारे अपि रेफस्य उपस्थितिः न दोषाय ।
छात्रः - परन्तु यदि यकारात् पूर्वम् रेफः स्थाप्यते तर्हि एतादृशानि क्लिष्टानि उत्तराणि अपि नैव चिन्तनीयानि, येन शास्त्रेऽपि लाघवं स्यात् किल ?
आचार्यः - यकारात् पूर्वम् यदि रेफः पाठ्यते तर्हि 'रल्' , 'वल्' एतौ प्रत्याहारौ न सिद्ध्येताम् । अतः यकारवकारयोः अनन्तरमेव रेफः पाठनीयः ।
॥ काशिका ॥
ह य व र - इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते टकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेन - शश्छोऽटि इत्यकारेण ॥ अयं रेफो यकारात्पर उपदिश्यते । तस्य यर्-ग्रहणेन यय्-ग्रहणेन च ग्रहणे सति 'स्वर्नयति', 'प्रातर्नयति' इत्यत्र यरोऽनुनासिकेऽनुनासिको वा इत्यनुनासिकः प्राप्नोति । 'मद्रहृदः', 'भद्रहृदः' इत्यत्र द्विर्वचनं प्राप्नोति अचो रहाभ्यां द्वे इति । 'कुण्डं रथेन', 'वनं रथेन' इत्यत्र अनुस्वारस्य ययि परसवर्णः इति परसवर्णः प्राप्नोति । नैष दोषः । आकृतौ पदार्थे समुदाये 'सकृल्लक्ष्ये लक्षणं प्रवर्तते' इत्येतस्मिन् दर्शने यरोऽनुनासिकेऽनुनासिको वा अन्तरतमो भवतीत्येवमेतत् प्रवर्तते । तदनेन गकारादीनां ङकारादयो ये यथास्वं स्थानतो गुणतश्चान्तरतमाः, ते सर्वे विहिताः । ये तु न स्थानतः, नापि गुणतः, स्थानमात्रेण गुणमात्रेण वा अन्तरतमास्ते सर्वे निवर्तिता इति स्थानमात्रान्तरतमो रेफस्य णकारो न भवति । द्विर्वचनेऽपि रेफस्य यरन्तर्भावे सति यर्-कार्यं प्राप्तम्, तत्साक्षाच्छिष्टेन निमित्तभावेन बाध्यत इति न द्विरुच्यते रेफः । अनुस्वारस्य ययि परसवर्णः इत्येतदप्यनुस्वारान्तरतमं सकृदेव परसवर्णं विदधाति । न च रेफस्यानुस्वारान्तरतमः सवर्णोऽस्तीति न भविष्यति 'कुण्डं रथेन', 'वनं रथेन' इत्यत्र ॥ अटां मध्ये विसर्जनीयजिह्वामूलीयोपध्मानीयानामप्युपदेशः कर्तव्यः । किं प्रयोजनम् ? 'उर≍केण', 'उरःकेण'; 'उर≍पेण', 'उरःपेण' । अत्र 'अड्व्यवाये' इति णत्वं यथा स्यादिति ॥
॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥
वृत्तिः – ह य व र इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते टकारमितं करोति प्रत्याहारार्थम् ।
तस्य ग्रहणं भवत्येकेन शश्छोऽटि इत्याकारेण ।।
हकारस्य द्विरुपदेशः - यद्यपि वर्णसमाम्नाये सर्वे वर्णा एकवारमेवोपदिष्टाः । परंहकारोऽयं द्विरुपदिश्यते ‘ हयवरट् ’ इत्यत्र तथा ‘ हल् ’ इत्यत्र । तथा च हकारस्यैव कथं द्विरुपदिष्टत्वमिति जिज्ञासोदेति ।
‘ हयवरट् ’‘ हल् ’ इत्युभयत्र हकारोपादानम् अट्-अश्-हश्-इण्ग्रहणेषु चप्रथमहकारग्रहणेन ‘ अर्हेण ’ इत्यत्र हकारस्य अट्ग्रहणेन ग्रहणात् “ अट्कुप्वाङ्नुमव्यवायेऽपि ” इति सूत्रेण णत्वस्य सिद्ध्यर्थम्, ‘ देवा हसन्ति ’ इत्यत्रअश्ग्रहणेन ग्रहणात् “ भोभगोअघोअपूर्वस्य योऽशि ” इति सूत्रेण रोर्यत्वस्यसिद्ध्यर्थम्, ‘ देवो हसति ’ इत्यत्र हश्ग्रहणेन ग्रहणात् “ हशि च ” इति सूत्रेण रोरुत्वस्य सिद्ध्यर्थम्, ‘ लिलिहिध्वे ’, ‘ लिलिहिढ्वे ’ इत्यादौ इण्ग्रहणेन ग्रहणात् “ विभाषेटः ” इति सूत्रेण ढत्वविकल्पस्य सिद्ध्यर्थञ्च । अन्यथा पूर्वोक्तेषु प्रत्याहारेषु हकारस्याभावात् पूर्वोक्तानि कार्याणि न स्युः ।
वलि, रलि, झलि, शलि च द्वितीयहकारग्रहणेन ‘ रुदिहि ’ इत्यत्र “ रुदादिभ्यः सार्वधातुके ”इति सूत्रेण इट्, ‘ स्निहित्वा ’,‘ स्नेहित्वा ’ इत्यत्र “ रलो व्युपधाद्धलादेः संश्च ”इति सूत्रेण विकल्पेन कित्वम्,‘ अदाग्धाम् ’ इत्यादौ “ झलो झलि ”इति सूत्रेण सकारलोपः, ‘ अलिक्षत् ’ इत्यत्र “ शल इगुपधादनिटः क्सः ” इति सूत्रेण क्सादेशश्च सिध्यन्ति, नान्यथा तानि सिध्येयुः । तस्मादुभयत्रोपदेशः कर्तव्य इत्येव भगवतसिद्धान्तः ।
केचिद्भाषावैज्ञानिकास्तु -
हकारो द्विविधः, अर्द्धस्वररूपो व्यञ्जनरूपश्च । ‘ हयवरट् ’ इत्यत्र हकारः अर्द्धस्वरः, ‘ हल् ’ इत्यत्र च हकारो व्यञ्जनम् । तदेवं हकारस्य स्वरूपद्वयत्वात् अर्द्धस्वरसमुदाये व्यञ्जनसमुदाये च पाठ इति ब्रुवन्ति ।
वर्णसमाम्नाये वर्णानां पौर्वापर्य्येण बोधने एव भाष्यतात्पर्य्यम् । अत एव लोकप्रसिद्धककारादिक्रमं परित्यज्य भिन्नक्रमेण वर्णानामुपदेशः
अत्र यदि यकारात्पूर्वं रेफ उपदिश्येत तदा ‘ पचेरन् ’ इत्यादौ “ लोपो व्योर्वलि ” इति सूत्रेण यलोपो न स्यात् वल्परत्वाभावात् । किञ्च ‘ देवित्वा ’ इत्यत्र “ रलो व्युपधाद्धलादेः संश्च” इति सूत्रेण कित्वाभावस्यातिदेशो न स्यात्तदर्थं वकारात्पर उपदिष्टः । रेफादिप्रश्लेषेण वारणे तु गौरवम् । यद्यपि यकारात्पूर्वं पाठे‘ प्रातर्नयति ’ इत्यत्र “ यरोऽनुनासिकेऽनुनासिको वा ” इति सूत्रेण स्थानकृतान्तरतम्येन रेफस्य यरः स्थानेऽनुनासिको णकारः स्यात् ।एवञ्च “ अनचि च ” इति सूत्रेण रेफस्य द्वित्वमपि स्यात् । ‘ मद्रह्रदः ’, ‘ भद्रह्रदः ’ इत्यादौ “ अचो रहाभ्यां द्वे ” इति सूत्रेण हकारात् परस्य रेफरूपयरस्य द्वित्वं स्यात् ।तथा च यय्ग्रहणेन ग्रहणात् ‘ वनं रथेन ’, इत्यत्र “ अनुस्वारस्य ययि परसवर्णः ” इति सूत्रेण रेफरूपे ययि परेऽनुस्वारस्य परसवर्णः रेफ एव स्यात्, रेफस्यान्यसवर्णत्वाभावात् । एतेषाञ्च भाष्याभिमताऽप्रवृत्तिः फलं तथापि ‘ नेमौ रहौ कार्यिणौ किन्तर्हि निमित्तं द्विर्वचनस्य ’ इति, ‘ रेफोष्माणां सवर्णा न सन्ति ’ इति च भाष्येण समाधानान्तरस्य वक्ष्यमाणतया तत्फलस्यान्यथासिद्धत्वात् ।[१]
महाभाष्यम् - हयवरट्सूत्रे[१]
६
लण्
सूत्राणि:
॥ व्याख्या: ॥
'लण्' इति षष्ठं माहेश्वरसूत्रम् । अनेन सूत्रेण 'ल्' इत्यस्य उपदेशः क्रियते । लकारोत्तरः अकारः, तथा च अन्ते विद्यमानः णकारः - उभावपि अत्र इत्संज्ञकौ स्तः । इत्संज्ञक-अकारस्य साहाय्येन 'र' इति प्रत्याहारः सिद्ध्यति । अस्य प्रयोगः महर्षिणा उरण् रपरः अस्मिन् सूत्रे कृतः अस्ति । णकारस्य साहाय्येन तु 'अण्', 'इण्', 'यण्' एते त्रयः प्रत्याहाराः सिद्ध्यन्ति ।
अण् प्रत्याहारे सर्वे स्वराः, अन्तस्थाः तथा हकारः समाविश्यन्ते । अस्य प्रयोगः महर्षिणा अणुदित्सवर्णस्य चाप्रत्यययः अस्मिन् सूत्रे कृतः अस्ति ।
इण् प्रत्याहारे अवर्णं विहाय सर्वे स्वराः, अन्तस्थाः तथा हकारः समाविश्यन्ते । अस्य प्रयोगः महर्षिणा इणः षः , इण्कोः तथा इणः षीध्वंलुङ्लिटां धोऽङ्गात् इत्यत्र कृतः अस्ति ।
यण् प्रत्याहारे सर्वे अन्तस्थाः (य्, व्, र्, ल्) समाविश्यन्ते । अस्य प्रयोगः महर्षिणा इग्यणः सम्प्रसारणम् , इणो यण् , इको यणचि एतादृशेषु सूत्रेषु कृतः दृश्यते ।
शास्त्रचर्चा - 1
छात्रः - अणुदित्सवर्णस्य चाप्रत्यययः इत्यत्र 'अण्' प्रत्याहारः पूर्व-णकारेण किमर्थम् न उपदिश्यते ?
आचार्यः - ऋकारेण अपि सवर्णग्रहणम् इष्यते, अतः । यथा, तॄ-धातोः ऋकारस्य लटलकारे शप्-प्रत्यये परे यः गुणः भवति, सः रपरः इष्यते । रपरस्य विधानम् उरण् रपरः इति सूत्रेण भवति । अस्मिन् सूत्रे विद्यमानः 'उः' इति अंश: ऋकारस्य षष्ठ्येकवचनम् । अत्र ऋकारेण दीर्घ-ॠकारस्य अपि ग्रहणम् आवश्यकं भवति, नो चेत् तरति इति रूपस्य सिद्धौ ऋकारस्य गुणभूतः अकारः रपरः नैव स्यात् । इत्युक्ते, अणुदित्सूत्रे अण्-प्रत्याहारेण ऋकारः अपि ग्राह्यः इति स्पष्टम् । अतः अत्र पूर्वणकारेण प्रत्याहारनिर्माणम् नोचितम् ।
शास्त्रचर्चा - 2
छात्रः - 'अइउण्' तथा 'लण्' उभयत्र महर्षिणा णकारः एव किमर्थम् स्थापितः ? कश्चन अन्यः वर्णः किमर्थं न प्रयुक्तः ?
आचार्यः - अत्र णकारस्य द्विवारं प्रयोगं कृत्वा महर्षिः सन्देहं जनयित्वा एतत् ज्ञापयति, यत् सूत्रपाठे यत्र कुत्राचित् सन्देहः भवेत्, तत्र व्याख्यानानाम् साहाय्येन सन्देहस्य समाधानं करणीयम्, सन्देहवशात् सूत्राणामेव असाधुत्वं न प्रतिपादनीयम् - इति । अतएव नागेशेन परिभाषेन्दुशेखरे व्याख्यानतो विशेषप्रतिपत्तिः, न हि सन्देहादलक्षणम् इति परिभाषा पाठ्यते । लण्-सूत्रस्थः णकारः अस्याः परिभाषायाः ज्ञापकरूपेण तत्र उदाह्रियते ।
शास्त्रचर्चा - 3
छात्रः - लण्-प्रत्याहारे लकारोत्तरः अकारः किमर्थम् इत्संज्ञकः अस्ति ?
आचार्यः - 'हयवरट्' इत्यत्र विद्यमानेन रेफेण सह अस्य योगं कृत्वा 'र' इति प्रत्याहारः सिद्ध्यति । र् + (अ) + (ट्) + ल् + अँ → र । रेफोत्तरः अकारः उच्चारणार्थः अस्ति, टकारः च इत्संज्ञकः अस्ति, अतः उभयोः प्रत्याहारनिर्माणे ग्रहणं न भवति । इत्युक्ते, 'र' अस्मिन् प्रत्याहारे रेफः तथा लकारः - द्वौ वर्णौ विद्येते ।
छात्रः - किं प्रयोजनम् अस्य प्रत्याहारस्य ?
आचार्यः - उरण् रपरः इत्यत्र अयं प्रत्याहारः प्रयुज्यते । अनेन सूत्रेण यथा ऋकारस्य स्थाने विधीयमानाः अवर्ण-इवर्ण-उवर्णाः रपराः भवन्ति तथैव ऌकारस्य स्थाने विधीयमानाः अवर्ण-इवर्ण-उवर्णाः अपि लपराः भवेयुः, इति अत्र प्रयोजनम् ।
छात्रः - किम् उदाहरणम् ?
आचार्यः - 'तव + ऌकारः' अत्र आद्गुणः इति सूत्रेण अकार-ऌकारयोः स्थाने गुण-एकादेशरूपेण लपरः अकारः भवति , येन 'तवल्कार' इति साधु रूपम् सिद्ध्यति । यदि उरण् रपरः इत्यत्र लकारस्य ग्रहणं न स्यात्, तर्हि गुणसंज्ञकवर्णेषु कस्यापि उच्चारणस्थानम् ऌकारेण समानं न भवेत्, येन आदेशविधानमपि न सम्भवेत् ।
॥ काशिका ॥
ल इत्येकं वर्णमुपदिश्य पूर्वांश्चान्ते णकारम् इतं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति त्रिभिः - अणुदित्सवर्णस्य चाप्रत्ययः इत्यकारेण , इण्कोः इतीकारेण, इको यणचि इति यकारेण ॥ इण्ग्रहणानि सर्वाणि परेण णकारेण । अण्ग्रहणानि तु पूर्वेण, अणुदित्सवर्णस्य चाप्रत्ययः इत्येतदेवैकं परेण ॥ अथ किमर्थमज्ग्रहणमेवैतन्न क्रियते ? नैवं शक्यम्, अन्तःस्थानामपि हि सवर्णानां ग्रहणमिष्यते - 'सय्ँयन्ता', 'सव्ँवत्सरः', 'यल्ँलोकम्', 'तल्ँलोकम्' - इत्यत्रानुस्वारस्यानुनासिके ययि परसवर्णे कृते तस्य यर्-ग्रहणेन ग्रहणाद्द्विर्वचनं यथा स्याद् - इति ॥ हकारादिष्वकार उच्चारणार्थः, नानुबन्धः । लकारे तु अनुनासिकः प्रतिज्ञायते, तेन उरण् रपरः इत्यत्र 'र' इति प्रत्याहारग्रहणात् लपरत्वमपि भवति ॥
॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥
वृत्तिः – ‘ ल ’ इत्येकं वर्णमुपदिश्य पूर्वांशचान्ते णकारमितं करोति प्रत्याहारार्थम् । अण्– अणुदित्सवर्णस्य चाप्रत्ययः, इण् – इण्कोः, यण् – इको यणचि।
णकारस्याकृदनुबन्धत्वम् -
ननु वर्णसमाम्नाये सर्वेऽनुबन्धाः सकृदुपदिष्टाः । अयं णकारो द्विरनुबध्यते, ‘ अइउण् ’ इति सूत्रेऽपि, ‘ लण् ’ इति सूत्रेऽपि च । तत्र ‘ लण् ’ सूत्रे णकारस्य किं प्रयोजनम् ? इत्याशङ्कोदेति ।
तत्र अण्प्रत्याहारे इण्प्रत्याहारे च अचाम्, उष्मणो हकारस्य, अन्तस्थानां यवरलानां ग्रहणं यथा स्यात् । तथा च “ अणुदित्सवर्णस्य चाप्रत्ययः ” इति सूत्रेण सर्वेषामेतेषां सवर्णसञ्ज्ञा यथा स्यात् ।
ननु चैवं तत्र ‘ अइउण् ’ सूत्रस्थणकारेण ‘ अण् ’‘ इण् ’ इत्येतौ द्वावेव प्रत्याहारौ भवतः, तौ च ‘ लण् ’ सूत्रस्थणकारेणापि भवेतामिति । अतः सर्वत्राणिण्ग्रहणेषु सन्देहो जायते – अयं पूर्वेण स्यात्, परेण वा । कतमस्मिंस्तावदण्ग्रहणे सन्देहः ? तद्यथा अण्ग्रहणेषु “ अणुदित्सवर्णस्य चाप्रत्ययः ”“ अणोऽप्रगृह्यस्यानुनासिकः ”,“ केऽणः ” इत्यादिषु सन्देहः सम्भवेत्, अयं प्रत्याहारोऽण् पूर्वेण वा गृह्येत, परेण वा ? इति । तथैव सर्वत्र इण्ग्रहणेष्वपि “ इणः षः ”,“ इणः षीध्वंलुङ्लिटां धोऽङ्गात् ” इत्यत्र सन्देहो सम्भवति इण्प्रत्याहारोऽयं पूर्वेण वाऽस्ति परेण वा ? तत्रासन्देहार्थं कस्मिञ्चिदेकत्रापरवर्णस्यैव कथमनुबन्धत्वं न कृतम् ?इत्येवं महाभाष्येआशङ्क्य समाहितम् । तद्यथा – ‘ किं पुनर्वर्णेत्सत्ताविवायं णकारो द्विरनुबध्यते, पूर्वश्चैव परश्च ? ’ सन्देहप्रयोजकेत्सञ्ज्ञकणद्वयकरणस्य सन्देहे सति मुनित्रयादिव्याख्यानं दृष्ट्वा निर्णयो विधेय इत्यर्थकः ‘ व्याख्यानतो विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणम् ’ इतिवचनज्ञापनपरकत्वस्य भाष्यकृतैवोक्तत्वात् । तदुक्तं भाष्ये – ‘ अणुदित्सवर्णं परिहाय पूर्वेणाण्ग्रहणं परेणेण्ग्रहणमिति व्याख्यास्यामः ’ इति । अत्र हि परेण ग्रहणे तावन्मानमस्ति – “ उर्ऋत् ” इति सूत्रे क्रियमाणं तपरकरणम् । तथा हि यदि सवर्णग्राहकसूत्रेऽण् पूर्वेण गृह्यते, तर्हि ऋकारस्यानण्त्वात् स्थानिना आदेशेन वा ऋकारेणसवर्णाग्रहणात् भिन्नकालव्यावृत्त्यर्थं क्रियमाणं तपरकरणं व्यर्थं स्यात् । यद्यपि परेणापि ग्रहणे ऋकारस्य अण्त्वेऽपि तस्य विधेयतया ‘ अप्रत्ययः ’ इति निषेधात् तेन सवर्णग्रहणाप्रसक्तेस्तपरकरणं व्यर्थमेवेत्यपि गदितुं शक्यते, तथापि तपरकरणाभावे ऋकारस्य ऋकार एव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूत् इत्येवमादेशान्तरनिवृत्त्यर्थतयाऽविधेयत्वात् । कृते तु तपरत्वे विधीयमानताऽपि इत्यन्यदेतत् । अतत्सूत्रं विहायान्यत्र सवर्त्र “ अणोऽप्रगृह्यस्यानुनासिकः ”,“ केऽणः ” इत्यादौ पूर्वेणैव णकारेणाण् गृह्यते, अण्ग्रहणसामर्थ्यात्, अन्यथा ‘ अच् ’ इत्येव वक्तव्यम्, तदपि वा न वक्तव्यम्, अच एव ह्रस्वादिविधानात्सामर्थ्यादेव तल्लाभात् । एवं व्याख्यानादेव ‘ इण् ’ सवर्त्र परेणैव गृह्यते । यतो हि यदि पूर्वेण ‘ इण् ’ ग्राह्यम्, तदा इकारोकारौ एव तद्वाच्यौ स्याताम् । तत्र च दृश्यते आचार्यव्यवहारो यद् यत्रायम् इकारोकारयोरेव ग्रहणमिच्छति, तत्र इकारोकारयोरेव स्वरूपेण ग्रहणं करोति, न तु इण्प्रत्याहारग्रहणं, यथा “ अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ” इत्यादौ ज्ञेयम् । [१]
हकारादावकारस्य सुखोच्चारणमात्रार्थत्वेऽप्यत्र लकाराकारानुनासिकत्वादित्सञ्ज्ञा । ‘ प्रतिज्ञानुनासिक्याः पाणिनीयाः ’ इति सिद्धान्तात् । तेन रेफेण सहाकारोच्चारणे “ उरण् रपरः ” इत्यत्र रप्रत्याहारेण रेफलकारयोरुपादानम् । ‘ ऋकारलृकारयोः सावर्ण्यम् ’ इति वार्त्तिकनिर्देशश्चात्र मानम् । रप्रत्याहारस्तु “ उरण् रपरः ” इत्यत्र रपरपदे एव नान्यत्र । नागेशमते लकाराकारस्येत्सञ्ज्ञा नास्ति अतो रप्रत्याहारो न सिध्यति । अत एव भाष्यकृता लकाराकारस्येत्त्वं नोक्तम् । “ उरण् रपरः ” इत्यनेन तवल्कारः इत्यादौ लपरत्वं तु “ तुल्यास्यप्रयत्नं सवर्णम्” इति सूत्रे ‘ लपरत्वं वक्ष्यामि ’ इतिवचनसूचितेन ‘ लपरश्चेति वक्तव्यम् ’ इति वार्त्तिकेन बोध्यम् । [२]
कैयट-भट्टोजिदीक्षितादिमते तु लपरत्वं वक्ष्यामि इति भाष्यस्य लण्सूत्रस्थाकारस्येत्सञ्ज्ञकत्वेन “ उरण् रपरः ” इति सूत्रस्थपदस्य रलबोधकप्रत्याहारपरतया व्याख्यानं करिष्यामीत्यर्थमाश्रित्य लपरत्वं साधितम् ।
महाभाष्यम् - लण्सूत्रे[१]
व्याकरणसिद्धान्तसुधानिधिः – लण्सूत्रे [२]
७
ञमङणनम्
सूत्राणि:
॥ व्याख्या: ॥
'ञमङणनम्' इति सप्तमं माहेश्वरसूत्रम् । अनेन सूत्रेण 'ञ्', 'म्', 'ङ्', 'ण्', 'न्' इत्येतेषाम्, इत्युक्ते सर्वेषाम् वर्गपञ्चमानाम् उपदेशः क्रियते । अन्ते विद्यमानः मकारः इत्संज्ञकः अस्ति । अस्य मकारस्य साहाय्येन आहत्य चत्वारः प्रत्याहाराः सिद्ध्यन्ति ।
अम् प्रत्याहारे सर्वे स्वराः, अन्तस्थाः, वर्गपञ्चमाः तथा हकारः समाविश्यन्ते । अस्य प्रयोगः महर्षिणा पुमः खय्यम्परे अस्मिन् सूत्रे कृतः अस्ति ।
यम् प्रत्याहारे सर्वे अन्तस्थाः तथा च वर्गपञ्चमाः समाविश्यन्ते । अस्य प्रयोगः महर्षिणा हलो यमां यमि लोपः अस्मिन् सूत्रे कृतः अस्ति ।
ङम् प्रत्याहारे सर्वे ङ्, ण्, न् एते त्रयाः समाविश्यन्ते । अस्य प्रयोगः महर्षिणा ङमो ह्रस्वादचि ङमुण् नित्यम् इत्यत्र कृतः अस्ति ।
ञम् प्रत्याहारे सर्वे वर्गपञ्चमवर्णाः समाविश्यन्ते । अस्य प्रयोगः पाणिनिना अष्टाध्याय्यां तु कस्मिंश्चिदपि सूत्रे न कृतः अस्ति,परन्तु उणादिपाठे ञमन्ताड्डः (१.१११) अस्मिन् सूत्रे अयं प्रत्याहारः प्रयुक्तः दृश्यते ।
विशेषः - अत्र केचन वैयाकरणाः 'ञमङणनम्' तथा अग्रिमं 'झभञ्' इति द्वे माहेश्वरसूत्रे एकीकृत्य एकम् एव 'ञमङणनझभञ्' इति एकमेव शिवसूत्रम् स्यात् इति वदन्ति । एतादृशं कृत्वा 'अम्' इत्यस्य स्थाने 'अञ्', 'यम्' इत्यस्य स्थाने 'यञ्', तथा च 'ङम्' इत्यस्य स्थाने 'ङञ्' इत्येव प्रत्याहाराः क्रियन्ताम्; ततश्च ततः पुमः खय्यम्परे इत्यस्य स्थाने 'पुमः खय्यञ्परे', हलो यमां यमि लोपः इत्यस्य स्थाने 'हलो यञां यञि लोप', तथा च ङमो ह्रस्वादचि ङमुण् नित्यम् इत्यस्य स्थाने 'ङञो ह्रस्वादचि ङञुण् नित्यम्' इत्येतानि एव सूत्राणि स्युः - इति तेषाम् आशयः । किमर्थम् ? एतादृशं क्रियते चेत् किञ्चित् लाघवं जायते । कीदृशं लाघवम् ? 'यम्' इत्यस्य स्थाने 'यञ्' इति यः प्रत्याहारः स्थाप्यते, सः 'झभञ्'-सूत्रस्थञकारेण तादृशः अपि कृतः अस्ति । अतः अत्र 'अम्/यम्/ङम्' इत्येतेषां मूलप्रत्याहाराणां स्थाने 'अञ्' तथा 'ङञ्' एतौ द्वौ एव नूतनप्रत्याहारौ स्याताम् - इति । अयं पक्षः नैव दोषाय, परन्तु एतादृशं क्रियते चेत् 'ङञो ह्रस्वादचि ङञुण् नित्यम्' इत्यत्र निर्दिष्टौ ङञ्-प्रत्याहारस्थौ झकारभकारौ स्थानिरूपेण प्रक्रियायां नैव आगन्तुम् अर्हतः इति कारणात् स्थानिनः त्रयः परन्तु आगमाश्च पञ्च इति स्थानिनाम् गौरवः स्यात् । अपि च, यथासङ्ख्यत्वम् विनश्येत् इत्यपि सन्देहः जायेत । अतः अत्र मकारस्य अनुबन्धरूपेण ग्रहणं कृत्वा 'ञमङणनम्' इत्येव भिन्नः प्रत्याहारः भवेत् इति निर्णयः भाष्यकारेण दत्तः अस्ति ।
॥ काशिका ॥
ञ म ङ ण न इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते मकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति त्रिभिः - पुमः खय्यम्परे इत्यकारेण, हलो यमां यमि लोपः इति यकारेण, ङमो ह्रस्वादचि ङमुण् नित्यम् इति ङकारेण ॥ ञमन्ताड्डः इति ञकारेणापि ग्रहणमस्य दृश्यते ॥ केचित्तु सर्वाण्येतानि प्रत्याहारग्रहणानि ञकारेण भवन्त्विति मकारमनुबन्धं प्रत्याचक्षते । तथा च सति ङमो ह्रस्वादचि ङमुण् नित्यम् इत्यत्रागमिनोर्झभोरभावादागमाभावप्रतिपत्तौ प्रतिपत्तिगौरवं भवति ॥
॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥
वृत्तिः – ञ, म, ङ, ण, न इत्येतान् वर्णानुपदिश्य पूर्वांचान्तेमकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति चतुर्भिः अ-य-ङ-ञ इत्येतैः । अम् – पुमः खय्यम्परे, यम् -हलो यमां यमि लोपः, ङम् – ङमो ह्रस्वादचि ङमुण् नित्यम्, अम् – ञमन्ताड्डः।
८
झभञ्
सूत्राणि:
॥ व्याख्या: ॥
'झभञ्' इति अष्टमं माहेश्वरसूत्रम् । अनेन सूत्रेण 'झ्' तथा 'भ्' एतयोः उपदेशः क्रियते । अन्ते विद्यमानः ञकारः इत्संज्ञकः अस्ति । अस्य मकारस्य साहाय्येन 'यञ्' इति एकः प्रत्याहारः सिद्ध्यति । अस्मिन् प्रत्याहारे सर्वे वर्गपञ्चमाः, सर्वे अन्तस्थाः, तथा च झकारभकारौ समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः अतो दीर्घो यञि अस्मिन् सूत्रे कृतः अस्ति ।
॥ काशिका ॥
झ भ इत्येतौ वर्णावुपदिश्य पूर्वांश्चान्ते ञकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेन - अतो दीर्घो यञि इति यकारेण ॥
॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥
वृत्तिः – झ, भ इति द्वौ वर्णावुपदिश्य पूर्वांश्चान्ते ञकारमितं करोति प्रत्याहारसिद्ध्यर्थम् । तस्य ग्रहणं भवत्येकेन “ अतो दीर्घो यञि ” इति यकारेण ।
“ उत्सादिभ्योऽञ् ”, “ अत इञ् ”, “ गर्गादिभ्यो यञ् ” इत्येवमादौ न प्रत्याहारः, भाव्यमानत्वात्, अनभिधानाच्च । “ उञि च पदे ” इत्यत्र न प्रत्याहारः,पदेन विशेषणात् ।
ननु ‘ ञमङणनम् ’ अत्यत्र मकारमनुबन्धमकृत्वा ‘ ञमङणनझभञ् ’ इत्येकमेव सूत्रं सूत्रयितुं शक्नुयात् । मकारेण च ये प्रत्याहाराः – अम्-यम्-ङमः, ते ञकारेणैव कर्तुं शक्याः तथा च तद्घटितसूत्राण्यपि “ पुमः खय्यम्परे ”, “ हलो यमां यञि लोपः ”, “ ङञो ह्रस्वादचि ङञुण्नित्यम् ” इत्येवंरूपेणापि कर्तुं शक्नुयात् । तथापि नास्ति कश्चन दोषः, तेषु प्रत्याहारेषु झकारभकारयोरन्तर्भावेऽपि दोषाभावात् । न चैवम्, “ ङमो ह्रस्वादचिङमुण् नित्यम् ” इत्यत्र ‘ ङञ् ’ करणे झभयोरपि ह्रस्वात्परयोः पदान्तयोर्झुडभुडागमः स्यादिति वाच्यम्, पदान्तयोर्झभयोर्जश्त्वेन झुड्भुड्योः प्राप्तिः न भवति । तदुक्तं भाष्ये – ‘ एवमपि पञ्चागमास्त्रय आगमिनो वैषम्यात्संख्यातानुदेशो न प्राप्नोति । सन्तु तावद्येषामागमानामागमिनः सन्ति । झकारभकारौ पदान्तौ न स्त इति कृत्वा आगमावपि न भविष्यतः ’ इति ।[१]
महाभाष्यम् - झभञ्सूत्रे[१]
९
घढधष्
सूत्राणि:
॥ व्याख्या: ॥
'घढधष्' इति नवमं माहेश्वरसूत्रम् । अनेन सूत्रेण 'घ्' 'ढ्' तथा 'ध्' एतेषाम् उपदेशः क्रियते । अन्ते विद्यमानः षकारः इत्संज्ञकः अस्ति । अस्य षकारस्य साहाय्येन 'झष्' तथा 'भष्' इति द्वौ प्रत्याहारौ सिद्ध्यतः । झष्-प्रत्याहारेण सर्वे वर्गचतुर्थाः गृह्यन्ते; तथा च भष्-प्रत्याहारेण झकारं विहाय अन्ये सर्वे वर्गचतुर्थाः गृह्यन्ते । द्वावपि एतौ प्रत्याहारौ एकाचो बशो भष् झषन्तस्य स्ध्वोः अस्मिन् सूत्रे प्रयुक्तौ स्तः । 'झष्' इति प्रत्याहारः झषस्तथोर्धोऽधः इत्यस्मिन् सूत्रे अपि प्रयुक्तः अस्ति ।
॥ काशिका ॥
घ ढ ध इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते षकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति द्वाभ्याम् - एकाचो बशो भष् झषन्तस्य स्ध्वोः इति झकारभकाराभ्याम् ।
॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥
घ, ढ, ध इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते षकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति द्वाभ्यां झ-भ इत्येताभ्याम् । भष्, झष् – एकाचो बशो भष् झषन्तस्य स्धवोः ।
१०
जबगडदश्
सूत्राणि:
॥ व्याख्या: ॥
'जबगडदश्' इति दशमं माहेश्वरसूत्रम् । अनेन सूत्रेण 'ज्' 'ब्', 'ग्', 'ड्' 'ष्' एतेषाम् उपदेशः क्रियते । अन्ते विद्यमानः शकारः इत्संज्ञकः अस्ति । अस्य शकारस्य साहाय्येन आहत्य षट् प्रत्याहाराः सिद्ध्यन्ति -
अश्- अस्मिन् प्रत्याहारे सर्वे स्वराः तथा सर्वाणि मृदुव्यञ्जनानि समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः भोभगोअघोअपूर्वस्य योऽशि अस्मिन् सूत्रे कृतः अस्ति ।
हश्- अस्मिन् प्रत्याहारे सर्वाणि मृदुव्यञ्जनानि समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः हशि च अस्मिन् सूत्रे कृतः अस्ति ।
वश्- अस्मिन् प्रत्याहारे हकारयकारौ विहाय सर्वाणि मृदुव्यञ्जनानि समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः नेड्वशि कृति अस्मिन् सूत्रे कृतः अस्ति ।
जश्- अस्मिन् प्रत्याहारे सर्वे वर्गतृतीयाः समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः झलां जश् झशि तथा झलां जशोऽन्ते एतयोः सूत्रयोः कृतः अस्ति ।
झश्- अस्मिन् प्रत्याहारे सर्वे वर्गतृतीयाः वर्गचतुर्थाः च समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः झलां जश् झशि अस्मिन् सूत्रे कृतः अस्ति ।
बश्- अस्मिन् प्रत्याहारे जकारं विहाय अन्ये वर्गतृतीयाः समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः एकाचो बशो भष् झषन्तस्य स्ध्वोः अस्मिन् सूत्रे प्रयुक्तः अस्ति ।
॥ काशिका ॥
ज ब ग ड द इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते शकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति षड्भिः - भोभगोअघोअपूर्वस्य योऽशि इत्यकारेण, हशि च इति हकारेण, नेड्वशि कृति इति वकारेण, झलां जश् झशि इति जकारझकाराभ्याम्, एकाचो बशो भष् झषन्तस्य स्ध्वोः इति बकारेण ॥
॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥
ज, ब, ग, ड, द इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते शकारमितं करोति प्रत्याहारसिद्ध्यर्थम् । तस्य ग्रहणं भवति षड्भिः अ-ह-व-झ-ज-ब इत्येतैः । अश् – भोभगोअघोअपूर्वस्य योऽशि । हश् – हशि च । वश् – नेड् वशि कृति । झश्, जश् – झलां जश् झशि। बश् - एकाचो बशो भष् झषन्तस्य स्धवोः।
११
खफछठथचटतव्
सूत्राणि:
॥ व्याख्या: ॥
'खफछठथचटतव्' इति एकादशं, दीर्घतमं च माहेश्वरसूत्रम् । अनेन सूत्रेण 'ख्' 'फ्', 'छ्', 'ठ्', 'थ्', 'च्', 'ट्', 'त्' एतेषाम् उपदेशः क्रियते । अन्ते विद्यमानः वकारः इत्संज्ञकः अस्ति । अस्य वकारस्य साहाय्येन 'छव्' इति प्रत्याहारः सिद्ध्यति । 'छव्'-प्रत्याहारे 'च्', 'छ्', 'ट्', 'ठ्', 'त्', 'थ्' एते वर्णाः समाविश्यन्ते । 'छव्'-प्रत्याहारस्य प्रयोगः नश्छव्यप्रशान् अस्मिन् सूत्रे कृतः अस्ति ।
विशेषः - यद्यपि खकारफकारयोः 'छव्' प्रत्याहारे ग्रहणं नैव आवश्यकम्, तथापि अग्रे विद्यमानयोः चय्/चर्-प्रत्याहारयोः खकार-फकारयोः ग्रहणं मा भूत् इति हेतुना एतयोः वर्णयोः अस्मिन् शिवसूत्रे एव स्थापनं कृतम् अस्ति । अतएव अत्र काशिकाकारः 'खफग्रहणम् उत्तरार्थम्' इति स्पष्टी करोति ।
॥ काशिका ॥
ख फ छ ठ थ च ट त इत्येतान् वर्णानुपदिश्यान्ते वकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेन - नश्छव्यप्रशान् इति छकारेण ॥ खफग्रहणमुत्तरार्थम् ॥
॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥
ख, फ, छ, ठ, थ, च, ट, त इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते वकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेन “ नश्छव्यप्रशान् ” इति छकारेण ।
१२
कपय्
सूत्राणि:
॥ व्याख्या: ॥
'कपय्' इति द्वादशं माहेश्वरसूत्रम् । अनेन सूत्रेण 'क्' तथा 'प्' एतयोः उपदेशः क्रियते । अन्ते विद्यमानः यकारः इत्संज्ञकः अस्ति । अस्य यकारस्य साहाय्येन आहत्य पञ्च प्रत्याहाराः सिद्ध्यन्ति -
यय् - अस्मिन् प्रत्याहारे सर्वे अन्तस्थवर्णाः सर्वाणि वर्गीयव्यञ्जनानि च समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः अनुस्वारस्य ययि परसवर्णः अस्मिन् सूत्रे कृतः अस्ति
मय् - अस्मिन् प्रत्याहारे ञकारं विहाय सर्वाणि वर्गीयव्यञ्जनानि समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः मय उञो वो वा अस्मिन् सूत्रे कृतः अस्ति ।
झय् - अस्मिन् प्रत्याहारे वर्गपञ्चमान् विहाय अन्यानि वर्गीयव्यञ्जनानि समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः झयो होऽन्यतरस्याम् , झयः , तथा च झयः एतेषु सूत्रेषु कृतः अस्ति ।
खय् - अस्मिन् प्रत्याहारे वर्गप्रथमाः वर्गद्वितीयाः च समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः शर्पूर्वा खयः तथा च पुमः खय्यम्परे एतयोः सूत्रयोः कृतः अस्ति ।
चय् - अस्मिन् प्रत्याहारे वर्गप्रथमाः समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः पाणिनिना सूत्रपाठे न कुत्रचित् कृतः दृश्यते । परन्तु वार्त्तिककारेण चयोः द्वितीयाः शरि पौष्करसादेः इति वाच्यम् अस्मिन् वार्त्तिके अस्य प्रत्याहारस्य प्रयोगः कृतः अस्ति ।
॥ काशिका ॥
क प इत्येतौ वर्णावुपदिश्य पूर्वांश्चान्ते यकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति चतुर्भिः - अनुस्वारस्य ययि परसवर्णः इति यकारेण, मय उञो वो वा इति मकारेण, झयो होऽन्यतरस्याम् इति झकारेण, पुमः खय्यम्परे इति खकारेण ॥
॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥
क, प इत्येतौवर्णानुपदिश्य पूर्वांश्चान्ते यकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति पञ्चभिः य, म, झ, ख, च इत्येतैः । यय् – अनुस्वारस्य ययि परसवर्णः ( ८-४-५७ ) । मय् – मय उञो वो वा । झय् – झयो होऽन्यतरस्याम् । खय् – पुमः खय्यम्परे। चय् – चयो द्वितीयाः शरि पौष्करसादेः ( वार्त्तिकम् ) ।
१३
शषसर्
सूत्राणि:
॥ व्याख्या: ॥
'शषसर्' इति त्रयोदशं माहेश्वरसूत्रम् । अनेन सूत्रेण 'श्' 'ष्', 'स्' एतेषाम् उपदेशः क्रियते । अन्ते विद्यमानः सकारः इत्संज्ञकः अस्ति । अस्य सकारस्य साहाय्येन पञ्च प्रत्याहाराः सिद्ध्यन्ति -
यर् - अस्मिन् प्रत्याहारे हकारं विहाय सर्वाणि व्यञ्जनानि समाविश्यन्ते । अस्य प्रयोगः यरोऽनुनासिकेऽनुनासिको वा इत्यस्मिन् सूत्रे कृतः अस्ति ।
झर् - अस्मिन् प्रत्याहारे वर्गप्रथमाः, वर्गद्वितीयाः, वर्गतृतीयाः, वर्गचतुर्थाः, तथा च हकारं विहाय अन्ये त्रयः ऊष्माणः समाविश्यन्ते । अस्य प्रयोगः झरो झरि सवर्णे इत्यस्मिन् सूत्रे (द्विवारं) कृतः अस्ति ।
खर् - अस्मिन् प्रत्याहारे सर्वाणि कर्कशव्यञ्जनानि (वर्गप्रथमाः, वर्गद्वितीयाः तथा च शकारषकारसकाराः) समाविश्यन्ते । अस्य प्रयोगः खरि च इत्यस्मिन् सूत्रे कृतः अस्ति ।
चर् - अस्मिन् प्रत्याहारे सर्वे वर्गप्रथमाः तथा च शकारषकारसकाराः समाविश्यन्ते । अस्य प्रयोगः न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु तथा च अभ्यासे चर्च एतयोः सूत्रयोः कृतः अस्ति ।
शर् - अस्मिन् प्रत्याहारे शकारषकारसकाराः समाविश्यन्ते । अस्य प्रयोगः शर्पूर्वा खयः , ङ्णोः कुक्टुक् शरि , वा शरि , नुम्विसर्जनीयशर्व्यवायेऽपि तथा च शरोऽचि एतेषु सूत्रेषु कृतः अस्ति ।
॥ काशिका ॥
श ष स इत्येनान् वर्णानुपदिश्य पूर्वांश्चान्ते रेफमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति पञ्चभिः - यरोऽनुनासिकेऽनुनासिको वा इति यकारेण, झरो झरि सवर्णे इति झकारेण, खरि च इति खकारेण, अभ्यासे चर्च इति चकारेण, शर्पूर्वाः खयः इति शकारेण ॥
॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥
श, ष, स इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते रेफमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति पञ्चभिः य-झ-ख-च-श इत्येतैः । यर् – यरोऽनुनासिकेऽनुनासिको वा । झर् – झरो झरि सवर्णे । खर् – खरि च । चर् – अभ्यासे चर्च, शर् – वा शरि ।
१४
हल्
सूत्राणि:
॥ व्याख्या: ॥
'हल्' इति चतुर्दशम् अन्तिमं च माहेश्वरसूत्रम् । अनेन सूत्रेण 'ह्' वर्णस्य पुनरेकवारम् उपदेशः क्रियते । अन्ते विद्यमानः लकारः इत्संज्ञकः अस्ति । अस्य लकारस्य साहाय्येन षट् प्रत्याहाराः सिद्ध्यन्ति -
अल् - अनेन प्रत्याहारेण सर्वे वर्णाः गृह्यन्ते । अलोऽन्त्यस्य , अनेकाल्शित्सर्वस्य , अलोऽन्त्यात् पूर्व उपधा तथा च अपृक्तः एकाल् प्रत्ययः एतेषु सूत्रेषु अस्य प्रत्याहारस्य प्रयोगः कृतः दृश्यते ।
हल् - अस्मिन् प्रत्याहारे सर्वाणि व्यञ्जनानि समाविश्यते । अस्य प्रयोगस्य कानिचन उदाहरणानि एतानि - हलन्त्यम् , हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् , हलि च ।
वल् - अस्मिन् प्रत्याहारे यकारं विहाय अन्यानि सर्वाणि व्यञ्जनानि समाविश्यन्ते । अस्य प्रयोगः लोपो व्योर्वलि अस्मिन् सूत्रे कृतः अस्ति ।
रल् - अस्मिन् प्रत्याहारे यकारवकारौ विहाय अन्यानि सर्वाणि व्यञ्जनानि समाविश्यन्ते । अस्य प्रयोगः रलो व्युपधाद्धलादेः संश्च इत्यस्मिन् सूत्रे कृतः अस्ति ।
झल् - अस्मिन् प्रत्याहारे वर्गपञ्चमान् अन्तःस्थान् च विहाय अन्यानि व्यञ्जनानि समाविश्यन्ते । अस्य प्रयोगस्य कानिचन उदाहरणानि एतानि - इको झल् , झलां जशोऽन्ते , नश्चापदान्तस्य झलि ।
शल् - अनेन प्रत्याहारेण सर्वे ऊष्माणः निर्दिश्यन्ते । अस्य प्रयोगः शल इगुपधादनिटक्सः इत्यस्मिन् सूत्रे कृतः अस्ति ।
अत्र अवश्यं कश्चन प्रश्नः स्यात् । 'हयवरट्' तथा 'हल्' द्वयोः अपि माहेश्वरसूत्रयोः हकारस्य ग्रहणम् किमर्थम् ? अस्य उत्तरम् काशिकायाम् एतादृशम् दत्तम् अस्ति - 'रल्','शल्','वल्','झल्' एतेषु प्रत्याहारेषु हकारः आवश्यकः, अतः 'हल्' इति चतुर्दशसूत्रे हकारग्रहणम् चरितार्थम् अस्ति । एवमेव 'अट्', 'अश्', 'हश्' एतेषु प्रत्याहारेषु हकारः आवश्यकः, अतः 'हयवरट्' इति पञ्चमसूत्रे अपि हकारस्य ग्रहणम् चरितार्थत्वं प्राप्नोति ।
अत्र कश्चन अन्यः अपि प्रश्नः उदेति । यद्यपि एतादृशेषु बहुषु प्रत्याहारेषु हकारस्य ग्रहणम् आवश्यकम्, तथापि वर्णमालायाः काचित् अन्या रचना भवितुम् अर्हति वा, यत्र हकारस्य एकवारम् एव ग्रहणं कृत्वा अपि सर्वे प्रत्याहाराः सम्यक् रूपेण सिद्ध्येयुः ? अस्य उत्तरम् अस्ति - न । वर्णमालायाः एतादृशी भिन्ना रचना नैव सम्भवति । अस्य स्पष्टीकरणम् इत्थम् - वर्णमालायाः काचित् एतादृशी रचना प्रायः स्यात् इति आदौ चिन्तयामः । इदानीम् 'अच्' तथा 'यर्' एतौ प्रत्याहारौ स्वीकुर्मः । एतयोः द्वयोः मध्ये न कोऽपि वर्णः समानः, अतः वर्णमालायाः अस्याम् नूतनरचनायाम् अच्-प्रत्याहारस्थाः सर्वे वर्णाः एकस्मिन् स्थले, तथा च यर्-प्रत्याहारस्थाः सर्वे वर्णाः अन्यस्मिन् स्थले भवेयुः, तयोर्मध्ये कश्चन समभागः न भवेत् इति आवश्यकम् । एवं क्रियते चेत् अस्यां वर्णमालायां हकारस्य स्थलनिर्धारणार्थम् त्रयः विकल्पाः जायन्ते - (अ) 'अच्' तथा 'यर्' एताभ्यां यः गणः परः स्थापितः, तस्मात् अनन्तरम् हकारः स्यात् । उत, (आ) 'अच्' तथा 'यर्' एतयोः यः गणः पूर्वः स्थापितः, तस्मादपि प्राक् हकारः स्यात् । उत, (इ) 'अच्' तथा 'यर्' द्वयोः अपि गणयोः मध्ये हकारः स्यात् । एतेषु प्रथमः उत द्वितीयः विकल्पः स्वीक्रियते चेत् 'इण्' प्रत्याहारः नैव सिद्ध्यति, यतः अस्मिन् प्रत्याहारे केचन एव अच्-वर्णाः तथा च केचन एव यर्-वर्णाः सन्ति, न हि सर्वे । अपि च, तृतीयमेव विकल्पं स्वीकृत्य 'अच्' तथा 'यर्' एतयोर्मध्ये हकारः स्थाप्यते चेत् 'हश्' तथा 'शल्' एतेषु कश्चन एकः एव प्रत्याहारः सिद्ध्येत्, यतः शल्-प्रत्याहारस्य सिद्ध्यर्थम् यकारस्य अपेक्षया ऊष्मणः हकारस्य समीपे भवेयुः, परन्तु हश्-प्रत्याहारस्य सिद्ध्यर्थम् ऊष्मणां अपेक्षया यकारः एव हकारस्य समीपे स्यात् । इत्युक्ते, त्रिभ्यः विकल्पेभ्यः एकम् एव विकल्पम् स्वीकृत्य सर्वे प्रत्याहाराः नैव सिद्ध्यन्ति । अतः एतादृशी वर्णरचना नैव सम्भवति । अतएव माहेश्वरसूत्रेषु हकारस्य द्विवारं ग्रहणम् कृतम् दृश्यते - प्रारम्भे तृतीयं विकल्पं स्वीकृत्य, ततश्च 'शल्' तथा च तत्सदृशानां प्रत्याहाराणां सिद्ध्यर्थं प्रथमं विकल्पं स्वीकृत्य । अनेन प्रकारेण हकारस्य द्विवारं ग्रहणं माहेश्वरसूत्रेषु चरितार्थत्वं प्राप्नोति ।
॥ काशिका ॥
ह इत्येकं वर्णमुपदिश्य पूर्वांश्चान्ते लकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति षड्भिः - अलोऽन्त्यात्पूर्व उपधा इत्यकारेण, हलोऽनन्तराः संयोगः इति हकारेण, लोपो व्योर्वलि इति वकारेण, रलो व्युपधाद्धलादेः संश्च इति रेफेण, झलो झलि इति झकारेण, शल इगुपधादनिटक्सः इति शकारेण ॥ अथ किमर्थमुपदिष्टोऽपि हकारः पुनरुपदिश्यते ? कित्त्व-विकल्प-क्स-इड्विधयो यथा स्युः इति । 'स्निहित्वा', 'स्नेहित्वा' इत्यत्र रलो व्युपधाद्धलादेः संश्च इति कित्त्वं वा यथा स्यात् । लिहेः 'अलिक्षत्' इति शल इगुपधादनिटः क्सः इति क्सः यथा स्यात् । 'रुदिहि', 'स्वपिहि' इति वलादिलक्षणः इट् यथा स्यात् । 'अदाग्धाम्' इति झल्ग्रहणेषु च हकारस्य ग्रहणं यथा स्यात् । यद्येवम्, 'हयवरट्' इत्यत्र तर्हि किमर्थमुपदिश्यते ? 'महाँ हि सः', 'देवा हसन्ति' इत्यत्र अट्-्ग्रहणेषु च अश्-ग्रहणेषु च हकारस्य ग्रहणं यथा स्यात् । हशि च इति हकारस्य ग्रहणं यथा स्यात् - 'ब्राह्मणो हसति' इति हशि च इत्युत्वं यथा स्यात् ।
एकस्मान् ङञणवटाः; द्वाभ्यां षः; त्रिभ्यः एव कणमाः स्युः । ज्ञेयौ चयौ चतुर्भ्यो, रः पञ्चभ्यः, शलौ षड्भ्यः ॥ इति प्रत्याहाप्रकरणम्
॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥
ह इत्येकं वर्णानुपदिश्य पूर्वांश्चान्ते लकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति षड्भिः अ-ह-व-र-झ-श इत्येतैः । अल् – अलोऽन्त्यात् पूर्व उपधा । हल् – हलोऽनन्तराः संयागः । वल् – लोपो व्योर्वलि। रल् – रलो व्युपधाद्धलादेः संश्च। झल् – झलो झलि। शल् – शल इगुपधादनिटः क्सः ।
अत्र हकारः पुनरुपदिश्यते तस्य प्रयोजनन्तु हयवरट् इति सूत्रव्याख्यावसरे एव विस्तृतत्वेन विचारितम् ।
ननु ‘ शषसहर् ’ इत्येव सूत्रं सूत्रयितुं शक्यम् ‘ अल्, हल् ’ इत्यादि प्रत्याहाराश्च रेफेणैव ‘ अर्, हर् ’ इत्यादिरूपा भवेयुः । ‘ खर् ’ इति प्रत्याहारेहकारग्रहणात् ‘ हरिर्हरति ’ इत्यत्र “ खरवसानयोर्विसर्जनीयः ” इति सूत्रेण विसर्गापत्तिस्तु न, ‘ प्रेष्यब्रुवोर्हविषोः ’ इतिसूत्रनिर्देशेन ‘ खर् ’ ग्रहणेन हकाराग्रहणज्ञापनात् । न च ‘ सुगण् हसति, प्राङ् हसति ’ इत्यादौ “ ङ्णो कुक्टुक् शरि ” इति सूत्रेण कुगाद्यापत्तिः, एङ्ह्रस्वात्सम्बुद्धेः इति सूत्रनिर्देशेन शरग्रहणेनाग्रहणज्ञापनादिति चेन्न, ज्ञापकादिनाऽनेकवचनकल्पनापेक्षया ‘ हल् ’ इति पृथक्सूत्रकरणे एव लाघवात्, उक्तनिर्देशानां सौत्रत्वेनोपपत्तेश्च ।
चतुर्दशसु सूत्रेषु वर्णसमाम्नाये स्वरूपतो निर्दिष्टैर्वर्णैर्येऽपरे प्रत्याय्यन्ते, ते द्वाविशंतिः स्वाराः । यथा – ‘ अ इ उ ऋ ’ इमे चत्वारो ह्रस्वदीर्घप्लुतभेदेन द्वादश । लृकारो ह्रस्वप्लुतभेदेन द्विविधः । दीर्घप्लुतभेदेन एचोऽष्टौ एवं सङ्कलनया द्वाविंशतिः स्वराः । स्पर्शाः पञ्चविंशतिः । यादयोऽष्टौ । २२ + २५ + ४ + ४ = ५५ पञ्चपञ्चाशदेव बुध्यन्ते । ‘ अयोगवाहानामट्सु णत्वम् ’ इति वार्त्तिकेन ‘ के पुनरयोगवाहाः विसर्जनीयजिह्वामूलीयोपध्मानीयानुस्वारनासिक्ययमा ’ इत्यनेन भाष्येण च इमे नव तत्र सङ्कल्यन्ते, तर्हि चतुःषष्टिर्वर्णाः । चतुर्मात्रौ ऐचौ । दीर्घप्लुतभेदेन, ईषत्स्पृष्टयोरृकारलृकारयोश्च सत्त्वाच्चत्वारोऽधिकाः । [१]
“ व्योर्लघुप्रयत्नतरः शाकटायनस्य ” इत्यनेन पादमात्रिकयोर्यकारवकारयोः सत्त्वात् पुनरपरौ द्वौ वर्णौ । एवं सङ्कलनया द्वासप्ततिः । उरस्यस्य हकारस्यापि स्वीकारात् त्रिसप्ततिर्वर्णाः पाणिनीये मते सिद्ध्यन्ति । यद्यपि उरस्यो हकारः पाणिनीये मते नायाति, तथापि पाणिनेरपि पूर्वं हयवरट्, हल् इत्यनयोः सूत्रयोर्द्विविधस्य हकारस्य सत्तानुमीयते ।
यद्यपि महाभाष्यकारेण द्वयोर्हकारयो रूपमेकमेव मत्वा फलं प्रदत्तम्, तथापि स्थानभेदेन वर्णभेदाङ्गीकारे बाधाभावात् किमुत वर्णैक्ये विरोधादेव द्विविधो हकारो गवेषकैरभ्युपगन्तव्य एव । यद्यप्यनुस्वारद्वैविध्यं सूत्रवार्त्तिकभाष्येषु नोपलभ्यते, तथापि शिक्षासु तैतिरीयप्रातिशाख्ये ऋक्तन्त्रे व्याकरणे तृतीयदशके अनुस्वारौ च इति सूत्रे ह्रस्वाद् दीर्घो दीर्घाद्ध्रस्व इति भाष्ये चानुस्वारद्वैविध्यं शिक्षाभाष्ये पञ्चिकायां चोपलभ्यते । तदुपलम्भाद् अन्योऽप्येको वर्णोऽधिकः सङ्ग्रहीतव्यः, स च द्विमात्र इति कथयितुं शक्यते इति चेत् न, परिमाणकृतो वर्णभेदः स्वरविषय एवेति तैतिरीयप्रातिशाख्यभाष्योक्त्या तत्प्रयुक्तसङ्ख्याधिकस्याप्रामाणिकत्वात् ।[२]
वर्णोत्पत्तिविमर्शः –
संस्कृतभाषायां वर्णाः कति वा सन्ति ? इति प्रश्नस्य समाधानं प्रोक्तं पाणिनीयशिक्षायां यत्
त्रिषष्टिश्चतुष्षष्टिर्वावर्णाःशम्भुमतेमताः ।
प्राकृते संस्कृते चापि स्वयं प्रोक्ता स्वयंभुवा ।। इति ।
भावार्थः – शिवस्य मते वर्णानां संख्या त्रिषष्टिः चतुःषष्टिः वा स्वीकृता वर्तते । लोकप्रसिद्धमातृपाठे संस्कृतभाषायामपि वर्णाः त्रिषष्टिः चतुःषष्टिर्वा सन्ति इति ब्रह्मा स्वयमेव अवोचत् । अनेन त्वनिश्चियात्मिका बुद्धिर्भवति । संस्कृतभाषा वैज्ञानिकी भाषा, अतः वर्णानामेतादृक् सन्देहो नोचितः । वस्तुतः महर्षिपाणिना यदुक्तं तत्तूचितमेव, कारणमिदं देशकालक्रमानुसारेण ध्वनिपरिवर्तनं भवति । तेन कारणेन वर्णमालायाः स्वरूपमपि परिवर्तनशीलं भवति । यथा वर्तमानकाले ‘ लृ ’ वर्णस्य प्रयोगो व्यवहारे कुत्रापि न दृश्यते । हिन्द्यां तु ‘ ऋ ’ वर्णस्य प्रयोगोऽवरुद्ध इदानीम् । पुनश्च भवति चेत् क्षेत्रविशेषकारणात् तस्योच्चारणं भिन्नं भवति । उत्तरभारते ‘ रि ’ वद् । यथा – ‘ ऋषिः ’ इत्यस्य ‘ रिषिः ’, ‘ ऋद्धिः ’ इत्यस्य ‘ रिद्धिः ’ इत्युच्चारणं भवति । एवमेव दक्षिणभारते एतस्योच्चारणम् ‘ रु ’ वद् भवति । यथा – ‘ ऋषिः ’ इत्यस्य ‘ रुषिः ’, ‘ ऋद्धिः ’ इत्यस्य ‘ रुद्धिः ’ । तथापि मूलवर्णास्त्वविकृताः भवन्ति ।
संस्कृते अष्टादशमूलवर्णाः भवन्ति । यथा जगत्यां सर्वप्रथममेककोशिकीयजीवाः ततश्च मत्स्यादिसरलसंरचनायुक्तदेहा अजायन्त । अन्ते च मानवादीनां जटिलप्राणिनामुत्पत्तिरभवत् तथैव प्रथमं ह्रस्वसञ्ज्ञकाः पञ्च स्वराः, अनन्तरमल्पप्राणादयः त्रयोदश व्यञ्जनाश्च । एतेषामष्टादशमूलवार्णानां विस्तारेणैव वर्तमानवर्णप्रपञ्चोत्पद्यते । तेषु ‘ अ-इ-उ-ऋ-लृ ’ एते पञ्च मूलस्वराः ।
एभिः मूलस्वरैरेवान्ये स्वरा उत्पद्यन्ते । यथा – “ अकः सवर्णे दीर्घः ” इत्येतत् सूत्रं विज्ञापयति यद् ह्रस्ववर्णानां योगेन विकारस्वरूपेण दीर्घवर्णोत्पत्तिर्भवति । यथा –
अ+अ=आ
इ+इ=ई
उ+उ=ऊ
ऋ+ऋ=ॠ
इत्थं अ-आ-इ-ई-उ-ऊ-ऋ-ॠ एतानि अष्टौ अक्षराणि समानाक्षरसञ्ज्ञकानि भवन्तीति ऋक्प्रातिशाख्ये । लृ इत्यस्य अत्रापि समानाक्षरेषु स्थानं नास्ति, अतो मन्ये ऋक्प्रातिशाख्यस्य कालेऽपि समाजे स्वररूपेण अस्य अस्तित्वमासीदिति विसन्देहः ।
अथ गुणवर्णोत्पत्तिः । “ आद्गुणः ” इति सूत्रेण अकारस्य इकारोकाराभ्यां सह संसर्गेण विकारोत्पत्तिरिति प्रसिद्धम् । तेन गुणवर्णोत्पत्तिः भवति । यथा –
अ +इ= ए
अ +उ = ओ
ततश्च वृद्धिवर्णोत्पत्तिः । “ वृद्धिरेचि ” इति सूत्रेण अकारगुणाभ्यां योगेन वृद्धिवर्णोत्पत्तिः । यथा –
अ +ए= ऐ
अ + ओ = औ
‘ ए-ओ-ऐ-औ ’ एतानि चत्वारि अक्षराणिसंध्यक्षरसञ्ज्ञकानीति ऋक्-प्रातिशाख्ये । एते ‘ अ-आ-इ-ई-उ-ऊ-ऋ-ॠ-लृ-ए-ऐ-ओ-औ ’ त्रयोदश स्वरवर्णाः । इत्थं स्वरोत्पत्तिः स्यात् ।
अथ व्यञ्जनोत्पत्तिः । मूलव्यञ्जनध्वनयस्तु त्रयोदश एव । तत्र वर्गाणां प्रथमतृतीयावल्पप्राणवर्णौ सकारानुस्वारविसर्गाश्च । यथा – क्-ग्-च्-ज्-ट्-ड्-त्-द्-प्-ब्-स्-अनुस्वारः-विसर्गश्च । अल्पप्राणस्य विसर्गस्य च मेलनेन महाप्राणवर्णोत्पत्तिः भवति । पुनश्च वर्गस्य तृतीयवर्णेन सह अनुस्वारस्य योगेन ‘ ञम् ’ इति अनुनासिकवर्णानामुत्पत्तिः भवति । क्रमशः सकारेण विसर्गस्यान्वयेन शकारोत्पत्तिः, ततश्च शकारेण विसर्गस्यान्वयेन षकारोत्पत्तिश्च भवति । विसर्गेणैव हकारोत्पत्तिः । “ इको यणचि” इति सूत्रेण अचि परे इकः स्थाने यणादेशो भवति । इत्थमन्तःस्थानामुत्पत्तिः । यथा –
इ+अ=य
उ+अ=व
ऋ +अ= र
लृ +अ =ल
संस्कृतवर्णास्तु साक्षात् प्रजापत्तेः मुखारविन्दान्निर्गताः । तस्मादतुलनीयाः किन्तु ‘ सन्तः परीक्ष्यान्यतरद् भजन्ते मूढः परप्रत्ययनेयबुद्धिः ’ इति सूक्त्याधारेण वयमाङ्गलभाषानिकषोपरि सम्परीक्ष्य पश्यामः । यथा –
वर्गः
अल्पप्राणः
महाप्राणः
अल्पप्राणः
महाप्राणः
अनुनासिकः
कवर्गः
क्
क् + : = ख्
ग्
ग् + : = घ्
ग् + अनुस्वारः = ङ्
K
K + H = KH
G
G + H = GH
N
चवर्गः
च्
च् + : = छ्
ज्
ज् + : = झ्
ज् + अनुस्वारः = ञ्
CH
CH + H = CHH
J
J + H = JH
N
टवर्गः
ट्
ट् + : = ठ्
ड्
ड् + : = ढ्
ड् + अनुस्वारः = ण्
T
T + H = TH
D
D + H = DH
N
तवर्गः
त्
त् + : = थ्
द्
द् + : = ध्
द् + अनुस्वारः = न्
T
T + H = TH
D
D + H = DH
N
पवर्गः
प्
प् + : = फ्
ब्
ब् + : = भ्
ब् + अनुस्वारः = म्
P
P + H = PH
B
B + H = BH
N
ऊष्मवर्णाः
स्
स् + : = श्
श् + : = ष्
: + अ = ह
S
S + H = SH
SH + H = SHH
H+A=HA
देशकालानुसारेण केचन भिन्नध्वनयः उद्भवन्ति । यथा वेदेषु – शल्प्रत्याहारवर्णपरे अनुस्वारस्योच्चारणम् गुम् इति ध्वनिरूपेण क्रियते । यथा –‘ ॐ द्यौः शान्तिरन्तरिक्षं शान्तिः ’ इत्यत्र ‘ अन्तरिक्षं शान्तिः ’ इति स्थाने ‘ अन्तरिक्ष गुम् शान्तिः ’ इति वदन्ति । एवमेव कुत्रचिद् डकारस्य उच्चारणं लकारवद् भवति । यथा – ‘ मीडे ’ इत्यस्य ‘ मीले ’ इत्युच्चारणम् । यजुर्वेदे यकारस्य उच्चारणं कुत्रचिद् जकारवद् भवति । एवमेव षकारस्योच्चारणं कुत्रचिद् खकारवद् भवति । यथा – ‘ यत्पुरुषेण हविषा देवा यज्ञमतन्वत ’ इत्यत्र ‘ यत्पुरुषेणहविषा ’ इति स्थाने ‘ जत्पुरुखेणहविखा ’ इति ब्रुवन्ति ।
ननु इदं न्यूनम्, ईषत्स्पृष्टयोर्ऋकारलृकारयोराधिक्यात् । एओङ्सूत्रस्थभाष्येण त्रिमात्रचतुर्मात्रा वा आदेशा मा भूवन्नित्यनेन सूचितयोः त्रिमात्रचतुर्मात्रयोरेकारौकारयोराधिक्याच्चेति चेदत्र केचित्, भाष्यप्रामाण्यात्तेषामपि तत्र पूरणात् । अत एवाक्षरसमाम्नाये अनिद्यामाना अपि यमाः भाष्यप्रामाण्यात् शिक्षाप्रामाण्याच्च यर्णराशिषु पूर्यन्ते इत्याहुः । परे तु त्रिषष्टिरित्यादिसंख्या न व्यक्तिकृता, वर्णानां प्रत्युच्चारणं भदपक्षेऽसम्भावात् । किन्तु धर्मकृता । यथा चाऽभितोऽज्भिक्तिसहितरेफघटितत्वतादृशलकारघटितत्वरूपधर्माभ्यां विवृतयोरीषत्स्पृष्टयो-र्ऋलृवर्णयोर्द्वित्वमेव । एवं द्विमात्राधिकत्वेनानुगमेन त्रिमात्रचतुर्मात्रयोरपि प्लुतमध्येऽन्तर्भावान्नाधिक्यमित्याहुः, युक्तञ्चैतत्, अत एव उदात्तत्वादिधर्मभेदादधिका संख्या इत्यपि निरस्तम् । अत्र एकविंशतित्वविभाजको धर्मः ह्रस्वतासमानाधिकरणत्वादिरूपः, दीर्घत्वसमानाधिकरणत्वादिरूपः, प्लुतत्वसमानाधिकरणत्वादिरूपः । दीर्घत्वसमानाधिकरणैत्वादिरूपः प्लुतत्वसमानाधिकरणैत्वादिरूपो बोध्यः तेन न न्यूनत्वप्रसङ्गोऽपि इति ।
अस्तु ! उक्तवर्णानामेव ह्रस्वदीर्घप्लुतोदात्तानुदात्तस्वरितानुनासिकाननुनासिकरूपेण बहुविस्तारः, किन्तु मूलवर्णास्तु अष्टादश एव भवन्तीति सिद्धम् । [३]
महाभाष्यम् – हयवरट् सूत्रे – पृ. ३२[१]
व्याकरणदर्शनभूमिका – पृ. ४४[२]
भारती संस्कृत-मासपत्रिका – पृ. १४[३]
१५
उपसंहारः
सूत्राणि:
॥ व्याख्या: ॥
॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥
प्रत्याहारशब्दः प्रति उपसर्गपूर्वकात् ‘ हृञ् हरणे ’ इति धातोः घञि प्रत्यये कृते सिद्ध्यति । पाणिनिव्याकरणे सूत्रसङ्क्षेपणाय प्रत्याहाराः समाश्रिताः । प्रत्याह्रियन्ते सङ्क्षिप्यन्ते वर्णा यत्रासौ प्रत्याहारः । अष्टाध्याय्या विशालभवनं प्रत्याहाराधाराश्रितमेव ।
अक्षरसमाम्नायात्मकेषु चतुर्दशसु सूत्रेषु स्थितैरित्सञ्ज्ञकैश्चतुर्दशभिः हल्भिस्तादृशा एकचत्वारिंशत् प्रत्याहाराः विद्यन्ते, ये सूत्रकृता पाणिनिना स्वकृतौ प्रयुक्ताः । “ उरण् रपरः ” इति सूत्रे सूत्रकृता प्रयुक्तोऽपि रप्रत्याहार इता अकारेण सम्पन्न इति स एतत्संख्याबहिर्भूतः । एवं अन्यैरित्सञ्ज्ञकैः हल्भिरिद्भिर्जाता अपि वार्त्तिककृदादिभिः ‘ चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम् ’ – ( वार्त्तिकम् – ८-४-४८ ) ञमन्ताड्डः ( उणा. – १-१११ ) इत्यादिस्थलेषु प्रयुक्ताश्चयादिप्रत्याहारा एतत्संख्याबहिर्भूता एव । अस्मिन् विषये संग्राहकश्लोकमाह काशिकाकारः –
एकस्मान्ङञणवटा द्वाभ्यां षस्त्रिभ्य एव कणमाः स्युः ।
ज्ञेयौ चयौचतुर्भ्योरः पञ्चभ्यः शलौ षड्भ्यः ।। इति ।[१]
चतुर्दशसुत्रीस्थैर्हल्भिरिद्भिः कृतानामष्टाध्याय्यां व्यहृतानां प्रत्यहाराणामयं सङ्ग्रहः । तेन सुप्तिङादेः रप्रत्याहारस्य ञमन्ताड्डः, यमिर्ञमन्तेषु इति उणादिव्याघ्रभूतिकारिकयोर्व्यवहृतस्य ञम्प्रत्याहारस्य चयो द्वितीया इति वार्त्तिककृद्व्यवहृतस्य चय्प्रत्याहारस्य चाधिक्येऽप्यदोष इति ।[२]
पाणिनिना स्वकृतौ प्रयुक्ताः प्रत्याहाराः स्वग्राह्यैर्वर्णैः सहाधः प्रदृश्यन्ते ।
(१) एङ्, (२) यञ्, (३) अण्, (४) छव्, (५) अट्= ५
(१) झष्, (२) भष्= २
(१) अक्, (२) इक्, (३) उक्= ३
(१) अण्, (२) इण्, (३) यण्= ३
(१) अम्, (२) यम्, (३) ङम्= ३
(१) अच्, (२) इच्, (३) एच्, (४) ऐच्= ४
(१) यय्, (२) मय्, (३) झय्, (४) खय्= ४
(१) यर्, (२) झर्, (३) खर्, (४) चर्, (५) शर्= ५
(१) अश्, (२) हश्, (३) वश्, (४) झश्, (५) जश्, (६) बश्= ६
(१) अल्, (२) हल्, (३) वल्, (४) रल्, (५) झल्, (६) शल्= ६
कुलयोगः-४१
समानाक्षरसञ्ज्ञा -
अकारादयः स्वतन्त्राः वर्णाः समानाक्षरसञ्ज्ञकाः सन्ति । एतेषां वर्णानां स्थानप्रयत्नाभ्यां समानं तुल्यं मानं भवति तस्माद् एतेषां वर्णानां समानाक्षरसञ्ज्ञा क्रियते । समानाक्षरवर्णानामुच्चारणं सर्वांशतः समानरूपेण भवति । तेषामुच्चारणे एकरूपतां सम्पद्यते । समानाक्षराणामुच्चारणसमये जिह्वादीनामुच्चारणावयवानां एकैव स्थितिर्विद्यते । ‘ अ-आ-इ-ई-उ-ऊ-ऋ-ऋ-लृ ’ इत्येतेषां समानाक्षरसञ्ज्ञोच्यते ।
सन्ध्यक्षरसञ्ज्ञा –
स्वरवर्णेषु एकारादयश्चत्वारो वर्णा अकारादिवन्न स्वतन्त्राः सन्ति । वर्णद्वयोपेतास्तेन तेषां सन्ध्यक्षरसञ्ज्ञा सञ्जाता । सन्धावक्षराणीति सन्ध्यक्षराणि । ‘ ए-ऐ-ओ-औ ’ इत्येतेषां वर्णानां सन्ध्यक्षरसञ्ज्ञा क्रियते । स्वरद्वयसंयोगेन जाता वर्णाः सन्ध्यक्षराणि इत्यभिधीयन्ते । ते च ‘ ए-ऐ-ओ-औ ’ इत्येते चत्वारो वर्णाः । तत्र अकारेकारसंयोगे एकारः, पुनश्च ‘ अकार + एकारः = ऐकारः ’, एवमेव ‘ अ + उ = ओकारः ’, पुनः ‘ अ + ओ = औकारः ’ । इत्येते वर्णा वर्णद्वयसंयुक्तस्वरूपाः सन्ध्यक्षराणीति कथ्यन्ते ।
सवर्णसञ्ज्ञा –
समानस्थानकरणप्रयत्नः सवर्णः । पाणिनीयाष्टके पाणिनिना “ तुल्यास्य प्रयत्नं सवर्णम् ” इति सूत्रेण सवर्णसञ्ज्ञायाः विधानं कृतम्। तुल्यौ आस्यप्रयत्नौ यस्य वर्णस्य येन वर्णेन सह स समानजातीयं प्रति सवर्णसञ्ज्ञो भवतीति बोध्यम् । यथा अकारस्य आकारः सवर्ण आकारस्य च अकारः सवर्णः, तद्वत् वर्णेषु कु-चु-टु-तु-पु इति पञ्च उदिताः क-च-ट-त-प क्रमशः ‘ क-ख-ग-घ-ङ, च-छ-ज-झ-ञ, ट-ठ-ड-ढ-ण, त-थ-द-ध-न, प-फ-ब-भ-म ’ इत्येतेषां प्रति परञ्च वर्णानां बोधकाः कु-चु-टु-तु-पु स्थानप्रयत्नाभ्यां समानाः । अतः क-ख-ग-घ सवर्णाः । एवं खकारादीनां चकारादयोऽपि सवर्णाः । एवं चकारीनां मिथः परस्परं सावर्ण्यं बोध्यम् ।
काशिकायां प्रत्याहारप्रकरणम्[१]
व्याकरणसिद्धान्तसुधानिधिः - प्रत्याहारप्रकरणे[२]
.jpeg)
0 टिप्पणियाँ
If you have any Misunderstanding Please let me know