१.१.३ सूत्राणि:॥ इको गुणवृद्धी ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - इक: ६।१ गुण - वृद्धी १।२
समासः - गुणश्च वृद्धिश्च ते गुणवृद्धी (इतरेतरयोगद्वन्द्वः) ।
अनुवृत्तिः - 'वृद्धिरादैच्' इत्यस्माद् वृद्धि:, 'अदेङ् गुणः' इत्यस्माच्च गुणइत्यनुवर्तते ।
अन्वय - गुणवृद्धिभ्यां गुवृद्धी इकः ।
अर्थ: - गुणवृद्धिभ्यां शब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्र 'इक:' इति षष्ठ्यन्तं पदमुपस्थितं भवति ।
उदाहरणम् - गुण: - (इ) जेता । नेता ! (उ) होता । पोता । (ऋ) कर्ता हर्ता । वृद्धि: (इ) अचैषीत् । अनैषीत् । (उ) अस्तावीत् । अलावीत् । (ऋ) अकार्षीत् अहार्षीत् ।
आर्यभाषार्थ - यहां 'वृद्धिरादैच्' से वृद्धि और 'अदेङ् गुणः' से गुण पद की अनुवृत्ति आती है । (गुणवृद्धिभ्याम्) गुण और वृद्धि शब्दों के द्वारा जहां (गुणवृद्धी) गुण और वृद्धि का विधान किया जाता है, वहां (इक:) यह षष्ठ्यन्त पद उपस्थित होता है । इससे शास्त्र में इक् के स्थान में गुण और वृद्धि होती है ।
उदाहरणम् - गुण - (इ) जेता । जीतनेवाला । नेता । ले जानेवाला । (उ) होता । हवन करनेवाला । पोता । पवित्र करनेवाला । (ऋ) कर्ता । करनेवाला । हर्ता । हरनेवाला ।
वृद्धि - (इ) अचैषीत् । उसने चुना । अनैषीत् । वह ले गया । (उ) अस्तावीत् । उसने स्तुति की । अलावीत् । उसने काटा। (ऋ) अकार्षीत् । उसने किया । अहार्षीत् । उसने हरण किया ।
सिद्धिः - (१) जेता । जि + तृच् । जि + तृ । जेतृ + सु । जेता यहां जि जये (भ्वादि) धातु से पूर्ववत् तृच् प्रत्यय करने पर 'सार्वधातुकार्धधातुकयोः' (७.३.८४) से जि. धातु के इक् को गुण होता है । इसी प्रकार 'णीञ् प्रापणे' (भ्वा.उ.) धातु से 'नेता' शब्द सिद्ध होता है ।
(२) होता । हु + तृच् । हु + तृ । होतृ + सु । होता । यहां 'हु दानादनयोरादाने चेत्येके' (अदा.प.) धातु से पूर्ववत् तृच् प्रत्ययं करने पर 'सार्वधातुकार्धधातुकयोः' (७.३.८४) से 'हु' धातु के इक् को गुण होता है । इसी प्रकार पूञ पवने (क्रया.उ.) धातु से 'पोता' शब्द सिद्ध होता है ।
(३) कर्ता । कृ + तृच् । कृ + तृ । कर्तृ + सु । कर्ता । यहां 'डुकृञ् करणें (तना.उ.) धातु से पूर्ववत् तृच् प्रत्यय करने पर 'सार्वधातुकार्धधातुकयोः' (७।३१८४) से कृ धातु के इक् के स्थान में 'अ' गुण होता है और वह 'उरण् रपरः' (१.१.५१) से रपर हो जाता है । इसी प्रकार 'हृञ् हरणे' (भ्वा.उ.) धातु से हर्ता शब्द सिद्ध होता है ।
(४) अचैषीत् । चि + लुङ् । अट् + चि + चिल + तिप् । अ + चि + सिच् + ति । अ + चि + स् + ईट् + त् । अ + चै + ष् + ई + त् । अचैषीत् । यहां चिञ् चयने धातु से 'लुङ्' (३.२.११०) से लुङ् प्रत्यय, 'चिल लुङि' (३.१.४३) से चिल प्रत्यय, 'च्लेः सिच्' (३.१.४४) से चिल के स्थान में सिच् आदेश और 'सिचि वृद्धिः परस्मैपदेषु' (७.१.१) सेचि धातु के इक् को वृद्धि होती है । यहां 'लुङ्लङ्लृङ्स्वडुदात्तः' (६.४.७१) से अट् आगम और 'अस्तिसिचोऽपृक्ते' (७.३.८६) से ईट् आगम होता है । 'आदेशप्रत्यययोः' (८.३.५९) से पत्व होता है । अचैषीत् - उसने चयन किया । इसी प्रकार अनैषीत्, अस्तावीत्, अलावीत्, अकार्षीत् अहार्षीत् शब्द सिद्ध करें ।
॥ काशिका ॥
परिभाषेयं स्थानिनियमार्था । अनियमप्रसङ्गे नियमो विधीयते । वृद्धिगुणौ स्वसंज्ञया शिष्यमाणाविक एवं स्थाने वेदितव्यौ । वक्ष्यति “सार्वधातुकार्धधातुकयोः” (७.३.८४/२१६८) अगस्य गुण इति । स इक एव स्थाने वेदितव्यः । तरति । नयति । वृद्धिः खल्वपि - अकार्षीत् । अहार्षीत् । अचैषीत् । अनैषीत् । अलावीत् । अस्तावीत् । * गुणवृद्धी स्वसंज्ञया विधीयेते, तत्र ‘इक:’ इति एतदुपस्थितं द्रष्टव्यम् । किं कृतं भवति ? द्वितीयया षष्ठी प्रादुर्भाव्यते । * (म.भा.१.४६) * मिदिमृजिपुगन्तलघूपधच्छ्रिदृशिक्षिप्रक्षुद्रेष्वङ्गेन इग् विशेष्यते * (म.भा.१.४४) जुसि सार्वधातुकादिगुणेष्विकाङ्गं विशेष्यते । मेद्यते । अबिभयुः । इक इति किम् ? आत्सन्ध्यक्षरव्यञ्जनानां मा भूत् । यानम् । ग्लायति । उम्भिता । पुनर्गुणवृद्धिग्रहणं स्वसंज्ञया विधाने नियमार्थम् । इह मा भूत् - द्यौः । पन्थाः । सः इममिति ॥
॥ न्यासः ॥
‘परिभाषेयम्’ इति । नाधिकारः, अस्वरितत्वात् । नापि गुणवृद्धयोर्विधायकं लक्षणम्, लक्षणान्तरेण तयोर्विधास्यमानत्वात् । ‘स्थानिनियमार्था’ इति । स्थानिनि नियमः स्थानिनियमः, स्थान्यन्तरव्यवच्छेदेनैकत्र प्रवर्तनम्, सोऽर्थः प्रयोजनं यस्याः सा तथोक्ता । ‘अनियमप्रसङ्गे नियमो विधीयते’ इति । यत्र साक्षात् स्थानी न निर्दिष्टः ‘सार्वधातुकार्धधातुकयोः’ (७.३.८४), ‘सिचि वृद्धिः परस्मैपदेषु (७.२.१) इत्यादी, तत्रानियमे प्रसक्ते नियममेषां करोति - इक एव नान्यस्येति. अतः स एवस्या विषयो वेदितव्यः, न तु यत्र साक्षात् स्थानी निर्दिश्यते सोऽपि, यथा - ‘ओर्गुण:’ (६.४.१४६) ‘अत उपधाया:’ (७.२.११६) इत्यादिः । तत्र ह्यनियमस्य प्राप्तिरेव नास्ति । लिङ्गवती चेयं परिभाषा, लिङ्गं चास्या गुणवृद्धिग्रहणम्, तत्रोपतिष्ठते । तथा च द्वे षष्ठ्यौ प्रादुर्भवतः,- ‘इकः’ इत्येका षष्ठी, ‘मिदेर्गुणः’ (७.३.८२) इत्येवमादिका द्वितीया । तत्र कामचारादयथेष्टं सिध्य - तयोर्विशेषणविशेष्यभावः क्रियते । ‘मिदेः’ इत्यत्रान्त इग न सम्भवतीति त्सयाङविशेषणत्वं नोपपद्यतेतस्मादत्राङ्गेनेगेव विशिष्यते - मिदेरङ्गस्य य इगि - तेन स्थानष्ठ्यभावादलोऽन्त्यस्यानुपस्थाने सति यत्र तत्र स्थस्येको गुणः सिद्धो भव - ‘सार्वधातुकार्धधातुकयोः’ (७.३.८४) इत्यादौ त्वङ्गस्य इगन्तत्वं सम्भव - तेन चाङ्गे विशिष्यमाणे तदन्तविधौ सतीष्टं सिध्य - तस्मादिकै वाङ्गं विशिष्यते, ‘इगन्तस्याङ्गस्ये - एवंचय सत्यस्याः स्थानषष्ठीत्वात् ‘अलोऽन्त्स्य’ (१.१.५२) इत्येतदुपतिष्ठछते, तेनेगन्तस्यैवाङ्गस्य गुणवृद्धी भवतः, नेतरस्य । ‘स्वसञ्ज्ञया’ इति । अत्र वक्ष्यमाणोऽभिप्रायः । ‘इक एव स्थाने’ इति । यदर्थेयं परिभाषा तस्य नियमस्य स्वरूपं दर्शयति - ‘अकार्षीत्’ इति । ‘डुकृञ् करण’ (धा.पा. १४७२), लुङ, ‘च्ले: सिच्’ (३.१.४४) सिचि वृद्धिः (७.२.१) ‘अस्तिसिचोऽपृक्ते’ (७.३.९६) इतीट् । एवम् ‘अहार्षीत्’ इति । अत्र ‘हृञ् हरणे’ (धा. ८९९) इत्ययं विशेष: । ‘इक इति किम्’ इत । एकदेशद्वारेण समुदायस्य पर्यनुयोगो वेदितव्यः । न हि ‘गुणवृद्धी’ इत्येतावता विनेग्ग्रहणेनार्थः कश्चित् संगृह्यते । ‘यानम्’ इति । यातेर्युटि गुणे विधीयमान आन्तरतम्यादकारः स्यात् । ततश्च द्वयोरकारयोः ‘अतो गुणे’ (६.१.९७) पररूपत्वे कृते ‘यनम्’ इत्यनिष्टं रूपं स्यात् । ‘ग्लायति’ इति । ‘ग्लै ग्लै हर्षक्षये’ (धा.पा.९०३.९०४), अत्र सन्ध्यक्षरस्य ऐकारस्य एकारो गुणः स्यात् । ततश्चायादेशे कृते ग्लयति इत्यनिष्टं रूपं स्यात् । ‘उम्भिता’ इति । ‘उभ उम्भ पूरणे’ (धा.पा.१३१९, १३२०), तृच्, इट् । अत्र व्यञ्जनस्य कारस्यौष्ठ्यस्य ओकारो गुणः स्यात् । ततश्चावादेशे कृते ‘उभविता’ इत्यनिष्टं रूपं स्यात् । अथ कथं स्वसञ्ज्ञया शिष्यमाणावित्येष विशेषो लभ्यते ? न हि सूत्रे स्वसञ्ज्ञाग्रहणमस्तीत्यत आह ‘पुनर्गुणवृद्धिग्रहणम्’ इत्यादि । इहपूर्वसूत्राभ्यां गुणवृद्धिग्रहणमनुवर्तते । कतस्मिन्ननुवर्तमाने यत् पुनरिह गुणवृद्धरिग्रहणं क्रियतेतस्यैतत् प्रयोजनम्- ‘यत्र स्वसञ्ज्ञया गुणवृद्धी विधीयेते तत्रायं नियमो यथा स्यात्, अन्यत्र मा भूत्’इति । पुनर्गुणवृद्धिग्रहणसामर्थ्यादन्यतरस्य गुणवृद्धिग्रहणस्य सञ्ज्ञाप्रधानत्वं सम्पाद्यते । कतेन स्वसञ्ज्ञया विधाने नियमो भवतीत्येषोऽर्थो लभ्यते । अन्यथा हि यद्येवं पूर्वो नियमो नात्राभिमतः स्यात्, ततो नियतस्य निय मस्य प्रकृतगुणवृद्धिग्रहणानुवृत्त्यैव सिद्धत्वात् पुनरिह गुणवृद्धिग्रहणमनर्थकं स्यादित्येवमभिप्रायः । ‘इह मा भूत्’ इत्यादिनार्यैवं प्रकारस्य नियमस्य व्यवच्छेद्यत्वं दर्शयति - ‘द्यौः’ इति । ‘दिव औत्’ (७.१.८४) इत्यौकारः । स्वरूपेण विधीयमानोऽलोऽन्त्यस्यैव भवति, नेकः । ‘पन्थाः’ इति । ‘पथिमध्यृभुक्षामात्’ (७.१.८५) इत्याकारोऽन्त्यस्यैव भवति, नेकः । ‘इतोऽत्सर्वनामस्थाने’ (७.१.८६) इतीकारस्य अकारः, ‘थोऽन्थः’ (७.१.८७) इति थकारस्य न्थादेशः । ‘इयम्’ इति । ‘त्यदादीनामः’ (७.२.१०२) इत्यत्वमन्तर्सयैव भवति, नेकः । ‘दश्च’ (७.२.१०९) इति दकारस्य मकारः । स इत्यत्र त्वस्याः परिभाषाया उपस्थाने सति त्यदाद्यत्वं न स्यादेव । ‘तदोः सः सावनन्त्ययोः’ (७.२.१०६) इति सत्वम्, ननु च ‘अनश्च’ (१.२.२८) इत्ययमपि स्थानिनियमः स्वसञ्ज्ञाविधान एवेष्यते, तस्यापि च नियमस्य द्यौरित्यादिकं व्यवच्छेद्यम् । तथा हि वृत्तिकारस्तत्र वक्ष्यति ‘स्वसञ्ज्ञया विधाने नियमः । अजिति वर्तते । इह मा भूत्, द्यौः पन्थाः, सः, द्युभ्याम्, द्युभिः’ (का ३८) इति , ततश्च यदनेन नियमेनैवंविधेन कर्त्तव्यं तत्तेनैव सिध्यति, नार्थ एवंविधयनियमर्थेन पुनरिह गुणवृद्धिग्रहणेन ? सत्यमेतत् किन्त्वेवमर्थप्रतिपत्तौ य एते मन्दधियः प्राथमकल्पिकाः श्रोतारः, तेषांप्रतिपत्तिगौरवं स्यात् । तस्मात् ताननुग्रहीतं विस्पष्टार्थमिह सञ्ज्ञाविधाने नियमं प्रतिपादयितुं पुनर्गुणवृद्धिग्रहणं कृतम् तद्येवम्, यत् येन विधातव्यं तदनेनैव विहितमिति तत्र सञ्ज्ञाविधाने नियमो न कर्त्तव्यः ? नैतदस्ति, यदि ह्यसावित्थम्भूतो नियमो न स्यात्, ततो ‘द्युभ्याम् द्युभिः’ इत्यत्र ‘दिव उत्’ (६.१.१३१) इत्युकारः स्वरूपेणैव विधीयमानोऽच एव स्थाने स्यात्, नालोऽन्त्यस्य । न ह्यनेन नियमेनाचः शक्यते व्यावर्तयितुम्, तस्य गुणवृद्धिसञ्ज्ञकत्वात् ।
॥ पदपञ्जरी ॥
“परिभाषेयमि”ति । नाधिकारः; अस्वरितत्वात्, असंयुज्यनिर्देशाच्च । अधिकारे हि “इको गुणवृद्धी न धातुलोपः” इति संयुज्यैव निर्दिशेत् । नापि विधिः, “इकः स्थाने गुणवृद्धी भवतः” इति लक्षणान्तरेण विधास्यामानत्वात् । ननु यदायं स्वतन्त्रो विधिस्तदा तेष्विक इत्यस्योपस्थापकाभावाद् यातेत्यादावनिकोऽपि विधिः स्यात्, इह तु सार्वधातुकाद्यभावेऽपि दधि मध्वित्यादौ विधिरस्तु ? एवं तर्हि गुणवृद्ध्यधिकारे पुनर्गुणवृद्धिग्रहणान्न विधिः । यद्यपि प्रकृतं गुणवृद्धिग्रहणं संज्ञापरम्, इह त्वनुवृत्तिसामर्थ्यात्संज्ञिपरं भविष्यति । “अदेङ् गुणः” इत्यत्र चानुवर्त्तमानमपि वृद्धिग्रहणं न संबध्यते, अन्यवचनाच्चकाराकरणाच्च । अन्या हि तत्र गुणसंज्ञोच्यते, चकारश्च न क्रियते; अतो विधिपक्षे पुनर्गुणवृद्धिग्रहणं न कर्त्तव्यम् । अत एवाधिकारोऽपि न भवति । परिभाषायां तु तस्यां विशिष्टविषयत्वसिद्धये कर्त्तव्यं तदिति वक्ष्यामः । अतः परिभाषेयम् ।
योगो वायं व्यपदिश्येत, सूत्रं वा, तत्कथम् “इयम्” इति स्त्रीलिङ्गनिर्द्देशः ? उच्यते यथायं योगः, यथा वा सूत्रमिदम्, एवं परिभाषापि, तत्सामानाधिकरण्यादियमिति निर्देशः । ननु परिभाषात्वं विधित्सितम्, इदंशब्दस्तु उद्देशकः, सिद्धरूपस्य चोद्देशः, सूत्ररूपता योगरूपता वा सिद्धेति पुनरप्युद्देशकस्य स्त्रीलिङ्गानुपपतिः । कश्चिदत्र परिभाषेयमित्यनूद्य स्थानिनियमार्थता विधीयते - “येयं परिभाषा सा स्थानिनियमार्थेति, न तु परिभाषारूपता विधीयते” इत्याह, स वाच्यः - “असिद्धं परिभाषात्वं कथमनूद्यते” इति । अव्यापकश्चायं परिहारः “समर्थः पदविधिः” इत्यादौ । तत्र परिभाषेयमित्येतावच्छ्रुयते, न पुनरेतदर्थेति । वयं तु ब्रूमः - निर्दिश्यमानप्रतिनिर्दिश्यमानयोरैक्यमापादयन्ति सर्वनामानि पर्यायेण तल्लिङ्ग्ङ्गभाञ्जि भवन्ति । तत्र यथा “अणौ यत्कर्म णौ चेत्स कर्त्ता” इति कर्माकारपरामर्शिनोऽपि तच्छब्दस्य विधीयमानस्य कर्त्राकारस्य लिङ्गं भवति, तद्वदिहापि सूत्रमेवोद्दिश्यत इदंशब्दस्य विधीयमानपरिभाषाकारस्य लिङ्गं भविष्यति । “स्थानिनियमार्थे”ति । इगाख्ये स्थानिनि गुणवृद्ध्योर्नियमोऽर्थः = प्रयोजनं यस्याः सा तथोक्ता । “द्वन्द्वे घि” इतति वृद्धिशब्दस्य पूर्वनिपातः प्राप्तः सूत्रनिर्देशेन नित्यं बाध्यते, “धर्मादिषु उभयम्” इति वचनादिति सूचयन्नाह - “वृद्धिगुणा” वित्यादि ।
किं पुनरनेन ग्रन्थेनोच्यते ? ननु नियमरूपेणास्य सूत्रस्य प्रवृत्तिरिति यथा “एच इग्घ्रस्वादेशे” ह्रस्व आदिश्यमान एच इगेवेति । यद्येवम्, अनियमप्रसङ्गे नियम इति “सार्वधातुकार्धधातुकयोः”,”सिचि वृद्धिः” इत्यत्रैव स्यात्, अत्र ह्यसत्यस्मिन्योगेऽलोऽन्त्यस्य भवन्तौ वृद्धिगुणावनन्त्यस्याविशेषितत्वादिकश्चानिकश्व प्राप्नुतः, न तु मिदिमृजिपुगन्तलघूपधर्द्विदृशिक्षिप्रक्षुद्रेष्वपि । अत्रालोन्त्यस्येत्यनिक एव प्रसङ्गः । अथ सर्ववाक्यानां सावधारणत्वात् प्राप्तमेवावधारणमिक एवेत्येव शब्देनाभिधीयते, न पुनर्नियमोऽनेन प्रदर्श्यते, यथा - “तपस्तपः कर्मकस्यैव “ इति । अतो विधिरूपेणैवास्य व्यापारो विवक्षितः, परिभाषात्वाच्च गुणवृद्धिविधेः संस्कारकं विध्यन्तरमिदम्, यथा “इद्गोण्याः” इत्यादेः “अलोऽन्त्यस्य” इत्ययमिति पक्षः । ततो नाप्राप्तायामलोऽन्त्यपरिभाषायामियमारभ्यमाणा तस्या बाधिका स्यात् । ततश्च यत्रैषा, न तत्र सा प्रवर्त्तेतेति जुसि गुणो यथेह भवति - अबिभयुः अबिभरुरिति, एवमनेनिजुः पर्यवेविषुरत्रापि प्राप्नोति । “सार्वधातुकार्धधातुकयोः “ यथेह भवति चेता स्तोतेति; एवमीहिता, ऊहिता, उम्भिता अत्रापि प्राप्नोति
अथ तु सामान्यविशेषयोरसम्भवे बाध्यबाधकभावः अस्ति चात्र सम्भवो यद् अलोऽन्त्यस्य गुणवृद्धी स्याताम् इकश्च ततः “जुसि च” इत्यादी गुणवृद्धिलिङ्गादिक्परिभाषाप्युपतिष्ठत, अङ्गस्येति स्थानषष्ठीनिर्देशात्, “अलोऽन्त्यस्य” इत्येषापि । तत्र च न समुच्चयोऽङ्गान्त्यस्यानिकोऽपि गुणो भवति, तदवयवस्य चेकोऽनन्त्यस्यापीति । नापि विकल्पः कदाचिदङ्गान्त्यस्यानिकोऽपि कदाचित्तदवयवस्येकोऽनन्त्यस्यापीति, एकत्वात् षष्ठ्यर्थस्यैक एव हि सकृच्छ्रुताया अङ्गस्येति षष्ठ्या अर्थ: - स्थानेयोगो वा थ अवयवयोगो वा, न द्वौ समुच्चितौ नापि विकल्पितौ । तत्र यद्यङ्गस्येत्येतत्पूर्वमिक इत्यनेन वैयधिकरण्येन संबध्येत - “अङ्गस्य य इक्, तस्य गुणः” इति, ततोऽलोऽन्त्यस्येत्येतदनन्वितं स्यात् । अतः पूर्वमलोन्त्यस्येत्यनेन संबध्यते स चान्त्येका विशेष्यते “अङ्गान्त्यस्येको गुणः” इति ।
यद्वा - इकाऽङ्गं विशिष्यते, विशेषणेन च तदन्तविधिः - इगन्तस्याङ्गस्येति । एवमपि हि स्थानषष्ठीत्वानपायादलोन्त्यस्येत्यव्याहतप्रसरं सर्वथाङ्गान्त्यस्येको गुण इति जुसि सार्वधातुकार्धधातुकगुणे न कश्चिद्दोषः । मिदादिषु पूर्वोक्तेन प्रकारेण द्वयोरन्वयासंभावदन्यतरद्धातव्यम् । तत्राविशेषादुभयमपि त्यज्येत, उच्येते च वृद्धिगुणौ “मृजेर्वृद्धिः” “मिदेर्गुणः” इति, तौ सर्वादेशौ स्याताम् । अतो विधिरूपेण नियमरूपेण वास्य सूत्रस्य व्यापारो नाभ्युपगन्तव्यः, किं तर्हि ? अनेन क्रियते पदोपस्थापनम् यत्र ब्रूयाद् गुणो भवतीति, वृद्धिर्भवतीति; तत्रेक इत्येतत् षष्ठ्यन्तं पदमुपतिष्ठतामिति । “अलोऽन्त्यस्य” इत्यस्य तु वाक्यभावः । एवं हि विज्ञायमाने “सिचि वृद्धिः” इत्यादौ यत्रान्त्य इक् संभवति, तत्रेक इत्येतेनोपस्थितेनाङ्गे विशेषिते तदन्तविधौ सतीगन्ताङ्गस्य गुण इति वाक्यव्यापारे परिनिष्ठते पश्चादलोऽन्त्यस्येत्येतदिगन्तस्य प्राप्तं गुणं ततोऽपकृष्याङ्गान्त्यस्य विधत्ते, न त्विक इत्यस्योपस्थानवेलायामुपतिष्ठते । “मिदेर्गुणः” इत्यादौ तु यत्रान्त्य इङ् न संभवति तत्राङ्गेनेकि विशेषितेऽङ्गस्येको गुण इति वाक्यव्यापारे परिसमाप्ते स्थानषष्ठ्यभावात्स्वयं न प्रवर्तते, न त्विक इत्यनेन सहोपतिष्ठते, येनाविशेषादुभयोर्निवृत्तिः स्यादिति सिद्धमिष्टम् ।
वृत्तिकारेण त्वस्य सूत्रस्य प्रयोजनं पिण्डीकृत्य प्रदर्शितम् - सर्वथान्त्यस्य वाऽनन्त्यस्य वेक एव गुणवृद्धी भवतः, न त्वक्षरव्यापारः । अत एव “वेदितव्यौ” इत्याह । अक्षरव्यापारप्रदर्शने तु इक एव स्थाने भवत इत्येतावद्वक्तव्यं स्यात् । “स्वसंज्ञया शिष्यमाणा” विति । वृद्धिर्भवति गुणो भवतीत्येवं विधीयमानावित्यर्थः ।
“इक इति किमि”ति । प्रधानावयवाक्षेपेण समुदायस्यैवाक्षेपः - सूत्रं किमर्थमित्यर्थः । “आत्सन्ध्यक्षरे” त्यादि । ननु “गापोष्टक्” इति टकः कित्करणं सामग इत्यादावाल्लोपे च सिद्धं स्यात् सामग इति । तथा ग्लायतीत्यादौ सन्ध्यक्षराणामप्युपदेशसामर्थ्याद् गुणो न भविष्यति, इतरथा प्रक्रियालाघवार्थमेकारमेवोपदिशेत् । “जनेर्डः” इति डित्करणाद्व्यञ्जनानामपि गुणो न भविष्यति । यदि हि तस्य स्याद्, अर्द्धमात्रस्य मात्रिकेऽकारे गुणे कृते सिद्धं स्यादुपसरज इति । यद्येवम्, मिदेर्गुणोऽन्त्याद्व्यावर्तितः सर्वादेशः स्यात् । किं च गमेरप्ययं डो भवति, तस्य च स्थानत आन्तर्यादोकारो गुणः स्यात्; रैनौग्लौशब्देभ्यश्चाचाराक्विबन्तेभ्यस्तृजादौ गुणप्रसङ्गो यद्यभिधानमस्ति तथा चितः, चिनुतः, भिन्न, बेभिद्यते इत्यादी “क्ङिति च” इति प्रतिषेधार्थमपि गुणस्येग्लक्षणत्वमेषितव्यम् ।
अथ वृद्धिग्रहणं किमर्थम् ? “मृजेर्वृद्धिः” इको यथा स्यात्, अलोऽन्त्यस्य मा भूत् । योगविभागात्सिद्धम् - “मृजेर्वृद्धिरचः”, मृजेरचो वृद्धिर्भवति, अङ्गाक्षिप्तेन प्रत्ययेनाचो विशेषणात् “न्यमार्ट्” अटो न भविष्यति, सिचि वृद्धिस्तर्ह्यकारस्य मा भूत्, अचिकीर्षीत् । अतो लोपो भविष्यति,
“ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषिद्धम् ?” इति वचनात्, यथा - चिकीर्षक इति । आकारस्य नास्ति विशेषः; सग्विधानादसंभवश्च । एजन्तमपि न संभवति; आत्वविधानात् । रैनौग्लोशब्दानामाचारक्विबन्तानामविशेषः, गोशब्दस्य क्विबन्तस्य “ऋत इद्धातोः” इत्यतः “धातोः” इत्यनुवृत्तेः धातुरेव यो धातुरिति विज्ञानात् सिचि वृद्ध्यभावः । अभैत्सीदित्यादौ “सिचि वृद्धिः” इत्यनेन व्यञ्जनस्य नाप्राप्तायां वृद्धो विधीयमाना हलन्तलक्षणा वृद्धिर्बाधिका, “नेटि” इत्ययं च निषेधो यावती हलन्तस्य वृद्धिः सिचि वृद्धिरिति वा, हलन्तस्याच इति वा, सा सर्वा न भवतीति विज्ञायते । तेन अनर्दीदित्यादी अन्त्यस्य वृद्धिर्न भविष्यति । तदेवम् “इको वृद्धिर्यथा स्याद् अदेव्यञ्जनानां मा भूद्” इत्येवमर्थं तावद् वृद्धिग्रहणं न कर्त्तव्यम् । एवं तर्हि मृज्यते, मृष्ट इत्यादी “क्ङिति च” इति प्रतिषेधार्थं मृजेर्वृद्धेरिग्लक्षणत्वम् । इदमपि योगविभागात्सिद्धम् - मृजेर्वृद्धिरित्यस्यानन्तरमजादो ङिति वेति वक्तव्यम् - परिमृजन्ति परिमार्ज्जन्ति,परिममृजतुः परिममार्जतुरित्येवमर्थम् । तत्र योगविभाग: - “अजादौ डिति मृजेरचो वृद्धिर्भवति” । किमर्थमिदम् ? नियमार्थम् - क्ङिति यदि भवति अजादावेवेति । तेन मृज्यते मृष्ट इत्यादौ न भविष्यति, ततो वा, अजादावपि विकल्पेनेति । सिचि वृद्धेस्तर्हि प्रतिषेधार्थमिग्लक्षणत्वम् । “णु स्तुतौ” “धू विधूनने” कुटादी, न्यनुवीद् न्यधुवीद् । अत्राप्यन्तर्भूतसिज्मात्रापेक्षत्वादन्तरङ्ग उवङि सति हलन्तत्वात् “नेटि” इति निषेधः । यदि सिच्यन्तरङ्गं भवति, अचैषीद् अहौषीद् अहौषीद् - गुणः स्यात् । अस्तु, तस्यैव वृद्धिः करिष्यते ? अकार्षीदित्यादौ हलन्तलक्षणा वृद्धिः, अतारीदित्यादौ हलन्तलक्षणायाः “नेटि” इति प्रतिषेधे “अतो हलादेः” इति विकल्पं बाधित्वा “अतो लान्तस्य” इति नित्या वृद्धिः । अलावीदित्यादावुवर्णान्तेषु सेटि सिच्यन्तरङ्गत्वाद् गुणावादेशयोः कृतयोरपि “अतो लान्तस्य” इत्यत्र वकारस्यापि लुप्तनिर्दिष्टत्वान्नित्या वृद्धिः । यद्येवम्, मा भवानवीत्, अमवीदित्यत्रापि तर्हि वकारप्रश्लेषान्नित्या वृद्धिः स्यात् । सिच्यन्तरङ्गं भवतीत्युक्ते “ह्म्यन्तक्षण” इत्यत्र णिश्विग्रहणं न कर्त्तव्यम्, औनयीत् ?, अश्वयीदित्यत्रान्तरङ्गत्वाद् गुणावयादेशयोः कृतयोर्यान्तानां नेत्येव सिद्धत्वात् । तत्स्थाने “अविमवी” निवेशयिष्याम: - “अतो लान्तस्य “ इत्यत्र वकारप्रश्लेषेण प्राप्तवृद्धिरविमव्योर्नेति । तदेवमनर्थकं वृद्धिग्रहणम् ? नानर्थकम्, सिच्यन्तरङ्गस्य प्रवृत्तिमाश्रित्य हि वृद्धिग्रहणं प्रत्याख्यायते, यदि च सिच्यन्तरङ्गं स्यात् चिनीप्रभृतिभ्यो यङ्गलुगन्तेभ्यश्चिरिणोतिजिरिणोतिभ्यां च लुङि सिचि अचेचायीद्, अनेनायीद्, अचिरायीद्, अजिरायीदिति ? न स्याद् गुणायादेशयोः कृतयोः यान्तानां नेति प्रतिषेधप्रसङ्गाद् । इग्लक्षणायां तु सिचि वृद्धौ तयैवान्तरङ्ग बाध्यते, यदि स्याद्, न क्वापि सिचीगन्तमङ्गं भवेत्, ततश्चाचिरायीदित्यादि सिद्धम् । यथा च तया गुणायदेशी बाध्येते, एवं न्यनुवीदित्युवङपि बाध्येत । अतः प्रतिषेधार्थमपि वृद्धेरिग्लक्षणत्वमेषितव्यमिति सर्वमवदातम् । एवं बहुवक्तव्यत्वाद् वृत्तिकारेण वृद्धिग्रहणस्य प्रयोजनं न दर्शितम् ।
अथ कथं स्वसंज्ञया शिष्यमाणावित्येष विशेषो लभ्यते इत्याह - “गुणवृद्धिग्रहणमित्यादि । इह पूर्वसूत्राभ्यां गुणवृद्धिग्रहणमनुवर्तते । तेनैवादेडामादैचां च ग्रहणे सिद्धे यत्पुनर्गुणवृद्धिग्रहणं तत्स्वसंज्ञया विधाननियमार्थम्; अन्यथा प्रकृतंगुणवृद्धिग्रहणं तटस्थमुपलक्षणं स्याद् - ‘वस्तुतो ये गुणवृद्धी तद्विधौ’ इति । स तु विधिर्गुणवृद्धिशब्दाभ्यां प्रकारान्तरेण वेत्येव विशेषो नाश्रितः स्यात्, पुनर्गुणवृद्धिग्रहणसामर्थ्यात्तु शब्दव्यापारोऽप्याश्रीयते - गुणवृद्धी ये गुणवृद्धी, एवं शब्दिते ये गुणवृद्धी इत्यन्यतरस्य गुणवृद्धिग्रहणस्य स्वरूपप्रधानत्वं सम्पद्यते । तेनायं विशेषो लभ्यत इत्यर्थः । अन्यथा “अचश्च” इत्यस्य स्वसंज्ञया विधाने नियमस्य “दिव उत्” इत्यादिष्वगुणवृद्धिसंज्ञकेषु तत्संज्ञेषु च यत्रेङ् न संभवति “अष्टन आ विभक्तौ “ इत्यादी, तत्र चरितार्थत्वात् “दिव औत्” इत्यादिषु गुणवृद्धिसंज्ञकेषु यत्रेक संभवति तत्रायं नियमः स्यात् । द्यौः पन्थाः, सः, इममिति । स इत्येतदनुदाहरणम्, न ह्यत्रेगस्ति ।
एवं प्रकटितोऽस्माभिर्भाष्ये परिचयः परः । तस्य निःशेषतो मन्ये प्रतिपत्तापि दुर्लभः ॥
॥ शब्दकौस्तुभः ॥
यत्र ब्रूयाद् गुणो भवति वृद्धिर्भवतीति तत्र ‘इकः’ इति षष्ठ्यन्तमुपस्थितं बोध्यम् । चेता, स्तोता; अहार्षीत् इत्यादि । इक इत्युक्तेर्नेह-याता, ग्लायति, उभ्भितेति । तथाचवार्त्तिकम् इग्ग्रहणमात्सन्ध्यक्षरव्यञ्जननिवृत्त्यर्थम्इति । ननु नैतानि सन्ति प्रयोजनानि, ज्ञापकेनानिकां व्यावृत्तिसिद्धेः । तथाहि, अकारस्य ‘पचति’ इत्यादौ शपं तिपं चाश्रित्य यथाक्रमं पुगन्त(७.३.८६) इति सार्वधातुकार्द्धदातुकयोः (७.३.८४) इति च सूत्रेण सत्यपि गुणे रूपे विशेषो नास्त । ‘अचिकीर्षीत्’ इत्यादौ त्वतोलोपेन वृद्दिर्बाध्यते ण्यल्लोपौ (का.वा.) इति पूर्वविप्रतिषेधस्य वक्ष्यमाणत्वात् । सूत्रारम्भपक्षेऽपि ह्येषैव ‘चिकीर्षकः’ इत्यादौ गतिः अचो ञ्णिति (७.२.११५) इत्यत्र निर्दिष्टस्तानिकत्वेन इक्परिभाषाया अप्रवृत्तेः । ‘अयासीत्’ इत्यादौ तु सिचि वृद्धौ सत्यामपि न क्षतिः । वस्तुतस्तु सा परत्वात् सगिड्भ्यां बाध्यते । येननाप्राप्तिन्यायेनापवादत्वाद्वाध्यते इति तु निष्कर्षः । न च ‘याता’ ‘वाता’ इत्यादावातो गुणप्रसङ्ग गापोष्टक् (३.२.८) इति टकः कित्त्वेनाकारस्य गुणो न भवतीति ज्ञापितत्वात् । तद्धि कित्त्वं ‘सामगः’ इत्यादावाल्लोपार्थं क्रियते । यदि त्वाकारस्य गुणः स्यात्तर्हि द्वयोरकारयोः पररूपोण ‘सामगः’ इत्यादिरूपसिद्दौ किं कित्त्वेन ? न चेह ‘चिकीर्षकः इत्यादाविव परत्वादाङ्गत्वाच्यातो लोप एवोदाहर्त्तुमुचितो न तु परूपमिति वाच्यम्, तावतापि ज्ञापकत्वे बाधकाभावात् । वस्तुतस्तुनेह लोपेन भवितव्यम् । तत्र हि अनुदात्तोपदेश (६.४.३७) इत्यतोनुवृत्तेनोपदेशग्रहणेनार्द्धधातुकस्य विशेषणादार्द्धधातुकोपदेशे यदकारान्तं तस्यातो लोपो विदीयते । अन्यथा ‘गतो गतवान्’ इत्यादावतिप्रसङ्गात् । न चासिद्धवत्सूत्रेण निर्वाहः, तस्य भाष्यकृता प्रत्याख्यास्यमानत्वात् । किञ्च अय पय गतौ (भ्वा.आ.) आब्यां क्विपि ‘अत्’ ‘पत्’ इति रूपं माधवादिभिरुदाहृतं, तदपि यथाश्रुते न सिद्ध्येत् । तस्मादुपदेशानुवृत्तिरेव शरणम् । कथं तर्हि ‘धिनुतः’ ‘कृणुतः’ इत्यादौ अतो लोपः (६.४.४८)इति चेत् ? सन्नियोगशिष्टतया उप्रत्ययोपदेशवेलायामेवाकारस्याप बुद्ध्यारोहादिति केचित् । अन्ये तु धिन्विकृण्व्योर च (३.१.७०) इति सौत्रक्रमानुरोधात्प्रथममकारादेशस्तदनन्तरं चशब्दाकृष्च उप्रत्यय इति नोक्तदोष इत्याहुः ।
नन्वेवं ‘सामगाय’ इत्यादावेकादेशस्य पूर्वान्तत्वेन ग्रहणाद् आतोधातोः (६.४.१४०) इत्यालोपः स्यादिति चेत् ? अत्र कैयटः अकारमाश्रित्य कृतो यशब्दः सन्निपातपरिभाषया लोपं न प्रवर्त्तयति । दीर्घत्वं तु कष्टाय (३.१.१४) इति निपातनाद्भवति इति ए ओङ् सूत्रे स्थित्वा समाहितवान् । तस्यायमाशयः यादेशे हि ह्रस्वत्वविशिष्टमत्वं प्रयोजकम्, तद्विधावत इत्यनुवृत्तेः । तत्र यद्यपि दीर्घेण हस्वत्वांसो निवर्त्तितस्तथाप्यत्वमात्रमादेशेऽप्यनुवर्त्तते । तदपि चेल्लोपेन निवर्त्त्येत तर्हि परिभाषाविरोधः । दीर्घांशे परं ज्ञापकात्परिभाषा बाध्यते । न चैवमंशान्तरेऽपि तद्बाधोऽस्त्विति वाच्यम्, तदबाधेऽप्युपपत्तेः । प्रकृतसूत्रे एओङ् सूत्रे च गापोष्टकः कित्त्वस्यानन्यार्थतां वदन् भाष्यकारश्चात्र प्रमाणम् । एतेन शुभंयाशब्दस्य नपुंसके हस्वत्वे ङेर्यादेशे दीर्घे च सति आतो धातोः (३.४.१४०) इत्यालोपे च ‘शुभंय्यः’ इत्यादि माधवोदाहृतं भाष्यविरोधाच्चिन्त्यम् । अत एव नपुंसके श्रीपं ज्ञानवत् इति ग्रन्थं श्रीपायेतिरूपपरतया यथाश्रुतमेव समञ्जसं भङ्क्त्वा माधवानुरोधेन ‘प्रायेण ज्ञानवत्’ इति व्याचक्षाणा अपि प्रत्युक्ताः । तथा ‘ग्लायति’ इत्यादौ सन्ध्यक्षराणामप्युपदेशसामर्थ्याद् गुणो न भविष्यति । इतरथा हि एकारमेवोपदिशेत् । मात्रालाघवविरहेऽपि प्रक्रियालाघवसत्त्वात् । न चैवमायादेशोऽपि न स्यादिति वाच्यम्, ‘यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते यस्य तु विधेर्निमित्तमेव नासौ बाध्यते इति न्यायात् । गुणं प्रति ह्यैकारोपदेसोऽनर्थकः, ग्ले हत्यस्यापि सुपठत्वात् । आयादेशस्य तु निमित्तमेव । न च ‘ग्लाय’ इत्येव पठ्यतामिति वाच्यम्, तथा सति हि ‘त्वया ग्लायते’ इति रूपं न स्यात्, यकारद्वयश्रवणप्रसङ्गात् ‘जग्लौ’ इत्याद्यसिद्ध्यापत्तेश्च । यत्तु एकाजजन्तत्वाभावादिट्प्रसङ्गेन ‘ग्लाता’ इत्यादि न स्यादिति । तन्न, अनुदात्तोपदेशेष्वेषां सुपठत्वात् । न चै वम् ‘अग्लासिष्टाम्’ इत्याद्यसिद्धिः अनादन्तत्वेन सगिटोरसम्भवादिति वाच्यम् लोपो व्योः (६.१.६६) इति यलोपे कृते सगिटोः सुलभत्वात् । सन्निपातपरिभाषा त्वनित्येति कृतितुग्ग्रहणेन ज्ञापयिष्यते । तेन वल्सन्निपातेन कृतो यलोपो वल्सन्निपातविघातकमपीटं प्रवर्त्तयिष्यत्येव । अनित्यताश्रयणेनैव हि ‘दाक्षिः’ ‘गोदः’ इत्यादावदातोर्लोपः । अन्यथा इञ् कप्रक्ययौ प्रति तयोरुपजीव्यत्वाल्लोपो न स्यात् । अस्तु वा ‘सन्निपातपरिबाषाश्रयणाद् ‘अग्लासिष्टाम्’ इत्यादि न सिध्येद् इत्यपि यान्तोपदेशे दोषान्तरम् । सर्वथापि संध्यक्षराणामुपदेशसामर्थ्याद् गुमोन । आयादयस्तु भवन्त्येवेति सिद्धम् ।
स्यादेतत् । आदेच (६.१.४५) इत्यात्वमपि तर्हि बाध्यताम् । नह्यैजुपदेश आत्वस्य निमित्तम्, ग्ले इत्युपदेशेऽपि तस्य सुकरत्वात् । शिति गुणेनाशित्यात्वेनैचोऽपहारे प्राप्ते ऐजुपदेशसामर्थ्येनगुणात्वयोर्मध्ये कतरद्बाध्यं कतरन्नेत्यत्र विनिगमनाविरहेणोभयबाधध्रौव्यात् । न चैवमात्वविधेः कोऽवकाश इति वाच्यम् धेट् पाने (दी.प.) शो तनूकरणे इत्यादेरवकाशस्य स्पष्टत्वात् । नन्वेवमादेङ् इत्येव ब्रूयात्, तता चैज्ग्रहणं निरवकाशमेवेति चेत् ? न, उत्तरार्थत्वात् । मीनातिमिनोति (६.१.५०) इत्यत्र ह्येच इत्यनुवृत्त्या ‘आकारान्तानामेजन्ताः प्रकृतयः, एजन्तानामपीकारान्ताः’ इति घुसंज्ञासुत्रे वार्तिककारः स्फटीकरिष्यति ।
अत्राहुः अन्यतरबाधेनैव सम्भवे यवाधकल्पनं तावदन्याय्यम् तत्र यद्यणुरपि विशेषो नावधार्येत तर्हि विनिगमनाविरहात्स्यादेवोभयबाधः । अस्ति चेह विनिगमकम् न ध्याख्या (८.२.५७) इति सूत्रे ध्यायतेः कृतात्वस्य निर्द्देशेनात्वाबाधज्ञापनात् । किञ्च एज्ग्रहणसामर्थ्यादप्यात्वं भवति । यत्तूक्तप्रुत्तरार्थं तदिति । तन्न, मीनाति(६.१.५०) इति सूत्रेण हि नैचः स्थाने आत्वं विधीयते । किन्त्वेज्निमित्ते प्रत्यये विवक्षिते उपदेशावस्तायामेवान्त्यमात्रास्यात्वं विधीयते । अन्यथा ‘दायः’ इत्यादौ भावे घञं बाधित्वा एरच् (३.३.५६) स्यात्, ‘ईषदवदानः’ ‘स्ववदान’ इति आतो युच् (३.३.१२८) न स्यात्, ‘अवदायः’ इति श्याद्व्यधा (३.१.१४१) इति णो न स्यात् । स्पष्टीकरिष्यते चेदं षष्ठे एव भाष्यकृता । एवञ्चैङ्निमित्ते प्रत्यये इत्युच्यमानेऽपि ‘दापयति’ मापयति इत्यादि सिध्यत्येव, णिचो गुणं प्रत्यपि स्वरूपयोग्यत्वात्, वृद्ध्या गुणबाधेऽपि योग्यतानपायात् । न चेह फलोपधानं विवक्षितम्, आत्वस्यैज्विषये प्रागेव प्रवृत्तेरभ्युपगमात् । अन्यथा घञ्युच्णप्रत्याया न स्युरिति समनन्तरमेवोक्तम् । तस्मादात्वं भवत्येव । गुणस्त्वैकारोपदेशसामर्थ्याद् बाध्यते इति स्थित्म् ।
व्यञ्जनानां गुणः स्यादिति परमवशिष्यते । ततश्च ‘ईहिता’ इत्यत्र हकारस्य कण्ठ्यत्वादकारः स्यात् ‘उम्भिता’ इत्यत्र भकारस्यौष्ठ्यत्वादोकारः; ततश्च ‘येता’ ‘उनविता’ इति स्यात् । ईकारस्य यणि कृतेऽकारस्येटा सहाद्गुणो न त्वल्लोपः, आर्द्धधातुकोपदेशे यदकारान्तं तस्य लोप इति व्याख्यातत्वात् ।उम्भेस्चानुस्वारपरसवर्णयोर्गुणे कर्त्तव्येऽसिद्धत्वादिति । नैषदोषः सप्तम्यां जनेर्डः (३.२.९७) इत्यत्र डप्रत्ययस्य डित्करणं ज्ञापकं न व्यञ्जनस्य गुणो बवतीति । यदि हि स्यात्तर्हि नकारस्यार्द्धमात्रिकस्य मात्रिके अकारे गुणे कृते त्रयाणामकाराणाम् अतो गुणे (६.१.९७) इति पररूपे च सिद्धं रूपम् ‘उपसरजाः’ ‘मन्दुरजः’ इति, तत्किं टिलोपार्थेन डित्करणेन ? स्त्रीगवीषु पुंगवानां गर्भाधानाय प्रथममुपसरणमुपसरः । प्रजनेसर्त्तेः (३.३.७१) इत्यप्प्रत्ययो घञोऽपवादः । प्रजनः स्यादुपसरः (अ.को. ३.२.२५) इति सङ्कीर्णवर्गेऽमरः प्रजायतेऽस्मिन्प्रजनः पशूनां गर्भग्रहमकाल इति क्षीरस्वामी । अपसरे जात उपसरजः, मन्दुरायां जातो मन्दुरजः ङ्यापोः संज्ञाछन्दसोर्बहुलम् (६.३.६३) इति ह्रस्वः । वाजिशाला तु मन्दुरा (अ.को.२.२.७) इत्यमरः न च डकारः श्रवणार्थोऽस्त्विति वाच्यम् प्रावृट्शरत्कालदिवां जे (६.३.१५) इतिक कृतटिलोपनिर्द्देसाल्लिङ्गात् । ननु नेदं लिङ्गं जै क्षये (भ्वा.प.) इत्यस्य कप्रत्ययान्तस्य ‘ज’ इति निर्द्देसोपपत्तेः । कथं तर्हि कर्मण्युपपदे विहित आतः कः ‘प्रावृषिजः’ इत्यादौ स्यादिति चेत् ? ‘द्विपः’ ‘पादपः’ इत्यादिसिद्धये सुपि स्यः (३.२.४) इत्यत्र सुपीति योगविभागाभ्युपगमात् । सत्यम्, डकारस्य श्रवणार्थत्वे इत्संज्ञासास्क्षत्रं बाध्येत । न च प्रयोजनाभावः, टिलोपार्थत्वात् । न च गुणेनान्यथासिद्धिः, तदभावस्यापि ज्ञाप्यत्वात् । निषादस्थपत्यधिकरणन्यायेन (जै.न्या.६.१.१३) फलमुखगौरवस्यादोषत्वात्, डकारस्य श्रवणार्थताभ्युपगमे सिद्धं तु नित्यशब्दत्वात्किमर्थं शास्त्रमिति चेन्निवर्त्तकत्वात्सिद्धम् इति वृद्धिसूत्रस्थवार्तिकविरोधाच्च । नन्वसति डित्त्वे रूपं न सिध्यति, नकारस्ताने गुणस्यापि सानुनासिकस्य प्रसङ्गात् । न च निरनुनासिकेन प्रत्ययाकारेण सह पररूपाच्छुद्धो भविष्यतीति वाच्यम्, पररूपविधानेऽपि गुणानामभेदकतया पर्यायेण सानुनासि कप्रसक्तेर्दुर्वारत्वादिति । मैवम्, मैवम्, एङि परः इतीयता सिद्धेरूपग्रहणादधिकाद्यन्नाद् गुणविवक्षोपपत्तेः । तस्य ह्योतदेवफलम् यादृशं परस्य रूपं निरनुनासितत्वाद्युपेतं तादृगेव यथा स्यादिति । तस्माज्जनेर्डवचनं ज्ञापकं न व्यञ्जनस्य गुणो भवतीति । एवञ्च इग्ग्रहणमात्सन्ध्यक्षरव्यञ्जननिवृत्त्यर्थम् इति वार्त्तिकमसङ्गतमिति प्राप्ते भगवान् बाष्यकार इत्थं सिद्दान्तमाह उक्तरीत्या ज्ञापकेनैवात्सन्ध्यक्षराणां निरासेऽपि व्यञ्जननिवृत्यर्थं सूत्रं कर्त्तव्यमेव । यत्तुक्तं जनेर्कडवचनं ज्ञापकमिति । तन्न, गमेरपि ह्ययं डो वक्तव्यः । गमेश्च गुणे क्रियमाणे आन्तर्यत ओकारः स्यात् । ततश्च ‘नगाः’ ‘अगः’ ‘अब्युद्गः’ ‘समुद्गः’ इत्यादि न सिध्येत् । ततश्च तत्र चरितार्थं डित्त्वं कथं व्यञ्जनस्य गुणाभावं ज्ञापयेदिति । ननु जनर्डः (३.२.९७) इत्येव डप्रत्ययो गमेर्न विधीयते किं तु गमश्च (३.२.४७) अन्तात्यन्ताध्वदूरपार (३.२.४८) इति प्रकारणे पठितेन अन्यत्रापि दृश्यते (का.वा.) इति वार्त्तिकेन कडप्रत्ययान्तरमेव । तथाच कथं बाष्यकृतोक्तं गमेरप्ययं डः इति ? सत्यम्, सप्तम्यां जनेर्ड (३.२.९७) इति प्रकरणे तावद् अन्येष्वपि दृश्यते (३.२.१०१) इति सूत्रेण डो विधीयते इति निर्विवादम् । तत्र चान्येष्वप्युपपदेषु जनेर्डो दृश्यते इत्यक्षरार्थः । तेन ‘अजः’ ‘द्विजः’ ‘अनुजः’ इत्यादि सिद्धम् । एवमपि धात्वन्तराड्डविदायकाभावात् ‘परितः खाता परिखा’ इत्यादि न सिद्ध्येदित्याशङ्क्य तत्र वार्त्तिककृतोक्तम् अन्येभ्योऽपि दृश्यते(का.वा.) इति । अयं च सौत्रदृश्यपिग्रहणसूचित एवार्थो वार्त्तिकेन विवृतो न त्वपूर्वः संगृहीतः । तथाच तत्र वृत्तिकार आह आपिशब्दः सर्वोपाधिव्यभिचारार्थः तेन धात्वन्तरादपि भवतिपरितः खाता परिखेति । दृशिग्रहणात्कारकान्तरे कालान्तरे च इत्यादि तत्रैव स्पष्टम् । एवं स्थिते सौत्रेणैवानेन ‘परिखा’ इत्यादेरिव ‘नगः’ ‘अग’ इत्यादेरपि सिद्धौ इति वार्त्तिकं न कर्त्तव्यमेव । क्रियमाणं वा एतसूत्त्रसिद्धार्थंविवरणपरतया नेयमित्याशयेन भगवतोक्तम् गमेरपि ह्ययं डो वक्तव्यः इति । नन्वेवमपि डित्त्वं व्यर्थसेव, गमेर्विवैव सिद्धे गमेर्डोः इति डोप्रत्ययाविधानेन मकारस्य गुण ओकारो न भवतीति ज्ञापितत्वात् । तस्माड्डुप्रत्ययस्य डित्त्वं पूर्वोक्तरीत्या ज्ञापकमेव । किञ्च, डोप्रत्ययविधानमेव व्यञ्जनस्यगुण इति ज्ञापयति । अन्यथा विचैव सिद्धौ किं तेनेति चेत् ? न, विचिहि सति गुणः क्रियमाणः सानुनासिक ओकारः स्यादिति निरनुनासिकसिद्धये डोप्रत्ययविधानादिति दिक् ।
अत्र वदन्ति तेनोतेर्डउः सन्वच्च इति डित्करणान्न व्यञ्जनस्य गुणो भविष्यति । यत्तु सास्त्रातिदेसोऽयं कार्यातिदेशो वा ? आद्ये ‘ऊर्णुनविषति’ इत्यत्रेव द्विर्वचने ऽचि (१.१.५९) इति स्थानिवद्भावेन ‘तँतँ अउ’ इति स्थिते सन्यतः (७.४.७९) इतिकारः सानुनासिकः स्यात् । द्वितीये त्वभ्यासकार्यं दुर्लभामिति । तन्न, आद्ये गुणानां बेदकत्वाद् ‘इमौ’ ‘इमे’ इति वदुपपत्तेः द्वितीयेऽपि ‘बभ्रुः’ ‘जुहूः’ इत्याद्यर्थं दात्वधिकारीयद्वित्वे ऽभ्याससंज्ञास्वीकारात् । अत एव लिटिधातोः(६.१.८) इति सूत्रे धातुग्रहणं तिष्ठतुतावत्सांन्यासिकम् इति भाष्यम् । आदेच (६.१.४५) इति सूत्रे धातुग्रहणानुवृत्तेरापाततो भाष्ये प्रदर्शितत्वेऽपि ष्यङ्विधिभाष्येऽननुवृत्तेरेव सिद्धान्तिततया भाष्याशयस्येत्थमेव वर्णनीयत्वादिति दिक् ।
किञ्च, यथा स्तानेन्तरतमपरिबाषासंस्कृतावनुनासिकपरसवर्णविधी स्थानप्रयत्नाब्यामन्तरतम ‘एतन्मुरारिः’ ‘त्वं करोषि’ इत्यादिकं विषयं लब्ध्वा चरितार्थौ ‘चतुर्मुखः’ ‘कुण्डं रथेन’ इत्यादौ न प्रवर्त्तेते इति हयवरट्सूत्रे सिद्दान्तितम्, तथेहापि सार्वधातुके जुसि गुणः सिचि वृद्ध्यादयः ‘नेता’ ‘अबिभयुः’ ‘अनैषीत्’ इत्यादौ चरितार्थाः ‘उम्भिता’ ‘अनेनिजुः’ ‘अभैत्सीत्’ इत्यादिषु न भविष्यन्ति । न चैवं ‘नेता’ ‘अनैषीत्’ इत्यादावेव स्थानगुणप्रमाणैस्त्रिभिरान्तर्यलाभात् ‘चेता’ ‘अचैषीत्’ इत्यादौ प्रमाणान्तर्यविरहेण गुणवृद्धी न स्यातामिति वाच्यम् सृघस्यदः क्मरच् (३.२.१६०) इति क्मरचः क्नोश्च कित्करणेन प्रमाणत आन्तर्यस्याविवक्षाया ज्ञापनात् । नचैवमपि ‘ईहिता’ ‘ईशिता’ इत्यत्र कण्ठ्यतालव्ययोर्विवृतयोश्च हकारशकारयोस्तादृशावेवादेतौ स्यातामिति वाच्यम्, नाज्झलौ (१.१.१०) इति सूत्रस्य प्रत्याख्यानावसरे ऊष्मणामीषद्विवृततायाः सिद्धान्तयिष्यमाणत्वात् । न चैवं विवृतकरणाःक स्वरास्तेभ्य एओ विवृततरावित्यादि शिक्षाऽनुरोधात् ‘चेता’ ‘नेता’ इत्यादावपि गुणाप्रवृत्तिः स्याद्विवृतविवृततरत्वकृतवैलक्षरायसत्त्वादिति वाच्यम्, तथासति विधेर्निर्विषयतापत्तेः,”जयः करणम् (६.१.२०२) इत्यादिनिर्देशैः क्नसुन्क्मरच्प्रभृतीनां कित्त्वेन चेकारादिषु गुणप्रवृत्त्यनुमानाच्च । आत्सन्ध्यक्षरव्यञ्जनेषु तु गुणाद्यप्रवृत्तिरेवोचिता । तथाच निर्देशाः यातिवातिद्रातिप्साति (ए.८.४.१७) ध्यायतेः सम्प्रसारणं च(का.वा.) वहतिचिनोतिदेग्धिषु च (ए. ८.४.१७) इत्यादि । अथ क्नोः कित्त्वेनापिगुणवृद्धिविधावन्तरतमपरिभाषाऽनुपस्थितिरेव ज्ञाप्यतामिति चेत् ? न, सत्यामपीक्परिभाषायामीकारस्याकारादिनिवृत्तयेऽन्तरतमपरिभाषाया आवश्यकत्वादिति । तदेवं डओर्डित्त्वादनान्तर्यान्निर्देशाच्च निराकृतं व्यञ्जनं भाष्य एवैच आकारश्च निराकृतः तस्माद्व्यर्थं सूत्रमिदम् ।
अथ यद्युत्तरार्थता, विभज्य योगं किमिति परिभाषात्वमिष्यते ? अत्रोच्यते, क्ङिति च (१.१.५) इति सूत्रे चकारस्य इतिशब्दपर्यायतामाश्रित्येक इति ये गुणवृद्धी तयोर्निषेध इति तावद्वक्ष्यते । अन्यथा ‘लौगवायनः’ इत्यत्र ओर्गुणोपि निषिध्यते । औपगवादिस्तु तस्यावकाशः तथा ‘पौरोहित्यम्’ इत्यत्रादिवृद्धिश्च न स्यात् । एवं स्थिते यदीयं परिभाषा प्रत्याख्यायते तदा कथञ्चित्तत्रतत्र गुणवृद्धिविदाविकामेव स्तानित्वपर्यवसानेऽपीक इति पदानुच्चारणेनेग्लक्षणत्वविरहान्निषेधो न प्रवर्त्तेत । ततश्च ‘कृतः’ ‘कृतवान्’ ‘कुरुतः’’छिन्नं’ ‘छिन्नवान्’ इत्यादि न सिध्येत् । निषेधसूत्रं च निर्विषयं स्यात् परिबाषापरित्यागपक्षे इग्लक्षणयोर्गुणवृद्ध्योरप्रसिद्धत्वात् । तदेतत्स्फुटीकृतं भाष्यकृता उत्तरार्थमेव तर्हि सिजर्थं वृद्दिग्रहणम् इति । तस्य ह्ययमाशयः यद्यपि सिचि वृद्धिः (७.२.१) इति विधौ वक्ष्यमाणरीत्या परिशेषादिकामेव स्थानित्वं लभ्यते । तथापीग्लक्षमत्वं विना निषेधो न प्रवर्त्तेत । तस्मादुत्तरार्थं निषेधप्रवृत्यर्थं च वृद्दिग्रहणमिति । एवञ्च वदता न्यायसाम्याद् गुणग्रहमस्याप्येतदेव प्रयोजनं सूचितम् । कथं पुनर्गुणवृद्धिविधौ सर्वत्र परिबाषाव्यतिरेकेणेकः स्थानित्वपर्यवसानं येन निषेदार्थता वर्ण्यते इति चेत् ? शृणु, सार्वधातुकार्द्धधातुकयोः(७.३.८४) जुसि च (७.३.८३) इति गुणौ तावदलोन्त्यपरिभाषयाङ्गान्त्येऽलि प्राप्तौ प्रागुक्तज्ञापकादिभिरात्सन्ध्यक्षरव्यञअजनेभ्यो व्यावर्त्तिताविक्ष्वेव विश्राम्यतः । मिदि पुगन्तलघूपदादिगुणेषु तु स्थानी निर्दिष्ट एव । तथाहि, मिदेगुर्णः (७.३.८२) इत्यत्र मिद इर्मिदिस्तस्य मिदेरित्यर्थः, पुक्यन्तः पगन्तः लघ्वी उपधा लदूपदा पुगन्तश्चसमाहारद्वन्द्वात् षष्ठी न चैवं ‘यापयति’ इत्यादावतिप्रसङ्गः, सन्निपातलक्षमपरिभाषयाऽऽदन्तलक्षमस्य पुको गुणाप्रवर्त्तकत्वात् । ऋच्छत्यॄताम् (७.४.११) इत्यत्रापि द्वयोर्ऋतोर्दीर्घस्य चेति त्रयाणां प्रश्लिष्टनिर्द्देशः । तद्यथा आ च ऋच्च ऋतः ऋच्छतेरा ऋच्छत्या, स च ऋतश्च तेषा मिति षष्ठीतत्पुरुषद्वन्द्वोभयगर्भो द्वन्द्वः ऋच्छत्या च आ च ऋतश्चेति त्रिपदद्वन्द्वो वा । तेन ऋच्छत्यृकारस्य स्तानित्वं लभ्यते । वस्तुतस्तु चतुर्णामिह प्रश्लेषा बोध्याः तेन ‘आरिवान् सर्वभरुणान्यारुषि’ इत्यादावर्त्तेः क्वसौ गुणः सिद्धः पुनर्विधातसामर्थ्यात् । अन्यथा क्वसोः कित्करणसामर्थ्यात् ‘तितीर्वान्’ इत्यत्रेव गुणो निषिध्येत । एतच्च क्वसुश्च (७.४.१६) इत्यत्राप्युरङि गुण इति योगो विभज्यते । ततो दृशः । उरित्याद्यनुवर्त्तते । स्थूलदूर (६.४.१५६) इति सूत्रेऽपि योगविभागः कर्त्तव्यः ‘स्थूलदूरयुवहस्वानां यणादिपरम्’ इत्येको योगः, ‘क्षिप्रक्षुद्रयोः पूर्वस्यच गुणः’ इति योगान्तरम् । तत्र ‘स्थवीयान्’ इत्यादावोर्गुणेन सिद्धम् । आभीयस्यासिद्धत्वस्य श्नसोरल्लोपः (६.४.१११) इति तपरकरणेनानित्यताज्ञापनात् भाष्यकृता प्रत्याक्यानाच्च । यण आदिर्यणादिः ततः परमिति समासः । तथाच क्षिप्रक्षुद्रयोर्यण आदी पकारदकारौ ततः परस्य रशब्दस्य लोपस्ताभ्यामेव च पूर्वस्येकारस्योकारस्य च गुण इत्यर्थः । तदित्थं गुणाः सर्वे इकि विश्रान्ताः। मृजेर्वृद्धावप्यच इत्यपकृष्यते । मृजेर्वृद्धिरचः, ततो ञ्णिति, अच इत्येव । न चैवम् ‘अमार्ट्’ इत्यत्राटोपि वृद्धिः स्यादिति वाच्यम् लादेसेषु कृतेष्वाडिति पक्षे परत्वाद् वृद्धौ सत्यामट्। तत्र कते पुनर्वृद्धिर्न भवति सकृत्प्रवृत्त्या चरितार्थत्वात् ।
यदा त्वसिद्धवत्सूत्रप्रत्याक्यानाय ल्लुङ् इति द्विलकारकनिर्देशमाश्रित्योपदेशे आर्द्धदातुक इत्यनयोरन्यतरदनुवर्त्त्य वा लावस्तायामेवाट् क्रियते, एरनेकाचः (६.४.८२) इति विभज्य ‘इणोयम्’ इत्यनुर्वर्त्त्यानेकाचश्चेत्तर्हीण एवेति नियममाश्रित्य ‘अद्ध्यैयाताम्’ इत्यादौ यण् वार्यते, तदा लावस्थायां यद्यपि वृद्धिर्न भवति लकाराणां ङित्त्वेन ‘मृष्टः’ इत्यादाविव तन्निषेधात् । ततश्चान्तरङ्गत्वादडागम एव, तथापि ‘अन्त्याबावेऽन्त्यसदेशस्य’ (प.भा.१०४) इति परिभाषामाश्रित्याटो वृद्धिर्निवर्तनीया । परिभाषाप्रत्याख्यानपक्षे त्वङ्गाक्षिप्तेन प्रत्ययेनाज्विशेष्यते येन नाव्यवधानन्यायाच्च सिद्धम् ‘अमार्ट्’ इत्यादि रूपम् । सिचि वृद्धावपि विधेयायां नास्तीक्परिभाषाया उपयोगः व्यावर्त्याभावात् । न च ‘अचिकीर्षीत्’ इत्यकारो व्यावर्त्यः ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घब्यः पूर्वविप्रतिषिद्धम् (का.वा.) इति वचनादल्लोपेनैव सिद्धत्वात् । अन्यता ‘चिकीर्षकः’ इति न स्यात् ‘चिकीर्षायक’ इति च प्रसज्येत । आकारस्य तु नास्ति विशेषः सगिड्भ्यां बाधश्चेत्युक्तम् । एजन्तमपि न सम्भवति, आत्वविधानात् । ‘उदवोढाम्’ इत्यादौ तु ढलोपस्यासिद्धता । रैनैग्लौशब्दानामाचारक्विबन्तानां सत्यामसत्यां वा वृद्धौ न कश्चिद्विशेषः । गोशब्दात्क्विपि ‘अगवीत्’ इत्यत्रापि नातिप्रसङ्गः । ऋतइद्धातोः (७.१.१००) इत्यातोऽनुवृत्तेन धातुग्रहणेन सिजाक्षिप्तस्य धातोर्विशेषणे सति धातुरेव यो धातुर्न तु कथंचित्प्रातिपदिकमिति व्याख्यानादिति कैयटादयः ।
नन्वेवं कवेः अकवायीत्, विधोः अविधावीत्, पितुः अपितारीत्, अन्तरङ्गमपि गुणं सिचि वृद्धिर्बाधत इति वदन्माधवो विरुध्येत । सत्यम्, यद्यविरोधः सम्पादनीय इत्याग्रहस्तर्हीत्थं वर्णनीयम् धातोरितिवदोत इत्यप्यनुवर्त्तेते । तच्च वाक्यभेदेन सम्बध्यमानं नियमार्थं सम्पद्यते ओदन्तस्य धातोश्चेद् वृद्धिस्तार्हि धातोरेव धातोर्न तु नामधातोरिति । यद्वा, नेटि (७.२.४) इत्यत्र नेति योगं विभज्य मण्डूकप्लुत्या सम्बन्धानुवृत्त्या वा ‘गोतः’ इत्त्यनुवर्त्त्यौकारान्तस्य धातोर्वृद्धिर्निषिध्यते । अथवा बहुलं छन्दसि (७.१.१०३) इत्यतो बहुलमित्यनुवर्त्त्य सिचि वृद्दिर्नामधाताविगन्तस्य भवति न त्वोदन्तस्योति कथं चित्समाधेयम् ।
व्यञ्जनेष्वन्तरतमपरिबालेनैवानुनासिकपरसवर्णयोरिवातिप्रसङ्ग उद्धृत एव । अभ्युपेत्य तु ब्रूमः, नाप्राप्तायां सिचि वृद्धावारभ्यमाणा हलन्तलक्षणा वृद्धिर्बाधिका भविष्यति । नेटि (७.१.४) इति निषेधस्तु हलन्तस्य यावती वृद्धिः प्राप्ता सिचि वृद्धिः (७.२.१) इति वा हलन्तस्य (ए.७.२.३) इति वा तस्याः सर्वस्या, न तु सूत्रविशेषप्रापितत्वे आग्रहः । तेन ‘अकोषीत्’ ‘अमोषीत्’ इत्यादौ द्विविदाऽपि वृद्धिर्निषिध्यते इति सुस्थम् । तस्मान्निषेधसिद्व्यर्थमिग्लक्षणतां सम्पादयितुं सूत्रमिति स्थितम् ।
स्यादेतत् ‘कृतः कृतवान्’ ‘छिन्नश्छिन्नावान्’ इत्यादौ निषेधसिद्धये गुणग्रहणमस्तु । वृद्धिग्रहणं तु व्यर्थम् । न च ‘मृष्टो मृष्टवान्’ इत्यादौ निषेधसिद्धिस्तत्फलं, योगविभागेन सिद्धत्वात् । तथाहि, मृजेर्वूद्धिरित्यस्यानन्तरम् ‘अजादौ क्ङिति वा’ इत्येवं रूपं वचनमवश्यं कर्त्तव्यम् ’मृजन्ति’ इत्यादिसिद्ध्यर्थम् । एवं स्थिते अजादौ क्ङितीति योगे विभज्यते । नियमार्थं चेदम् क्ङिति चेद्भवत्यजादावेवेति । तेन ‘मृष्टो मृष्टवान्’ इत्यादि सिद्धम् । ततोऽजादावपि विकल्पेनेत्येतदर्थं ‘वा’ इति द्वितीयो योग इति । तस्माद्वृद्धिग्रहणस्य फलं दुरुपपादमिति । अत्राहुः । णू स्तुतौ धू विधूनने कुटादिषु पठ्येते । ताभ्यां लुङि अनुवीत् ‘अधुवीत्’ इतीष्यते । तत्र सिचि वृद्धेः क्ङितीति निषेधायेग्लक्षणतां सम्पादयितुमिह वृद्धिग्रहणमिति । नन्विहान्तर्भूतसिज्मात्रापेक्षत्वादन्तरङ्गे उवङि कृते हलन्तत्वात् नेटि (७.१.४) इति निषेधः सिद्ध इति चेत् ? न, सिच्यन्तरङ्गं नास्तीति सिद्धान्तादुवङः प्रागेव वृद्धिप्रसङ्गात् ।
स्यादेतत् । अन्तरङ्गं बलीयः (पा.भा.५.) इति तावद् अचः परस्मिन् (१.१.५७) इतिसूत्रे स्थापयिष्यते । तदविशेषात्सिच्यप्यस्तु । न चैवम् ‘अहैषीत्’ इत्यादौ गुणः स्यादिति वाच्यम्, तस्यैव वृद्धिसम्भवेनेष्टापत्तेः । नहीदानीं विधाविग्ग्रहणमस्ति येनैकारस्य वृद्धिर्न लभ्येत । न चैवमपि ‘अस्तौषीत्’ इत्यादावन्तरङ्गत्वाद् गुणे कृते ओतो नेति व्याख्यानपक्षे वृद्ध्यसम्भवः, बहुलग्रहणादनिगन्तानां नेति पक्षे तु ‘अचैषीत्’ इत्यादावपि दोष एवेति वाच्यम्, ओतो दातोरेव धातोर्न तु नामधातोरिति तृतीयपक्षाश्रयणेन सर्वसमाधानात् । ‘अकार्षीत्’ इत्यादौ हलन्तलक्षणा वृद्धिरस्तु । ‘अतारीत्’ इत्यादौ त्वन्तरङ्गत्वाद् गुणे हलन्तलक्षणायां वृद्धौ नेटि (७.१.४) इति प्रतिषिद्दायाम् अतो हलादेः (७.२.७) इति विकल्पं बाधित्वा अतो ल्रान्तस्य (७.२.२) इति नित्या वृद्धिः । ‘अलावीत्’ इत्यादावप्यन्तरङ्गत्वाद्गुणावादेशयोः कृतयोः अतो ल्रान्तस्य (७.२.२) इत्यत्र लोपो व्योः (६.१.७६) इति लोपेन वकारस्यापि व्याख्यानान्नित्या वृद्धिर्भविष्यति-मा भवानवीत् । ‘अमवीत्’ इत्यत्रापि तर्हि नित्या वृद्धिः स्यादिति चेत् ? न, णिश्विग्रहणमपनीय तत्स्थाने अविमव्योः प्रक्षेपेण वृद्धिनिषेधात् । न ह्यस्मिन्पक्षे णिश्विग्रहणमुपयुज्यते । ‘औनयीत्’ अश्वयीत् इत्यत्रान्तरङ्गत्वाद् गुणायादेशयोः कृतयोर्यान्तानां नेत्येव निषेधसिद्धेः । नन्वेवमवेरिव मवेरपि नित्यं निषेध एव स्यात्, इष्यते तु विकल्पः । नैष दोषः अतो ल्रान्तस्य (७.२.२) इत्यत्र वकारप्रश्लेषेण या नित्या वृद्धिः प्राप्ता सैवेहाविमव्योर्नेत्यनेन मवेर्निषिध्यते न तु अतोहलादेः (७.२.७) इत्येषाऽपि । मध्येपवादाः पूर्वान्विधीन्बाधन्ते नोत्तरान्(प.भा.६.) इति न्यायात् । न चैवं जागर्त्तेरपि तथा प्रसङ्गः, तत्र बाध्यसामान्यचिन्तामाश्रित्य स्वविषये प्राप्तं सर्वं बाध्यते इति स्वीकारात् । यद्वा, अपवादे निषिद्धे उत्सर्गो न प्रवर्त्तते इति जागर्त्तावाश्रयणीयं मवतौ तु प्रवर्त्तते इति बाध्यसामान्यविशेषचिन्तयोर्बाधके निषिद्धे बाध्यस्य प्रवृत्त्यप्रवृत्योश्च लक्ष्यानुरोधेन व्यवस्थाया अनुपदमेव वक्ष्यमाणत्वात् । न चैवम्’अगवीत्’ इत्यत्रापि नित्या वृद्धिः स्याद्वकारप्रश्ले,दिति वाच्यम्, सिचि वृद्धेरिवास्या अपि धातुग्रहणेन वारणात् । तस्मात्सिच्यन्तरङ्गाश्रयणेनैव ‘अनुवीत्’ ‘अधुवीत्’ इत्यादेः सिद्धौ क्ङिति च (१.१.५) इति प्रतिषेधस्यानपेक्षणाद्वृद्धिग्रहणं व्यर्थमेवेति ।
अत्रोच्यते-वकारप्रश्लेषे सति शवतिर्गतिकर्मा कम्बोजेषु विकारएवैनमार्या भाष्न्ते इति पस्पशायां भाष्यकारैरभ्युपगतस्य शब्धातोर पि नित्यवृद्धिप्रसङ्गः, तस्यापि प्रतिषेधे वा कथंक णिश्विभ्यां निमानम् ? गौरवप्रसङ्गात् । किञ्च, न वयं व्यसनितया सिच्यन्तरङ्गं न्स्तीति ब्रूमः, किन्तु न्यायबलाज्ज्ञापकबलात्फलानुरोधाच्च । तथाहि, येननाप्रप्तिन्या येनान्तरङ्गं वृद्ध्या बाध्यते ‘सत्यपि सम्भवे बाधनं भवति’ इत्यभ्युपगमात् । अन्यथा तक्रेण दधि न बाध्येत, श्नमकजादिभिशिच शप्प्रत्ययकप्रत्ययादयो न बाध्येरन्, देशभेदेनोभयसम्भवात् । न च मध्येपवादन्यायेनोवङेव वृद्ध्या बाद्यते न तु गुणोऽपीति वाच्यम् । बाध्यस्य भेदेन विवक्षायां ह्येतदेवं स्यात् । बाध्यस्य सामान्यचिन्तायां तु स्वविषये प्राप्तं स्वानपवादभूतं सर्वं बाध्यते, यथा अचिर (७.२.१००) इत्येतेन गुणदीर्घोत्वानि । अन्यथा तत्रापि मध्येपवादन्यायेन रेफो दीर्घोत्वे एव बाध्येत न तु गुणम्, तस्य परत्वात् बाध्यस्य च क्वचिद्भेदेन चिन्ता क्विचित्सामान्यरूपेणेत्युभयमपि लक्ष्यानुरोधात्तत्रतत्राश्रीयते । णिश्विग्रहणं चात्र लिङ्गम् । अन्यथान्तरङ्गत्वाद् गुणायादेशयोः कृतयोर्यान्तनां नेति निषेधादेव ‘औनयीत् ‘अश्वयीत्’ इत्यादेः सिद्धौ किं णिश्विग्रहणेन ? ज्ञापकान्तरमप्युक्तं भाष्ये यञ्च करोत्यकारग्रहणं लघोरिति कृतेऽपीति । अस्यायमाशयः अतो हलादेः (७.२.७) इति सूत्रेऽद्ग्रहणस्य न तावत्सन्ध्यक्षरादिकं व्यावर्त्यम्, लघुग्रहणेनैव व्युदासात् । इदुदृतः परमवशिष्यन्ते ‘अचेतीत्‘ ‘अकोषीत्’ ‘अनर्तीत्’ इति । तेऽप्यन्तरङ्गेण गुणेनापहृताश्चेत्तर्हि व्यर्थमद्ग्रहणं स्यात् । न च ‘अकुटीत्’ ‘अपुटीत्’ इत्यादावुकारव्युदासाय तदिति वाच्यम्, तत्राप्यन्तरङ्गेण गुणेन वृद्धिबाधे सति गुणे ङित्त्वान्निषिद्धेऽपि वृद्धेरप्रवृत्तेः, न हि देवदत्तस्य हन्तरि हते देवदत्तस्य पुनरुन्मज्जनं भवतीति न्यायात् । अत एव नान्तः पादम् इति पाठे पूर्वरूपनिषेधेसत्ययादयोऽपि न प्रवर्त्तन्ते । तेन ‘सुजाते अश्वसूनृते, इत्यादि च सिध्यतीति स्वीकृतं भाष्ये । न चैवमपवादाभावे पुनरुत्सर्गस्य स्थितिरिति निर्विषयं स्याद् ‘वृक्षौ’ इत्यादौ नादिचि (६.१०४) इति पूर्वसवर्णे निषिद्धे वृद्धिश्च न प्रवर्त्तेतेति वाच्यम् भिद्योद्ध्यौ नदे(३.१.११५) तौ सत् (३.२.१२७) इत्यादि लिङ्गेनापवादे निषिद्धे उत्सर्गोऽपि न प्रवर्त्तते इत्यस्यासार्वत्रिकत्वाभ्युपगमात् । तदेतत्तत्रतत्रोच्यते”नोत्सहते प्रतिषिद्धा सती बाधितम् इति । तथाच पक्षभेदाश्र येण अतो हलादेः (७.२.७) इत्यद्ग्रहणमपि ज्ञापकमिति स्थितम् ।
फलमप्यस्ति । यदि हि सिच्यन्तरङ्गं स्यात्तर्हि चिनीप्रभृतिभ्यो यङ्लुगन्तेभ्यः चिरिणोतिजिरिणोतिभ्यां च लुङि सिचि ‘अचेचायीत्’ अनेनायीत्’ ‘अचिरायीत्’ ‘अजिरायीत्’ इति न स्यात्, गुणायादेशयोः कृतयोर्यान्तानां नेति प्रतिषेधप्रसङ्गात् । यदि तु बाध्यविशेषचिन्तायां मध्येपवादन्यायमाश्रित्य उवङेव बाध्यते न तु गुण इत्याश्रीयते तदाप्येतन्न सिद्ध्येदेव । तस्मात्सिचि सर्वमप्यंतरङ्गं नास्त्येवेति सिद्धान्तं साधयितुं बाध्यसामान्यचिन्तैवाश्रयणीया । एतदर्थमेव हि भाष्ये ज्ञापकोपन्यासः कृतः । अन्यथा न्यायेनैव सिद्धेऽन्तरङ्गस्यापि बाधे किं ज्ञापकवर्णनेन ? एवं स्थिते ‘न्यनुवीत्’ ‘न्यधुवीत्’ इत्यत्र क्ङितिच (१.१.५) इति निषेध एवाश्रयणीयस्तथा चेग्लक्षणत्वसिद्धये वृद्धिग्रहणमपीह कर्त्तव्यमेवेति स्थितम् । एवञ्च सत्यसम्भवादपि वृद्ध्या सिच्यन्तरङ्गं सर्वं बाध्यते । यदि हिस्यात्तर्हि क्वापि सिचीगन्तमङ्गं न लभ्येते त्यवधेयम् । तथा चेग्लक्षणत्वस्य निषेधप्रवृत्त्यर्थमावश्यकत्वे स्थिते तत्र तत्रात्सन्ध्यक्षरव्यञ्जनादिव्यावृत्तिरपीक्परिभाषयैव सिध्यतीति ज्ञापकवर्णनादिक्लेशोऽपि नाश्रयणीयः । न चैवं ‘द्यौः’ ‘पन्थाः’ ‘इमम्’ इतायादावपीक्पदोपस्थितिवशादिकामेवौत्वमात्वमत्वं च स्यादिति वाच्यम्, गुणवृद्दिशब्दयोरनुवृत्तौ पुनर्गुणवृद्धिग्रहणसामर्थ्याद्धि शब्दव्यापारोऽप्याश्रीयते, गुणवृद्धी ये गुणवृद्धी न तु शब्दान्तरेण विहिते इत्यनुवृत्ताभ्यां विशेषणाद्वा । ननु अचश्च (१.२.२८) इति सूत्रे ह्रस्वादिग्रहणानुवृत्त्या संज्ञया विधाने पदोपस्थितिरिति स्थास्यति तत्सामर्थ्याद् दिव औत् (७.१.८४) पथिमध्यृभुक्षामात् (७.१.८५) त्यदादीनामः (पा.सू७.२.१.२) इत्यत्रेक्पदोप स्यानं न भविष्यति । यदि हि स्यात्तर्हि अचश्च (१.२.२७) इत्यत्र संज्ञया विधानेऽति यत्नाश्रयणं व्यर्थं स्यादिति चेत् ? न, दिवउत् (६.१.१३१) इत्यादिष्वगुणवृद्धिसंज्ञकेष्वच्परीभाषानिवर्त्तनेन चरितार्थत्वात् अष्टन आ विभक्तौ (७.२.८४) इत्यादाविकोऽसम्भवेन तत्र चरितार्थत्वाच्च । तस्मात् ‘द्यौः’ ‘पन्थाः’ ‘इमम्’ इत्यादिसिद्धये इहापि संज्ञाविधाने नियमं संपादयितुं पुनर्गुणवृद्धिग्रहणमिति प्राञ्चः । ननु ‘पन्थाः’ इत्यनुदाहरणम् इतोऽत्(७.२.८४) इत्यादाविकोऽसम्भवेन तत्र चरितार्थत्वाच्च । तस्मात् ‘द्यौः’ ‘पन्थाः’ ‘इमम्’ इत्यादिसिद्धये इहापि संज्ञाविधाने नियमं संपादयितुं पुनर्गुणवृद्धिग्रहणमिति प्राञ्जः। ननु ‘पन्थाः’ इत्यनुदाहरणम् इतोऽत् (७.१.८६) इति सिद्धे आद्विधिसामर्थ्यादेवेक्पदस्यानुपस्थितेरिति चेत् ? न, ऋबुक्षिऋकारोकारयोरर्थे आद्विधिसम्भवात् । न चेकः सोश्चानन्तर्यविवक्षणाद्येननाव्यवधानाश्रयणाच्च नैवमिति वाच्यम्, तथापि सम्बुद्ध्यर्थतया सामर्थ्योपक्षयात् । न चैवम् ‘इत आत्’ इत्येव ब्रूयादिति वाच्यम्, ऋभुक्षणमिन्द्रमित्यस्यासिद्ध्यपत्तेः । आद्विधौ हि वा षपूर्वस्य (६.४.९) इति तत्सिद्धिरिति दिक् ।
यत्तु भाष्ये ‘सः’ ‘इमम्’ इत्युदाहृतं, तत्र स इमं मन्त्रमपश्यत् इति बाह्मण वाक्यैकदेशानुकरणमात्रम् । उदाहरणं तु ‘इमम्’ इत्येव न तु ‘सुः’ इत्यपि, तच्छद्वे इकोऽसम्भवेन इकः (१.१.३) इति नियमस्याप्रवृत्तेरित्याहुः वस्तुतस्तु स इत्यप्युदाहरणं साध्वेव । त्यदादीनामः (७.२१.२) इति विधिवाक्यम् । तत्र चेक इत्यस्योपस्थितौ द्वीदमोरेवात्वं स्यान्न त्वन्येषाम् । गणएन निर्द्देशस्तु संज्ञोपसर्जनव्यावृत्त्यर्थमुत्तरार्थ च स्यात् । तदोः सः सौ (७.२.१०६) इति सत्वंहि त्यदादीनामेव तदोर्विधीयते । अत्रेदमवधेयम्, शब्दव्यापाराश्रयणानुरोधेनापि गुणवृद्धिग्रहणं मास्तु, इकस्तावित्येतावतैव सिद्धः । वस्तुतस्तु तावित्यपि व्यर्थम् । इक इत्येव सूत्र्यताम् । सम्पूर्णं पूर्वसूत्रद्वयमनुवर्त्य वृद्धिरित्यादतैचौ यत्र विधीयेते, गुण इति चादेङौ, तत्रेक इत्युपतिष्ठते इति व्याख्यानात् । व्याख्याने लिङ्गं तु इतोऽत् (७.१.८६) इतीद्ग्रहणम् । अन्यथा तत्रापीक्पदोपस्थितावुक्तरीत्या येननाव्यवधानन्यायादृकारोकारव्यावृत्तौ च सत्यां किं तेनेति । तदेतद् इग्ग्रहणं किमर्थम् इति भाष्येण इग्ग्हहणमात्सन्ध्यक्षर इत्यादिवार्त्तिकेन च सूच्यते । अन्यथा हि सूत्रं किमर्थमित्याद्येव ब्रूयात् । यत्तूत्तरार्थं गुणवृद्धिग्रहणं कर्त्तव्यमेवेत्याशयेनेग्ग्रहणमित्युक्तमिति भाष्याभिप्रायवर्णनम्, तन्न, पूर्वसूत्रानुवृत्त्यैव सिद्धावुत्तरार्थत्वस्यापि दुरुपपादत्वात्, समुदायापेक्षायां मण्डूकप्लुतेः सम्बन्धानुवृत्तेर्वात्वयापि वाच्यत्वात्, इग्ग्रहणस्याप्युत्तरार्थतया तदंशेऽपि शङ्कानुत्तानाच्च । इक इति योगः किमर्थं विभज्यते इति प्रश्नबीजमिति चेत्तर्हि गुणवृद्ध्यंशेऽपि तस्याविशिष्टतया सूत्रं किमर्थमित्येव ब्रूयादिति दिक् ।
यत्तु प्रधानावयवद्वारा समुदायाक्षेपोऽयमिति, तदपि नातीव शब्दस्वरसानुगुणम् । तस्मादुक्त एवाशयः साधुः । न चैवं गुणवृद्ध्यधिकारे पुनर्गुणवृद्दिग्रहणसामर्थ्याद् इत्युत्तरग्रन्थासङ्गतिः, तस्य यथाश्रुताभिप्रायकत्वात् । ग्रहणपदस्यानुवृत्तिपरतया सम्पूर्णसूत्रद्वयानुवृत्तिपरतयासम्पूर्णसूत्रद्वयावृत्तिसामर्थ्यपरत्वाद्वेति दिक् । एवं चेक इति योगविबाग एव पूर्वपक्षसिद्दान्ताभ्यां समर्थ्यते इतीह पर्यवासितोऽर्थः । ततश्चानेनैकेन योगविभागेन सकलेष्टसिद्धौ ‘मृजेर्वृद्धिरचः’ ‘उरङि गुणः’ इत्यादि बहुतरयोगविभागाद्याश्रयणेनान्यथासिद्धिवर्णनं नादर्त्तव्यमिति स्थितम् ।
इयं च परिभाषाऽलोन्त्यपरिभाषयाः शेषो वा शेषिभृता वा तया सह समुच्चिता वा वैकल्पिकी वा तदपवादो वा पूर्वविप्रतिषेधात्तद्वाधिका वा पदोपस्थापिका वेति सप्तदपक्षाः सम्भव्यन्ते यद्यपि, तथाप्याद्यानां षण्णां दुष्टत्वात्सप्तम एव सिद्धान्तितः । तथाहि, सार्वधातुकार्द्ध्गदातुकयोः (७.३.८४) इत्यत्र स्वस्वनिमित्तवसात्परिभाषाद्वयं सन्निहितम् । तत्राङ्गस्येति षष्ठी यदि पूर्वमेवान्त्यमलं नीता अङ्गान्त्यस्य गुण इति, पश्चादिकाऽन्त्यो विशेष्यते, तदेक्परिभाषा शेषभूता । यदि तु पूर्वमिकाऽङ्गस्य विशेषणात्तदन्तविधिरिगन्तस्याङ्गस्येति, ततः स च भवन्नलोन्त्यस्येति, तदा द्वितीयः पक्षः । तदिदं पक्षद्वयमपि षष्ठीतत्पुरुषं बहुव्रीहिं चाश्रित्य ‘तच्छेषपक्ष’ इति भाष्ये व्यवहृतम् । इह पक्षद्वेयेऽपि मिदेर्गुणः (७.३.८२) इत्यादौ दोषः । यो हि मिदेरन्त्यः नासाविक्, यश्चेक् नासावन्त्यः। तथा चावश्यम्परिभाषायां त्यक्तायां सत्यां विनिगमकाभावादुभयत्यागे सर्वादेशो गुणः स्यात् । तदुक्तं वार्त्तिककृता वृद्धिगुणावलोन्त्यस्येति चेन्मिदिमृजिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेष्विग्ग्रहणं सर्वादेशप्रसङ्गश्चानिगन्तस्य इति । चकारो हेत्वर्थः । ततश्च सर्वादेशप्रसङ्गो हीति फलितम् ।
अथ मिद इर्मिदिः तस्य मिदेरित्यादिपूर्वोक्तरीत्या कथं चिदिह सर्वत्रेक एव स्थानित्वं लभ्येत, तथापि ‘भिन्नम्’ इत्यादावनिग्लक्षणत्वाद् गुणनिषेधो न स्यात् । अथ क्नोः कित्त्वाज्ज्ञापकादनिग्लक्षणत्वे । पि निषेधस्तर्हि ‘लैगवायनः’ ‘पौरोहित्यम्’ इत्यादावतिप्रसङ्गः ।
अथ लक्ष्यानुरोधाल्लघूपधगुणमात्राविषयकं ज्ञापकं तर्हि पदोपस्थितिपक्ष एव लक्ष्यसिद्धये समाश्रीयताम् । एवं हि ज्ञापकाश्रयणक्लेशोऽपि न भवति । कित्तवेनापि पदोपस्थितिरेव ज्ञाप्यताम् । एवं हि ज्ञापकमूलकं वाक्यान्तरं न कल्प्यमिति लाघवम् ।
अस्तु तर्हि तृतीयः पक्षः मिदेरन्त्यस्येकश्च द्वयोरपि गुण इति । मैवम्, स्थानेयोगावयवसम्बन्धरूपस्यार्थद्वयस्य युगपदुच्चारितया षष्ठ्या दुर्लभत्वात् । स्थानेयोगं च विनाऽलोन्त्यविध्यलाभात् । स्यानषष्ठी हि तदुपस्थितौ लिह्गमिति वक्ष्यते । इक इत्यनेन सहावयवषष्ठीं विनाऽन्वयायोगात् आवृत्त्यादौ प्रमाणाभावाच्च । एतेन मिदेरन्त्यस्य वेको वेति चतुर्थपक्षोपि प्रत्युक्तः, विकल्पस्याष्ठदोषग्रस्तत्त्वाच्च ।
अस्तु तर्हि तदपवाद इति पञ्चमः पक्षः । तथाहि, गुणविदावङ्गस्येति न स्थानषष्ठी । किन्तु इगपेक्षयाऽवयवषष्ठी । ततश्च लिङ्गाभावादलोन्त्यपरिभाषाया अनुपस्थितिः । अयमेव च बादपदार्थः । यदीक्परिभाषा न भवेत्तर्हि स्थानषष्ठीत्वं तन्मूलकालोन्त्यपरिभाषोपस्थितिश्च स्यात् । सत्यान्त्विक्परिभाषायां तदुभयं नेत्येतावतैवापवादत्वव्यवहारः । न हि वस्तुतो वचनेन प्रापितस्य बाधः सम्भवति शास्त्राप्रामाण्यप्रसङ्गात् । अत एव शास्त्रतात्पर्यसङ्कोचो बाध इत्याहुः । एतेन द्वन्द्वापवाद एकशेष इत्यपि व्याख्यातम् । नत्द्यनुत्पन्नायां विभक्तौ द्वन्द्वस्य प्रसङ्गः, किन्तु यद्येकशेषो न भवेत्तर्हि प्रत्येकं विभक्तिर्द्वन्द्वश्च स्यात्सति त्वेकशेषे तन्नेत्येव तत्त्वम् । अस्मिंश्च पक्षे जुसि गुणो ‘अजुहवुः’ इत्यत्रेव ‘अनेनिजुः’ ‘पर्यवेविषुः’ इत्यादावपि स्यात् । सार्वधातुकार्द्धधातुकयोः (७.३.८४) इति गुणो ‘भवति’ इत्यादाविव ‘इहिता’ इत्यत्रापि स्यात् । तथा च वार्त्तिकम् इङ्मात्रस्येति चेज्जुसि सार्वदातुकार्धधातुकह्रस्वाद्योर्गुणेष्वनन्त्यप्रतिषेधः (का.वा.) इति । अत्र ह्रस्वादीति ह्रस्वस्य गुणः (७.३.१०८) जुसि च (७.३.१०९) ऋतोऽङि सर्वनामस्तानयोः (७.३.११०) घेर्ङिति (७.३.१११) इति गुणचतुष्टयं गृह्यते । ततश्च ‘हे अग्ने’ ‘अग्नयः’ ‘कर्त्तरि’ ‘अग्नये’ ‘बाभ्रव्यः’ इत्यत्र यथा ओर्गुणान्तं गुणपञ्चकं भवति, एवं ‘हे अग्निचित्’ ‘अग्निचितः सन्ति’ ‘सुकृति’ ‘अग्निचिते’ ‘सौश्रुतः’ इत्यत्रापि स्यादिति वार्त्तिकार्तः । यद्यपीह निर्द्दिष्टस्थानिकत्वात्परिभाषा दुर्लभा। अग्निचिच्छब्दस्य घिसंज्ञाभावाच्च घेर्ङिति (७.३.१११) इत्येतन्न प्राप्नोति, तथापि वार्त्तिकस्योक्तिसम्भवमित्थं वर्णयन्ति हस्वस्य गुणः (७.३.१०८)”जसि च (७.६.१०९) इति सू६योस्तावद्ध्रस्वेनेग्वलिशेष्यते । दीर्घव्यावृत्तिश्च फलम् । अथानियमे नियमकारिणी परिभाषा कथमिहोपतिष्ठताम ? न हि इस्वस्य स्थानित्वेऽतिप्रसङ्गोऽस्ति, अकारस्य ह्यकार एव गुणो भविष्यतीति ब्रूयात् । तक्षत्रेदं वक्तव्यम् । ह्रस्वान्तस्याङ्गस्येको गुण इति सूत्रार्थः स्यात् । ततश्च ‘हे उपगो’ इत्यादावनन्त्यस्यापि स्यात्, ‘अग्निचित्’ इत्यादिकं तु विशेषणव्यवच्छेद्यं स्यात् । तथा च ह्रस्वस्येक इत्यनयोर्न परस्परं विशेषणविशेष्यभावः । किन्त्वनयोरेकमङ्गस्य विशेषणमपरमङ्गस्य विशेष्यमिति । यद्वा, ह्रस्वस्येत्येतदङ्गस्य विशेषणं मा भूदित्यङ्गस्य स्तानषष्ठीत्वं बाधितुमनन्त्यस्यापि गुणं सम्पादयितुमिक्परिभाषोपतिष्ठेत । एवम् ऋतः (७.३.११०) औः (६.४.१४६) इत्युभयत्राप्यनन्त्यस्य गुणविधानार्थं परिभाषा स्यादेव । घिसंज्ञा तु वर्णयोरेव न तु तदन्तस्येति पक्षं गृहीत्वा घेर्ङिति (७.३.१११) इत्यस्य अग्निचितः इत्यादावतिप्रसङ्गो योज्यः । नह्यस्मिन्पक्षे ऋत ओरित्याभ्यां घेः किञअचिद्वैलक्षणयमस्तीति दिक् ।
नन्वस्मिन्पक्षे पुगन्त (७.३.८६) इति सूत्रस्यु नियमार्थत्वाद् ‘ईहिता’ इत्यादौ न दोष इति चेत् ? न, यदि हि सार्वदातुकार्द्धधातुकयोर्लघूपधस्यैवेति नियमस्तर्हि ह्रस्वाद्योर्गुणे दोषस्तदवस्थः। यदि तु लघूपधस्य सार्वधातुकार्द्धधातुकयोरेवेति नियमस्तथापि ‘ईहिता’ इत्यादौ दोष एव । अथावृत्त्या द्विविधोऽपि नियमस्तर्हि ‘अनेनिजुः’ इत्यत्र दोषः । न ह्येतन्नियमद्वयेनापि वारयितुं शक्यं, लघूपधत्वात्सार्वदातुकपरत्वाच्च । ‘हे बुद्धे’ ‘बुद्धयः’ ‘पिचवे हितः पिचव्यः’ उगवादिभ्यो यत् (५.१.२) ‘बुद्धये’ ‘वृद्धये’ इत्यादावनुपधाभूतेष्वतिप्रसह्गस्तु दुर्वार एवेति तावद्वार्त्तिकहृदयम् ।
वस्तुतस्त्वङ्गाक्षिप्तेन प्रत्ययेन श्रूयमाणेन च जुसादिना इको विशेषणात्सकलदोषनिरासे सति तदपवादपक्षोऽपि समर्थयितुं शक्यते एव । अङ्गमेव प्रत्ययेन विशेष्यते इति गृहीत्वा परं भाष्यवर्त्तिकग्रन्थप्रवृत्तिरित्यवधेयम् । अस्तु तर्हि पूर्वविप्रतिषेध इति क्रोष्ट्रीयसम्मतः षष्ठः पक्ष इति चेत् ? न, इक्परिभाषाया निरवकाशत्वात् । न हि परस्परपरिहारेणावकाशलाभेऽसति विप्रतिषेधः । तस्माद्यदि ‘सत्यपि सम्भषे बाधनं भवति’ इत्याश्रीयते तर्हि येननाप्राप्तिन्यायादपवादत्वमस्त्येव । यदि तु असम्भवे बाध्यबाधकभाव अस्ति चेह सम्भवो यदुभयं स्यादित्याश्रीयते तर्हि तच्छेषादिष्वन्यतमपर्यवसानं न तु क्रोष्ट्रीयमतस्यावकाश इति स्थितम् ।
तस्मात्पदोपस्थापनमिति सप्तमः पक्षः सिद्धान्तसम्मतः । तथाहि, इक इति षष्ठ्यन्तानुकरणम्, न तु संज्ञिपरम्, स्वरूंपम् (१.१.६८) इति वचनात् । न च अशब्दसंज्ञा (ए.१.१.६८) इति निषेधः, षष्ठ्यन्तस्यासंज्ञात्वात् । तदयमर्थ यत्र ब्रूयाद्गुणो भवति वृद्धिर्भवतीति, तत्रेक इति षष्ठ्यन्तमुपतिष्ठते इति । तस्य च पदैकवाक्यतयाऽन्वयोऽन्वयोऽन्तरङ्गोऽलोन्त्यपरिभाषा तु विधिवाक्येष्ववान्तरवाक्यार्थं बुध्वा तदेकवाक्यतया सम्बध्यते इति तदन्वयो बहिरङ्गः । ततश्च जुसिच (७.३.८३) इत्यादाविकोऽङ्गस्येति सम्भवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्त्वादिकाऽङ्गे विशेषिते स्था नषष्ठी न विहितेति भवत्येवाऽलोन्त्यपरिभाषोपस्थितिः । मिदेर्गुणः (७.३.८२) इत्यादौ तु सामानाधिकरण्यान्वयस्यासम्भवान्मिदेरिक इति वैयधिकरण्येनान्वये सति स्थानषष्ठीविरहादलोन्त्यपरिभाषानोपतिष्ठते । न च मिदेरङ्गस्येत्यनयोरवयवषष्ठीत्वेपीक इति स्थानष ष्ठ्यस्त्येवेति वाच्यम्, न ह्येषाऽलोन्त्यपरिभाषोपस्थितावुपयुज्यते, अल्समुदायात्मकस्थानिनः परभूताया एव षष्ठ्यास्तदुपस्तापकत्वात्, इकश्चाल्रुपत्वात् । तथा चालोन्त्यपरिभाषा इक्परिभाषानन्तरोपस्थितिका न तु तया सह युगपदुपतिष्ठते येनाविसेषादुभयोर्निवृत्तिः स्यादिति सकलेष्टसिद्धिः । तच्छेषतदपवादपक्षयोरपि दूषणमुद्धर्त्तुं शक्यमित्युक्तमेव ।
तदिह सप्तपक्षीमध्ये पक्षत्रयं दुष्टमेव । पक्षचतुष्टयन्तु साध्विति स्थितम् । नन्वेतत्सूत्रम् अङ्गस्य (६.४.१) इत्यादिवदधिकारार्थमेव किं न स्यादिति चेत् ? एवं हि सतीकोगुणवृद्धी नेति नत्रा संयुज्यैव पठेत् । सर्वस्य द्वे (८.१.१) पूर्वत्रासिद्धम् (८.२.१) इत्यादिवत् । न द्द्युत्तरसूत्रोपस्थितिकत्वाविशेषे किंचित्संयुज्य किंचित्तु विभज्य पठितुमुचितम्, वैरूप्ये हेत्वभावात् । प्रत्ययः (३.१.१) परश्च (३.१.२) इत्यादौ तु पारार्थ्याविशेषेऽप्यसंयुज्य निर्द्देशो विधेयभेदान्न विरुध्यते । नापीदं विधिसूत्रम्, पुनर्गुणवृद्धिग्रहणसामर्थ्यात्, तत्प्रत्याख्यानपक्षेऽपि विशिष्टानुवृत्तिसामर्थ्यादिति दिक् । ॥ इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमे पादे तृतचीयमाह्निकम् ॥
॥ व्याकरणसिद्धान्तसुधानिधिः ॥
गुणवृद्धिशब्दयोर्यत्र विधेयसमर्पकत्वं तत्र स्थानिविशेषानभिधाने इक इति षष्ठ्यन्तं पदं स्थानिसमर्पकमुपस्थितं बोध्यम् । इदं च गुणवृद्धिशब्दयोः प्रकृतत्वेऽपि पुनर्गुणवृद्धिग्रहणात् शब्दव्यापाराश्रयेण लभ्यते । अन्यथा इक इत्येव ब्रूयात् ।
यत्तु तथाऽपि इकस्तौ इत्येव वक्तव्यम् । वस्तुत इक इत्येव । सम्पूर्ण पूर्वसूत्रद्वयमनुवर्त्य वृद्धिरित्यादैचौ यत्र विधीयेते गुण इति च अदेङौ तत्र इक इति षष्ठ्यन्तं पदमुपतिष्ठते इति व्याख्यानात् । तत्र च लिङ्गम् इतोऽत्सर्वनामस्थाने इत्यत्र इग्रहणम् । ‘अकारस्य स्वरूपेण विधानेऽपि इक्पदोपस्थितौ तद्वैयर्थ्यादिति, तच्चिन्त्यम्, सर्वनाम्नामुत्सर्गतः प्रधानपरामर्शितया तच्छब्देन गुणवृद्ध्योर्ग्रहणानुपपत्तेः । औत्सर्गिकव्युत्पत्त्यनुसारेणै वापत्तेः कल्प्यत्वात् । उक्तलिङ्गस्य च ऋभुक्षिशब्दगतऋकारोकारव्यावृत्त्यर्थतयाऽन्यथासिद्धत्वात् । वाक्यानुवृत्तौ च तस्य विशिष्टार्थान्तरपरत्वेन प्रकृतार्थान्वयानुपपत्तेः । न च शब्दाधिकारेण निर्वाहः । पदमात्रे तदङ्गीकारात् । वाक्यार्थस्य परमतात्पर्यविषयतया तद्भङ्गस्यानुचितत्वात् । पदार्थस्य तु स्वातन्त्र्येण तदविषयतया वाक्यान्तरान्त्रयेऽपि तद्भङ्गाभावात् । तद्वाक्यार्थबुद्धावेतत्समभिव्याहारस्य प्रतिबन्धकत्वे गौरवात् । तत्तत्पदार्थान्तरनिरूपिताकाङ्क्षादिज्ञानान्तरकल्पने गौरवाच्च ।
इग्ग्रहणं किमर्थमिति भाष्यादिकं तु अवयवद्वारा सूत्राक्षेपपरम् । प्रधानाक्षेपे गुणाक्षेपस्यार्थसिद्धत्वात् । अत एव प्राक्कडारात्समासः इत्यत्र प्राग्वचनं किमर्थमिति भाष्ये अवधित्वद्योतकाक्षेपद्वारेणावधेरप्ययमाक्षेप इति कैयटः । गुणवृद्ध्यधिकारे पुनर्गुणवृद्धिग्रहणसामर्थ्यादितिभाष्यादिस्वरसाच्च । एतेन सम्पूर्णसूत्रद्वयानुवृत्तिसामर्थ्यपरतया उक्तग्रन्थं व्याख्याय पूर्वोक्तव्याख्याने शब्दस्वारस्याननुगुणत्वदोषोद्भावनमपास्तम् । विपरीतत्वात् स्वरसस्येति दिक् ।
इदं च सूत्रं न विध्यात्मकम् । पुनर्गुणवृद्धिग्रहणवैयर्थ्यात् । नाप्यधिकारः । तथा सति नोऽप्यत्रैव पाठापत्तेः । प्रतियोगिभूतयोर्गुणवृद्ध्योरत्रोपादानं निषेधस्य तूत्तरत्रेति वैषम्ये बीजाभावात् । इक्स्थानिकगुणवृद्धिनिषेधस्योत्तरत्र विधेयतयोपस्थितिसिद्ध्यर्थत्वे विशिष्टस्यैवाधिकर्तुमुचितत्वात् सर्वस्य द्वे इत्यादिवत् । प्रत्ययः परश्च इत्यादौ विभज्य पाठस्तु विधेयभेदादुपपन्नः । आद्येन प्रत्ययसंज्ञा विधीयते परेण तु प्रकृत्यपेक्षया परत्वमिति । तस्मात् परिभाषैवेयम् । एतदुपस्थितौ लिङ्ग च गुणवृद्धिशब्दाभ्यां तद्विधानं स्थान्यन्तरनिर्देशाभावविशिष्टम् न तु गुणवृद्धिपदमात्रम् । अचो णिति इत्यादावतिप्रसङ्गादित्यग्रे निरूपयिष्यामः । उदाहरणं चेता स्तोता कर्ता अचैषीत् अस्तौषीत् अहार्षीत् इति । प्रत्युदाहरणं तु याता ग्लायति उम्भिता इति । अत्र आकारस्य अकारः ऐकारस्य एकारः मकारस्य स्थानसाम्यादोकारश्च गुणो मा भूत् । यद्वार्तिकम् - इग्ग्रहणमात्सन्ध्यक्षरव्यञ्जननिवृत्त्यर्थम् इति ।
स्यादेतत् - पचतीत्यादौ धात्वकारस्य शपमाश्रित्य पुगन्तलघूपधस्य इति, प्रत्ययाकारस्य च सार्वधातुकार्द्धधातुकयोः इति तिपमाश्रित्य गुणे कृतेऽपि विशेषाभावः । न च चिकीर्ष अक इति स्थिते अकारस्य वृद्ध्यापत्तिः । ण्यल्लोपाविययण्गुणवृद्धिदीर्धेभ्यः पूर्वविप्रतिषेधेन इति वार्त्तिकोक्त्या अतो लोपस्य बलवत्त्वात् । सिद्धान्तेऽपि अचो णिति इति वृद्धेर्निर्दिष्टस्थानिकत्वेन उक्तपरिभाषाया अप्रवृत्त्या उक्तरीत्यैव समाधेयत्वात् । अयासीदित्यादौ तु आकारस्य सिचि वृद्धिः इति वृद्धावपि न दोषः । यमरमनमातां सक् च इति सगिद्ध्यां परत्वेन तद्बाधाच्चेति केचित् । येन नाप्राप्तिन्यायेनापवादत्वात्तद्बाध इत्यन्ये । याता वातेत्यादौ गुणस्तु गापोष्टकः कित्त्वेन ज्ञापकेनैव वर्णैकदेशानां वर्णग्रहणेन ग्रहणमितिपक्षप्रस्तावोक्तरीत्या निरस्त एव । अन्यथा द्वयोरकारयोः पररूपेणैव सिद्धौ आतोलोपप्रवृत्त्यर्थकित्त्वस्य वैयर्थ्यापत्तेः । अतो लोपेन तु न तत्र निर्वाहः । अनुदात्तोपदेश इत्यत उपदेशपदानुवृत्त्या आर्द्धधातुकोपदेशकाले यददन्तं तस्यैव लोपविधानात् । गाधातोस्तु टप्रत्ययोत्पत्तिवेलायामादन्तत्वात् । अन्यथा गत इत्यादौ मकारलोपे कृतेऽदन्तत्वेन लोपापत्तेः ।
अथात्र आभीयत्वेन मलोपादेरसिद्धत्वमाश्रीयेत, तथाऽपि ‘अय पय गतावि’त्याभ्यां क्विपि अत् पत् इति रूपं माधवादिसम्मतं न सिद्ध्येत् । लोपो व्योः इत्यस्य आभीयत्वाभावात् । न चैवं ‘धिवि प्रीणने, कृवि हिंसाकरणयो ‘श्वेत्येतयोरिदित्त्वान्नुमागमे धिन्विकृण्व्योर च इति वकारस्याकारादेशे उप्रत्यये च कृते अतो लोपो न स्यात्, उप्रत्ययोत्पत्तिवेलायामदन्तत्वाभावादिति वाच्यम् । उप्रत्ययवेलायामेव तत्सन्नियोगशिष्टतया अस्यापि बुद्ध्यारोहात् इति केचित् । यौगपद्येऽपि उप्रत्ययोपदेशवेलायामदन्तत्वं नास्त्येवेत्येतदस्वरसेन निर्देशक्रमात् प्रथममत्वं ततश्च शब्दाकृष्ट उप्रत्यय इत्यन्ये । तस्मादाकारनिवृत्त्यर्थं नैतत्सूत्रमारभ्यम् । नापि ऐनिवृत्त्यर्थम् । ऐकारोपदेशसामध्यदिव तद्वारणात् । अन्यथा एकारमेवोच्चारयेत् । न चैवमायादेशोऽपि न स्यादिति वाच्यम् । गुणे प्रति हौकारोपदेशः स्ववैयर्थ्यापत्त्या बाधकः, आयादेशे तु ऐकार एव निमित्तमिति वैषम्यात् । तदाहुः - यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधेर्निमित्तमेव नासौ बाध्यते इति ।
न च म्लाय् इत्येव पठितुं शक्यम् । त्वया ग्लायते इत्यादी यकारद्वयापत्तेः । आदन्तत्वाभावे जम्लावित्यादेरसिद्धेश । नन्ववम् आदेच उपदेशेऽशिति इत्यात्वमपि बाध्येत । एङन्तत्वोपदेशेऽपि आत्वसम्भवेन ऐजुपदेशस्य तन्निमित्तत्वाभावात् । शिति प्रत्यये गुणस्य शिद्भिन्ने त्वात्वस्य ऐज्विरोधित्वे तुल्ये ऐजुपदेशेन गुण एव बाध्यते न त्वात्वमिति विनिगन्तुमशक्यत्वात् । धेट् पान इत्याद्येङन्तेषु आत्वविधेरपि सावकाशत्वात् । आत्वविधावेज्ग्रहणस्य तु मीनातिमिनोतिदीङां ल्यपि च इत्युत्तरार्थत्वात् । वार्तिकमते एजन्तानां दीडादीनामात्वविधानस्य घुसंज्ञासूत्रे वक्ष्यमाणत्वात् ।
अत्र कैयटादयः - न ध्याख्या इति सूत्रे कृतात्वस्य ध्यायतेर्निर्देश एव आत्वं न बाध्यत इत्यत्र विनिगमक इति ।
यत्तु एज्ग्रहणसामर्थ्यादप्यात्वं भवति । न हि तस्योत्तरार्थत्वं शङ्क्यम् । भाष्यमते मीनाति इति सूत्रेण गुणवृद्धिनिमित्ते प्रत्यये विवक्षिते सत्युपदेशावस्थायामेवात्वं विधीयते न तु न तु गुणवृद्धयोः कृतयोरितिसिद्धान्तात् । अन्यथा दाय इत्यत्र इकारान्तत्वाद् घञ बाधित्वा अच् स्याद्, ईषदवदान इत्यादौ आतो युच् न स्यात्, अवदाय इति श्याद्व्यध इति आदन्तत्वलक्षणो णश्च न स्यात् । इदं च एइनिमित्तप्रत्ययविवक्षायां दीडादीनामात्वविधानेनापि सिद्ध्यति । न च जितां णितां च प्रत्ययानां वृद्धिनिमित्ततया एनिमित्तत्वं नास्तीति धणिजादिविवक्षायामात्वं न स्यादिति वाच्यम् । वृद्ध्या गुणबाधेऽपि तेषां गुणं प्रति स्वरूपयोग्यत्वानपायात् । एज्विषये प्रागेवात्वाभ्युपगमे फलोपधानविवक्षायामसम्भवादिति तन्न, अपवादविषयपरिहारेणैवोत्सर्गप्रवृत्त्या णिजादेरेचं प्रति स्वरूपयोग्यत्वे मानाभावात् । तस्मादैचो न गुण इति सिद्धम् ।
नापि व्यञ्जननिवृत्त्यर्थम् । सप्तम्यां जनेर्डः इति डप्रत्ययस्य डित्करणेन व्यञ्जनस्य गुणो न भवतीति ज्ञापितत्वात् । अन्यथाऽर्द्धमात्रिकव्यञ्जनस्थाने अकारे गुणे मातृके कृते पररूपेण सिद्धौ तद्वैयर्थ्यात् । न च नकारस्य सानुनासिक एवाकारो गुणः स्यादिति वाच्यम् । पर इत्येव सिद्धे रूपग्रहणस्य यद्गुणविशिष्टं परस्य रूपं तादृगेव यथा स्यादित्येतदर्थत्वात् । अत्र भाष्यम् -
डित्करणं न ज्ञापकम् । अन्येभ्योऽपि दृश्यते इत्यनेन गमश्च, अन्तात्यन्ताध्वदूरपार इति प्रकरणाधीतेन वार्त्तिकन गमेरपि डप्रत्ययस्य वाच्यत्वात् । तत्र च गुणस्वीकारे मकारस्य स्थाने ओष्ठस्थानतया ओकारस्य गुणस्यापत्तौ नगोऽग इत्यादीनामसिद्धेः । यद्यपि सप्तम्यां जनेर्डः इति प्रकरणादन्यत्रैवायं डप्रत्ययः, तथाऽपि जनेर्डः इति प्रकरणे अन्येष्वपि दृश्यते इति सूत्रस्थापि शब्दगर्भित एवार्थो वार्त्तिकनोक्तो न त्वपूर्वः । अस्तु वा तद्वार्त्तिकमेव व्यर्थमिति भाष्याभिप्रायः इति केचित् ।
ननु गमेडौंः इति डोप्रत्ययविधानं मकारस्य ओकारो गुणो न भवतीति ज्ञापकम्, अन्यथा विचैव गुणे कृते गोरूपसिद्धेः, यद्वा इदमेव व्यञ्जनस्य गुणाभावज्ञापकं स्यादिति चेन्मैवम्, मकारस्थाने सानुनासिकस्य अकारस्य व्यावृत्तये डोप्रत्ययविधेः सार्थक्यात् । अथ तथाऽपि तनोतेर्ड उः सन्वच्च इति डिल्करणं ज्ञापकं व्यञ्जनस्य गुणो न भवतीति । अन्यथा नकारस्य गुणेन प्रत्ययाकारेण सह पररूपेण च सिद्धौ तस्य वैयर्थ्यात् ।
किञ्च स्थानप्रयत्नाभ्यामन्तरतमे चेता अचैषीदित्यादौ चरितार्था गुणवृद्धिविधयः केवलस्थानकृतान्तयेंण व्यञ्जनादिषु न प्रवर्तिष्यन्ते । न चैवं नेता अनैषीदित्यादौ स्थानगुणप्रमाणैस्त्रिभिरान्तरतम्यात्तत्र चारितायें, ह्रस्वे तत्प्रवृत्तिर्न स्यादिति वाच्यम् । सृघस्यदः वमरच् इति कित्करणेन प्रमाणत आन्तर्यस्याविवक्षितत्वज्ञापनात् । न च ईहिता ईशितेत्यत्र कण्ठ्यतालव्ययोर्विवृतयोश्च हकारशकारयोः स्थानगुणाभ्यामान्तरतम्याददेतौ स्यातामिति वाच्यम् । ऊष्मणामीषद्विवृतत्वस्य वक्ष्यमाणत्वात् । इकारादीनां विवृतत्वमेव । एकारादीना विवृततरत्वस्य शिक्षान्तरोक्तत्वेऽपि सूत्रभाष्याद्यसम्मतत्वात् । उक्तकित्त्वेन इकारादिषु गुणप्रवृत्त्यनुमानाद्वा । तस्मादात्सन्ध्यक्षरव्यञ्जनानां गुणवृद्ध्योरभावस्योक्तरीत्यैव सिद्धौ सूत्रमेतद्व्यर्थमिति पूर्वपक्षः ।
सिद्धान्तस्तु क्क्ङिति च इति सूत्रे निषेध्याया वृद्धेरिग्लक्षणत्वसम्पादनायेदम् । न होतत्परिभाषां विना इग्लक्षणगुणवृद्धिनिषेधः शक्यः । प्रतियोगितावच्छेदकाप्रसिद्धेः । सति त्वस्मिन् इक इति शब्दमुच्चार्य विहितत्वलक्षणमिग्लक्षणत्वं प्रसिद्ध्यति । तत्रत्य चकारस्य इति शब्दार्थकतया तदर्थलाभात् । न च तदविशेषितयोरेव तयोः स निषेधोऽस्त्विति वाच्यम् । नडादिभ्यः फकि लैगवायन इत्यत्र ओर्गुणस्यापि निषेधापत्तेः । न च विधानसामर्थ्यम् । औपगव इत्यादौ तस्य चरितार्थत्वात् । पौरोहित्यमित्यादौ तु यकि परे किति च इति आदिवृद्धिर्भविष्यत्येव । विधानसामर्थ्यात् । निषेधस्य तद्धितभिन्नेकितिचरितार्थत्वात् । अत एव इक्स्थानिकगुणनिघेघेनापि न निर्वाहः । उक्तगुणस्य उकारस्थानीयतासत्त्वात् । तस्मान्निषेधे प्रतियोगितावच्छेदकी भूतमिग्लक्षणत्वं तत्प्रसिद्ध्यर्थमिदम् । गुणवृद्धी पुनः सर्वत्रैव तद्व्यतिरेकेणापि इक्स्थानिके एव पर्यवस्यतः ।
तथाहि - सार्वधातुकार्द्धधातुकयोः, जुसि च इति गुणश्च अलोऽन्त्यपरिभाषया अन्त्यवर्णे प्राप्ती पूर्वोक्तज्ञापकवशादिश्वेव विश्राम्यतः । मिदेर्गुणः, पुगन्तलघूपधस्य च इत्यादिषु तु स्थान्यपि निर्दिष्ट एवं । मिद इर्मिदिस्तस्य गुणः । पुकि अन्तः पुगन्तः । पुकीति विषयसप्तमी । पुकि विवक्षिते सति योऽन्त इत्यर्थः । तेन पुगव्यवहितपूर्ववर्त्तिन इति पर्यवसितम् । लघ्वी चासावुपधा चेति कर्मधारयः । ततः पुगन्तश्च लघूपधा चेति समाहारद्वन्द्वे क्लीबत्वम् । वापयतीत्यादौ त्वादन्तसन्निपातकृतस्य पुकस्तद्विघातकगुणाप्रवर्त्तकत्वात् । ऋच्छत्यॄताम् इत्यत्रापि ऋशब्दऋच्छब्दयोर्द्वन्द्वः, ऋच्छति शब्दस्य ऋकारेण षष्ठीसमासं कृत्वा पूर्वपदे तत्पुरुषगर्भ उत्तरपदे द्वन्द्वगर्भो द्वन्द्वः ।
यद्वा उक्तरीत्या पूर्वपदे तत्पुरुषगर्भ ऋकारेण ऋच्छशब्देन च त्रिपदो द्वन्द्वः । तेन ऋच्छतेर्ऋकारस्य स्थानित्वलाभः । आरिवानित्यादौ गुणसिद्ध्यर्थमृधातोः सङ्ङ्ग्रहाय मध्येचतुर्थोऽपि ऋकारः प्रश्लेष्यः । अन्यथा क्वसोः कित्त्वसामर्थ्याद् गुणो न स्यात् । प्रश्लेषे तु विशिष्यविधानसामर्थ्याद् गुणसिद्धिः । ऋदृशोऽङि इत्यत्र उरङि गुणः ततो दृशः इति पृथक्योगः । उरित्यनुवृत्त्या व्यधिकरणषष्ठ्या च दृशिसम्बन्धिन ऋकारस्य गुण इत्यर्थः । स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः इत्यत्र योगविभागः । स्थूलदूरयुवह्रस्वानां यणादिपरम् इत्येको योगः । क्षिप्रक्षुद्रयोः पूर्वस्य च गुणः इति द्वितीयः । युवपर्यन्तानां लकाररेफवकाराणां स्वोत्तरवर्त्यकारेण सह लोपे ओर्गुणः इत्युकारस्य गुणे अवादेशे च स्थवीयान् दवीयान् इत्यादि सिद्धम् । यण आदिर्यणादिः ततः परमिति समासः । तेन क्षिप्रक्षुद्रयोर्यण आदी रेफपूर्वी पकारदकारौ, ततः परस्य रशब्दस्य लोपस्ताभ्यां पूर्वस्य इकारस्य उकारस्य च गुण इत्यर्थः ।
एवं गुणमात्रमिक्षु विश्रान्तम् । मृजेर्वृद्धिः इत्यत्र तु अचः इत्यपकृष्य मृजेः सम्बन्धिनः अचो वृद्धि स्यात् । ततो ञि्णिति इति । अच इत्यनुवृत्त्या यथान्यासवदेवास्य योगस्यार्थः । अमार्ट इत्यादौ अटो वृद्धिस्तु न भवति । लादेशोत्तरमडिति पक्षे परत्वाद्वृद्धेः प्रवृत्तेः । सकृदेव शास्त्रस्य चरितार्थत्वात् । यदा तु लावस्थायामेवाट्, न चैवमध्यैयातामित्यत्र अधि आ इ आतामिति स्थिते अचि श्नुधातुभ्रुवाम् इति इयङं बाधित्वा एरनेकाचः इति यण् स्यात्, आटो धात्वाद्यवयवत्वेनानेकाच्त्वादिति वाच्यम्, एरनेकाच इति विभज्य इणो यण् इत्यनुवर्त्ता अनेकाचश्चेद्यण तर्हि इण एवेति नियमेन तद्वारणादिति पक्ष आश्रीयते, तदा विक्ङति च इति निषेधाद् वृद्धेर्लावस्थायां दुर्लभत्वेनान्तरङ्गत्वादडागमस्यैवोत्पत्त्या तस्य वृद्धिप्रसङ्गेऽपि अन्त्यबाधेऽन्त्यसदेशस्य इति परिभाषया समाधानसम्भवात् ।
तत्प्रत्याख्यानपक्षे तु अङ्गाक्षिप्तेन प्रत्ययेनाज्विशेषणात् प्रत्यये परे तद्विधानात् । अव्यवहितप्रत्ययाभावेनैकवर्णव्यवधानेऽपि ऋकारस्यैव वृद्धिर्न त्वटः । अनेकव्यवधाने प्रवृत्तौ मानाभावात् । येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् इति न्यायात् । सिचि वृद्धिः परस्मैपदेषु इत्यत्रापि अचिकीषर्षीदित्यकारवृद्धिनिषेधार्थ नैतत्सूत्रम् । अल्लोपस्य विप्रतिषेधेन बलवत्त्वस्य उक्तत्त्वात् । आकारेऽप्युक्तः समाधिः । एजन्तं तु नास्त्येव । अनैमित्तिकस्य आत्वस्य प्रागेव प्रवृत्तेः । रैनौग्लौशब्दानामाचारक्विबन्तानां वृद्धिसत्त्वात्सत्त्वयोर्न विशेषः ।
न च उदवोढामित्यत्र पूर्वं ढलोपे तत्र ओदन्तत्वाद् वृद्धिप्रसङ्गः । तस्यासिद्धत्वात्पूर्व हलन्तलक्षणा वृद्धिः ततो ढलोपः, असिद्धं बहिरङ्गमन्तरङ्गे इत्यसिद्धत्वान्न ओदन्तत्वमिति समाधानात् । न च गोशब्दात्किपि अगवीदित्यत्र वृद्धिनिषेधार्थः । ऋत इद्धातोः इत्यतोऽनुवृत्तेन धातुना सिजाक्षिप्तस्य धातोरभेदेन विशेषणाद्धातुरेव यो धातुर्न तु कथञ्चित् प्रातिपदिकमिति व्याख्यानादिति कौस्तुभे । माधवस्तु कविविधुपितृशब्दानां क्विपि लुङि अकवायीत् अविधावीत् अपितारीदित्याह ।
तस्यायमाशयः - धातुरेवेत्यस्य कोऽर्थः, प्रत्ययान्तरेऽपि धातुसंज्ञक एव, धातुत्वानिबन्धनप्रत्ययप्रकृतित्वाभाववान् वा ? नाद्यः, तत्र हि भेदप्रतियोगितावच्छेदकतया प्रत्ययत्वसाक्षाद्व्याप्यो धर्मो निवेश्यते उत कथञ्चित्प्रत्ययत्वव्याप्यः । न प्रथमः । तिङ्ङ्क्त्वाद्यवच्छिन्नभेदवति कृत्प्रत्ययादौ क्विबन्तस्यापि धातुत्वात् । नान्त्यः, तिप्त्वावच्छिन्नभिन्ने तसादावपि तस्य धातुत्वात्तद्व्यावृत्तेरभावात् । न द्वितीयः, क्विबन्तानां हरतिकरोत्यादीनां स्वादिप्रकृतित्वेन व्यावृत्त्यापत्तेः । न च तुग्विशिष्टानामेव स्वादिप्रकृतित्वमिति वाच्यम् । तावताऽपि धर्मिभेदानुपपादनात् । लू इत्यादिक्विबन्तसमानाकाराणां शुद्धल्वादीनामप्यलावीदित्यादौ वृद्ध्यनापत्तेश्च । न च प्रातिपदिकत्वानुत्तरधातुसंज्ञाक इति वाच्यम् । उपदेशे एवानुबन्धलोपे कृते ततो धातुसंज्ञा इति ग्रन्थदर्शनाद्धातुप्रत्ययभिन्नत्वे सत्यर्थवत्त्वोत्तरमेव हुप्रभृतीनामपि धातुसंज्ञत्वात् । अनुबन्धसत्त्वासत्त्वयोस्त्वकिञ्चित्करत्वात् ।
अथौपदेशिकधातुग्रहणार्थं द्वितीयधातुग्रहणमिति नामधातुव्यावृत्तिरिति कैयटोक्त्यनुसारेणोच्यते, तथाऽपि इगन्ते क्विबन्त्तधातौ सिचि वृद्धिर्वारयितुं न युक्ता । इक्परिभाषारम्भे तस्या इष्टतया तदनारम्भेऽपि तथात्वात् । तादृशस्यैवार्थस्य प्रकारान्तरेण साधनीयत्वात् । तस्मादोकारान्तव्यावृत्त्यर्थमेव यतनीयमिति स्थिते केचित्तावदाहुः -
घातोरितिवद् ओतः इत्यप्यनुवर्त्य ओदन्तस्य धातोश्चेद् वृद्धिर्भवति तर्हि धातोरेव धातोर्न तु नामधातोरिति व्याख्येयमिति । तच्चिन्त्यम्, नामधात्वन्यस्य ओदन्तस्य धातोरप्रसिद्धेः । तेषामात्वस्य प्रागेव प्रवृत्तेः । ओदन्तत्वोपलक्षितस्य आकारान्तत्वदशायां वृद्धौ सत्यामसत्यां वा विशेषाभावस्योक्तत्वात् । तस्माद् नेटि इत्यत्र नेति योगं विभज्य ओतः इत्यनुवर्त्य ओकारान्तस्य वृद्धिनिषेधः ।
यद्वा बहुलग्रहणमनुवर्त्ता ओदन्तस्य वृद्ध्यभावो बाहुलकेन साधनीय इत्येव तावद्रमणीयम् । एवं हलामपि न सिचि वृद्धिप्रसङ्गः । येन नाप्राप्तिन्यायेन हलन्तलक्षणवृद्धेस्तावद्वाधकत्वसम्भवात् । न चैवमकोषीदमोषीदित्यादौ वदव्रजहलन्तस्याचः इति वृद्धेः नेटि इति निषेधेन निरपवादत्वात् सिचि वृद्धिः इति सूत्रेण हलोवृद्धिप्रसङ्ग इति वाच्यम् । वृद्धिमात्रस्य नेटि इति निषेध इत्यभ्युपगमात् । तस्मात् क्क्ङिति च इति निषेधे इग्लक्षणत्वस्य वृद्धिविशेषणत्वलाभार्थमियं परिभाषेति सिद्धम् ।
अथ तथाऽपि कृतं छिन्नमित्यादौ सार्वधातुकार्द्धधातुकयोः इति पुगन्तेति गुणस्य च निषेधाय गुणग्रहणमेवास्तु, न तु वृद्धिग्रहणम् । न च मृष्ट इत्यादौ वृद्धिनिषेधाय तस्या इग्लक्षणतां सम्पादयितुं तदिति वाच्यम् । मृजेरजादौ सङ्क्रमे विभाषा वृद्धिमारभन्ते इति भाष्योक्त्या अजादौ क्क्ङिति वा इति वचनस्य मृजेर्वृद्धिः इत्येतदुत्तरमावश्यकतया तत्र अजादौ विवङति इति योगं विभज्य विक्ङति चेद्भवत्यजादावेवेतिनियमेन तद्व्यावृत्तेः साध्यत्वादिति चेत्, अत्राहुः ‘णू स्तुतौ, धू विधूनने’ इति कुटादिपठितयोलुङि अनुवीत् अधुवीदितिरूपमिष्टम् । तत्र गाङ्कुटादिभ्यः इति डिङत्त्वातिदेशेन विक्ङति च इति सिचि वृद्धेर्निषेधार्थं तस्या इग्लक्षणत्वसम्पादनाय वृद्धिग्रहणमिति ।
स्यादेतत् - अन्तर्भूतसिज्मात्रापेक्षत्वात् सिच्परस्मैपदेत्युभयसापेक्षबहिस्ङ्गवृद्ध्यपेक्षतयऽन्तरङ्गस्योवडो वृद्धेः प्रागेव प्रवृत्तौ हलन्तत्वाद् नेटि इति वृद्धिनिषेधः सिद्ध एव । न च सिच्यन्तरङ्गं नास्ति इति सिद्धान्तान्त्रैवमिति वाच्यम्, तस्य निर्युक्तिकत्वात् । न चैवमचैषीदित्यादौ अन्तरङ्गत्वात् सिचि वृद्धिं बाधित्वा गुण एव स्यादिति वाच्यम् । तस्यैव वृद्धिसम्भवेनेष्टापत्तेः । पूर्वपक्षे वृद्धेरिकृस्थानिकत्वे नियमाभावात् । उक्तपरिभाषायां वृद्धिग्रहणानुपादानस्यैव प्रक्रान्तत्वात् ।
नन्वस्तौषीत्यादौ गुणस्य न वृद्धिसम्भवः । ओकारान्ते वृद्धिनिषेधस्य स्थापितत्वात् । बाहुलकेनानिगन्तस्य वृद्धिनेंतिपक्षे तु पूर्वर्वोक्तऽपि तथैवेति चेन्मैवम्, ओतो धातोरेव धातोर्न तु नामधातोरितिपक्षे दोषाभावादिति केचित् । तच्चिन्त्यम्, तस्य दूषितत्वात् । न च वृद्ध्यवस्थायामोदन्तो नामधात्वन्यधातुरत्रैव प्रसिद्ध इति वाच्यम् । प्रत्ययोत्पत्तिवेलायां ह्योदन्तत्वमपेक्षितं न तु यदाकदाचित्, अविधावीदित्यादावपि निषेधापत्तेः । तस्यापि विधवतीत्यादौ ओदन्तत्वात् । सिच्यन्तरङ्गस्वीकारे तत्रैव ओदन्तत्वाच्च । न चेष्टापत्तिः । पूर्वोक्तदोषग्रस्तत्वात् । अन्यथा तत्कृतस्य कैयटमाधवयोरविरोधस्याप्यनुपपन्नत्वात् ।
तस्मादेवं व्याख्येयम् - सिचि इति योगं विभज्य ओत इति बहुलम् इति चानुवर्य व्यवस्थितबाहुलकं चाश्रित्य सिचि ओदन्तस्य वृद्धिः स्यात् व्यवस्थितत्वाच्च बाहुलकस्य नामधातौ न भवतीति । एवं चाकवयीत् अकवायीत इति मतद्वयपुरस्कारेण रूपद्वयदर्शनं सिद्धान्तकौमुद्यां निर्युक्तिकमेव । तदंशे उभयोरप्यैकमत्यस्यैव व्यवस्थापितत्वात् । न चैवम् अविधावीदित्यनुपपत्तितादवस्थ्यम् एतत्पक्षे तत्रापि प्रागेव गुणस्य वाच्यत्वादिति वाच्यम् । स्वाभाविकौदन्तस्यैव निषेधोपगमादिति । अकार्षीदित्यादौ गुणे कृते वदव्रजहलन्तस्य इति वृद्धिः । न चैवमतारीदित्यादौ गुणे कृते नेटि इति हलन्तलक्षणवृद्धिनिषेधात् अतो हलादेर्लघोः इति वृद्धिविकल्पापत्तिरिति वाच्यम् । तदपवादभूताया अतो ल्रान्तस्य इति नित्यवृद्धेः सम्भवात् । न च तथाऽपि अलावीदित्यत्र विकल्पापत्तिरेवेति वाच्यम् । ल्रान्तस्य इत्यत्र लोपो व्योः इति वकारं प्रश्लिष्य तदन्तस्यापि नित्यवृद्धिविधानस्य वाच्यत्वात् । न चैवं मा भवानवीदमवीदित्यादावपि नित्यवृद्ध्यापत्तिरिति वाच्यम् । हम्यन्तक्षण इति सूत्रे णिश्विग्रहणमपहाय तत्स्थाने अविमव्योः प्रक्षेपेण निषेधसिद्धेः । एतत्पक्षे औनयीदश्वयीदित्यादावन्तरङ्गत्वाद् गुणायादेशयोः कृतयोः यान्तत्वादेव निषेधापत्त्या तत्रेष्टविकल्पासिद्धिरिति वाच्यम् । वकारप्रश्लेषनिबन्धननित्यवृद्धेरेव अविमव्योः प्रक्षेपेण निषेधात् । अतो हलादेः इति विकल्पस्य मवेः सम्भवात् । मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति न्यायात् ।
न चैवमजागरीदित्यत्रापि विकल्पापत्तिः, एकसूत्रोपात्ततया तदेशेऽपि अतो हलादेः इत्यस्य बाधायोगादिति वाच्यम् । तत्र बाध्यसामान्यचिन्तया स्वविषयप्राप्तस्य वृद्धिमात्रस्य बाधात् । अगत्या वैषम्यस्य सह्यत्वात् । यद्वा अतो नान्तस्य इति वृद्धेरेवास्तु निषेधः । न चैवमजागरीदमवीदित्युभयत्रापि अतो हलादेः इत्यस्यापत्तिः । तदपवादनित्यवृद्धिनिषेधेऽपि मवतौ उत्सर्गभूतविकल्पप्रवृत्तिः जागर्ती तु नेति स्वीकारात् । अपवादनिषेधे पुनरुत्सर्गप्रवृत्तेर्लक्ष्यानुरोधेन वैकल्पिकत्वात् । तस्मात् सिच्यप्यन्तस्ङ्गपरिभाषाप्रवृत्तिस्वीकारादुवडेव । अनुवीदित्यादौ क्विङति च इति निषेधप्रवृत्त्यर्थ सिचिवृद्धेरिग्लक्षणत्वसम्पादकत्वेनापि नात्र वृद्धिग्रहणसार्थक्यमिति चेदत्राहुः
अतो ल्रान्तस्य इत्यत्र वकारस्य प्रश्लेषे शवधातोरपि नित्यं वृद्धिप्रसङ्गः । न च तत्र मानाभावः । शवतिर्गतिकर्मा कम्बोजेषु भाष्यते, विकार एनमार्या भाषन्ते इति भाष्यनिरुक्तकृद्भ्यामुक्तत्वात् । न च अविमविवत्तस्यापि तत्र पाठः कार्य इति वाच्यम् । णिश्वीतिद्वयं त्यक्त्वा त्रयप्रक्षेपे गौरवापत्तेरिति दिक् ।
अत्रेदं बोध्यम् - नैतदनुरोधेन सिच्यन्तरङ्गं नास्ति इति स्वीकारो न्याय्यः । वकारप्रश्लेषानभ्युपगमात् । न चालावीदित्यत्र विकल्पापत्तिः । वदव्रज इत्यत्र वदअव्व्रजेति प्रश्लिष्य अवादेशस्यापि वृद्धिविधानस्य व्याख्यातुं शक्यत्वात् । न च धातुसाहचर्याद्धातोरेव अचो ग्रहणं स्यादिति वाच्यम् । द्विस्त्रिश्चतुर् इति सूत्रे कृत्वोऽर्थग्रहणेन साहचर्यस्य सर्वत्रानियामकत्वस्य ज्ञापितत्वात् । नेटि इति निषेधस्य च हलन्तलक्षणवृद्धिमात्रप्रतियोगिकत्वस्य सर्वसिद्धत्वात् । एतेन अविधावीदित्यादावपि नित्यवृद्ध्या प्रागुक्तग्रन्थमतविरोधोऽपि निरसितुं शक्यः । एवञ्च हम्यन्तक्षण इति सूत्रे णिश्विग्रहणं न कर्तव्यमेव । सुतरां तत्स्थाने अविमव्योः प्रक्षेपः । प्रागेव तु शवतेः, प्रयोजनाभावात् । गुणे कृते यान्तत्वेनैव णिश्व्योर्निषधसिद्धेः । अव्यादिप्रक्षेपस्य च वकारप्रश्लेषकृतातिप्रसङ्गवारणमात्रमूलकत्वेन तत्परित्यागे मूलोच्छेदेनैव छिन्नत्वात् । एवं च तत्रत्यम् अंशभेदेन बाध्यसामान्यविशेषचिन्ताश्रयणवैषम्यमपि नापद्यते ।
यदपि कैयटादयः - ‘चिरि जिरि’ इति ‘हिंसायां’ स्वादौ पठ्येते । ताभ्यां सिचि अचिरायीदजिरायीदितीष्टम् । एवं चिनोतेर्नयतेश्च यङ्लुगन्तात् सिचि अचेचायीदनेनायीदिति । सिच्यन्तरङ्गस्वीकारे तु गुणायादेशाभ्यां यान्तत्वापत्त्या हम्यन्तक्षण इति वृद्धिनिषेधे अचिरयीदित्यादिकमेव स्यादतः सिज्विषयेऽन्तरङ्गपरिभाषा न प्रवर्त्तत इत्यावश्यकमिति ।
तदपि चिन्त्यम्, हकारमकारसाहचर्येण यकारस्याप्यौपदेशिकस्यैव ग्रहणेन अयादेशे तन्निषेधो न प्रवर्तत इति कल्पयितुं शक्यत्वात् । णिश्विग्रहणं च तत्सूत्रे स्थाप्यत एव । तदेव च औपदेशिकयकारान्तस्यैव निषेध इत्यत्र ज्ञापकम् । अन्यथा गुणायादेशयोः कृतयोः यान्तत्वादेव निषेधसिद्धौ तद्वैयर्थ्यापत्तेः । एवं च साहचर्यस्य नियामकत्वं न सार्वत्रिकमित्यादि कुचोद्यमप्यनवकाशम् । एवं च णिश्विग्रहणस्य सिच्यन्तरङ्गं नास्ति इत्यत्र ज्ञापकत्वेनोपन्यासोऽप्यनुपपन्नः । अस्मद्रीत्याऽपि तद्वैयर्थ्याभावात् ।
एतेनोक्तलिङ्गोपष्टम्भेनैव सत्यपि सम्भवे बाधनं भवति इति न्यायमाश्रित्य अन्तरङ्गे वृद्ध्या बाध्यते । अन्यथा तक्रेण दधि न बाध्येत । श्नमकजादिभिश्च शप्कप्रत्ययादयो न बाध्येरन् । मिदचोऽन्त्यात्परः इति श्रमो धातोरन्त्यादचः शपश्च प्रकृत्यवयवमात्रात् परत्र सम्भवात् । अकचश्च टिमध्यगतत्वेन कप्रत्ययस्य च तद्बहिभविन देशभेदसत्त्वात् । न च मध्येऽपवादन्यायेन उवडेव वृद्ध्या बाध्येत न तु गुणः तस्य पश्चात्पठितत्वादिति वाच्यम् । बाध्यसामान्यचिन्तायां स्वविषयप्राप्तस्यापवादभिन्नस्य सर्वस्य बाधाभ्युपगमात् । अन्यथा अचि र ऋतः इति तिसृचतस् इत्यनयोर्ऋकारस्य रेफादेशः प्रथमयोः पूर्वसवर्णदीर्घमुत्वं च बाधेत, न तु ऋतो डिसर्वनामस्थानयोः इति गुणम्, परपठितत्वात् । बाध्यसामान्यविशेषचिन्ते च लक्ष्यानुरोधाद्व्यवतिष्ठेते इत्यादिकमप्यपास्तम् ।
प्रकृते कल्पकस्यान्यथैवोपपादितत्वात् कल्पनाया मूलोच्छेदलक्षणबाधग्रस्तत्वात् । यदपि भगवद्भिर्भाष्यकारचरगैरुक्तम् । यच्च करोत्यकारग्रहणं लघोरिति कृतेऽपि इति ।
तस्यायमाशयः - अतो हलादेर्लघोः इत्यत्र अग्रहणं तावन्त्र संध्यक्षरव्यावृत्त्यर्थम्, लघोरित्यत एव सिद्धेः । इकारोकारऋकारास्त्ववशिष्यन्ते अचेतीत् अमोषीत् अनत्तींदित्यादौ ।
यदि तु सिच्यन्तरङ्गं स्यात्तर्हि अन्तरङ्गत्वेनैव गुणसिद्धौ तत्र वृद्ध्यप्रवृत्त्यर्थम् अत इति व्यर्थ स्यात् । पारिशेष्यादेव तस्याकारमात्रविषयकत्वसिद्धेः । तत्रापीदं चिन्त्यम्, अकुटीदपुटीदित्यादौ गाङ्कुटादिभ्यः इति डिङत्त्वेन गुणस्याप्रवृत्त्या तत्र वृद्धिर्मा भूदिति अग्रहणं सार्थकमेव । न च तत्र वृद्धिरपि ङित्त्वेनैव न भविष्यतीति वाच्यम् । लघोः इति निर्दिष्टस्थानिकतया इग्लक्षणत्वाभावेन तदप्रवृत्तेः ।
यत्तु वृद्धावन्तरङ्गेण गुणेन बाधितायां ङित्त्वेन गुणबाधेऽपि न वृद्धेः प्रवृत्तिः । ‘न हि देवदत्तस्य हन्तरि हते देवदत्तस्य पुनरुन्मज्जनं भवतीति’ न्यायादिति तन्न, यदि अकारसार्थक्ये आग्रहस्तर्हि अपवादनिषेधे पुनरुत्सर्गस्य प्रवृत्तिरित्याश्रीयताम् । अन्यथा तु तत्परित्यागेऽपि क्षतिविरहात् । अत एव वदव्रज इत्यत्रास्मत्पक्षे वकारप्रश्लेषाधिक्यमपि न दोषावहम् । वृद्धिग्रहणस्य त्यागेन लाघवात् । नान्तः पादम् इत्यत्र तु सुजाते एश्व सूनृते इत्येतत्सिद्ध्यर्थ पूर्वरूपे निषिद्धे अयादीनामप्रवृत्तिरित्युक्तम् । अत्र त्वचिरायीदित्यादीनां फलानामन्यथैव साधितत्वेन वैषम्यात् । फलव्यांतरकणापि शब्दसार्थक्यमात्राय यत्किञ्चिदर्थज्ञापनोक्तेश्चानुचितत्वादित्यलमतिप्रसङ्गेन । तस्मादिह वृद्धिग्रहणं नोपयुज्यत एवेति स्थितम् । इदं तु गुणग्रहणसाधारण्येन ।
वस्तुतस्तु सिद्धान्ते यथा तथाऽस्तु । इक्परिभाषायां वृद्धिग्रहणानुपादानपक्षे तु इग्लक्षणवृद्धेरप्रसिद्ध्या अकुटीदित्यादौ वृद्धिवारणायैवात इत्यस्य सार्थक्यम् । पूर्वपक्षे वृद्धिमात्रस्यैव निषेध्यत्वात् । हलादेरित्यस्य च कुटादिभिन्नस्थले सावकाशत्वादित्यलमतिप्रसङ्गेन । इदं तु गुणग्रहणसाधारण्येन वाच्यम् । उक्तरीत्याऽनेककुसृष्टिकल्पनया गुणवृद्ध्योरिक्स्थानिकत्वसिद्धावपि तदपेक्षया इको गुणवृद्धी इत्येवाश्रयितुमर्हम् । सेयं महतो वंशस्तम्बाल्लट्वाऽनुकृष्यते इति न्यायसाम्यादिति सूत्राद्यभिप्रायः ।
परमप्रकृतमनुसरामः - शब्दव्यापाराश्रयणं किम् ? द्यौः पन्थाः इममित्यादौ दिव औत्, पथिमध्युभुक्षामात्, त्यदादीनामः इत्यौत्वमात्वमत्वं च अलोऽन्त्यपरिभाषया अन्त्यस्यैव यथा स्यादिति । यत्तु भाष्ये स इममित्युदाहृतम्, तत्र स इमं मन्त्रमपश्यदिति ब्राह्मणवाक्यावयवत्वेन स इत्यंशः संपातायातः । न तूदाहरणप्रविष्टः । तच्छब्दे इकोऽसम्भवान्नियमप्रवृत्तिशङ्काऽनुत्थानादिति केचित् ।
अन्ये तु त्यदादीनामः इत्यत्र इक इत्यस्योपस्थितौ द्विशब्दे इदंशब्दे च अत्वं स्यान्न त्वन्येषाम् । गणनिर्देशस्य तदोः सः सौ इत्यत्रानुवृत्त्यर्थत्वसंभवात् स इत्यप्युदाहरणमेवेत्याहुः । वस्तुतस्तु तथा सति इदमो मः इति सूत्रं व्यर्थं स्यात् । तस्य मकारस्थाने त्यदाद्यत्वबाधमात्रार्थत्वात् । उक्तरीत्या च मकारेऽत्वप्रसक्तिविरहात् । एवम् इदोऽय् पुंसि इत्यपि व्यर्थम् । इकारस्य त्यदादित्वादत्वे ‘दो य् पुंसि’ इति विधानादेव सिद्धेः । द्विशब्दमात्रार्थत्वे तु अलोऽन्त्यपरिभाषयैव गतार्थत्वम् ।
अस्यां च परिभाषायां तच्छेषतदपवादपक्षौ पूर्वपक्षतया संभाव्येते पदोपस्थितिपक्षस्तु सिद्धान्त इति । तत्राद्यो यथा सार्वधातुकार्द्धधातुकयोः इत्यत्र अङ्गगुणशब्दयोरनुवृत्त्या अङ्गस्येति षष्ठीनिर्देशाल्लिङ्गादलोऽन्त्यपरिभाषा गुणपदाच्च इक्परिभाषोपतिष्ठते । तत्र इक्पदमङ्गस्य विशेषणम् इगन्तस्याङ्गस्य गुणो भवतीति । स च भवन् अलोऽन्त्यस्य इत्यनयाऽन्त्यस्य भवतीति । तदाऽलोऽन्त्यपरिभाषा अस्याः शेषः ।
अथ त्वङ्गस्येति षष्ठी अलोऽन्त्यपरिभाषया अन्त्ये अलि स्थापिता, अङ्गान्त्यस्य गुण इति, पश्चादिका अन्त्यो विशेष्यते अङ्गान्त्यस्य इको गुणः स्यादिति, तदा इयमेव तस्याः शेषः । सोऽयं तच्छेषपक्षः । तत्पदम् अलोऽन्त्यपरिभाषापरमिति पक्षद्वयसङ्ग्रहः । बहुब्रीहितत्पुरुषाभ्यामुभयपरत्वात् । तत्प्रवृत्त्युत्तरप्रवृत्तिकत्वं तच्छेषत्वमुभयसाधारणं बोध्यम् । ‘एतेनोक्त ‘परिभाषाद्वयैकवाक्यत्वस्य तच्छेषशब्दार्थत्वे राजकीयमित्यादौ अलोऽन्त्यपरिभाषाप्रवृत्त्यनापत्तिः, भिन्नदेशयोः परस्परनिराकाङ्क्षयोर्विध्युप ‘कारकयोरेकवाक्यताऽनुपपत्तिश्चेत्यपास्तम् । द्वयो रैकविधौ प्रवृत्तिसम्भवे तदितरपरिष्कृतविधिपरिष्कारकत्वस्य विवक्षितत्वात् ।
अथ गुणवृद्धिविधौ अङ्गस्येति न स्थानषष्ठी, किं त्विक इत्यपेक्षयाऽवयवषष्ठी, अङ्गावयवस्य इक इति, तदा स्थानषष्ठीरूपलिङ्गाभावादलोऽन्त्यपरिभाषा नोपतिष्ठते । ततश्चाङ्गावयवस्य यत्र-तत्र स्थितस्य इको गुणवृद्धी स्त इति तदपवादपक्षः । न हि वस्तुतः शास्त्रेण प्राप्तस्य बाधसम्भवः, किन्तु बाधकत्वाभिमतशास्त्रेण बाध्यत्वाभिमतशास्त्रस्य स्वविषये प्राप्त्यभाव एवं ग्राह्यते असत्यस्मिन्नत्रापि तत्प्रवर्तेतेति । उत्सर्गस्य स्वविषयाविषयकत्वकल्पनमेव बाध इति सर्वसिद्धान्तः । समुच्चयस्तु न सम्भवति, अन्त्यस्य इकश्च द्वयोरपि गुणः परिभाषाद्वयप्रामाण्यात्, तथा च मिदेर्गुणः इत्यत्र अन्त्यस्य इकश्च द्वयोरपि गुण इति । अङ्गस्येति सकृदुच्चरितषष्ठ्याः स्थानेयोगावयवयोगरूपार्थद्वयबोधनासम्भवात् । स्थानेयोगव्यतिरेकेण च लिङ्गाभावादलोऽन्त्यपरिभाषाऽनुपस्थानात् । आवृत्त्यादौ च प्रमाणाभावात् ।
अत एव मिदेरन्त्यस्य इको वा गुण इति विकल्पोऽप्यनुपपन्न इत्याशयेन भाष्ये नैतावाशङ्कितौ । तत्राद्ये मिदेर्गुणः इत्यादौ दोषः । अन्त्यस्य इक्त्वाभावात् इकश्चान्त्यत्वाभावात् । ततश्च भवतीत्यादौ परिभाषाद्वयस्य सावकाशत्वादत्र विनिगमकाभावादुभयपरित्यागे गुणस्य सवदिशत्वापत्तिः । यद्वार्तिकम् - वृद्धिगुणावलोऽन्त्यस्येति चेन्मिदिमृजिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेष्विग्ग्रहणं कर्त्तव्यम् । सवदिशप्रसङ्गश्चानिगन्तस्येति ।
उक्तस्थलेषु सवदिशप्रसङ्गात्तत्तत्स्थलेषु इग्ग्रहणं कर्तव्यम् । चकारस्य हेत्वर्थकत्वात् । यदि त्वत्र पूर्वोक्तकुकल्पनाऽनुसारेण सर्वत्र इकां स्थानित्वं परिशेष्येत, तदा प्रतिपत्तावत्यन्ते गौरवम् । भिन्नमित्यादौ इग्लक्षणत्वाभावाद्गुणनिषेधानापत्तिश्च ।
यदि तु क्नोः कित्त्वाज्ञापकादिग्लक्षणत्वाभावेऽपि लघूपधलक्षणस्य निषेधः, न तु गुणमात्रस्य, अतो लैगवायन इत्यादौ गुणस्य न निषेध इति कल्प्यते, तर्हि तदपेक्षया लाघवात् पदोपस्थितिपक्ष एव स्वीक्रियताम् । तदपवादपक्षेऽपि अजुहवुरित्यादिवत् अनेनिजुः पर्यवेविषुरित्यादावपि जुसि च इति गुणः स्यात् । भवतीत्यादिवदीहितेत्यादावपि सार्वधातुकार्द्धधातुकयोः इति गुणः स्यात् । अग्ने इतिवदग्निचिदित्यादावपि ह्रस्वस्य गुणः इति सम्बुद्धिगुणः स्यात् । अग्नय इतिवदग्निचित इत्यादावपि जसि च इति गुणः स्यात् । कर्तरीतिवत्सुकृतीत्यादावपि ऋतो डिसर्वनामस्थानयोः इति गुणः स्यात् । अग्नये इतिवदग्निचिते इत्यादावपि घेर्डिंति इति गुणः स्यात् । बाभ्रव्य इतिवत् सौश्रुत इत्यादावपि ओर्गुणः इति गुणश्च स्यात् । तथा च वार्त्तिकम् - इङ्मात्रस्येति चेज्जुसि सार्वधातुकार्द्धधातुकह्रस्वाद्योर्गुणेषु अनन्त्यप्रतिषेध इति ।
हस्वादीति तद्गुणसंविज्ञानो बहुब्रीहिः । आदिपदं जसि च इत्यादिगुणत्रयपरम् । तथा च तदपवादपश्ले उक्तातिप्रसङ्गवारणायानन्त्यस्येको गुणो न भवतीति वचनान्तरं कल्प्यं स्यादिति गौरवमित्यर्थः । ननु सम्बुद्धिजसिगुणयोः ऋतो ङि इति गुणस्य च ह्रस्वस्येति ऋत इति च निर्दिष्टस्थानिकत्वात् कथमिपरिभाषोपस्थितिः । अग्निचिते इत्यत्र च चिच्छब्दस्य घिसंज्ञाविरहादेव नातिप्रसङ्ग इति चेदत्राहुः -
आद्ययोर्हस्वेनेग्विशेषणात् । न चात्र परिभाषोपस्थानमेव दुर्लभम्, तस्या अनियमप्रसङ्गे नियमार्थत्वात्, अकारस्य गुणप्रवृत्तावपि वर्णान्तरापत्त्यभावेन क्षतिविरहादिति वाच्यम् । ह्रस्वस्याङ्गे विशेषणतया तस्य चावयवावयविभावसम्वन्धेन इग्विशेषणतया ह्रस्वान्तं यदङ्गं तदवयवस्य इको गुणः स्यादिति तदा सूत्रार्थः स्यात् । ततश्चाग्रिचिदित्यादौ हस्वान्तत्वाभावात् । अतिप्रसङ्गाभावेऽपि उपगोरित्यादौ उकारादेरपि गुणः स्यात् । यद्वा ह्रस्वाङ्गयोर्विशेषणविशेष्यभावनिरासार्थमङ्गपदोत्तरषष्ठ्याः स्थानेयोगत्वबाधनायानन्त्यस्यापि गुणसिद्ध्यर्थमिक् परिभाषोपस्थितिः स्यात् । तथा च अङ्ग हस्वं च इक एव विशेषणम् । आद्यस्यावयवत्वमन्त्यस्याभेदः संसर्ग इति विशेषः । ततश्चाङ्गावयवस्य ह्रस्वाभिन्त्रस्य इको गुणः स्यादित्यर्थः । तथा च ह्रस्वस्य, जसि च इत्युभयोरतिप्रसङ्गः सुघटः । एवम् ऋतो ङि इत्यत्र अङ्गावयवस्य ऋदभिन्नस्येति । ओर्गुणः इत्यत्र अङ्गावयवस्य उकाराभिन्नस्य इक इत्यर्थः । अग्निचिते इत्यादौ तु वर्णनिष्ठैव घिसंज्ञा न तु पदनिष्ठेति पक्षे घेर्डिति इत्यस्यातिप्रसङ्ग इति ।
नन्वङ्गावयवस्य इको गुण इति पक्षे भेत्तेत्यादावपि गुणे सिद्धे पुगन्तलघूपधस्य इति नियमार्थम्, तथा च ईहितेत्यादौ न दोष इति चेदत्राहुः - यदि सार्वधातुकार्द्धधातुकयोर्लघूपधस्यैवेति नियमः, तर्हि ह्रस्वस्य गुणः, ओर्गुणः इत्यत्र अतिप्रसङ्गदोष एव । न हि तत्र गुणः सार्वधातुकादिनिमित्तः ।
अथ लघूपधस्य सार्वधातुकार्द्धधातुकयोरेवेति, तर्हि ईहितेत्यादौ दोष एव । न ह्यत्र गुणो लघूपधस्य । न च नियमद्वयेन निस्तारः । एकस्मिन् वाक्ये तदलाभात् । अथावृत्त्यादिकमाश्रीयते, तथाऽप्यनेनिजुरित्यत्रातिप्रसङ्गः । लघूपधाङ्गस्य सार्वधातुकस्य च तत्र सत्त्वात् । हे बुद्धे बुद्धयः पिचव्य बुद्धये इत्यादीनां लघूपधत्वाभावात् तत्रातिप्रसङ्गस्य सर्वथैव दुर्वारत्वाच्चेति कैयटः । तस्मात्तदपवादपक्षो दुष्ट एवेति स्थितम् । अत्र वदन्ति - अङ्गाक्षिप्तेन प्रत्ययेन अङ्गमेव विशेष्यत इति उक्तदोषप्रसङ्गः ।
यदि तु प्रत्ययेन श्रूयमाणेन जुसादिना च इग्विशेष्यते यथाश्रुति प्रत्ययपरस्य जुसादिपरस्य च इको गुणः स्यादिति, एवं डिसर्वनामस्थानपरस्य ऋदन्ताङ्गावयवस्येक इत्यादि, तदा न कोऽपि दोष इति, तच्चिन्त्यम्, अङ्गप्रत्यययोः परस्परमुत्थिताकाङ्क्षत्वात् । न च अङ्गस्य इग्विशेषणतापन्नत्वेन तदन्वयापेक्षया प्रत्ययस्य विशेष्ये इक्येवान्वय उचित इति वाच्यम् । विशिष्टस्य वैशिष्ट्यमित्यन्वयात्, सर्वनामस्थानपरं यदृदन्तमङ्गे तदवयवस्य इक इति । अन्यथा रक्तत्वादेरपि दण्डाद्यन्वयानापत्तेः । स्वसमवायिसंयोगेन पुरुष एवान्वयापत्तेः ।
अथ लक्ष्यानुरोधेन आकाङ्क्षां कल्पयित्वा इगन्वयः कल्प्येत, तथाऽपि पदोपस्थितिपक्षेण सह तारतम्यविचारदशायां गौरवस्य दुर्वारत्वात् । कथञ्चिदुपपत्तिमात्रस्याकिञ्चित्करत्वात् । प्रतिपक्षापेक्षलाघवस्यैव पक्षव्यवस्थापकत्वाच्च । एतेन मिदः इः मिदिरित्यादिकल्पनाभिप्रायेण तच्छेषपक्षोपपत्तिकथनमप्यपास्तम् । अथास्तु पूर्वविप्रतिषेधेनालोऽन्त्यपरिभाषाबाधिकेयमिक्परिभाषेति क्रोष्ट्रीयाचार्यसम्मतः पक्षः । न च विषयान्तरे लब्धावकाशयोरेव द्वयोर्विप्रतिषेधः, इक्परिभाषा त्वनवकाशा, अलोऽन्त्यपरिभाषानिर्मुक्तविषयाभावादिति न तत्सम्भव इति वाच्यम् । रामेभ्य इत्यत्र एकस्य स्थानिन आदेशद्वयस्येव मेद्यत इत्यत्र द्वयोः स्थानिनोरेकस्यादेशस्याप्यसम्भवादसम्भवमात्रस्यापि विप्रतिषेधपदार्थत्वादिति तन्न, परिभाषाद्वयेन इकारदकारयोर्भित्रविषयावच्छेदेन प्राप्त्या अस्ति च सम्भवो यदुभयं स्यादिति पक्षे तच्छेषादिपक्षाविशेषात् । सत्यपि सम्भवे बाधनं भवतीति पक्षे तु एतत्परिभाषाऽनारम्भे अलोऽन्त्यस्य इति दकारस्यैव गुणः स्याद् । अतो येन नाप्राप्तिन्यायेन तदपवादत्वमेवेति उत्सर्गापवादयोः विप्रतिषेधासम्भवात् । अप्रसिद्धविप्रतिषेधपदार्थकल्पनाया अनुचितत्वाच्चेति । तस्मात् पदोपस्थितिपक्ष एव श्रेयान् । इक इति पदस्य जुसि च इत्यादावुपस्थाने पदैक्यवाक्यतया तदन्वयोऽन्तरङ्गः । अलोऽन्त्यपरिभाषा तु विधाववान्तरवाक्यार्थबोधोत्तरं वाक्यैकवाक्यतया तत्र सम्बध्यत इति तदन्वयो बहिरङ्गः । अवान्तरवाक्यार्थबोधं विना स्थानषष्ठीत्वनिर्णयाभावादित्याहुः तच्चिन्त्यम्, विधिवाक्येष्ववान्तरवाक्यार्थबोधाभावे इक्परिभाषोपस्थितेरपि दुर्घटत्वात् । गुणादिपदमात्रस्य तदुपस्थापकत्वे स्थानिविशेषनिर्देशस्थलेऽपि प्रवृत्त्यापत्तेः । अङ्गस्य गुणः स्यादित्यवान्तरवाक्यार्थबोधेऽङ्गगुणयोरुद्देश्यविधेयभावावगतौ सत्यामेव तत्प्रवृत्तेः । न च तथाऽपि तद्दोषतादवस्थ्यम् । स्थानिविशेषस्योपलक्षितत्वात् । न चैवं सार्वधातुकार्द्धधातुकयोः इत्यादाक्ङ्गस्येति स्थानिनिर्देशादिक्परिभाषोपस्थित्यनुपपत्तिः । स्थान्यन्तरजिज्ञासानुत्थापकस्थानिनिर्देशाभावस्य विवक्षितत्वात् । न चैवं गुणपदादिक्परिभाषोपस्थितिरिति ग्रन्थविरोधः । विशिष्टस्यैव तेनाभिमतत्वात् । अत एव गुणवृद्धिपदाभ्यां यत्र गुणवृद्धी विधीयेते इति व्याचख्युः ।
एतेनानुवादे परिभाषाऽनुपस्थानादेव वृद्धिर्यस्य इत्यादावनुवादे इक्पदानुपस्थितिसम्भवात् फलितार्थकथनमात्रं तदित्यपास्तम् । विधेयत्वाक्षिप्तस्य उक्ताभावस्य लिङ्गताऽवच्छेदकतया लिङ्गकोटौ प्रवेश इति तदभिप्रायात् । तस्मात् प्रथममवान्तरवाक्यार्थबोधः । तत इक्परिभाषोपस्थितिः । तत इक्पदैकवाक्यतया महावाक्यार्थबोधः । तत्र तु प्रथमं विधिवाक्यार्थबोधः । ततः स्थानषष्ठ्या अलोऽन्त्यपरिभाषोपस्थितिः ततो विधिवाक्ये श्रुतायाः स्थानषष्ठ्ठ्या अन्त्ये अलि उपसंहारः । न तु शाब्दमेकवाक्यत्वम् । तथा चावान्तरवाक्यार्थबोध उभयोरप्युपजीव्यः ।
नन्वेवम् मिदेर्गुणः इत्यादौ इक्परिभाषाया एव बहिरङ्गत्वापत्त्या अलोऽन्त्यपरिभाषाया एवोपस्थितिः स्यात् सत्यम्, स्थानत्वस्यादेशनिरूपिततया तत्रापि विधेयविशेषस्य लिङ्गान्तर्भावावश्यकत्वात् । आदेशविशेषानवगाहिनः स्थानत्वप्रत्ययस्यानुपपत्तेः तत्परिभाषाप्रवृत्त्यनुपयोगित्वाच्च । न चैवमपि इक्परिभाषामात्रस्य तत्र प्रवृत्तौ नियामकाभाव इति वाच्यम् । उक्तरीत्या अन्तरङ्गबहिरङ्गभावाभावेऽपि अलोऽन्त्यपरिभाषाऽपवादस्य वाच्यत्वात् तावदपवादपरिहारपूर्वकप्रवृत्तिकतया तावदपवादप्रवृत्तिनिश्चयं विना तद्विषयपरिहारज्ञानस्यानुपपत्त्या तदधीनत्वादलोऽन्त्यपरिभाषाप्रवृत्तिनिश्चयस्य तस्या बहिरङ्गत्वानपायात् । एतेन अलोऽन्त्यस्य इत्यत्रापि पदोपस्थितिपक्षस्वीकारे उभयोः साम्यमिति निरस्तम् । तत्पक्षस्य भाष्याद्यनारूढत्वाच्च ।
केचित्तु तत्पक्षे आदेः परस्य इत्यत्राल्पदस्यार्थपरत्वं न स्यात् । तथा चासमासनिर्देशवैयर्थ्यम्, द्वीपमित्यत्र समस्ताप्रशब्दस्य ईत्वापत्तिश्च, आदेः परस्य इत्यत्रापि पदोपस्थिति पक्षस्यैव तेन वाच्यत्वात् अल्पदस्यार्थपरत्वानुपयोगात् न कोऽपि दोष इति वाच्यम् । तथाऽपि पदद्वयान्वयस्य वाच्यतया बहिरङ्गत्वानपायादित्याहुः । तत्र इकोऽङ्गस्येति सामानाधिकरण्यान्वयस्य न्याय्यत्वादिकपदार्थस्याङ्गविशेषणत्वे इगन्तस्याङ्गस्येति वाक्यार्थे स्थानेयोगार्थकषष्ठीरूपलिङ्गस्य तादवस्थ्यादलोऽन्त्यपरिभाषोपतिष्ठत एव । मिदेर्गुणः इत्यादौ तु हलन्तत्वात् इको मिद इति सामानाधिकरण्यायोगात् मिदेरवयवस्य इक इति वैयधिकरण्येनान्वये स्थानेयोगषष्ठीरूपलिङ्गाभावादलोऽन्त्यपरिभाषोपस्थित्यभावात् अनन्त्यस्यैव गुणसिद्धिः । न चात्रापि इक इति स्थानषष्ठ्यैवालोऽन्त्यपरिभाषोपस्थितिः स्यादिति वाच्यम् । तत्र इक इत्यस्योपस्थित्यनन्तरमलोऽन्त्यपरिभाषोपस्थाने अन्त्यस्य इक इत्यस्य इगवयवस्यान्त्यस्येत्यस्य चार्थस्य बाधितत्वात् । मिदेरन्त्यस्य इक्त्वाभावात् । अन्त्यस्य दकारस्य इगवयवत्वासम्भवाच्च । इकः स्थानित्वबोधे स्वातन्त्र्येणान्त्यस्य गुणविधाने चोपजीव्यविरोधात् । अङ्गस्येत्यादौ त्ववयवद्वारा अङ्गस्य स्थानित्वनिर्वाहान्नोपजीव्यविरोध इति वैषम्यम् । तस्मात् प्रकृत्यर्थनिष्ठस्थानित्वाविरोधिन्येव षष्ठी अलोऽन्त्यपरिभाषायां लिङ्गमिति सिद्धम् ॥
॥ सिद्धान्तकौमुदी ॥
गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्रेक इति षष्ठ्यन्तं पदमुपतिष्ठते ॥
॥ बालमनोरमा ॥
इको गुणवृद्धि । 'इक' इति षष्ट्यन्तशब्दः स्वरूपपरो नपुंसकलिङ्गः प्रथमैकवचनान्तः । सोर्लुका लुप्तत्वादत्वसन्तस्येति दीर्घो न । 'इकस्'शब्द इत्यर्थः । 'उपतिष्ठते' इति शेषः । 'वृद्धिरादैच्' 'अदेङ्गुणः' इत्यतो वृद्धिरिति गुण इति चानुवर्तते । इतिशब्दोऽध्याहार्यः । 'यत्र विधीयते तत्रे'त्यप्यध्याहार्यम् । गुणो वृद्धिरित्युच्चार्य यत्र गुणवृद्धि विधीयेते तत्र इक इति षष्ठ्यन्तं पदमुपतिष्ठत इति योजना । तदाह - गुणवृद्धिशब्दाभ्यामित्यादिना । उपतिष्ठत इति । सङ्गतं भवतीत्यर्थः । 'उपाद्देवपूचासङ्गतिकरणे'त्यात्मनेपदम् । सोऽयं पदोपस्थितिपक्षो भाष्यादौ सिद्धान्तितः । 'सार्वधातुकार्धधातुकयोः' 'मिदेर्गुणः' इत्याद्युदाहरणम् । इक इत्यस्यान्वयप्रकारस्तु तत्र तत्र स्पष्टीभवष्यति । 'यत्र विधीयेते' इत्युक्त्या 'वृद्धिर्यस्याचा'मित्याद्यनुवादे इक इति नोपतिष्ठते । अनुवादे परिभाषामनुपस्थितेः । 'त्यदादीनामः' इत्यादावपि नेदमुपतिष्ठते, तत्र गुणवृद्धिशब्दयोरश्रवणात् ॥
॥ तत्त्वबोधिनी ॥
इको गुणवृद्धी । यत्र साक्षात्स्थानी न निर्दिष्टः 'सार्वधातुकाद्र्धधातुकयोः' 'सिचि वृद्धि' रित्यादौ, तत्रैवेयं परिभाषा प्रवर्तते नतु 'अचो ञ्णिती' त्यादौ, स्थानिनिर्देशात् । गुणवृद्धिशब्दाभ्यामिति । एतच्च पूर्वसूत्राभ्यां गुणवृद्धिपदे अनुवर्त्त्य 'गुणो वृद्धिरिति ये गुणवृद्धी' इति योजनया लभ्यते । तेनेह न 'त्यदादीनामः' इमम् । 'दिव औत्' द्यौः । विधीयेते इति । यत्र । त्वनुवादो 'वृद्धिर्यस्याचामादि' रित्यादौ तत्रेक इति षष्टन्तं नोपतिष्ठते, अनुवादे परिभाषाणामनुपस्थितेरिति भावः । 'अनुवादे परिभाषाणा' मित्यस्यानूद्यमानविशेषणेष्वित्यर्थः । अनुपस्थितौ लिङ्गं फलं च -'उदीचामातः स्थाने' इत्यत्र स्फुटीकरिष्यते । षष्ठन्तमिति । सूत्रे षष्ठन्तस्यानुकरणाच्छब्दस्वरूपपरतया नपुंसकत्वात्सोर्लुकि 'अत्वसन्तस्ये' ति दीर्धो नेति भावः । पदमिति । तच्च संभवति सामानाधिकरण्ये 'इगन्तस्याङ्गस्ये' त्यादिक्रमेण संबध्यते । 'मिदेर्गुणः' 'मृजेर्बृद्धिः' इत्यादौ तु सामानाधिकरण्याऽसंभवान्मिदिमृज्योरवयवस्येक इति संबध्यते |
१.१.३
सूत्राणि:॥ इको गुणवृद्धी ॥
॥ व्याख्या: ॥
॥ बृहच्छब्देन्दुशेखरः ॥
कौमुदीमूलम् - गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्रेक इति षष्ठ्यन्तं पदमुपतिष्ठते ॥
अथ परिभाषाप्रकरणम् ॥ इको गुणवृद्धी । परिभाषेयं व्याख्यानात् । गुणवृद्धिशब्दाभ्यामिति । गुणवृद्धिग्रहणानुवृत्त्यैव सिद्धे पुनर्गुणवृद्धिग्रहणसामर्थ्यादिति भावः । अनुवर्तमानञ्च सञ्ज्ञिपरमेव स्यात् सञ्ज्ञाकरणेनान्यत्र सञ्ज्ञिपरत्वात् । यद्वा - तदप्यनुवर्त्य गुणो वृद्धिरिति योजनयैतल्लाभः । स्वादिष्वसर्वनामस्थाने १.४.१७ इति सूत्रेऽनुवृत्त'पद'पदस्य सञ्ज्ञापरताया एव दृष्टत्वात् । ष्णान्ता षट् १.१.२४ इति सूत्रे सङ्ख्यापदस्य तदन्तत्वासम्भवादर्थपरतेति बोद्ध्यम् । लक्षणप्रतिपदोक्तपरिभाषया तु नात्र निर्वाहः । तत्र 'प्रतिपदोक्तस्ये'त्यस्य - साक्षादुच्चारितस्येति, साक्षात्तत्तच्छब्दानुवादेन विहितस्येति वाऽर्थात् । ध्वनितञ्चेदमत्रैव भाष्ये ।
अस्याश्च विधेयसमर्पकगुणवृद्धिपदश्रुतिर्लिङ्गं, तदाह - विधीयेते इति । अत एव अतो गुणे ६.१.८९७, वृद्धिर्यस्य १.१.७३ इत्यादौ न दोषः । एतेन - शब्दपरयोः पूर्वयोर्गुणवृद्धिपदयोरनुवृत्त्या यत्र ते पदे तत्रेदमुपतिष्ठते इत्यर्थेन त्यदानीनामः ७.२.१०२ इत्यादिव्यावृत्तौ सिद्धायामिह गुणवृद्धीति व्यर्थम् - इत्यपास्तम् ।
एतन्मूलक एव विधौ परिभाषोपतिष्ठते नानुवादे इत्युद्घोषः । एवञ्च पदोपस्थापकपरिभाषाविषये विधीयते इत्यस्यैवाध्याहारो बोद्ध्यः । एवञ्च तस्मिन्निति निर्दिष्टे १.१.६६, षष्ठी स्थानेयोगा १.१.४९ इत्यादेरनुवादेऽपि प्रवृत्तिः । तेन प्रत्ययस्थात्कात्पूर्वस्य ७.३.४४ उदात्तस्वरितयोर्यणः ८.२.४ इत्यादौ न दोषः । उदीचामातः स्थाने ७.३.४६ इति स्थानेग्रहणन्तु स्पष्टार्थमेव । तत्र विधिवाक्ये प्रथमाया विधेयविभक्तित्वेन तदन्तस्य विधेयसमर्पकत्वनिर्णयः । अत एव गुणादिपदानामिक्पदोपस्थापनेन चरितार्थानामपि वाक्यार्थान्वयिता । तदर्थस्य तदनन्वयित्वे विधेयत्वाभावेन उपस्थापकत्वस्यैव भङ्गापत्तेः । इयञ्चैधितेत्यादौ व्यञ्जनानां गुणव्यावृत्त्यर्थं, 'भिन्नमि'त्यादौ निषेधप्रवृत्तये इग्लक्षणत्वसम्पत्त्यर्थञ्चेति दिक् ।
॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥
सूत्रगतशब्दानां सिद्धिः
इक्शब्दः ‘ अइउण्’ सूत्रेकारमारभ्य ऋलृक्सूत्रककारान्तवर्णवाचकः प्रत्याहारः । “आदिरन्त्येन सहेता” इति सूत्रेण इत्सञ्ज्ञकेन ककारेण (अन्त्येन) सहादिः = इकारः (अइउण् - सूत्रस्थः) मध्यगानाम् ‘ उ-ऋ-लृ’ इति वर्णानां स्वस्य = आदेः इकारस्य च बोधको भवति । अर्थात् ‘अइउण्’ सूत्रघटकेकारतः ऋलृक्सूत्रघटकककारं यावत् ‘ इक्’ प्रत्याहारो भवति । एवं ‘ इक्’ इति प्रत्याहारेण इ-उ-ऋ-लृ इति वर्णानां बोधो जायते ।
गुणशब्दः ‘ गुण्यते’ इति विग्रहे ‘ गुण आमन्त्रणे’ इति धातोः “एरच्” इति सूत्रेणाच्प्रत्यये विभक्तिकार्ये च कृते निष्पद्यते ।
वृद्धिशब्दः ‘ वर्धनम्’ इति विग्रहे ‘ वृधु वृद्धौ’ इति धातोः “स्त्रियां क्तिन्” इति सूत्रेण भावे क्तिन्प्रत्यये विभक्तिकार्ये च कृते निष्पद्यते । “वृद्धिरादैच्” इति सूत्रेण पाणिनिना वृद्धिसंज्ञा विधीयते । “आरुत्तरे च वृद्धिः” इति कातन्त्रव्याकरणे वृद्धिसंज्ञा विधीयते । “आदौ गैप्” इति जैनेन्द्रव्याकरणे वृद्धिसंज्ञायाः स्थाने ऐप् संज्ञाया विधानं क्रियते । “आरै औ वृद्धिः” इति सारस्वतव्याकरणे वृद्धिसंज्ञा विधीयते ।
गुणवृद्धी ‘ गुणश्च वृद्धिश्च’ इति गुणवृद्धी इतरेतरयोगद्वन्द्वसमासः ।
अत्रैव सूत्रे ‘ गुणः’ इति शब्देन अकार एकार ओकारश्चेति त्रयो वर्णा ज्ञेयाः । एवञ्च ‘ वृद्धिः’ इति शब्देन आकार ऐकार औकारश्चेति त्रयो वर्णा बोध्याः । अतोऽत्र सूत्रे गुणवृद्धिशब्दौ इमौ पारिभाषिकौ बोभूयेते ।
अ, इ, ई, उ, ऊ, ऋ, ॠ, लृ इत्यादिस्वराणामेव गुणवृद्धी भवतः ।
केवलस्वरः गुणः वृद्धिः
अ अ आ
इ, ई ए ऐ
उ, ऊ ओ औ
ऋ, ॠ अर् आर्
लृ अल् आल्
सूत्रस्य निष्पन्नोऽर्थः
पदद्वयात्मकं सूत्रमिदम् । ‘ इकः’ इति षष्ठ्यन्तं पदम् । ‘ गुणवृद्धी’ इति प्रथमान्तपदम् । द्विवचने वर्तते । यत्र, विधीयेते, तत्र, उपतिष्ठते चेत्येतानि पदान्यध्याह्रियन्ते । एवञ्च गुणवृद्धिशब्दाभ्यामुच्चारिताभ्यां यत्र गुणवृद्धी विधीयेते - विधीयतयोच्चार्येते तत्रेक इति षष्ठ्यन्तं पदमुपतिष्ठत इति सूत्रार्थो निष्पन्नः । अर्थात् - गुणपदमुच्चार्य्य यत्र गुणो (अदेङ्) विधीयते तत्र, वृद्धिपदमुच्चार्य्य यत्र वृद्धिः (आदैच्) वा विधीयते तत्र च इकः इति षष्ठ्यन्तं पदमुपतिष्ठते - संगच्छते - संगतं भवतीति यावत् ।
‘ इकः’ इति इक्शब्दप्रकृतिकषष्ठ्येकवचनान्तस्यानुकरणं शब्दस्वरूपपरतया प्रथमैकवचनान्तं नपुंसकम्, नपुंसकात् सोर्लुक् अन्यथा “अत्वसन्तस्य चाधातोः” इति सूत्रेण दीर्घादेशः स्यात् । अत एव ‘ इकः’ इति प्रथमैकवचनत्वात् ‘ उपतिष्ठते’ इति क्रियया सह अन्वयो सम्भवति ।
गुणवृद्धी प्रथमान्तद्विवचनम् । गुणश्च वृद्धिश्चेतीतरेतरद्वन्द्वसमासे वृद्धिशब्दस्य घिसञ्ज्ञत्वात् “द्वन्द्वे घि” इति सूत्रेण वृद्धिशब्दस्य पूर्वं निपाते वृद्धिगुणौ इति स्यात्, न तु गुणवृद्धीति । अत एव निर्देशात् “लक्षणहेत्वोः क्रियायाः” इति सूत्रनिर्देशाच्च पूर्वनिपातस्यानित्यत्वात् ।
“वृद्धिरादैच् ” “अदेङ् गुणः” इति पूर्वसूत्राभ्यां गुणवृद्धिपदयोरनुवृत्त्या गुणवृद्धिपदार्थस्य लाभेन सूत्रे गुणवृद्धिग्रहणस्य वैयर्थ्यम्, पुनर्गुणवृद्धिग्रहणात् शब्दव्यापारमाश्रित्य ‘ गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी’ इत्यर्थबोधकं गुणवृद्धिपदमिति कल्प्यते । गुणपदस्य अदेङ्निष्ठविधेयताप्रयोजकगुणपदे वृद्धिपदस्य आदैज्निष्ठविधेयताप्रयोजकवृद्धिपदे च लक्षणां ग्राहयति । अत एव गुणवृद्धिशब्दौ गुणवृद्धिपदबोध्ये (‘ अदेङ्, आदैच्’ इत्यर्थे) लाक्षणिकौ । ‘ विधीयेते’ इति क्रियापदमध्याह्रियते । तेन विधेयताप्रयोजकं यत्र गुणवृद्धिपदं तत्र ‘ इकः’ इति षष्ठ्यन्तं पदमुपतिष्ठते इति सूत्रार्थः सम्पद्यते ।
गुणवृद्धिशब्दाभ्यामित्यत्र ल्यब्लोपे पञ्चमी, तथा च वृद्धिपदमुच्चार्य यत्र वृद्धिः (आदैच्) विधीयते तत्र च ‘ इकः’ इति षष्ठन्तं पदमुपतिष्ठते = संगच्छते = संगतं भवतीति । स्थाधातुः परस्मैपदी भवति । परन्तु ‘ उपाद् देवपूजासंगतिकरणमित्रकरणपथिषु च’ इति वार्तिकेन संगतिकरणेऽर्थे आत्मनेपदम् ।
अथवा ‘ गुणवृद्धिशब्दाभ्याम्’ इति तृतीयान्तं पदम् । तत्र प्रयोज्यत्वं तृतीयार्थः । गुणवृद्धिपदनिरूपितप्रयोज्यतावती यत्र अदेङादैज्निष्ठा विधेयता तत्र इकः पदमुपतिष्ठते ।
विधेयता च अदेङ्निष्ठा आदैज्निष्ठा गृह्यते । अतः “अदेङ् गुणः” “वृद्धिरादैच्” इत्यत्र “इको गुणवृद्धी” इति परिभाषाया उपस्थितिर्न भवति ।
इको गुणवृद्धी इति सूत्रस्य परिभाषात्वसाधनम्
संज्ञादिषु षड्विधेषु सूत्रभेदेषु प्रकृतसूत्रं परिभाषासूत्रम् । गुणसंज्ञाविधानाय ‘अदेङ् गुणः’ इति सूत्रं प्रणीतम् । वृद्धिसंज्ञानिमित्तं ‘वृद्धिरादैच्’ इति सूत्रं विरचितम् । अत इदं सूत्रं न सञ्ज्ञासूत्रम्, समानविभक्त्यन्तत्वाभावात्, सञ्ज्ञाया अन्येन कृतत्वाच्च । नापि विधिसूत्रम्, “ओर्गुणः” इत्यादिना पुनर्विधानस्य वैयर्थ्याद् गुणवृद्ध्योरन्यत्र विधानाच्च । नापि नियमसूत्रम्, अन्यैरगतार्थत्वाद् वाक्यभेदापत्तेश्च । नाप्यतिदेशः, वतिप्रत्ययेन समानविभक्त्या चानिर्देशात् । नाप्यधिकारः, “न धातुलोप आर्द्धधातुके” इत्यनेन सूत्रेण सहैव पठितव्ये पृथक् योगकरणसामर्थ्याद् अस्वरितत्वाच्च । ‘ अन्यदेवेदं परिभाषान्तरमसम्बद्धमनया परिभाषया’ इति प्रकृतसूत्रभाष्यरूपव्याख्यानादुक्तार्थलाभः । तथा चेयं परिभाषा । अतोऽन्यासंभवात् परिभाषात्वमेवेति भावः ।
‘नापि तच्छेषो नापि तदपवादोऽन्यदेवेदं परिभाषान्तरमिति’ भाष्यवचनादपि इदं परिभाषासूत्रम् ।
अत एव ‘परिभाषेयं व्याख्यानात्’ इति नागेशेन प्रतिपादितम् ।
गुणवृद्धिपदयोरनुवर्तनं संज्ञापरकमिति शङ्का
“अदेङ् गुणः” इति सूत्रे श्रूयमाणं गुणपदम्, “वृद्धिरादैच्” इति सूत्रे श्रूयमाणं वृद्धिपदञ्च संज्ञापरत्वेन स्वरूपपरम्, अत्रानुवृत्तौ तस्य स एवार्थः स्यात्, न तद्बोध्यः सञ्ज्ञी अकारादिः । अत एव सञ्ज्ञिबोधाय “इको गुणवृद्धी” इति सूत्रे गुणवृद्धिपदं संज्ञिपरकम् । अतो भिन्नार्थकत्वादनुवर्तनेन कार्यनिर्वाहो न स्यात् । तेन सूत्रे गुणवृद्धिपदग्रहणस्य वैयर्थ्यकल्पनं न युक्तम् । अतः प्रकृतसूत्रे गुणवृद्धिपदयोः संज्ञिबोधनाय “इको गुणवृद्धी” सूत्रे गुणवृद्धिग्रहणं चरितार्थमिति शङ्का जागर्ति ।
शङ्कासमाधानम्
अत्र शब्दाधिकारस्याश्रयणं भवति । शब्दाधिकारे शब्दमात्रमेवानुवर्तते । अतो अनुवर्तमानं संज्ञापदमन्यत्र संज्ञिपरत्वं भवति । “वृद्धिरादैच्”, “अदेङ् गुणः” इति गुणवृद्धिसंज्ञाकरणेन तदन्यत्रोच्चरिताभ्यां गुणवृद्धिशब्दाभ्यां संज्ञिन एव प्रतीयन्त इति भावः ।
अर्थाधिकारे पूर्वत्र यादृशार्थकं पदं परत्र तादृशार्थकमेव पदमनुवृत्तिस्थलेऽपीति नियमोऽस्ति । अन्यत्रापि संज्ञाशब्दानां स्वरूपपरत्वस्वीकारे संज्ञाविधानं व्यर्थं स्यात् ।
अनुवृत्तं संज्ञापदं संज्ञापरमेव न संज्ञिपरमिति शङ्का
ननु संज्ञाकरणेनान्यत्र संज्ञिपरत्वमिति कथनं न संगच्छते । तथाहि - “सुप्तिङन्तं पदम्” इति पदसंज्ञाविधायकं सूत्रमस्ति । “स्वादिष्वसर्वनामस्थाने” इत्यपि पदसंज्ञाविधायकं सूत्रम् । सुप्तिङन्तमिति सूत्रात् पदपदम् “स्वादिष्वसर्वनामस्थाने” इति सूत्रं प्रत्यनुवर्तते । अत्रानुवृत्तं पदपदं स्वादिष्विति सूत्रे संज्ञापरमेव भवति न तु संज्ञिपरम् । “सुप्तिङन्तं पदम्” इति सूत्रेण सुबन्तस्य तिङन्तस्य च पदसंज्ञा विधीयते । अस्मात् सूत्राद् यत्र यत्र पदपदस्यानुवृत्तिस्तत्र तत्र सर्वत्रापि संज्ञिपरत्वमिति नियमो नास्ति । “स्वादिष्वसर्वनामस्थाने” इति सूत्रेऽनुवृत्तस्य पदपदस्य न संज्ञिपरत्वमसम्भवात् । किन्तु संज्ञापरत्वमेवेत्यनुवर्तमानञ्च संज्ञिपरमेव स्यादिति कथनं न घटत इति भावः ।
अत्र समाधानम्
अत्र गुणवृद्धिपदमनुवर्त्यार्थाधिकारात् स्वरूपपरकमत्रापि गुणवृद्धिपदमिति स्वीकारेऽपि न कोऽपि दोषः । अत्र गुण इति, वृद्धिरिति, प्रत्येकपदोत्तरमिति शब्दो योजनीयः । उच्चार्य, विधीयते इत्युभयस्याध्याहारः करणीयः । एवञ्च ‘ गुणवृद्धीपदमुच्चार्य यत्र गुणवृद्धी विधीयेते’ इत्यर्थः कल्पनीयः।
अनुवर्तमानस्य संज्ञापदस्य संज्ञापरकत्वं संज्ञिपरकत्वं चेति व्यवस्था
यस्मात् सूत्रात् संज्ञावाचकं पदं यत्रानुवर्तते, तत्रापि यदि तयोरुभयोः समानकार्यस्य विधायकत्वं तदा संज्ञापदं स्वरूपपरमेव स्यात् । यथा - “सुप्तिङन्तं पदम्” इति सूत्रात् “स्वादिष्वसर्वनामस्थाने” इति सूत्रेऽनुवृत्तं पदपदं संज्ञापरमेव (स्वरूपपरम्) यतोहि “सुप्तिङन्तं पदम्”, “स्वादिष्वसर्वनामस्थाने” इति सूत्राभ्यां पदसंज्ञा विधीयते ।
यदा उभयोः समानं विधेयं नास्ति, तत्र संज्ञिपरत्वं बोध्यम् । यथा - “ष्णान्ता षट्” इत्यत्र “बहुगणवतुडति संख्या” इति सूत्रेण संख्यासंज्ञा विधीयते । एवञ्च द्वयोः समानं विधेयं नास्ति । अतः “ष्णान्ता षट्” इत्यत्रानुवृत्तं संख्यापदं संज्ञिपरकम् । अन्यथा संख्याशब्दस्य स्वरूपे षान्तत्वनान्तत्वयोरभावेन “ष्णान्ता षट्” इति सूत्रस्य वैय्यर्थापत्तिः स्यात् ।
एवञ्च “अदेङ् गुणः”इति सूत्रेण गुणसंज्ञा विधीयते । “वृद्धिरादैच्” इति सूत्रेण वृद्धिसंज्ञा विधीयते परन्तु “इको गुणवृद्धी” इत्यनेन इकः पदमुपस्थाप्यते । अतः समानं विधेयं नास्ति । तेन अनुवर्तमानयोर्गुणवृद्धिपदयोः संज्ञिपरत्वं समीचीनम् ।
अत एव “स्वादिष्वसर्वनामस्थाने” इति सूत्रे संज्ञापरत्वेऽपि “ष्णान्ता षट्” इति सूत्रे यथानुवृत्तस्य संख्याशब्दस्य संज्ञिपरत्वं भवति तथैव प्रकृतसूत्रेऽप्यनुवर्तमानगुणवृद्धिपदयोः संज्ञिपरत्वेन सिद्धेः तदग्रहणसामर्थ्यात् तस्य लाक्षणिकत्वसिद्धिरिति भावः । अर्थात् संज्ञाशास्त्रात् संज्ञाबोधकं पदमनुवर्तते तद्विधेयाद् भिन्नविधेयशास्त्रेऽनुवृत्तसंज्ञाबोधकपदस्य संज्ञिपरकत्वनियमेनादोषात् “ष्णान्ता षट्” इत्यत्रानुवृत्तसंख्यापदस्य पञ्च, सप्त इत्यादिसंज्ञिपरकत्ववत् । यद्वा पूर्वसूत्राभ्याम् ‘ अदेङ्’ इति पदम् ‘ आदैच्’ इति पदञ्चानुवर्त्यं यत्रेते विधीयन्त इत्यर्थेनैव सिद्धे गुणवृद्धिग्रहणवैयर्थ्येन गुणवृद्धिग्रहणसामर्थ्यात्तादृशार्थकल्पने बाधकाभावात् । एवञ्च यदा गुणवृद्धिशब्दौ स्वरूपपरतया संबध्येते तदा विधीयेत इत्यध्याहारो न संभवति । गुणवृद्धिशब्दयोर्विधानासम्भवात् ।
लक्षणप्रतिपदोक्तपरिभाषया कार्यनिर्वाह इति शङ्का
‘ लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्’ इति एका परिभाषा वर्तते । लक्षणनिष्पन्नप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणं भवति । अनया परिभाषया प्रतिपदोक्तेन गुणवृद्धिपदेन यत्र गुणस्य वृद्धेर्वा विधानं भवति तत्रैव “इको गुणवृद्धी” सूत्रस्य प्रवृत्तिः स्यात् । “त्यदादीनामः” इत्यादावकारशब्देन, “दिव औत्” इत्यादावौकारशब्देन तद्विधानात् प्रतिपदोक्तं गुणवृद्धिपदं नास्ति । अतः “इको गुणवृद्धी” इति सूत्रं तत्र न प्रवर्तते । अनया परिभाषयास्य परिभाषासूत्रस्य प्रवृत्तिवारणसम्भवे तदर्थं गुणवृद्धिसामर्थ्यकल्पनं नोचितमिति शङ्कोदेति ।
अत्र समाधानम्
वस्तुतो लक्षणप्रतिपदोक्तपरिभाषाऽत्र न प्रवर्तते । तत्र ‘ प्रतिपदोक्तस्य’ इत्यस्य साक्षादुच्चारितस्य इत्यर्थः । अथवा ‘ साक्षात्तत्तत्-शब्दानुवादेन विहितस्य’ इत्यर्थः स्वीक्रियते ।
अर्थादुच्चार्यमाणधर्मेण साक्षादवच्छिन्नविधेयताश्रयत्वरूपं प्रतिपदोक्तम् । यत्र शास्त्रे लक्षणप्रतिपदोक्तपरिभाषा प्रवर्तनीया, तच्छास्त्रबोधोपयोगिनी याऽऽनुपूर्वी तद्विशिष्टत्वं प्रतिपदोक्तम्, एवञ्च तत्रैवेयं परिभाषा प्रवर्तते । यथा - “घुमास्थागापाजहातिसां हलि” इति सूत्रे पा शब्देन ‘ पा - पाने’ इति धातोरेव ग्रहणम्, न ‘ पै - शोषणे’ इत्यत्र निर्दिष्टस्य कृतात्वस्य पाधातोः । यतोहि ‘ पै - शोषणे’ इत्यस्य प्रतिपदोक्तं नास्ति ।
‘ साक्षात्तत्तच्छब्दानुवादेन विहितस्य’ इत्यस्योदाहरणं भवति - “विभाषा दिक्समासे बहुव्रीहौ” इति सूत्रे समासपदेन “दिङ्नामान्यन्तराले” इति सूत्रेण विहितस्य समासस्यैव प्रतिपदोक्तत्वात् ग्रहणं भवति, न तु सूत्रान्तरेण विहितस्य समासस्य । अर्थात् साक्षात् दिक्शब्दानुवादेन यत्र समासो विधीयते, तत्रैव । ‘ या दक्षिणा सा पूर्वा यस्य उन्मुग्धस्य’ इत्यर्थकस्य दक्षिणपूर्वेत्यस्य “अनेकमन्यपदार्थे” इति सूत्रेण समासो विहितः । परन्तु अत्र साक्षात्दिक्शब्दोच्चारणाभावात् प्रतिपदोक्तत्वं नास्ति ।
तथा च “इको गुणवृद्धी” इति सूत्रबोधोपयोगिन्यानुपूर्वी गुणत्वरूपा वृद्धित्वरूपा च, तथा साक्षादवच्छिन्ना विधेयता क्वचिदपि नास्ति । “मिदेर्गुणः” इत्यादावकारैकारौकारान्यतरत्वेन गुणपदवत्वेन वाऽवच्छिन्ना विधेयता । परन्तु गुणत्वेनऽवच्छिन्ना नास्ति । तथा च “मिदेर्गुणः” इत्यत्र गुणशब्देन गुणसंज्ञकाननूद्य न कश्चिद् विहितः, अतः प्रतिपदोक्तपरिभाषाया अवसरो नास्ति ।
अनेन ज्ञायते यद् गुणवृद्धिसामर्थ्यकल्पनं समीचीनं प्रतिभाति ।
अत्र विषये भाष्यसम्मतिः
“इको गुणवृद्धी” इत्यत्र लक्षणप्रतिपदोक्तपरिभाषा न प्रवर्तत इति भाष्ये ध्वनितमिति नागेशेनोक्तम् । तत्र भाष्यमित्थं भवति - ‘ संज्ञाविधाने नियमः संज्ञया ये विधीयन्ते तेषु नियमः, किं वक्तव्यमेतत् ? न हि, कथमनुच्यमानं गंस्यते ? गुणवृद्धिग्रहणसामर्थ्यात्, तथा च द्यौः, पन्थाः, सः, इममित्यादौ न दोष इति’ ।
यदि चोक्तपरिभाषया कार्यनिर्वाहः स्यात् तर्हि महाभाष्यकारस्य सामर्थ्याश्रयणमसङ्गतं स्यात् । गुणवृद्धिग्रहणमाश्रित्य “त्यदादीनामः” इत्यादौ दोषो वारितः, न तु प्रतिपदोक्तपरिभाषां समाश्रित्य । तेन प्रतिपदोक्तपरिभाषाया अप्रवृत्तिर्ध्वन्यत इति नागेशाशयः।
परिभाषासूत्रस्य लिङ्गम्
लिङ्गवती परिभाषा । लिङ्गं-चिह्नं दृष्ट्वा परिभाषासूत्राणि प्रवर्तन्ते । अतः “इको गुणवृद्धी” इति परिभाषासूत्रस्य किं लिङ्गमिति मनसि निधाय नागेशेन प्रोक्तं यत् -
‘ अस्याश्च विधेयसमर्पकगुणवृद्धिपदश्रुतिः लिङ्गम्’ अर्थात् ‘ अदेङ्’, ‘ आदैच्’ एतदन्यतरनिष्ठविषयताप्रयोजकत्वेन स्वीकृतस्य गुणवृद्धिपदस्य यत्र श्रवणं तत्रैवेदं सूत्रमुपतिष्ठते । यथा - “मिदेर्गुणः”, “मृजेर्वृद्धिः” इत्यादौ । मिदेर्गुणः इति सूत्रे गुणपदं श्रूयते । गुणो विधीयते । एवञ्च “मृजेर्वृद्धिः” इति सूत्रे वृद्धिपदं श्रूयते । वृद्धिश्च विधीयते । अत इक्परिभाषोपस्थित्या इकः स्थाने गुणो वृद्धिर्वा स्यादिति निर्णयो जायते ।
परन्तु “अतो गुणे”, “वृद्धिर्यस्याचामादिस्तद् वृद्धम्” इत्यादावनुवादवाक्ये इक्परिभाषा नोपतिष्ठते । “अतो गुणे” इति सूत्रे गुणशब्दः श्रूयते परन्तु गुणो न विधीयते । अनेन सूत्रेण पररूपस्य विधानं भवति । अतोऽत्र विधेयसमर्पकत्वाभावादिक्परिभाषाया उपस्थितिर्न भवति । अत्र गुणपदं निमित्तमस्ति ।
एवञ्च “वृद्धिर्यस्याचामादिस्तद् वृद्धम्” इति सूत्रे वृद्धिशब्दः श्रूयते परन्तु वृद्धिर्न विधीयते । अनेन वृद्धिसञ्ज्ञाया विधानं भवति । अत्र वृद्धिपदमुद्देश्यं न तु विधेयम् । अतः वृद्धिपदस्य विधीयमानत्वाभावादिक्परिभाषा नोपतिष्ठते । इक्परिभाषाया उपस्थित्याभावस्य फलं भवति - ‘ भवन्ति’ इत्यत्र पररूपविधानं सिद्धम् । एवञ्च ‘ शालीयः, मालीयः’ इत्यादौ वृद्धलक्षणश्छप्रत्ययः प्राप्तः ।
यद्यत्र इक्परिभाषाया उपस्थितिः स्यात्, तर्हीकः स्थाने निष्पन्ने गुणे परतः पररूपस्य विधानं स्यात् । परन्तु ‘ भवन्ति’ इत्यत्र इक्स्थानिको गुणो नास्ति । तत्राकारो वर्तते । अतः पररूपं न प्राप्नोति । एवञ्चेक्स्थानिकवृद्धेरेव वृद्धसंज्ञा भवेत् । शालाशब्दे इकः स्थाने वृद्धेरभावाद् वृद्धसंज्ञा न प्राप्नोति । वृद्धसंज्ञाया अभावे छप्रत्ययोऽपि न स्यात् ।
अस्यायमाशयः - विधेयताप्रयोजकं यत्र गुणवृद्धिपदं तत्र ‘ इकः’ इति षष्ठ्यन्तं पदमुपतिष्ठते । विधेयता च ‘ अदेङ्’, ‘ आदैच्’ निष्ठा गृह्यते । अतः “अदेङ् गुणः”,“वृद्धिरादैच्” इत्यत्र नास्याः परिभाषाया उपस्थितिः । तत्र गुणवृद्धिपदाभ्यां नाऽकारादयो विधीयन्ते, परन्त्वकारादीनुद्दिश्य गुणसञ्ज्ञा वृद्धिसञ्ज्ञा च बोध्यत इति न दोषावकाशः । “त्यदादीनामः”, “पथिमथ्यृभुक्षामात्” इत्यादौ नास्याः परिभाषायाः प्रवृत्तिः, गुणवृद्धिपदेन तेषामकारादीनां विधानाभावात् । “अतो गुणे”, “वृद्धिर्यस्याचामादिस्तद् वृद्धम्” इत्यादावनुवादवाक्ये इक्परिभाषाया उपस्थितिर्न भवति, ताभ्यां सूत्राभ्यां क्रमेण पररूपस्य वृद्धसञ्ज्ञायाश्च विधानेन तत्र श्रूयमाणगुणवृद्धिपदयोर्निमित्ततयोद्देश्यरूपत्वेन विधेयसमर्पकत्वाभावात् । अत एव ‘ भवन्ति’ इत्यत्र पररूपम् ‘ शालीयः’ इत्यत्र वृद्धलक्षणश्छप्रत्ययश्च सिद्धो भवति । अन्यथा इक्परिभाषोपस्थित्यैकः स्थाने निष्पन्ने गुणे परतः पररूपस्य विधानेन ‘ एधै’ इत्यत्र इक्स्थानिकस्य एकारस्य सत्त्वात् तत्रैव पररूपं स्यात् । एवम् इक्स्थानिकवृद्धेः वृद्धसञ्ज्ञायाम् ‘ औपगवः’ इत्यत्र स्यात्, शालाशब्दस्य न स्यात् , इकः स्थाने वृद्धेरभावात् । अत्र पदोपस्थितपक्षो महाभाष्यकारेण स्वीकृतः ।
ननु गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेत इत्युक्त्या गुणवृद्ध्योर्लक्ष्ये विधानेन तत्रेक इति षष्ठ्यन्तपदोपस्थितिः स्यात्, परन्तु तत्र नेष्टेति चेदत्राहुः । यत्रेत्यत्र यत् पदेन शास्त्रं ग्राह्यम् । घटकत्वं सप्तम्यर्थः । तथा च गुणवृद्धिशब्दाभ्यां यच्छास्त्रघटकगुणवृद्धी विधीयेते तत्र शास्त्रे ‘ इकः’ इति षष्ठ्यन्तपदमुपतिष्ठत इत्यर्थस्वीकारेण न कश्चिद्दोष इति ।
‘ यत्र गुणवृद्धिपदे तत्रेदमुपतिष्ठते’ इति पक्षस्य खण्डनम्
केषाञ्चिन्मतेऽनुवृत्तं गुणवृद्धिपदं स्वरूपपरकं भवति । गुणवृद्धिसंज्ञाविधायकसूत्राभ्यां स्वरूपपरकं गुणवृद्धिपदमनुवर्तते । ‘ श्रूयेते’ इत्यध्याह्रियते । एवञ्च ‘ यत्र गुणवृद्धिपदे श्रूयेते, तत्र ‘ इकः’ इति षष्ठ्यन्तं पदमुपतिष्ठते’ इत्यर्थः कल्पितः । अनेन “त्यदादीनामः”, “पथिमथ्यृभुक्षामात्” “दिव औत्” इत्यादावियं परिभाषा वारिता । यतो ह्यत्र गुणवृद्धिपदं न श्रूयते । अतः सूत्रे गुणवृद्धिग्रहणं व्यर्थम् ।
वस्तुत एतन्मतं न समीचीनम् । यद्यपि “त्यदादीनामः” इत्यादौ दोषो न भवति, तथापि “अतो गुणे”, “वृद्धिर्यस्याचामादिस्तद्वृद्धम्” इत्यादौ गुणवृद्धिपदयोः श्रवणात् तत्रैक्परिभाषाया उपस्थितिः स्यात् । एवञ्च ‘ भवन्ति, शालीयः’ इत्यादिरूपं न सिद्ध्यति । अतो ‘ विधीयेते’ इत्यध्याहारो विधेयः ।
विधीयेत इत्यध्याहारो नावश्यक इति शङ्का
‘ विधौ परिभाषोपतिष्ठते नानुवादे’ इत्येका परिभाषा वर्तते । अत्रानुवादपदं कर्मघञन्तम् । अनुवादे = अनूद्यमानविशेषणे तन्नियामकपरिभाषा नोपतिष्ठते किन्तु विधावेव प्रवर्तत इति परिभाषार्थः । अर्थाद् यल्लिङ्गं दृष्ट्वा परिभाषा प्रवर्तते, तल्लिङ्गं विधेयकोटिस्थं स्यात् । यथा “मिदेर्गुणः”, “मृजेर्वृद्धि” इत्यादौ । अत्र गुणवृद्धिपदं विधेयकोटिप्रविष्टं वीक्ष्य “इको गुणवृद्धी” परिभाषा तत्रोपतिष्ठते । “वृद्धिर्यस्याचामादिस्तद्वृद्धम्” इत्यत्र वृद्धिपदन्त्वनुवादकोटिप्रविष्टम् । अत इक्परिभाषा नोपतिष्ठते । एवञ्चानुवादे “अतो गुणे” इत्यत्रापि न प्रवर्तते । अनया परिभाषयेक्परिभाषाप्रवृत्तिवारणसम्भवे ‘ विधीयेते’ इत्यध्याहारो न करणीय इति शङ्कोदेति ।
अत्र समाधानम्
‘ विधौ परिभाषोपतिष्ठते नानुवादे’ इति प्रवादस्य मूलम् “इको गुणवृद्धी” इत्यत्र ‘ विधीयते’ इत्यध्याहारः । अर्थाद् गुणवृद्धिसंज्ञाविधायकसूत्राभ्यां गुणवृद्धिपदमनुवर्त्य विधीयेत इत्यध्याहृत्य ‘ गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्र इक इति षष्ठ्यन्तं पदमुपतिष्ठते’ इत्यर्थेन यत्र गुणवृद्ध्योः विधानं भवति तत्रैवेक्परिभाषाया उपस्थितिरिति मूलकः प्रवादो जातः ‘ विधौ परिभाषोपतिष्ठते नानुवादे’ इति ।
यत्र विधौ परिभाषायाः प्रवृत्तिरिष्यते तत्र ‘ विधीयते’ इति पदस्याध्याहारेण कार्यं करणीयम् । “अचश्च” इत्यत्रापि ‘विधीयते’ इति पदस्याध्याहारः कर्तव्यः । “इको गुणवृद्धी”, “अचश्च” इत्येताभ्यामन्यत्रास्याः परिभाषाया नास्ति किमपि फलम् । तथा चेयं परिभाषा न स्वतन्त्रा ।
अनुवादेऽपि परिभाषायाः प्रवृत्तिः
यासु परिभाषासु ‘ विधीयते’ इत्यध्याहारो न भवति तासामनुवादेऽपि प्रवृत्तिः । यथा - “तस्मिन्निति निर्दिष्टे पूर्वस्य” इति । “इको यणचि” इति सूत्रे अचीति सप्तम्यन्तं पदम् । ‘ यण्’ इति विधेयम् । अचीति निमित्तम् । अत्र तस्मिन्निति परिभाषा स्वलिङ्गमुद्देश्यकोटिप्रविष्टमपि ‘ अचि’ इति सप्तम्यन्तं दृष्ट्वा प्रवर्तते । अतस्तस्मिन्निति परिभाषाऽनुवादेऽपि प्रवर्तते ।
एवञ्च “प्रत्ययस्थात्कात् पूर्वस्यात इदाप्यसुपः” इति सूत्रे अनुवादेऽपि तस्मिन्निति परिभाषायाः प्रवृत्तिर्भवति । प्रत्ययस्थात् सूत्रे ‘ आपि’ इति सप्तम्यन्तं पदमस्ति । अत्रकारः उद्देश्यः, इत्वं विधेयम्, ककार आप् च निमित्तौ । अर्थादनूद्यमानोऽकारः, तत्र विशेषणं ककारः, तत्र विशेषणम् आप् । अत्रानूद्यमानविशेषणविशेषणेऽपि तस्मिन्निति परिभाषा प्रवर्तते । तेन ‘ रथकट्या’ इत्यादौ ककारात् पूर्वस्याकारस्य इत्वं न प्रसज्येत । यतो हि आपोऽव्यवहितपूर्वत्वं ककारस्य नास्ति ।
“षष्ठी स्थानेयोगा” इति परिभाषाप्यनुवादे प्रवर्तते । “उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य” इत्यनेनोदात्तस्य स्वरितस्य च स्थाने यो यण् ततः परस्यानुदात्तस्य स्थाने स्वरितो विहितः । अत्रोद्देश्यस्यानुदात्तस्य विशेषणं यण् । तस्मिन् विशेषणभूतयोरुदात्तानुदात्तयोः “षष्ठी स्थानेयोगा” इति परिभाषया स्थानार्थो लभ्यते ।
“उदीचामातः” सूत्रे स्थानग्रहणस्य प्रयोजनम्
“उदीचामातः स्थाने यकपूर्वायाः” इति सूत्रे आतः इति षष्ठ्यन्तं पदम् । अतः “षष्ठी स्थानेयोगा” इति परिभाषया स्थानार्थो लभ्यते । अतः “उदीचामातः” इति सूत्रे स्थानग्रहणं व्यर्थमिति शङ्कोदेति ।
परन्तु “उदीचामातः स्थाने यकपूर्वायाः” इति सूत्रे स्थानग्रहणं स्पष्टार्थमिति नागेशेन समाहितम् ।
विधिवाक्ये विधेयताप्रयोजकत्वनिर्णयोपायः
“इको गुणवृद्धी” इति परिभाषाया लिङ्गं भवति - विधेयसमर्पकगुणवृद्धिपदश्रुतिः । विधिवाक्ये पदश्रवणसमकालमेव विधेयताप्रयोजकत्वं गुणवृद्ध्यादिपदानां कथं निर्णीयत इति प्रश्न आयाति ।
‘ विधिवाक्ये प्रथमाया विधेयविभक्तित्वेन तदन्तस्य विधेयसमपर्कत्वनिर्णयः’ इति नागेशेन समाहितम् । अर्थात् प्रथमान्तपदस्य ‘ गुणः’, ‘ वृद्धिः’ इत्येवंरूपस्य विधेयविभक्तित्वेन निश्चयः कर्तव्यः । तेन विधेयताप्रयोजकत्वं निर्णेतुं शक्यते ।
यद्यपि “वृद्धिर्यस्याचामादिस्तद्वृद्धम्” इति सूत्रे वृद्धिपदं प्रथमया निर्दिष्टम्, तथापि वृद्धिपदस्य प्राथम्येन प्रयोगाद् विधेयता समपर्कत्वं विनश्यति । यतो हि ‘ उद्देश्यं प्रथमं वाच्यम्’ इति नियमो वर्तते ।
इक्परिभाषाया वाक्यार्थबोधेऽन्वयित्वप्रतिपादनम्
यद्यपि विधेयताप्रयोजकं श्रूयमाणं गुणवृद्धिपदम् इक्परिभाषाया उपस्थापकत्वेन चरितार्थं, तथापि वाक्यार्थबोधेऽन्वयी भवति । तेषां गुणवृद्धिपदानाम् वाक्यार्थबोधेऽन्वयित्व एव विधेयता संगच्छते । अन्यथा तेषां विधेयताऽपगच्छेत् । एवञ्च गुणवृद्धिपदयोरुपस्थापकतापि निवर्तेत ।
सूत्रस्य प्रयोजनम्
‘ एधिता’ इत्यादौ व्यञ्जनात्मकस्य धकारस्य गुणवारणाय “इको गुणवृद्धी” इति सूत्रमावश्यकम् । ‘ एधिता’ इत्यत्र “सार्वधातुकार्धधातुकयोः” इति सूत्रेण व्यञ्जनस्य धकारस्य गुणः प्राप्तः । परन्तु इक्परिभाषाया उपस्थिताविक एव गुणो भवति । अतो व्यञ्जनस्य गुणो न भवति, नापीग्भिन्नस्याचो गुणो भवति ।
एवञ्च ‘ भिन्नम्’ इत्यत्र “क्क्ङिति च” इति सूत्रेण इग्निमित्तकगुणवृद्ध्योः प्रतिषेधो भवति । यदि “इको गुणवृद्धी” सूत्रं न स्यात्, तर्हि “पुगन्तलघूपधस्य च” इत्यत्रेक्पदस्य उपस्थितिः न भवति । एवञ्चेग्निमित्तकत्वाभावात् गुणस्य प्रतिषेधो न स्यात् । सूत्रस्य सत्त्वे त्विक्पदस्योपस्थित्या गुणनिषेधः सिद्धः ।
‘ इकः’ इति पदस्य प्रयोजनम्
भाष्यकारः “इको गुणवृद्धी” इति सूत्रे इग्ग्रहणं किमर्थमिति प्रश्नमुद्भाव्य प्राह - ‘ इग्ग्रहणमात्सन्ध्यक्षरव्यञ्जननिवृत्त्यर्थम्’ । एतत्सूत्राभावे आतः, सन्ध्यक्षरस्य, व्यञ्जनस्य च गुणः स्यात्तन्निवृत्तये सूत्रमिदम् ।
नन्विदं सूत्रं न कार्यम् । न च सूत्राभावे गुणविधायके “पुगन्तलघूपधस्य च” इत्यादौ ‘ इकः’ इत्यस्यानुपस्थित्या पुगन्तलघूपधाङ्गावयवस्य गुणः स्यादित्यर्थे ‘ पचति’ इत्यादौ ह्रस्वाकारस्य ह्रस्वाकारगुणो यद्यपि विशेषाभावस्तथापि ‘ पच्’ धातोर्लिटि थलि ‘ पेचिथ’ इत्यादौ गुणे कृते गुणशब्देन भावितत्वात् “न शसददवादिगुणानाम्” इत्यनेन एत्वाभ्यासलोपौ न स्यातामिति वाच्यम् ।
“थलि च सेटि” इति सूत्रारम्भसामर्थ्येनात्र एत्वाभ्यासलोपौ भवत इति स्वीकारात् । न च सूत्राभावे ‘ याता, वाता’ इत्यादौ “सार्वधातुकार्धधातुकयोः” इत्यनेन दीर्घाकारस्य स्थाने ह्रस्वाकारगुणे ‘ यता, वता’ इति स्यादिति वाच्यम् “आतोऽनुपसर्गे कः” इति सूत्रे ककारग्रहणेन दीर्घाकारस्य गुणो न भवतीति ज्ञापनात् । अन्यथा ‘ आतोऽनुपसर्गाद् अ’ इति वक्तव्ये अकारे पर आकारस्य गुणादेशे द्वयोरकारयोः पररूपेण ‘ गोदः, कम्बलदः’ इत्यादीनां सिद्धावाकारलोपार्थे कृतं ककारग्रहणं व्यर्थं स्यात् । “तुन्दशोकयोः परिमृजापनुदोः” इत्यत्रानुवृत्त्यर्थं ककारग्रहणमिति चेत्तर्हि “गापोष्टक्” इति सूत्रे टकः कित्करणमनर्थकं स्यात् । कित्करणं हि “अतो लोपः” इत्याकारलोपार्थम् । यद्याकारस्य गुणः स्यात्तदा द्वयोराकारयोः पररूपेण ‘ सामगः’ इत्यादि सिद्धौ कित्करणं व्यर्थं स्यात्तदेव व्यर्थीभूय ज्ञापयति - नाकारस्य गुणो भवतीति ।
न च ग्लायतीत्यादौ सन्ध्यक्षरस्य गुणव्यावृत्त्यर्थमिग्ग्रहणमावश्यकमिति वाच्यम् । यदि ‘ ग्लायति’ इत्यादावैकारादेर्गुणः स्यात्तदा ‘ ग्लै’ इत्यत्रैकारग्रहणमनर्थकं स्यात् ‘ ग्ले’ इत्येवोपदिशेत्, इत्यैकारोच्चारणसामर्थ्यान्न सन्ध्यक्षरस्य गुणो भवतीति ज्ञापनात् ।
न चैकारोच्चारणेन यथा गुणो वार्य्यते तथैवायादेशः कथं न वार्य्यत इति वाच्यम् ।
‘ यं विधि प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते’ यस्य तु विधेर्निमित्तमेव नास्ति नासौ बाध्यत इति ज्ञापनात् ।
न च सूत्राभावे ‘ उम्भिता, मन्दुरजः, पङ्कजम्’ इत्यादावानन्तर्य्यतोऽर्धमात्रिकस्य व्यञ्जनस्य, मात्रिकोऽकारो गुणादेशस्स्यादिति वाच्यम् “सप्तम्यां जनेर्डः” इति सूत्रे डित्त्वकरणाज्ज्ञाप्यते न व्यञ्जनस्य गुणो भवतीति । अन्यथा प्रमाणकृतान्तर्य्येण नकारस्याकारे गुणे पररूपे ‘ पङ्कजम्’ इत्यादिसिद्धेः । न चानुनासिकापत्तिः, पररूपेण रूपग्रहणात्पररूपस्य विधानेन सिद्धेः । वस्तुतस्तु स्थानकृतान्तर्य्यस्य बलीयस्त्वात् ।
न च “अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः” इति सूत्रोपरि ‘ सुदुरोरधिकरणे’ इति वार्त्तिकेऽनुवृत्त्यर्थं डकारग्रहणं चरितार्थमन्यथा ‘ गम्’ धातोर्मकारस्यौष्ठस्थानिकत्वेनौकारगुणादेशे ‘ सुगः, दुर्गः’ इत्यादीनां सिद्धिर्न स्यादिति वाच्यम् तत्र तु “अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः” इति सूत्राट्डकारस्यानुवृत्तेः । व्यञ्जनस्य गुणाभावे तु “सप्तम्यां जनेर्डः” इति सूत्रस्थडकारग्रहणं ज्ञापकं बोध्यमिति चेन्न “सप्तम्यां जनेर्डः” इत्युत्तरं पठिते “अन्येष्वपि दृश्यते” इति सूत्रे दृशि ग्रहणं सर्वोपाधिव्यभिचारार्थं तेनैव धात्वन्तरादपि डप्रत्यये ‘ सुगः, नगः’ इत्यादीनां सिद्धौ “अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः” इति सूत्रस्थवार्त्तिकं प्रत्याख्यातमिति स्थितिः तथा च तत्रानुवृत्त्यर्थं डकारग्रहणस्य चारितार्थ्यात् । अन्यथा स्थानत आनन्तर्य्यान्मकारस्यौकारगुणादेशे ‘ सुगः, नगः’ इत्यादीनां सिद्धिर्न स्यादतो डकारग्रहणं कर्तव्यमेव । न च गमेर्विच्येव सिद्धे ‘ गमेर्डोः’ इत्यनेन ‘ गम्’ धातोर्डोप्रत्ययविधानेन मकारस्यौकारगुणेन भवतीति वाच्यम् । विचि सति सानुनासिक ओकारो गुणः स्याद् निरनुनासिक ओकारसिद्धये डोप्रत्ययस्यविधानात् । न च ‘ तनोतेर्ड उः सन्वच्च’ इति डित्करणान्न व्यञ्जनस्य गुण इति वाच्यम् । उणादीनामव्युत्पन्नत्वेन ज्ञापकत्वासम्भवात् । तथा च व्यञ्जनस्य गुणवारणार्थे सूत्रं कर्तव्यमेव ।
किञ्च सूत्राभावे ‘ भिन्नम्’ इत्यादाविग्लक्षणत्वाभावेन “क्क्ङिति च” इत्यनेन सूत्रेण गुणनिषेधवारणाय च निषेधस्य इग्लक्षण एव प्रवृत्तये च “इको गुणवृद्धी” इति सूत्रं कर्तव्यम् । अनिग्लक्षणस्यापि निषेधे “कमेर्णिङ्” इति सूत्रेण णिङ्प्रत्यये परे ‘ कामयते’ इत्यादौ “क्क्ङिति च” इति निषेधात् “अत उपधायाः” इत्यनेन वृद्धिर्न स्यात् तथा च तत्र निषेधाभावाय “इको गुणवृद्धी” इति सूत्रस्य कर्तव्यत्वादिति दिक् ।
“इको गुणवृद्धी” इति सूत्रम् “अलोऽन्त्यस्य” इत्यस्य शेष आहोस्वित्तदपवाद इति द्वयोः पक्षयोर्दोषान् समुद्भाव्य तन्निराकरणायैव पदोपस्थितिपक्षं प्राह - ‘ वृद्धिर्भवति गुणो भवतीति यत्र ब्रूयाद् ‘ इकः’ इत्येतत्तत्रोपस्थितं द्रष्टव्यम्’ । अदेङ्निष्ठविधेयताप्रयोजकं गुणपदम् आदैज्निष्ठविधेयताप्रयोजकं वृद्धिपदञ्च यत्र तत्र इक इति षष्ठ्यन्तं पदमुपतिष्ठते इति पदोपस्थितिपक्षो भगवता सिद्धान्तित इति दिक् ।
उदाहरणम्
इदं परिभाषासूत्रं व्याकरणशास्त्रे दृष्टस्यऽनियमस्य कथं केन प्रकारेण दूरीकरोतीति कैश्चिदुदाहरणैरत्र सङ्क्षेपतः प्रस्तूयते -
“इको गुणवृद्धी” गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्र ‘ इकः’ इति षष्ठ्यन्तं पदमुपतिष्ठते । इत्थं परिभाषा स्थाननियमार्था । अनियमप्रसङ्गे नियमो विधीयतेऽनेन परिभाषासूत्रेण । वृद्धिगुणौ स्वसंज्ञया शिष्यमाणाविक एव स्थाने विज्ञेयौ । वक्ष्यति “सार्वधातुकार्धधातुकयोः” इति सूत्रेणाङ्गस्य गुणः स्यात् । सो गुण इक एव स्थाने वेदितव्यः । ‘ तरति, नयति, भवति’ इत्यादिप्रयोगेष्वङ्गस्य गुणो विधीयते । वृद्धि - यथा “सिचि वृद्धिः परस्मैपदेषु” ‘ अकार्षीत्, अचैषीत्, अलावीत्’ इत्यादीन्युदाहरणानि ।
॥ प्रौढमनोरमा - संस्कृतव्याख्या ॥
गुणवृद्धिशब्दाभ्यामिति । एतच्च पूर्वसूत्राभ्यां गुणवृद्धिपदे अनुवर्त्य गुणो वृद्धिरिति ये गुणवृद्धी इति योजनया लभ्यते । तेनेह न - दिव औत् द्यौः, त्यदादीनामः सः, इमम्। षष्ठ्यन्तमिति । सूत्रे षष्ठ्यन्तस्यानुकरणाच्छब्दस्वरूपपरतया नपुंसकात्सोर्लुगिति भावः। पदमिति । तच्च सम्भवति सामानाधिकरण्ये इगन्तस्याङ्गस्येत्यादिक्रमेण सम्बध्यते । मिदेर्गुणः मृजेर्वृद्धिः इत्यादौ तु सामानाधिकरण्यासम्भवान्मिदिमृदज्योरवयवस्येक इति संबध्यते । यत्तु इक एव स्थाने स्त इति प्राचा व्याख्यातम्, यच्च तट्टीकाकृतोक्तमनियमप्रसङ्गे नियमार्थमिदमित्यादि, तत्सर्वं भाष्यविरोधादुपेक्ष्यम् । तच्छेषपक्षं दूषयित्वा पदोपस्थितिपक्षस्यैव भाष्ये समर्थितत्वादित्याहुः । तच्छेषपक्षेऽपि दूषणोद्धारस्तु शब्दकौस्तुभे स्पष्टीकृतोऽस्माभिः ॥
॥ प्रौढमनोरमा-शब्दरत्न - हिन्दी ॥
कौमुदी - इको गुणवृद्धी १.१.३ गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्र 'इक:' इति षष्ठयन्तं पदमुपतिष्ठते । ।
मनोरमा - इको गुणवृद्धी (पां.सू. १.१.३) ॥ गुणवृद्धीशब्दाभ्यामिति । एतच्च पूर्वसूत्राभ्यां गुणवृद्धिपदे अनुवर्त्य गुणो वृद्धिरिति ये गुणवृद्धी इति योजनया लभ्यते । तेनेह न 'दिव औत्' (पा. सू. ७.१.८४) द्यौः, त्यदादीनाम: (पा.सू.७.२.१०२) सः, इमम् । षष्ठयन्तमिति सूत्रे षष्ठ्यन्तस्यानुकरणात् शब्दस्वरूपपरतया नपुंसकात् सोलुगिति भावः ।
इस सूत्र की व्याख्या करते हुए कौमुदी में 'गुणवृद्धिशब्दाभ्याम्' इत्यादि जो कहा गया उसका लाभ कैसे होता है इसे मनोरमाकार कहते हैं कि पूर्व के, "वृद्धिरादैच्' सूत्र से वृद्धि पद, तथा 'अदेङ्गुण:' सूत्र से 'गुण' पद की अनुवृत्ति करते हैं । एवञ्च संज्ञावाची शब्द जब अनुवृत्त होता है तो वह स्वरूपपरक होता है' इस नियमानुसार 'गुण' पद 'गुण' इस शब्दस्वरूपपरक होगा तथा 'वृद्धि' पद भी 'वृद्धि' इस शब्दस्वरूपपरक होगा तो अर्थ होगा 'गुण:' (स्यात्), 'वृद्धि:' (स्यात्) इस प्रकार जो गुण अर्थात् अदेङ् तथा वृद्धि (आदेच्), ऐसी योजना से 'गुणवृद्धिशब्दाभ्याम् यत्र गुणवृद्धी विधीयेते तत्र इकः इति पदमुपतिष्ठते' इस अर्थ का लाभ होता है । तात्पर्य यह निकला संज्ञावाची गुण तथा वृद्धि पद जब इस सूत्र में अनुवृत्त होगा तो वह शब्दस्वरूपपरक होगा । शब्दस्वरूपपरक उन दोनों पदों का तृतीयान्त में विपरिणाम कर देंगे तो उनका स्वरूप होगा 'गुण:' इति शब्देन 'वृद्धिः' इति शब्देन । एवञ्च प्रकृतिसूत्रस्थ गुण तथा वृद्धि पद संज्ञा शब्द होने से संज्ञीपरक होंगे तो गुणः का अर्थ होगा अदेङ् तथा वृद्धिः का अर्थ होगा 'आदैच्’ । 'विधीयेते' का अध्याहार करेंगे तो सूत्र का अर्थ होगा 'गुणशब्देन' अर्थातु 'गुण:' इत्युच्चार्य अर्थात् 'गुण' ऐसे शब्दस्वरूप का उच्चारण करके, यत्र = जहाँ गुण अर्थात् अत या एङ् का विधान हो वहाँ 'इक:' यह षष्ठ्यन्तपद उपस्थित होता है । इसी प्रकार जहाँ 'वृद्धिः शब्देन' अर्थात् 'वृद्धि:' ऐसे शब्दस्वरूप का उच्चारण करके वृद्धि का अर्थात् आत् या ऐच् का विधान किया जाए वहाँ (उस शास्त्र में) 'इक:' यह षष्ठन्त पद उपस्थित होता है । इसी को कौमुदी में कहा 'गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्र इक इति षष्ठयन्तं पदमुपतिष्ठते । '
परन्तु मनोरमाकार का 'गुणवृद्धिपदे अनुवर्त्य गुणोवृद्धिरिति योजनया' यह कथन भाष्यकार के 'गुणवृद्धिग्रहणसामर्थ्यात्' इस कथन से विरुद्ध है । क्योंकि भाष्यकार तो इस सूत्र में जो 'गुण तथा वृद्धि पद का ग्रहण किया गया है तत् सामर्थ्यात् 'उपर्युक्त अर्थ' का लाभ मान रहे हैं, जबकि भट्टोजी दीक्षित उन दोनों पदों की अनुवृत्ति करके 'गुणवृद्धिः इति ये गुणवृद्धी' इस योजना से उपर्युक्त अर्थ का लाभ मान रहे हैं ।
शब्दरत्न - योजनयेति । यद्यपि तदनुवृत्त्यैव सिद्धे सामर्थ्यात् शब्दव्यापाराश्रयणेन लभ्यते, मूलोक्तार्थः, तथापि मन्दबुद्धिसाधारण्येन स्फुटत्वायैवमुक्तम् ।
तात्पर्य यह है कि यद्यपि इस सूत्र का जो अर्थ ऊपर बताया गया उसका लाभ पूर्वसूत्रों से गुणवृद्धि पद की अनुवृत्ति करके ही हो जाता । यहाँ प्रश्न यह होगा कि अनुवृत्तगुण तथा वृद्धिपद तो स्वरूपपरक ही होगा उससे संज्ञी अर्थात् अदेङ् तथा आदेच् का लाभ तो होगा नहीं । पुनः शब्दरत्नकार कैसे 'तदनुवृत्त्यैवसिद्धे' ऐसा कह रहे हैं तो इसका समाधान यह है कि जैसे 'बहुगणवतु' सूत्र से अनुवृत्ति से आया संज्ञावाची 'संख्या' शब्द 'ष्णान्ताषट्' में अनुवृत्त होने पर संज्ञीपरक हो जाता है । उसी प्रकार यहाँ भी गुणपद अनुवृत्त होकर अदेरूप संज्ञीपरक तथा 'वृद्धि' पद आदैच् रूप संज्ञीपरक होगा । कोई आपत्ति नहीं । एवञ्च सूत्र का अर्थ होगा 'इकः अर्थात् इक् के स्थान पर गुणः = अर्थात् अत् या एङ् हो तथा वृद्धिः अर्थात् आदैच् हो । ' इस प्रकार उन दोनों पदों की अनुवृत्ति से ही उपर्युक्त अर्थ का लाभ जब सिद्ध था, तब पुनः सूत्रकार ने जो सूत्र 'गुण तथा वृद्धि' पद का ग्रहण किया है, तत् सामर्थ्यात् लक्षणा रूप शब्द व्यापार का आश्रयण करने से अर्थात् गुणवृद्धि पद की 'गुणवृद्धि शब्दकरणकविधानाधिकरण' इस अर्थ में लक्षणा करने से मूलोक्तार्थ अर्थात् मनोरमा में कहे गये सूत्रार्थ का लाभ हो जाएगा । अर्थात् सूत्रस्थगुणवृद्धिपदग्रहणसामर्थ्यात् अनुवृत्त गुण शब्द का लक्षणया 'गुणशब्दकरणकविधानाधिकरण' अर्थ करेंगे तो गुण शब्द के द्वारा विधान का जो अधिकरण अर्थात् जहाँ गुण का विधान हो, इसी प्रकार वृद्धिपद की लक्षणा से वृद्धिशब्दकरणकविधानाधिकरण अर्थ करने से गुण तथा वृद्धि शब्द है, करण जिस विधान का अर्थात् गुण तथा वृद्धि शब्द का उच्चारण करके जिस शास्त्र के द्वारा गुण अर्थात् अत् एङ् का तथा वृद्धि का अर्थात् आदैच् का विधान किया जाता वहाँ इक: यह षष्ठ्यन्त पद उपस्थित होता है ।
इस प्रकार भाष्योक्त सामर्थ्य का आश्रय लेकर लक्षणया मूलोक्त अर्थ 'गुणवृद्धिशब्दाभ्याम्' इत्यादि, का लाभ यद्यपि हो सकता था, तथापि मन्दबुद्धि को भी सूत्रार्थ लाभ की प्रक्रिया का ज्ञान हो जाए इसी स्पष्टता के लिए दीक्षितजी ने 'गुणोवृद्धिरित ये गुणवृद्धी' इस योजना के द्वारा मूलोक्तार्थ लाभ की बात कही ।
मनोरमाकार आगे कहते हैं कि सूत्र का उपर्युक्त अर्थ स्वीकार करते हैं तभी 'दिव औत्' सूत्र से 'दिव्' के व्कार को 'औ'कारादेश जो होता है वहाँ 'औ' वृद्धि ही है तो औकारादेश भी वृद्धि का ही विधान हुआ। परन्तु इस औकाररूपवृद्धि का विधान 'दिव औत्' सूत्र वृद्धि शब्द का उच्चारण करके अर्थात् 'वृद्धि:' स्यात् ऐसा कहकर नहीं किया है । अतः यहाँ 'इकः' यह षष्ठ्यन्तपद उपस्थित नहीं हुआ तो 'दिव्' के दकारोत्तरवर्ती इकार को औत् न होकर वकार को अन्तादेश हुआ तो यण् होकर 'द्यौः' ऐसा रूप बनता है । इसी प्रकार 'तद्' शब्द को जो 'त्यदादीनाम:' से अत्व होता है वह अकार भी गुण है तो अकारादेश गुणादेश ही हुआ। परन्तु यह अकारादेश रूप गुणादेश 'गुणःस्यात्' ऐसा उच्चारण करके नहीं हुआ, अपितु 'अ:' ऐसा उच्चारण करके हुआ है । अतः यहाँ भी 'इक:' पद की अनुवृत्ति नहीं आती है तो सत्व आदि होकर 'सः' रूप निष्पन्न होता है । यहाँ शब्दरत्नकार कहते हैं -
शब्दरत्न - स इति । अत्र नैव स्यादिति भावः ।
अर्थात् 'सः' में अर्थात् तद् शब्द में जो 'त्यदादीनामः' से अत्व करता है उसमें तो 'इक:' यह पद नहीं ही उपस्थित होगा । क्योंकि यदि हो गया तो 'तद्' शब्द में इक् के न होने से अल्व 'ही नहीं पाता । यह अव्याप्ति दोष हो जाता ।
शब्दरत्न - इममिति । अत्रेकारस्यैव स्यान्नत्वन्तस्येति भावः ।
यदि 'त्यदादीनाम' में 'इक' पद की उपस्थिति होती तो 'इमम्' यहाँ पर 'इदम्' शब्द के इकार को ही यह सूत्र अत्व करता न कि अन्त को अर्थात् मकार को तो 'इमम्' यह प्रयोग ही नहीं बन पाता ।
मनोरमाकार आगे षष्ठ्यन्तम् इस प्रतीक से कहते हैं कि षष्ठ्यन्त इकस् का अर्थात् 'इक:' का अनुकरणात्मक शब्द है 'इकः’ । इसलिए अनुकरणात्मक 'इक:' शब्द स्वरूपपरक है अर्थात् 'इक:' पद से 'इक:' इस शब्दस्वरूप का ही बोध होता है । एवञ्च अनुकरणात्मक ‘इक:' इस पद के शब्दस्वरूपपरक होने के कारण यह पद नपुंसक हो गया तो इस 'इक:' इस अनुकरणात्मक शब्द के आगे जो 'सु' विभक्ति आयी थी उसका नपुंसकत्वात् लुक् हो गया । यहाँ शब्दरत्नकार जोड़ते हैं -
शब्दरत्न - सोलुगिति । अतएव दीर्घो नेति भावः ।
अर्थात् नपुंसकत्वात् सु का लुक् हो गया है अत एव 'सान्तमहत: ' सूत्र से दीर्घ नहीं हुआ तो 'इक:' ऐसा सुनाई देता है । तात्पर्य यह निकला कि सूत्रस्थ 'इक' पद प्रथमान्त है । अत वह 'उपतिष्ठते' इस क्रिया का कर्त्ता है ।
मनोरमा - पदमिति । तच्च सम्भवति सामानाधिकरण्ये इगन्तस्यास्येत्यादिक्रमेण संबध्यते । 'मिदेर्गुण:' (पा. सू. ७.३.८२) 'मृजेर्वृद्धि:' (पा. सू.७.२.११४) इत्यादौ तु सामानाधिकरण्यासंभवान्मिदिमृज्योरवयवस्येक इति संबध्यते ।
शब्दरत्न - तच्चेति । इक इति पदं चेत्यर्थः । अनेनात्र सूत्रे पदोपस्थितिपक्ष इति सूचयति । अचोऽञ्णिति (पा. सू. ७.२.११५) 'ओर्गुण:' (पा. सू.७.४.१४६) इत्यादौ तु
नास्याः प्रवृत्तिः । लिङ्गस्य श्रुत्यपेक्षया दुर्बलत्वेन प्रथमतः श्रौताच्पदार्थादिघटित - वाक्यार्थबोधे वृत्ते निर्दिष्टस्थानिकत्वेनोपस्थितस्यापीकपदस्य वाक्यार्थेऽनन्वयात् । सार्वधातुक (पा. सू. ७.३.८४) इत्यादौ तु तदुपस्थितिं विना स्थान्याकाँक्षा - शान्त्यभावेन बोध एव नेति विशेषः। एवञ्च पदश्रुतिनिमित्तैषा पदैकवाक्यतयाऽन्वय - वत्यन्तरङ्गा। स्थानषष्ठीत्वनिर्णये उपस्थिताऽलोन्त्यपरिभाषाया अनन्त्यस्य गुणव्यावृत्तये वाक्यैकवाक्यतयाऽन्वय इति बहिरङ्गा सा तदाह इगन्ताङ्गस्येत्यादि ।
वह पद अर्थात् इक् पद सामानाधिकरण्यसम्भव होने से 'इगन्तस्य अन्नस्य' इत्यादि क्रम से सम्बद्ध होता है । यहाँ शब्दरत्नकार कहते हैं कि कौमुदी में जो 'पदमुपतिष्ठते' कहा गया उससे यहाँ 'पदोपस्थित पक्ष' है यह सूचित होता है । अब यहाँ प्रश्न यह होता है कि जिस सूत्र के द्वारा 'गुण:' ऐसा उच्चारण करके गुणका, या वृद्धि ऐसा कहकर वृद्धि का विधान किया जाता है उस शास्त्र में यदि 'इक:' यह पद उपस्थित होगा तब तो 'अचोऽञ्णिति' भी वृद्धिशब्द का उच्चारण करके वृद्धि का विधान करता है तो यहाँ भी 'इक:' पद उपस्थित होगा, तो 'अचोऽञ्णिति' में गृहीत 'अच: ' पद तथा 'ओर्गुण:' में गृहीत 'ओ' पद व्यर्थ ही होगा । इस प्रश्न के उत्तर में शब्ददत्नकार कहते हैं कि ‘अचोणिति' तथा 'ओर्गुण:' में इस 'इकोगुणवृद्धी' परिभाषा की प्रवृत्ति नहीं होती । उसका कारण यह है कि जैमिनी का एक सूत्र 'श्रुति - लिङ्ग वाक्य - प्रकरण - स्थान समाख्यानां पारदौर्बल्यमर्थविप्रकर्षात्" अर्थात् श्रुति लिङ्ग आदि विनियोजक प्रमाणों में पूर्व - पूर्व प्रमाण की अपेक्षा उत्तरोत्तर प्रमाण दुर्बल होते हैं क्योंकि विनियोगरूपप्रयोजन में विलम्ब होताजाता है । इसका आशय यह है कि 'निरपेक्षो रवः श्रुतिः' के अनुसार श्रुति निरपेक्ष होने से सबसे प्रबल होती है तो विनियोग का विधान करके साध्यादि आकाँक्षा की निवृत्ति करा देती है । परन्तु 'सामर्थ्यं लिङ्गम्' के अनुसार 'अर्थप्रकाशन का सामर्थ्य रूप लिङ्ग' श्रुति की कल्पना करता है, तत्पश्चात् विनियोग का विधान करता है । ऐसी स्थिति में यदि किसी स्थल विशेष में श्रुति तथा लिङ्ग दोनों प्रमाण हों और उनका विरोध हो तो वहाँ श्रुति निरपेक्ष होने से पहले ही विनियोग कर देगी, जबकि लिन तो पहले श्रुति की कल्पना करेगा तब विनियोग करेगा । इस प्रकार जिस दूसरे क्षण में लिङ्गप्रमाण श्रुति की कल्पना करता रहेगा उसी दूसरे क्षण में प्रत्यक्षश्रुति विनियोग कर देगी। इस प्रकार विनियोग करने में लिन को श्रुति की अपेक्षा एक क्षण अधिक का विलम्ब होता है । अतः अर्थविप्रकर्ष के कारण लिङ्गादि की अपेक्षा श्रुति सर्वतो बलवती होती है । जैसे 'ऐन्द्रया गार्हपत्यमुपतिष्ठते' इस वाक्य में 'गार्हपत्यम्' में प्रत्यक्षद्वितीयाश्रुति से 'गार्हपत्याग्नि' के उपस्थान में 'ऐन्द्री' ऋचा का विनियोग का विधान हो रहा है । जबकि 'इन्द्रो देवता अस्याः ऋचः' इति 'ऐन्द्री' (ऋक्) ।
इस व्युत्पत्ति के आधार पर 'ऐन्द्री' पद स्वनिष्ठ अर्थप्रकाशनसामर्थ्य से इन्द्रदेवतारूप अर्थ का प्रकाशन करके 'इन्द्र' के उपस्थान में इस ऋचा का विनियोग करेगा । परन्तु जब तक लिङ्ग प्रमाण ऐन्द्रया ऋचा इन्द्रमुपतिष्ठेत' इस श्रुतिवाक्य की कल्पना करेगा और उसका इन्द्रोपस्थान में विनियोग करेगा, उससे पहले ही 'गार्हपत्यम्' में सुनाई पड़ने वाली द्वितीयाविभक्ति रूप श्रुति प्रमाण इस ऋचा का विनियोग 'गार्हपत्याग्नि' के उपस्थान में करा देता है । तब 'साध्याकाँक्षा' के निवृत्त हो जाने से 'लिङ्ग' प्रमाण 'इन्द्रोपस्थान' का साध्यत्वेन विनियोग नहीं कराता । ठीक इसी प्रकार प्रकृत में 'अचोणिति' में प्रत्यक्षश्रुत 'अच्' पद अपने अर्थ का बोध कराएगा तब (पदार्थोपस्थिति हो जाने पर) अच् पदार्थघटितवाक्यार्थबोध जब 'अचोणिति' का हो जाएगा तो निर्दिष्टस्थानिकत्वेन उपस्थित अर्थात् इस सूत्र में अनुवृत्त्यालब्ध 'वृद्धि:' इस विधेयसमर्पकपद के कारण 'इकोगुणवृद्धि' इस परिभाषा के द्वारा स्थानीरूप में निर्दिष्ट 'इक्' पद वहाँ उपस्थित होकर भी 'अचोऽञ्णिति' सूत्र के वाक्यार्थ में अन्वित नहीं होगा क्योंकि प्रत्यक्षश्रुत 'अच' पद के द्वारा वृद्धि के स्थानी रूप में 'अच्' की उपस्थिति हो चुकी होती है । अतः वाक्यार्थ के निराकाँक्ष हो जाने से उसमें 'इक्' पदार्थ का अन्वय नहीं हो सकता । अन्वय परस्पर साकाँक्ष पदार्थों का ही होता है ।
'सार्वधातुकार्धधातुकयोः' इत्यादि में तो जब तक 'इकोगुणवृद्धी' की उपस्थिति न हो अर्थात् वहाँ स्थानीरूप में इक् उपस्थित न हो, तब तक स्थानी की आकांक्षा शान्त नहीं होगी तो 'सार्वधातुकार्धधातुकयोः' सूत्र का निराकाँक्ष बोध ही (वाक्यार्थबोध) ही नहीं हो पाएगा । अतः ‘सार्वधातुकार्धधातुकयोः' या इस तरह के सूत्रों में यह परिभाषा उपस्थित होती है ।
शब्दरत्नकार यहाँ एक विशेष बात कहते हैं कि यह 'इकोगुणवृद्धि' परिभाषा पदश्रुतिनिमित्ता है अर्थात् जहाँ विधेयसमर्पक 'गुणः' पद या 'वृद्धि:' पद सुनाई पड़ेगा वहीं प्रवृत्त होती है । अतः इसकी प्रवृत्ति का निमित्त है 'पदश्रुति । ' अतः इसे 'पदश्रुतिनिमित्ता' कहा गया । इसलिए विधिसूत्र के साथ इस परिभाषा का ‘पदैकवाक्यतया' अन्वय होने से, यह परिभाषा अन्तरङ्ग है । परन्तु 'अलोऽन्त्यस्य' परिभाषा तो तब प्रवृत्त होती है जब यह निर्णय हो जाता है कि यहाँ स्थानषष्ठी है । एवञ्च स्थानषष्ठी का निर्णय हो जाने पर अनन्त्य अर्थात् अन्त्यभिन्न इक् को गुण न हो एतदर्थ वाक्यैकवाक्यतया 'विधिसूत्र' में अन्वित होती है । अतः यह अलोऽन्त्यपरिभाषा बहिरङ्ग है । इसीलिए मनोरमाकार ने अन्वय का क्रम बताया 'इगन्तानस्य' । यहाँ तक तो इस परिभाषा के द्वारा उपस्थित 'इक:' का अर्थात् विशेषणतया तदन्तविधि के कारण 'इगन्तस्य' का सामानाधिकरण्येन अन्वय का प्रदर्शन 'सार्वधातुकार्धधातुकयोः' इत्यादि में होता है, यह बताया गया । अब मनोरमाकार कहते हैं कि मिदेर्गुण: में गुणः पद के कारण मृजेर्वृद्धिः में वृद्धि पद के कारण 'इकः' पद तो उपस्थित होगा परन्तु वहाँ सामानाधिकरण्येन (अभेदेन) अन्वय संभव नहीं । क्योंकि मिद् या मृज् इगन्त है ही नहीं । अतः वहाँ मिदेरवयवस्येकः गुण मृजेरवयवस्येको वृद्धिः इस क्रम से अन्वय होता है । यहाँ शब्दरत्नकार कहते हैं –
शब्दरत्न - मृज्योरवयवस्येति । एवञ्च स्थानषष्ठीत्वाभावनिर्णयेन 'अलोऽन्त्यस्य' (पा. सू.१.१.५२) इत्यस्य प्रवृत्तिरेव नेतिभावः ।
तात्पर्य यह है कि 'मिदेर्गुण:' में 'मिदे:' में स्थानषष्ठी का निर्णय होने से पहले ही इस 'इकोगुणवृद्धी' परिभाषा से 'इक' की उपस्थिति हो जाने से 'मिदे:' में अवयवषष्ठी का निर्णय हो जाता है । क्योंकि उपस्थित 'इक:' पदार्थ स्थानित्वेन उपस्थित होता है न तु विधेयत्वेन। एवञ्च 'मिदे:' में यदि स्थानषष्ठी मानी जाएगी तो 'मिद के स्थान पर जो इक इत्यादि अर्थ होगा जिससे इक् में स्थानित्व नहीं रह पाएगा । अतः मिदे में अवयवषष्ठी मानी जाएगी । इसी बात को शब्दरत्नकार एवञ्च इत्यादि से कहते हैं कि 'मिदे:' में अवयवषष्ठी का निर्णय हो जाने से स्थानषष्ठी वहाँ नहीं है इस बात का निर्णय हो जाता है और जब मिदे में स्थानषष्ठी नहीं है इस बात का निर्णय हो गया तो वहाँ पर 'अलोन्त्यस्य' परिभाषा की प्रवृत्ति ही नहीं होगी । क्योंकि ऊपर कहा जा चुका है कि जहाँ स्थानषष्ठी होती है वहीं पर अनन्त्य का वारण करने के लिए 'अलोन्त्यस्य' परिभाषा प्रवृत्ति होती है । एवञ्च चूँकि मिदे में अवयवषष्ठी है अतः वहाँ पर 'मिदेरवयवस्येक:' इसी प्रकार 'मृजेवृद्धि' में भी मृजेरवयवस्येकः इस प्रकार अन्वय होगा । मनोरमाकार ने मिदेर्गुणः तथा मृजेवृद्धि दोनों सूत्रों में 'इक्' अन्वय का प्रकार एक ही वाक्य में बताते हुए 'मिदिमृज्योरवयवस्येक इति सम्बध्यते' ऐसा कहा ।
मनोरमा - यत्तु इक एव स्थाने स्त इति प्राचा व्याख्यातम्, यच्च तट्टीकाकृतोक्तमनियमप्रसङ्गे नियमार्थमिदमित्यादि, तत्सर्वं भाष्यविरोधादुपेक्ष्यम् । तच्छेषपक्षं दूषयित्वा पदोपस्थितिपक्षस्यैव भाष्ये समर्थितत्वादित्याहुः । तच्छेषपक्षेऽपि दूषणोद्धारस्तु शब्दकौस्तुभै स्पष्टीकृतोऽस्माभिः ।
यत्तु ने जो इस सूत्र की व्याख्या करते हुए कहा 'इक एव स्थाने स्तः ' अर्थात् 'गुण या वृद्धि इक् के स्थान पर ही हो' यह सूत्र का अर्थ है । एवञ्च यत्तु के टीकाकार ने जो यत्तु के उपर्युक्त ग्रन्थ की व्याख्या करते हुए कहा 'अनियम का प्रसङ्ग उपस्थित होने पर नियम करने के लिए यह सूत्र है' इत्यादि । अब यहाँ पूर्वपक्ष में अनुपपत्ति यह है कि जब इस 'इकोगुणवृद्धी' सूत्र को परिभाषासूत्र कह दिया गया तब तो उसमें विधिसूत्रत्व ही नहीं है पुनः उसमें नियमसूत्रत्व कैसे रहेगा ? अर्थात् नहीं रहेगा । एवञ्च जब इसमें नियमसूत्रत्व नहीं है तो यत्तु के टीकाकार ने 'नियमार्थमिदम्' कैसे कहा? अतः शब्दरत्नकार पूर्वपक्ष को उपपन्न करने के लिए नियमार्थमिदम् इस प्रतीक से उस टीकाकार का आशय बता रहे है -
शब्दरत्न - नियमार्थमिदमिति । तत्तद्विधायकैर्विहितयोर्गुणवृद्धयोः 'अलोऽन्त्यस्य' (पा.सू.१.१.५२) इतिवदिदमपि स्थानिनियमार्थमिति तदाशयः ।
गुण तथा वृद्धि के विधायक तत् तत् सूत्र वार्तिकादि रूपविधायकों के द्वारा विहित कार्य अन्त्य तथा अनन्त्य दोनों को प्राप्त होता है तो स्थानी का नियम जैसे 'अलोन्त्यस्थ' सूत्र करता है 'अन्त्यस्यैवालः स्यात्', उसी प्रकार यह इकोगुणवृद्धी सूत्र भी इक् तथा अनिक् दोनों का प्रसन्न होने पर इक् रूप स्थानी का नियम करने के लिए हैं कि 'इक एव स्थान गुणवृद्धी स्तः । ' यह यत्तु के टीकाकार का आशय है ।
मनोरमाकार कहते हैं यत्तु तथा उसके टीकाकार ने जो इस सूत्र की व्याख्या की वह सब भाष्यविरुद्ध होने से उपेक्षणीय है । शब्दरत्नकार इस मनोरमा को स्पष्ट करते हुए कहते हैं -
शब्दरत्न - तत्सर्वं भाष्येति । द्वयोर्नियमयोः 'सार्वधातुक' (पा. सू.७.३.८४) इत्यादावविरोधेनेग्रूपस्यान्त्यस्येत्यर्थो वाच्यः । अन्त्यस्येक इति वा । उभयथाऽपि द्वयोर्विशेष्यविशेषणभावसत्त्वात्तच्छेषपक्षे पर्यवासनम् । सः 'अलोन्त्यस्य' (पा. सू.१.१.५२) इति नियम:, शेषो विशेषणमस्येति तदर्थः । तस्य 'अलोन्त्यस्य' (पा.सू.१.१.५२) इत्यस्य विशेषणमिति वा। एवञ्च 'मिदेर्गुण:' (पा. सू.७.३.८२) इत्यादौ परस्पर विरोधादनयोस्त्यागे सर्वादशगुणापत्त्या तद्विरोध इतिभावस्तदाह तच्छेषपक्षमिति ।
यत्तु तथा उसके टीकाकार के मत का भाष्य से विरोध कैसे है इसे शब्दरत्नकार बताते हैं कि यत्तु का कथन यह है कि 'इकोगुणवृद्धी' सूत्र जहाँ स्थानी का निर्देश विधायक सूत्र में नहीं है ऐसे 'सार्वधातुकार्धधातुकयोः' सिचिवृद्धिः परस्मैपदेषु आदि सूत्रों से विहित गुण तथा वृद्धि इक तथा अनिक दोनों को प्राप्त होने पर 'इक एव स्थाने स्त:' इस प्रकार स्थानी का नियम करता है । परन्तु 'अलोन्त्यस्य तथा इकोगुणवृद्धी' इन दोनों नियमों का 'सार्वधातुकार्धधातुकयो:' में परस्पर कोई विरोध न होने से, वे दोनों नियम परस्पर विशेष्य विशेषण हो सकते हैं तो 'सार्वधातुकार्धधातुकयोः' का अर्थ सार्वधातुक या आर्धधातुक के परे इक् रूप अन्त्य को, अथवा सार्वधातुक या आर्धधातुक के परे अन्त्य इक् को गुण हो, ऐसा होता है । वहाँ पर जो अन्त्य है वही इक् भी है और जो इक है वही अन्त में है अतः अन्त्य भी है । अतः अलोन्त्यस्य से उपस्थित 'अन्त्यस्य' को विशेषण मानकर 'इकोगुणवृद्धी' से उपस्थित 'इक:' को विशेष्य मानें और सूत्रार्थ करें 'अन्त्यस्य इकः' अथवा इकः को विशेषण मानकर अन्त्यस्य को विशेष्य मानें और सूत्रार्थ करें इगभिन्न अन्त्य अर्थात् इक् रूप अन्त्य । दोनों प्रकार का अर्थ हो सकता है और ऐसा अर्थ करने पर 'भवति' आदि उस सूत्र के लक्ष्य में दोष भी नहीं होगा । इस प्रकार उभयथा अर्थात् इक् को विशेष्य मानें या विशेषण उसी प्रकार अन्त्यस्य को विशेष्य मानें या विशेषण दोनों में परस्पर विशेष्य विशेषणभाव होने से सूत्रार्थ की इस प्रक्रिया का 'तच्छेषपक्ष' में पर्यवसान होता है । क्योंकि 'तच्छेष' शब्द का अर्थ है तत् अर्थात् सः अर्थात् 'अलोन्त्यस्य' है, शेष = अर्थात् विशेषण जिसका वह हुआ तच्छेष। इस बहुव्रीहि समास के अनुसार 'अलोन्त्यस्य' विशेषण तथा यत् पद बोध्य इकोगुणवृद्धी रूप अन्यपदार्थ है, विशेष्य। एवं च तस्य = अलोत्यस्य का, शेष: = विशेषणम् तच्छेष: इस तत्पुरुष समास के अनुसार अलोन्त्यस्य है विशेष्य और इकोगुणवृद्धी है विशेषण । इस प्रकार तच्छेष पक्ष का अर्थ हुआ कि उन दोनों में यथेच्छ विशेष्य विशेषण भाव है । परन्तु 'मिदेर्गुण:' में इन दोनों का विरोध है । क्योंकि 'मिद्' में जो अन्त्य है वह इक् नहीं औरजो इक् है वह अन्त्य नहीं । इसलिए इन दोनों का वहाँ त्याग प्राप्त होने पर 'मिदे:' इस सूत्र बलात् सम्पूर्ण - 'मिद' के स्थान पर गुण प्राप्त होता है । अतः मनोरमाकार ने कहा तच्छेषपक्षे दूषयित्वा । यहाँ की मनोरमा तथा शब्दरत्न का सारांश यह निकला कि अलोन्त्यस्य तथा इकोगुणवृद्धी यत्तु के मतानुसार स्थानी के नियमार्थ है । जबकि जहाँ इन दोनों का अविरोध होता है वहाँ परस्पर विशेष्य विशेषणभावापन्न होकर स्थानी का निर्देश करते हैं और जहाँ इनका परस्पर विशेष्य विशेषण भाव होना असंभव है वहाँ इनका त्याग भी प्राप्त होता है । इस प्रकार स्थानी का नियम 'इक एव स्थाने स्यात्' या 'अन्त्यस्यैवस्यात्' सर्वत्र नहीं करते । अतः इनको स्थानिनियमार्थमिदम् कहना भाष्यविरुद्ध है । अतः यत्तु के मत की उपेक्षा कर देनी चाहिए ।
मनोरमाकार ने कहा कि यद्यपि 'मिदेर्गुण:' में तच्छेष पक्ष असंभव होने से उसका त्याग करना पड़ता है । परन्तु मैंने तच्छेष पक्ष में भी दोषोद्धार शब्दकौस्तुभ ग्रन्थ में स्पष्ट किया है । शब्दरत्नकार उस दूषणोद्धार की प्रक्रिया को यहाँ बताते हैं -
शब्दरत्न - दूषणोद्धारस्तु इति । 'मिदे:' इत्यत्र मिद इर्मिदिस्तस्येति व्याख्यानान्नदोषः । 'पुगन्त' (पा. सू.७.३.८६) इत्यत्र पुक्यन्तो लघ्वी उपधेति व्याख्येयमित्यादिभाष्यो क्तदूषणोद्धारस्त्वित्यर्थः । न च यापयति, क्ष्मापयति इत्यादौ दोषः। गुणे कृते वृद्धया रूपसिद्धेः । अत एव 'समयाच्चयापनायाम्' (पा. सू.५.४.६०) इतिनिर्देश: सङ्गच्छते, तदाह कौस्तुभे स्पष्टीकृत इति । नन्वेवं तर्हि किमर्थं प्राचां पक्ष उपेक्षित इति चेत् श्रृणु । लघूपधांशे इक्परिभाषानुपस्थितावनिग्लक्षणत्वाद् भिन्नम् इत्यादौ गुणनिषेधानापत्तिभिया स उपेक्षित इति । क्नो कित्त्वस्यानिग्लक्षणत्वेऽपि गुणनिषेधप्रवृत्तिज्ञापकत्वाश्रयणे तु तस्य पदोपस्थितिपक्षज्ञापकत्वमेवोचितमिति दिक्ः ।
‘मिदेर्गुण:' में सर्वादेशगुणापत्ति अर्थात् पूरे मिद् को गुण तथा मृजेर्वृद्धिः में पूरे 'मृज्' को वृद्धि प्राप्त होगी । यही तच्छेषपक्ष में दूषण था । उसका उद्धार यदि 'मिदे: इः = मिदिः, तस्य मिदे:' ऐसी व्याख्या 'मिदेर्गुणः' के मिदे: की करें तो सूत्रार्थ होगा 'मिद् का अवयव जो इ' उसे गुण हो । तो 'मेद्यते' इत्यादि में गुण हो जाएगा कोई दोष नहीं । उपर्युक्त समाधान पर कोई मनोरमाकार पर प्रौढिवाद का आक्षेप न करे इसलिए उपर्युक्त दूषणोद्धार प्रक्रिया भाष्यसम्मत है इसलिए आगे कहते हैं कि इसी प्रकार 'पुगन्तलघूपधस्य च' में भी यदि पुकि अन्तः पुगन्तः, लघ्वी चासौ उपधा लघूपधा, अनयोः समाहारः पुगन्तलघूपधम्, तस्य पुगन्तलघूपस्य करें तो इसका अर्थ हुआ जो उपधारूपलघु हो तथा पुक् के परे जिसमें अन्तत्त्व हो, अर्थात् जो पुक् की उपधा में हो । एवञ्च सूत्रार्थ हुआ सार्वधातुक आर्धधातुक परे अग्रावयव जो पुक् के अव्यवहितपूर्व में हो उसे तथा लघुभूत उपधा को गुण हो । एवंच 'भिनत्ति' में भूकारोत्तरवर्ती इकार चूँकि 'भिनद' में उपधा में नहीं है । अतः वहाँ दोष नहीं होगा । यह भाष्यकृत दोषोद्धार है । परन्तु 'पुगन्तलघूपस्य' का ऐसा अर्थ मानने पर यापयति क्ष्मापयति में भी 'यापि', 'क्ष्मापि' में यकारोत्तरवर्ती आकार तथा 'क्ष्मा' के आकार को गुण 'अ'कार होने लगेगा । क्योंकि यह आकार भी पुकि अन्त: है अर्थात् पुक् के अव्यवहित पूर्व है । यह आपत्ति आएगी। शब्दरत्नकार कहते हैं गुणेकृते वृद्धया रूप सिद्धेः । अर्थात् उपर्युक्त अर्थानुसार उपर्युक्त स्थल में 'पुगन्तलघूपधस्य' से गुण हो जाने पर अकार हो जाएगा, परन्तु उसके बाद उस अकार को णिजन्त मानकर वृद्धि हो जाएगी तो यापयति क्ष्मापयति आदि रूपों की सिद्धि हो जाएगी । अतः उपर्युक्त दूषणोद्धार में कोई दोष नहीं । गुणकरके वृद्धि करने से ही 'समयाच्च यापनायाम्' सूत्र में सूत्रकार का 'यापनायाम्' यह निर्देश भी सजत होता है । इसी बात को मनोरमाकार ने कहा 'शब्दकौस्तुभे स्पष्टीकृतोऽस्माभिः । '
तब प्रश्न उठता है कि यदि उपर्युक्त प्रक्रियानुसार सूत्रार्थ करने पर तच्छेषपक्ष में कोई दोष नहीं है अर्थात् 'मिदेर्गुण:' 'पुगन्तलघूपधस्य' में विशेष्यविशेषणभावापन्न होकर ‘अलोन्त्यस्य' तथा 'इको गुणवृद्धी' की प्राप्ति असंभव होने से उन दोनों का त्याग करने पर 'सर्वादेश की प्राप्ति' होने पर भी भाष्योक्त प्रक्रियानुसार दोषेद्धार हो सकता है । तो पुनः प्राचीनों के मत की उपेक्षा क्यों की? शब्दरत्नकार कहते हैं - श्रणु। अर्थात् उपेक्षा करने का कारण सुनो। 'पुगन्तलघूपधस्य' में लघूपध अंश में इक् परिभाषा के उपस्थित नहीं होने से, इस सूत्र के द्वारा विहित गुण, अनिग्लक्षण गुण हो गया तो 'भिन्नम्' में गुणनिषेध नहीं हो पाएगा । क्योंकि 'क्ङिति च' इग्लक्षण ही गुण वृद्धि का निषेध करता है । अतः भिन्नम् इत्यादि स्थल में गुणनिषध की अनापत्ति के भय से प्राचीनों के मत की उपेक्षा कर दी गयी। इस पर यदि कहें कि तब तो 'क्नु' प्रत्यय में कित्व करना ही व्यर्थ है । क्योंकि वहाँ गुण का निषेध तो 'अनिग्लक्षणत्वात्' ही हो जाएगा पुनः उस 'नु' को कित् करने के लिए ककारोच्चारण अर्थात् ककारसहित 'क्नु:' ऐसा प्रत्ययविधान व्यर्थ होगा और वह व्यर्थ पड़कर ज्ञापित करेगा कि अनिलक्षण में भी गुण निषेध की प्रवृत्ति होती है ।
इस प्रकार 'क्नु' प्रत्ययस्थल में गुणनिषेध हो जाएगा त्रस्नु, गृध्नुः आदि प्रयोग होगा । यह ज्ञापन का स्वांश में चरितार्थ हुआ। फल यह हुआ कि 'भिन्नम्' इत्यादि में भी अनिम्लक्षणगुण होते हुए भी गुणनिषेध हो जाएगा । अतः प्राचीनों के मत की उपेक्षा जिस भय से आपने की ऐसा दोष तो है नहीं । शब्दरत्नकार कहते हैं कि क्नुः के ककार को 'अनि लक्षण गुण में भी निषेध की प्रवृत्ति होती है । ' इस बात का ज्ञापक मानने के बजाय पदोपस्थिति पक्ष का ज्ञापक मानना ही उचित है ।
टिप्पणी - यहाँ एक बात ध्यान देने की है कि मनोरमाकार तथा शब्दरत्नकार ने यत्तु तथा उसके टीकाकार के मत का तच्छेषपक्ष में अन्तर्भाव करके उसमें भाष्यविरोध दिखाकर उसकी उपेक्षा करने की बात कही । परन्तु जिस अलोन्त्यस्य तथा इको गुणवृद्धी के विशेष्यविशेषण भाव के आधार पर यत्तु के मत का तच्छेषपक्ष में अन्तर्भाव किया गया । उस विशेष्यविशेषण भाव का कथन यत्तु या उसके टीकाकार ने तो की ही नहीं । उन्होंने तो इतना ही कहा 'स्थानिनियमार्थमिदम्' और प्रसादकार ने उसकी व्याख्या करते हुए कहा कि जैसे स्थानषष्ठीके विषय में अन्त्य अनन्त्य दोनों की प्राप्ति का प्रसन्न होने पर 'अलोन्त्यस्य' सूत्र नियम करता है कि 'अन्त्यस्यैव स्यात् ? उसी प्रकार गुण तथा वृद्धि इक् अनिक दोनों के स्थान पर प्राप्त होते हैं तो 'इको गुणवृद्धी' स्थानी का नियम करता है कि 'इक एव स्थाने स्यात्’ । इसमें तो कहीं भी यह नहीं कहा गया कि 'अलोन्त्यस्य' से एकवाक्यतापन्न होकर 'इकोगुणवृद्धी' स्थानी का नियम करता है, और न ही यह कहा गया कि 'इकोगुणवृद्धी' से एकवाक्यतापन्न होकर अलोन्त्यस्य सूत्र स्थानी का नियम करता है । पुनः अपनी ओर से 'सार्वधातुकार्धधातुक' सूत्र में उन दोनों परिभाषाओं का विशेष्यविशेषणभाव सम्भव दिखाकर 'मिदेर्गुणः' में उसे असम्भव बताकर सर्वादेशापत्ति देना कहाँ तक उचित है । यह तो विद्वान् लोग ही जाने। परन्तु इतना निश्चित है कि मनोरमाकार तथा शब्दरत्नकार ने यत्तु के कथन का यही तात्पर्य मानकर उसका तच्छेष पक्ष में अन्तर्भाव किया है । । अस्तु ।
१.१.३
सूत्राणि:
॥ इको गुणवृद्धी ॥
॥ लघुशब्देन्दुशेखरः - संस्कृतव्याख्या ॥
इको गुणवृद्धी (१.१.३) । परिभाषेयं व्याख्यानात् । गुणवृद्धिशब्दाभ्यामिति । गुणवृद्धिग्रहणानुवृत्त्यैव सिद्धे पुनर्गुणवृद्धिग्रहणसामर्थ्यादिति भावः । अनुवर्तमानञ्च संज्ञिपरमेव स्यात् संज्ञाकरणेनान्यत्र संज्ञिपरत्वात् ।
इको गुणवृद्धी ॥ इदं न संज्ञासूत्रम् गुणवृद्धिसंज्ञयोः सूत्रान्तरेणैव कृतत्वात् । नापि विधिसूत्रम्: 'ओर्गुणः' इत्यादिना पुनवधानस्य वैयर्थ्यात् । नापि नियमसूत्रम् स्वार्थहानि-परार्थं कल्पनादिदोषग्रस्तत्वाद विधिप्रकरणे पठितव्ये इह पाठकरणाच्च । नाप्यतिदेशः वतिप्रत्ययेन समानविभक्त्या चानिर्देशात्। नाप्यधिकारः; 'न धातुलोप' इत्यनेन सहैव पठितव्ये पृथग् यागकरणसामर्थ्यात् । इत्याह-व्याख्यानादिति । उक्तं व्याख्यानम् । ‘अन्यदेवेदं परिभाषान्तरमसम्बद्धमनया परिभाषया' इति प्रकृतसूत्र- भाष्यरूपव्याख्यानाद्वा उक्तार्थलाभः । तथा चेयं परिभाषा ।
'वृद्धिरादेच्' 'अदेङ् गुणः' इति सूत्राभ्यां गुणवृद्धिपदयोरनुवृत्त्या गुणवृद्धिपदार्थस्य लाभेन सूत्रे गुणवृद्धिग्रहणस्य वैयर्थ्यम्, तत्सामर्थ्यात् 'गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी' इत्यर्थबोधकं गुणवृद्धिपदमिति कल्प्यते । गुणवृद्धिशब्दौ गुणबुद्धिपदबोध्ये लाक्षणिको इति भावः । 'विधीयेते' इति क्रियापदमध्याह्रियते, तथा च विधेयताप्रयोजकं यत्र गुण- वृद्धिपदं तत्र 'इकः' इति षष्ठयन्तं पदमुपतिष्ठते ।
विधेयता च अदेङ, आदैजनिष्ठा गृह्यते । अतः 'अदेङ् गुणः' 'वृद्धिरादेच्' इत्यत्र नास्याः परिभाषाया उपस्थितिः । तत्र गुणवृद्धिपदाभ्यां न अकारादयो विधीयन्ते, किन्तु अकारादीन् उद्दिश्य गुणसंज्ञा ( गुणपदवत्त्वं ), वृद्धिसंज्ञा ( वृद्धिपदवत्त्वं ) बोध्यते इति न दोषावकाशः । 'त्यदादीनामः', 'पथिमथ्यभुक्षामात्' इत्यादौ नास्याः प्रवृत्तिः, गुणवृद्धिपदेन तेषामकारादीनां विधानाभावात् ।
नच गुणसंज्ञासूत्रे, वृद्धिसंज्ञासूत्रे च श्रूयमाणं गुणवृद्धिपदं संज्ञापरत्वेन स्वरूप- परम् । अत्रानुवृत्तौ तस्य स एवार्थः स्यात्, न तद्बोध्यः संज्ञी अकारादिः । अतः संज्ञिबोधाय 'इको गुणवृद्धी' इत्यत्र गुण वृद्धिग्रहणं चरितार्थम् । अत आह- अनुवर्तमान- ऽचेति । अनुवर्तमानं संज्ञापदमन्यत्र संज्ञिपरमेव भवति; शब्दमात्रस्याधिकाराश्रयणात्।
'अर्थाधिकारे हि यादृशार्थंक पूर्वत्र तादशार्थकमेव पदं परत्रानुवृत्तिस्थलेऽपि' इति नियमः । अन्यत्रापि संज्ञाशब्दानां स्वरूपपरत्वे संज्ञाविधानं व्यर्थं स्यात् ।
यद्वा, तदप्यनुवत्यं गुणो वृद्धिरिति योजनयैतल्लाभः । 'स्वादिषु' (१.४.१७) इति सूत्रेऽनुवृत्तपवपदस्य सज्ञापरताण एवं पृष्टत्वात् । 'ष्णान्ताः' (१.१.२४) इति सूत्रे संस्थापवस्य तवन्तत्वासम्भवावयंपरतेति बोद्धधम् । लक्षणप्रतिपदोक्त परिभाषया तु नात्र निर्वाह; तत्र 'प्रतिपदोक्तस्य' इत्यस्य साक्षादुच्चारितस्येति साक्षात्तत्तच्छब्दानुवादेन विहितस्येति वाऽर्थात् । ध्वनितश्चेदमत्रैव भाष्ये ।
ननु अनुवृत्तमपि पदपदं स्वादिष्विति सूत्रे संज्ञापरमेव, न संज्ञिपरम् । अत आह- यद्वा इति । गुणवृद्धिपदमत्रानुवत्यं अर्थाधिकारानुरोधात् स्वरूपपरकमिहापि गुणवृद्धिपदं बोध्यम् । गुणो वृद्धिरिति । इतिशब्दः गुण इति, वृद्धिरिति प्रत्येकपदोत्तरं योजनीयः। ‘उच्चार्य’, ‘विधीयेते' इत्युभयस्याध्याहारः । तथाच 'गुणवृद्धिपदमुच्चार्य यत्र गुणवृद्धी विधीयेते' इत्यर्थः । गुणेन यो गुणः वृद्धया या वृद्धिरिति परममूलोकमे- तत्फलितार्थं परम् ।
एतेन "अनुवर्तमानं गुणवृद्धिपदम् असमस्तं समस्तगुणवृद्धिपदस्य एकदेशेन गुणा- दिना गुणेन यो गुणः वृद्ध्या या वृद्धिरित्येवरूषोऽन्वयः 'सविशेषणानां वृत्तिर्त, वृत्तस्य च विशेषणयोगो न' इति नियमबलाद्भवितुमर्हति" इति परास्तम् । मूलोक्तेः फलितार्थपरकत्वेन असङ्गत्यभावात् । ‘गुणवृद्धिशब्द उच्चार्य' इत्येवं रीत्या पूर्व प्रदशितार्थे नैकदेशान्वय- शङ्कापि । 'ष्णान्ताः षट्' इत्यत्रानुवर्तमान संख्यापदस्थ समस्तष्णान्तपदैकदेशे षान्ते नान्ते कथमन्वयः ? यथा तत्र तथा अत्रापीति को विशेषः ! अधिकं छायायां द्रष्टव्यम् ।
नन्वेवं संज्ञापदस्य अनुवर्तमानस्य स्वरूपपरकत्वे ' ष्णान्ताः षट्' (१.१.२४) इत्यत्र 'बहुगणवतुडति संख्या' (१.१.२३) इति सूत्राद् अनुवर्तमानं संख्यापदमपि आनुपूर्वी परं स्यात् ? अत आह-ष्णान्ता इति । संख्याशब्दस्वरूपे षान्तत्वनान्तत्वयोरभावेन सूत्रवैयर्थ्या- पत्या तत्र संज्ञि वरं सम्पद्यते । यस्मात् सूत्रात् यत् संज्ञावाचकं पदं यत्रानुवर्तते तस्मिन् सूत्रे तथा तस्मात् । तदनुवृत्तिस्तयोरुभयोर्यदि समानकार्यस्य विधायकत्वं तदा संज्ञापदं स्वरूपपरमेव । यथा 'स्वादिषु' इति सूत्रे अनुवृत्तं पदपदं स्वरूपपरम् 'सुप्तिङन्तं पदम् ' 'स्वादिषु' इति सूत्राभ्यां पदस्यैव विधानात् । 'ष्णान्ता' इत्यनेन षट्संज्ञा विधीयते, 'बहुगण- वतु' इत्यनेन संख्यासंज्ञा विधीयते इति द्वयोः समानं विधेयं नास्त्यतः संज्ञिपरता तत्र वाध्या । एवमेव 'इको गुणवृद्धी' इत्यनेन इक्पदमुपस्थाप्यते, 'अदेङ् गुणः' इत्यादिना गुणादिसंज्ञाया विधानमिति भेदः । अतोऽत्र संज्ञिनरत्वम् अनुवर्तमानगुण वृद्धिपदयोर्युक्तम् । अमुमाशयं हृदि निधाय अनुवर्तमानश्च संज्ञिपरमेवेत्युक्तं पूर्वस्मिन् कल्पे । 'यस्मात् तदनु- वर्तते तदीयविधेयतावच्छेदकरूपेत ररूपावच्छिन्न विधेयताके संज्ञिपरं सम्पद्यते' इति परिष्कृतभाषया पूर्वोक्तार्थी बोध्यः ।
अनुवर्तमानञ्चेति । शब्दाधिकाराश्रयणादिति शेषः । शब्दाधिकारे अर्थरहितं शब्दमात्रमनुवर्तते । अन्यत्र तत्सूत्रात् भिन्नसूत्रे । तदपि गुणवृद्धिगुणभावे । अनुवर्त- मानञ्च तत् शब्दस्वरूपपरमर्थाधिकारानुरोधात् । संज्ञासूत्रे गुणवृद्धिपदं स्वानुपूर्वीपरमेव । अत्रानुवृत्तानामपि तादृशार्थंकमेवेति भावः । योजनया 'गुण इति वृद्धिरिति उच्चायें विधीयेते इत्यनयोरध्याहारः' इत्यादिपूर्वीका योजना । एतल्लाभः कौमुदीस्थगुणवृद्धि- पदाभ्यामिति वाक्यार्थलाभः । तदन्तत्वेति षान्तत्वनान्सत्वयोः ।
साक्षादुच्चरितस्येति । उच्चार्यमाणवृत्तिधर्मेण साक्षादवच्छिन्नविधेयताश्रय- स्येत्यर्थः । तत्तच्छब्दानुवादेन विहितस्येति । शास्त्रोयोद्देश्यतावच्छेदकज्ञान सम्पादकत्वेन उपयुज्यमाना या आनुपूर्वी तदवच्छिन्नोद्देश्यतानिरूपित विधेताश्रयस्य । यत्र शास्त्रे लक्षण- प्रतिपदोक्तपरिभाषा सञ्चारणीया, तच्छास्त्रबोधोपयोगिनी या आनुपूर्वी तद्विशिष्टत्वम् प्रतिपदोक्तत्वम् । वे० - स्वेन साचादवच्छिन्नविधेयताश्रयत्व, स्वप्रकारकज्ञानप्रयोज्यो- द्देश्यता निरूपितविधेयताश्रयत्व - इत्यन्यतरसम्बन्धेन । यथा - 'घुमास्थागापा' इत्यत्र पाशब्देन 'पा पाने' इत्यत्र निर्दिष्टस्य पा इत्यस्य ग्रहणम्, न तु 'पे शोषणे' इत्यत्र निर्दिष्टस्य कृतात्वस्य 'पा' शब्दस्य; एतस्य प्रतिपदोक्तत्वाभावात् । तथाहि स्वं = पात्वरूपानुपूर्वी, तया साक्षादवच्छिन्ना विधेयता 'पा पाने' इत्येतच्छास्त्रवचनेन बोधिता, सा पानार्थके पाशब्दे एव तदाश्रयः स एव पा । पैधातुना आल्वे कृते निष्पन्नस्य पा शब्दस्य तु न प्रतिपदोक्तम् । 'पे ओवे शोषणे' इत्येतच्छास्त्रजन्या पैत्वावच्छिन्ना विधेयता 'आदेचः' इति सूत्रजन्या आत्वावच्छिन्ना विधेयता, न तु पात्वरूपानुपूर्व्यवच्छिन्ना विधेयता, अतो लक्षणसङ्गतिविरहात् न तस्य ग्रहणम् । द्वितीयसम्बन्धस्य उदाहरणम्- 'विभाषा दिक्- समासे बहुव्रीहौ वा' इति सूत्रे' दिङ्नामान्यन्तराले' इति विहितस्य समासस्यैव प्रतिपदोक्त- त्वाद् ग्रहणं नतु सूत्रान्तरेण विहितस्य । तथाहि - 'विभाषा दिक्समासे' इति बोधोपयोगिनी या आनुपूर्वी दिवत्वरूपा तत्प्रकारकज्ञानप्रयोज्या या उद्देश्यता सा दिग्वाचकशब्दत्वा- वच्छिन्ना तादृशोद्देश्यतानिरूपितविधेयताया आश्रयः 'दिङ्नामान्यन्तराले' इति सूत्र- विहित एव समासो न त्वविहितः । तस्मात् तस्यैव समासस्य ग्रहणम् ।
प्रतिपदोक्तेन गुणवृद्धिपदेन यत्र गुणस्य वृद्धेर्वा विधानं तत्रैव 'इको गुणवृद्धी' इत्यस्य सूत्रस्य प्रवृत्ती 'त्यदादीनामः' इत्यादी अकारशब्देन तद्विधानात् प्रतिपदोक्त- परिभाषयैव तत्र परिभाषासूत्रस्य अनुपस्थिती सिद्धायां तदर्थं गुणवृद्धिग्रहणसामर्थ्यवर्णनं वृथेति कथा न कर्तव्या, प्रतिपदोक्त परिभाषाया अत्राप्रवृत्तेः । 'इको गुणवृद्धी' इति सूत्रबोधोपयोगिनी आनुपूर्वी गुणत्ववृद्धित्वरूपा, तया साक्षादवच्छिन्ना विधेयता क्वचिदपि नास्ति । प्रदेशे 'मिदेर्गुणः' इत्यादी अकारैकारीकारान्यतरत्वेन गुणपदवत्त्वेन वा अव च्छिन्ना विधेयता, न तु गुणत्वेन अवच्छिन्ना । एवं द्वितीयसम्बन्धोऽपि न । गुणत्ववृद्धित्व- प्रकारकज्ञान प्रयोज्योद्देश्यतानिरूपित विधेयताया एवाभावात् नानेनापि प्रतिपदोक्तत्व- सिद्धसम्भावना । अतो गुणवृद्धिग्रहणसामर्थ्याश्रयणं युक्तमेवेति विभावनीयम् ।
अत्र मूले वा शब्दश्चार्थे । अथवा मूले चकारर्घाटित एव पाठः । उभयविधस्य लक्ष्यस्य सत्वेन उभयोः संग्रहाय चकारघटित एवं पाठो युक्तः । 'इको गुणवृद्धी' इति सूत्रे माध्ये गुणवृद्धिसामर्थ्याचपणेन 'स्वदादीनामः' इत्यादी दोषो वारितः नतु प्रति परिभाषा यदि अनया व्यावृतिः सम्भवेत् तदा सामर्थ्यात स्यादिति परिभाषाया अप्रवृत्तिध्वन्यते।
अस्याश्च विधेयकगुणवृद्धिम् तदाह-विधीयते इति एव 'अतो गुणे' (६.१.१७) 'बुद्धियंस्य' (१.१.७३) इत्यादी न दोषः । एतेन “शब्दपरयोः पूर्वयोर्गुणवृद्धिपदयोरनुवृत्या 'यत्र ते पदे तत्रैवमुपतिष्ठते' इत्यर्थेन 'त्यदादीनामः' (७.२.१०२) इत्यादिष्यावृत्तौ सिद्धायामिह 'गुणवृद्धी' इति व्यर्थम्" इत्यपास्तम् । एतन्मूलक एवं 'वियो परिभाषोपतिष्ठते नानुवाद' इत्युदीयः । ए पदोपस्थापक परिभाषाविषये 'विधीयते' इत्यस्यैवाप्याहारो बोद्धपः । एवञ्च 'तस्मिन्निति निविष्टे' (१.१.६६) 'षष्ठी स्थाने' (१.१.४९) इत्यादेर- नुवादेऽपि प्रवृत्तिः । तेन 'प्रत्ययस्थात् कात् पूर्वस्य' (७.३.४४) 'उदात्तस्वरितयोर्यण (८.२.४) इत्यादौ न दोषः ।
परिभाषाया उपस्थापक लिङ्गमाह - अस्याश्चेति । चकारेण 'अवश्च' इति परि- भाषायाः संग्रहः 'अश्व' इत्यत्रापि विधेयताप्रयोजकत्वग्रहणस्य वक्ष्यमाणत्वात् । विधेयमति । 'अ', 'आदे एतदन्यतरनितिप्रयोजकत्वेन गृहीतस्य वृद्धिपदस्य यत्र श्रवणं तत्र इयं परिभाषोपतिष्ठते इति भावः । 'अतो गुणे' 'बुद्धियंस्याचा- मादिस्तद्युद्धम् इत्यादी अनुवादवाक्ये इस्परिभाषाया उपस्थितिनं ताभ्यां सूच परस्यस्य वृद्धसंज्ञायाश्च विधानेन तत्र श्रयमाणगुण- वृद्धिपदयोनिमित्ततया उद्देश्य- रूपत्वेन विधेयसमर्पकत्वाभावात् । अत एव 'भवन्ति' इत्यत्र पररूपं 'शालीयः' इत्यत्रवृद्ध- क्षणछप्रत्ययश्च सिद्धः । अन्यथा इक्परिभाषोपस्थित्या इकः स्थाने निष्पन्ने गुणे परतः पररूपस्य विधानेन 'एथे' इत्यत्र इक्स्थानिकस्य एकारस्य सत्त्वात् तत्रैव पररूपं स्यात् । एवम् इक्स्थानिकवृद्धेः वृद्धसंज्ञायाम् 'औपगवः' इत्यत्र स्यात्, शाजाशब्दस्य न स्यात् इकः स्थाने वृद्धेरभावात् ।
एतेन विधेयताप्रयोजकगुणवृद्धिपदग्रहणेन । गुणवृद्धिसंज्ञाविधायकषाभ्यां गुणवृद्धिपदमनुव''यत्ययंत्र इत्यर्थस्य करणाद 'त्यदादीनामः' 'पथिमवि" इत्यादी न दोषः, गुणादिपदस्य अश्रूयमाणत्वात् इति वदन्तः परास्ता: । 'अतो गुणे' 'वृद्धियंस्य' इत्यादी गुणवृद्धिपदयोः श्रवणात् पादो स्थितिदुर्वारा स्यात् । बतो 'विधीयेते' इत्यध्याहार आवश्यकः ।
ननु 'विधौ परिभाषोपतिष्ठते नानुवादे' इति परिभाषया गुणवृद्धि विधाय के सूत्रे एव ‘इको गुणवृद्धी' इति परिभाषाया उपस्थितिः स्यात्, नानुवादे 'अतो गुणे' इत्यादी । एवञ्च ‘विधीयेते' इत्यध्याहारो नावश्यक इत्याह-विधी इति । 'विधीयेते' इत्यध्याहारेण विधेयताप्रयोजकगुणवृद्धिपदोपादाने इक्परिभाषायाः प्रवृत्तिरिति मत्वेष 'विधी परि भाषा' इत्यस्याः व्यवहारः । एतस्याः परिभाषायाः 'विधीयते' इत्यध्याहृत्य तथाविध- ग्रहणमेव मूलं बीजमिति भावः ।
यत्र विधी परिभाषायाः प्रवृत्तिरिष्टा तत्र 'विधीयते' इति पदाध्याहारेण समाध्येम् । यथा 'अश्व' इत्यत्रापि 'विधीयते' पदाध्याहारः । तथाच 'विधी परिभाषोपतिष्ठते' इति परिभाषा न स्वतन्त्रेति एतपरिभाषाद्वयातिरिक्तासु 'तस्मिन्निति निर्दिष्टे पूर्वस्य' इत्यादिपदोस्थापकपरिभाषासु 'विधीयते' इति पदानध्याहारात् तासामनुवादेऽपि प्रवृत्तिः । आपः पूर्वोक्तोयः प्रत्ययस्थः ककारस्तस्मात्पूर्वस्य अकारस्य इत्वं 'प्रत्ययस्थात् कालूवस्ये- दाप्यसुपः' इत्यनेन विधीयते । अकारे विशेषणं ककारः, तत्र विशेषणे आपि तस्मिन्निति परिभाषोपस्थित्या अव्यवहितपूर्वत्वस्य लाभो न स्यात् । अनूद्यमानोऽकारः, तत्र विशेषणं ककारः, तत्र विशेषणम् आप्-इति अनूद्यमानविशेषण विशेषणेऽपि तस्मिन्निति परिभाषाया अनुपस्थिती 'रथकट्या' इत्यादी ककारात् पूर्वस्य इत्वं प्रसज्येत । परिभाषाया उपस्थितौ चापोऽव्यवहितपूर्वत्वं ककारस्य नास्तीति नेत्वम् । एवमेव 'उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' इत्यनेन उदात्तस्य स्वरितस्य च स्वाने यो यण् ततः परस्यानुदात्तस्व स्थाने स्वरितो विहितः । अत्र अनूद्यमानस्य ( उद्देश्यस्य ) अनुदात्तस्य विशेषण यण, तस्मिन् विशेषणभूतयोः उदात्तानुदात्तयोः अनूद्यमानविशेषणविशेषणत्वेऽपि षष्ठी स्थाने- योगा' इत्यनया परिभाषया स्थानपदार्थलाभः सिध्यति ।
'उदीचामातः स्थाने' (७.३.४६) इति स्थाने ग्रहणन्तु स्पष्टार्थमेव । तत्र विधिवाक्ये प्रथमाया विधेयविभक्तिरथेन तदन्तस्य विधेयसमर्पकत्वनिर्णयः । अत एव गुणादिपदाना मिक्पदोपस्थापनेन चरितार्थानामपि वाक्यार्थान्वयिता । तदर्थस्य तदनन्ययित्वे विधेयत्वाभावेन उपस्थापकत्वस्यैव भङ्गापत्तेः । इयञ्च 'एधिता' इत्यादी व्यञ्जनानां गुणव्यावृत्त्यर्थम्, 'भिन्नम्' इत्यादी निषेध- वृत्तये इग्लक्षणत्वसम्पत्त्यर्थञ्चेति दिक् ॥
नन्वेवम् 'उदीचामातः स्याने यक् पूर्वायाः इति सूत्रे स्थाने-ग्रहणं व्यर्थम्, आतः स्थाने' इत्यत्र आतः षष्ठयन्तत्वेन 'षष्ठी स्थानेयोगा' इति परिभाषाया उपस्थित्येव स्वा नार्थस्य लाभात् ? मैवम् स्थानेग्रहणस्य स्पष्टार्थत्वात् । नचैवमपि विधिवाक्ये पदश्रवण- समकालमेव कथं विधेयताप्रयोजकत्वं गुणवृद्धयादिपदानां निर्णतुं शक्यते ? अत बाह- तत्रेति । तत्र सूत्रे इत्यर्थः । प्रथमान्तपदस्य 'गुणः वृद्धि:' इत्येवंरूपस्य विधेयविभक्त्य न्तत्वेन निश्चयात् विधेयताप्रयोजकत्वनिर्णयस्य सम्भवात्। यद्यपि 'वृद्धियंस्याचामादिः' इति सूत्रेऽपि वृद्धिपदं प्रथमया निर्दिष्टमिति तत्रापि विधेयताप्रयोजकत्वं वृद्धिपदस्य प्राप्नोति, तथापि यच्छन्द तच्छब्दयोनिर्देशस्य तत्र विवेयतासमर्पकत्वनिर्णयप्रतिबन्ध- कत्वात् न दोषः । वृद्धिपदस्य प्राथम्येन निर्देशोऽपि विधेयतासमर्पकत्वं तस्य प्रति - बध्नाति । 'उद्देश्यं प्रथमं वाच्यम् इति नियमेन विधेयस्य प्राथम्येन निर्देशस्यानौचित्यात् । न च 'गुणो यङ्लुको:' इत्यत्रापि गुणस्य प्रथमं निर्देशात् विधेयसमर्पकत्वाभावेन इक्परिभाषाया उपस्थितिनं स्यादिति वाच्यम् प्रथमान्तपदान्तरापेक्षया प्रायम्पेन निर्देशस्य प्रतिबन्धकत्वात् । 'गुणो यङलुकोः' अत्र अन्यत् प्रथमान्तं पदं नास्ति, 'वृद्धि'यस्याचाम्' इत्यत्र तु प्रथमान्तमन्यत् पदमादिपदमस्ति । अतोऽन्यस्य प्रथमान्तस्य सरवे वृद्धिपदस्य प्राथम्येन प्रयोगः तस्य प्रतिबन्धकः । 'गुणो यह' इत्यत्र तु नः प्रथमान्तं पदान्तरमिति न प्राथम्येन प्रयोगो विधेय समर्पकत्वस्य प्रतिबन्धकः - इति भट्टानां बुद्धिविलासः ।
विधेयताप्रयोजकं श्रूयमाणं गुणवृद्धयादिपदम् इक्परिभाषोपस्थापकत्वेन सफलमपि वाक्यार्थबोधे अन्वयि भवति । तेषां गुणवृद्ध्यादिपदानां वाक्यार्थबोधानन्वयित् विधेयतैव तेषामपगच्छेत् । तथाच गुणवृद्धिपदयोः उपस्थापकतैव निवर्तत ।
इदं सूत्रम् एधितेत्यादी व्यञ्जनात्मकधकारस्य गुणो मा भूदेतदर्थं कृतम् । सूत्रसद्भावे इक एव गुणो भवति । अतो न व्यञ्जनस्य, न वा इग्भिन्नस्याचो गुणो वृद्धिर्वा भवति । एवं 'भिन्नम्' इत्यादी 'विङति च' इत्यनेन गुणवृद्धिनिषेधोऽपि इक्परिभाषायाः फलं बोध्यम् । अन्यथा 'क्ङिति च' इत्यनेन इग्निमित्तकगुणवृद्धयोः प्रतिषेधेन 'पुगन्तल- घूपधस्य च' इत्यत्र इक्पदस्यानुपस्थितौ इग्निमित्तकत्वाभावाद् गुणस्य प्रतिषेधो न स्यात् । परिभाषायाः सत्त्वे तु इक्पदोपस्थित्या निषेधः सिद्धः । विस्तरेण 'कार्यमनुभवन्हि परिभाषायां विजयायां द्रष्टव्यम् ।
एतेन = विधेयत्वेन गृहीतस्यैव परिभाषालिङ्गत्वेन । पूर्वयोः = 'अदेङ् गुणः, ‘वृद्धिरादैच्' इति सूत्रस्थयोः । तत्रेदम् = 'इकः' इति पदम् गुणवृद्धीति । अस्य द्विवचनान्तत्वेन 'ईदूदेद् द्विवचनं प्रगृह्यम्' इत्यनेन प्रगृह्यसंज्ञायां प्रकृतिभावे दीर्घ- सन्धिदुर्लभ इति न शङ्कनीयम्; अनुकरणत्वेन गुणवृद्धीति पदस्य तंत्र शब्दस्वरूपपरत्वेन द्विवचनान्तत्वाभावात् प्रगृह्यसंज्ञायाः प्राप्यभावात् । विभक्त्यन्तस्यानुकरणत्वेन वृत्त्या अर्थवत्त्वाभावात् । अभेदविवक्षापक्षे प्रातिपदिकत्वाभावात् विभक्तेः प्रसङ्गाभावात् । ‘उभस्य सर्वनामत्वे कोऽर्थः' इति सर्वादिसूत्रस्य भाष्यस्यापि अनयैव रीत्या निस्तारः । एवञ्च = 'विधी परिभाषा' इत्यस्या अनतिरिक्तत्वे च । पदोपस्थापकेति । पदोपस्थापिका 'इको गुणवृद्धी' 'अचश्च' इति परिभाषाद्वयी, अत्रेव 'विधोयते' पदस्याध्याहारो नान्यत्रेति भावः । तेन प्रकृतपरिभाषाद्व्यातिरिक्तपरिभाषाणामनुवादेऽपि प्रवृत्तिस्वीकारेण । तदर्थस्य = गुणवृद्धिपदार्थस्य । तदनन्वयित्वे = वाक्यार्यानन्वयित्वे । उपस्थापकत्वेति । गुणवृद्धिपदानामिति शेषः । इयञ्च = 'इको गुणवृद्धी' इति परिभाषा ॥
॥ लघुशब्देन्दुशेखरः - हिन्दी ॥
इको गुण । परिभाषेयं - व्याख्यानात् । गुणवृद्धिशब्दाभ्यामिति । गुणवृद्धिग्रहणानुवृत्त्यैव सिद्धे पुनर्गुणवृद्धिग्रहणसामर्थ्यादिति भावः । अनुवर्तमानञ्च संज्ञिपरमेव स्यात् सञ्ज्ञाकरणेनान्यत्र सञ्ज्ञिपरत्वात् । यद्वा - तदप्यनुवर्त्य गुणो वृद्धिरिति योजनयैतल्लाभः । 'स्वादिषु' इति सूत्रेऽनुवृत्त' पद' पदस्य सञ्ज्ञापरताया एव दृष्टत्वात् । “ष्णान्ते 'ति सूत्रे सङ्ख्यापदस्य तदन्तत्वासम्भवादर्थपरतेति बोद्ध्यम् । लक्षणप्रतिपदोक्तपरिभाषया तु नात्र निर्वाहः । तत्र 'प्रतिपदोक्तस्ये 'त्यस्य साक्षादुच्चारितस्येति, साक्षात्तत्तच्छब्दानुवादेन विहितस्येति वाऽर्थात् । ध्वनितच्चेदमत्रैव भाष्ये ।
“इको गुणवृद्धी” इस सूत्र की व्याख्या करते हुए इसके परिभाषात्व का प्रतिपादन कर रहे हैं कि इस सूत्र के ऊपर किये गये भाष्यकार के व्याख्यान के आधार पर यह परिभाषासूत्र है । कारण यह है कि इसे संज्ञासूत्र तो मान नहीं सकते, क्योंकि गुण और वृद्धि संज्ञाओं का विधान संज्ञाप्रकरण में किया जा चुका है । दूसरी बात यह है कि इक् की गुण - वृद्धि संज्ञा का विधान असम्भव भी है । इसे विधिसूत्र भी नहीं मान सकते, क्योंकि ऐसा मानने पर इक् को गुण और वृद्धि का विधान करने वाले तत्तद् सूत्रों का वैयर्थ्य हो जायेगा । इसे नियमसूत्र इसलिए नहीं मान सकते कि नियम्य सूत्र के प्रकरण में इसका पाठ नहीं है । इसी प्रकार इसे अतिदेश और अधिकार सूत्र भी असम्भव होने के कारण नहीं मान सकते । “अलोऽन्त्यस्य “सूत्र के साथ एकवाक्यता करके इसे तच्छेष भी नहीं मान सकते, क्योंकि भाष्यकार ने कहा है कि “नार्य तच्छेषो नापि तदपवादो ऽन्यदेवेदं परिभाषान्तरमसम्बद्धमनया परिभाषया ।” यह “अलोऽन्त्यस्य “का शेष 'अङ्ग' नहीं है और उसका अपवाद भी नहीं है, किन्तु उससे असम्बन्ध यह परिभाषान्तर है । इस भाष्यवचन से सिद्ध होता है कि यह परिभाषासूत्र है ।
इस सूत्र की वृत्ति में दीक्षितजी ने कहा है कि “गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्रेकः इति षष्ठ्यन्तं पदमुपतिष्ठते”। यहाँ यह जिज्ञासा होती है कि सूत्र में तो एक बार “गुणवृद्धि” पद का उल्लेख है तो वृत्ति में दो बार उनका उल्लेख किस प्रकार हुआ है ? इसका उत्तर देते हुए नागेश भट्ट कह रहे हैं कि “अदेङ् गुणः” सूत्र से यहाँ गुण पद की तथा “वृद्धिरादैच्” सूत्र से वृद्धि पद की अनुवृत्ति करने से ही जब गुणवृद्धि का लाभ सम्भव है तो पुनः यहाँ “गुणवृद्धी” इस पद की क्या आवश्यकता है ? इस प्रकार सूत्रस्थ गुणवृद्धी ग्रहण व्यर्थ होकर गुण पद की “अदेनिष्ठ विधेयताप्रयोजकगुणपद में और वृद्धि पद की 'आदैनिष्ठ विधेयताप्रयोजक' वृद्धि - पद में लक्षणामह करता है । इसलिए इस सूत्र का अर्थ इस प्रकार होता है कि “अदेनिष्ठ विधेयता का प्रयोजक गुण पद तथा आदैनिष्ठ विधेयता का प्रयोजक वृद्धि पद जिस सूत्र में हाँ वहाँ “इकः “इस पष्ठ्यन्त पद की उपस्थिति होती है । इस लाक्षणिक अर्थ को दृष्टिगत करते हुए दीक्षितजी ने इस सूत्र की वृत्ति कहीं है । इसका परिणाम यह होता है कि जहाँ गुणपद का उच्चारण करके गुण (अदेङ) का विधान किया जाय और वृद्धि पद का उच्चारण करके “वृद्धि” का विधान किया जाय वहाँ “इक:” इस षष्ठ्यन्त पद की उपस्थिति होती है ।
इस प्रकार के सूत्रार्थ करने का परिणाम यह होता है कि गुण और वृद्धि संज्ञाओं के विधायक सूत्रों में इस सूत्र की प्रवृत्ति नहीं होती है । कारण यह है कि उन सूत्रों में जो विधेयता है वह गुण और वृद्धि संज्ञानिष्ठ है, न कि अदेङ् और आदैच् निष्ठ विधेयता वहाँ है । उपर्युक्त सूत्रार्थ में विधेयता का निवेश किया गया है । इसका फल यह होता है कि जहाँ अदेङ् और आदैच् में विधेयता रहेगी वहीं इस सूत्र की प्रवृत्ति होगी । इसका परिणाम यह होता है कि “अतो गुणे” और “वृद्धिर्यस्याचामादे” इन दोनों सूत्रों में गुण और वृद्धि पद के रहने पर भी प्रस्तुत सूत्र की प्रवृत्ति नहीं होती है, क्योंकि इन दोनों सूत्रों में आये हुए गुण और वृद्धि पद उद्देश्य - कोटिप्रविष्ट हैं, विधेय नहीं हैं । “त्यदादीनामः” और “पथिमथ्य” सूत्रों से यद्यपि गुण-वृद्धि का विधान किया जाता है, तथापि गुण और वृद्धि पद का उच्चारण करके नहीं किया जाता है । इसलिए वहाँ भी इस सूत्र की प्रवृत्ति नहीं होती है ।
अब यहाँ यह शंका होती है कि प्रस्तुत सूत्र में जो गुण और वृद्धि पद पढ़े गये हैं ये तो अर्थपरक (संज्ञी के बोधक) हैं, किन्तु “अदेङ् गुणः” और “वृद्धिरादैच् “से जिन गुण और वृद्धि पदों को यहाँ लाकर उनसे कार्य चलाने की बात ऊपर की गई है, वे दोनों पद तो वहाँ स्वरूपपरक (संज्ञा के बोधक) हैं । संज्ञाबोधक पद वहाँ से आकर यहाँ संज्ञी के बोधक हो जाय यह तो सम्भव नहीं है, क्योंकि नहि सर्पन्ती गोधा सर्पणादहिर्भवति” अर्थात् सर्प की तरह चलने से गोधा सर्पिणी नहीं हो सकती है । ऐसी स्थिति में गुणवृद्धिग्रहणानुवृत्ति से ही कार्य सिद्ध है तो पुनर्गुणवृद्धिग्रहण के सामर्थ्य से उपर्युक्त अर्थ करना कहाँ तक संगत है ? इस शंका के उत्तर में नागेश भट्ट कह रहे हैं कि यहाँ अनुवर्तमान जो गुणवृद्धि पद हैं वे संज्ञीपरक ही होंगे, संज्ञापरक नहीं होंगे । क्योंकि ऐसा नियम है कि जिस सूत्र से संज्ञावाचक पद अन्यत्र अनुवृत्त होते हैं, वह सूत्र यदि संज्ञाविधायक सूत्रीयविधेयतावच्छेदक से इतररूपावच्छिन्नविधेयताक होता है तो वहाँ आया हुआ संज्ञाबोधक पद संज्ञीपरक हो जाता है । जैसे “बहुगणवतु” सूत्र, जो संख्या संज्ञा का विधान करता है, से संख्या पद की अनुवृत्ति “ष्णान्ता षट्” इस षट्संज्ञा - विधायक सूत्र में होती है । यह सूत्र संख्या संज्ञा से भिन्न षट् संज्ञा का विधान करता है, इसलिए यहाँ आया हुआ “संख्या” यह पद स्वरूपपरक न होकर पञ्चन्, षट् इत्यादि प्रसिद्ध संख्याबोधक शब्दों का बोध कराता है । दूसरी बात यह है कि “ष्णान्ता पट्” सूत्र में यदि संख्या पद स्वरूपपरक हो जाय तो “ष्णान्ता” पद से उसका अन्वय ही नहीं हो सकेगा, क्योंकि संख्या पद में तदन्तत्व = पान्तत्व और नान्तत्व का अभाव है । इसलिए भी यहाँ संख्या पद अर्थपरक हो जाता है ।
“सुप्तिङन्तं पदम् “सूत्र से “स्वादिष्वसर्वनामस्थाने” इस सूत्र में आगत “पदम्” यह पद स्वरूपपरक (संज्ञावाचक) ही रहता है, क्योंकि दोनों सूत्रों द्वारा पद संज्ञा का ही विधान किया जाता है । यदि अनुवृत्त स्थल में भिन्न कार्य किया जाता तो उसकी अर्थपरता हो सकती थी ।
इस उपर्युक्त विवेचन से स्पष्ट है कि उपर्युक्त अर्थ लक्षणा के द्वारा किया गया है, किन्तु लक्षणादि का आश्रयण गौरवमस्त होने के कारण तथा स्पष्ट प्रतिपत्ति को दृष्टिगत कर “यहा” शब्द से पक्षान्तर को प्रस्तुत कर रहे हैं कि “तदप्यनुवर्त्य” अर्थात् “इको गुणवृद्धी” इस सूत्र का अर्थ करने के लिए तदप्यनुवर्त्य = गुण और वृद्धि पद की अनुवृत्ति भी करेंगे और सूत्रस्थ “गुणवृद्धी” इस पद को भी रखेंगे । पहले पक्ष से इस पक्ष की यही विशेषता है कि पहले पक्ष में केवल गुण और वृद्धि पद की अनुवृत्ति करके उससे ही कार्य चला कर सूत्रस्थ गुणवृद्धी पद को व्यर्थ करके लक्षणा करते थे। इस पक्ष में सूत्रस्थ “गुणवृद्धी” पद को रखते हुए गुण और वृद्धि पद की अनुवृत्ति कर रहे हैं । इसके अतिरिक्त “इति”, “उच्चार्य” और “विधीयते” इन तीन पदों का अध्याहार करते हैं । यहाँ यह बात ध्यातव्य है कि अनुवृत्त गुण और वृद्धि पद यहाँ स्वरूपपरक हैं । इसमें दृष्टान्त देते हुए कहते हैं - “स्वादिष्वसर्वनामस्थाने” सूत्र में अनुवृत्त “पदम्” यह पद स्वरूपपरक ही देखा गया है । उसी प्रकार यहाँ आये हुए गुण - वृद्धि पद स्वरूपपरक ही हैं । पुनः शंका हुई कि तब “ष्णान्ता षट्” सूत्र में समागत संख्या पद स्वरूपपरक क्यों नहीं होता ? तो इसका उत्तर देते हैं कि यहाँ संख्या पद का स्वरूपपरकत्व इसलिए नहीं होता कि उसमें षान्तत्व या नान्तत्व सम्भव नहीं हैं । अतः यहाँ अर्थपरकत्व हो गया है । इस प्रकार प्रस्तुत सूत्र में स्वरूपपरक गुण वृद्धि पद की अनुवृत्ति करके तथा उपर्युक्त तीन पदों का अध्याहार करके सूत्र का अर्थ इस प्रकार करते हैं कि “गुण इति उच्चार्य यत्र गुणो विधीयते “तथा “वृद्धिः इति उच्चार्य यत्र वृद्धिः विधीयते तत्रेकः इति षष्ठ्यन्त पदमुपतिष्ठते” । इस प्रकार की योजना से सूत्रार्थ इस प्रकार हुआ कि गुण इस शब्द का उच्चारण करके जहाँ गुण (अदेङ) का तथा वृद्धि इस शब्द का उच्चारण करके जहाँ वृद्धि (आदैच) का विधान किया जाय, उस सूत्र में “इक:” इस षष्ठ्यन्त पद की उपस्थिति होती है । इस योजना लभ्य अर्थ के आधार पर ही दीक्षित ने कौमुदी में इस सूत्र की वृत्ति कहीं है । इसका फल यह होता है कि “त्यदादीनामः” तथा “पथिमध्य” सूत्र में “इक” पद की उपस्थिति नहीं होती है, क्योंकि उक्त सूत्रद्वय में गुण और वृद्धि शब्द का उच्चारण करके अकार और आकार का विधान नहीं किया जाता है ।
कुछ प्राचीन आचार्यों का कहना है कि “त्यदादीनामः” इत्यादि स्थलों में इस परिभाषा की प्रवृत्ति न होने के लिए जो योजना का आश्रयण किया गया है वह ठीक नहीं है, क्योंकि यह कार्य तो लक्षणप्रतिपदोक्त परिभाषा से ही हो सकता है । इस परिभाषा के द्वारा “इकोगुणवृद्धी” सूत्रस्थ गुण और वृद्धि पद से प्रतिपदोक्त गुण और वृद्धि का ग्रहण किया जायेगा । प्रतिपदोक्त गुणवृद्धि वहीं होंगे जहाँ गुण और वृद्धि पद का उच्चारण किया गया होगा । ऐसा स्थल “मिदेर्गुण:”, “मृजेर्वृद्धिः” इत्यादि तो हो सकते हैं । इसलिए ऐसी ही जगहों पर “इक:” इस षष्ठ्यन्त पद की उपस्थिति होगी । “त्यदादीनामः” इत्यादि स्थलों में तो “इक:” इस पद की उपस्थिति का प्रश्न ही नहीं होता है । इसलिए योजनया अर्थलाभ करना ठीक नहीं है । नागेश भट्ट इस बात का खण्डन करते हुए कह रहे हैं कि लक्षणप्रतिपदोक्त परिभाषा से नात्र = “इको गुणवृद्धी” इस सूत्र में निर्वाह नहीं हो सकता है । कारण यह है कि प्रतिपदोक्त शब्द से “साक्षात् उच्चारित” और “साक्षात् तत्तद् शब्दानुवादेन विहित” इन दोनों का ही ग्रहण होता है । इस बात का स्पष्टीकरण निम्नलिखित प्रकार से है -
साक्षादुच्चारितस्य का अर्थ है “साक्षात् उच्चारण - प्रयोज्यबोधीय विषयताश्रयस्य” । विषयता शब्द से यहाँ विधेयताख्या विषयता अभिप्रेत है । वह विधेयता उच्चार्यमाण धर्म से साक्षात् अवच्छिन्न होनी चाहिए । “साक्षात् तत्तद् शब्दानुवादेन विहितस्य “का अर्थ है - “उच्चार्य - माणवृत्तिधर्मावच्छिन्ना या उद्देश्यता तन्निरूपितविधेयताश्रयत्व” । इस प्रकार प्रतिपदोक्तत्व का स्वरूप ऐसा होता है कि “यत्र शास्त्रे लक्षणप्रतिपदोक्तपरिभाषा सञ्चारणीया तदीयोद्देश्यता - वच्छेदकज्ञानायोपयुज्यमाना या आनुपूर्वी तद्विशिष्टत्वं प्रतिपदोक्तत्वम्” । वै “स्वेन साक्षा - दवच्छिन्नविधेयताश्रयत्वस्वावच्छिन्नोद्देश्यतानिरूपितविधेयताश्रयत्व इत्येतदन्यतर - सम्बन्धेन” । तात्पर्य यह है कि जिस शास्त्र में लक्षणप्रतिदोक्त परिभाषा की प्रवृत्ति करानी हो उसकी उद्देश्यतावच्छेदकी भूत जो आनुपूर्वी, उस आनुपूर्वी से साक्षादवच्छिन्न विधेयता हो अथवा उस आनुपूर्वी से अवच्छिन्न उद्देश्यतानिरूपित विधेयता हो । इसमें प्रथम सम्बन्ध का उदाहरण “गातिस्था” सूत्र है और दूसरे सम्बन्ध का उदाहरण “विभाषा दिक्समासे” “सूत्र में “दिङ्नामान्यन्तराले” सूत्र का ग्रहण करना है ।
“गातिस्था” सूत्र में पा शब्द से “पा पाने” का ग्रहण हो या “पै शोषणे” का कृतात्व का ग्रहण हो ? इस संशय में लक्षणप्रतिपदोक्त परिभाषा की यहाँ प्रवृत्ति होती है । ऐसी स्थिति में “गातिस्था” इस सूत्रीय उद्देश्यतावच्छेदक ज्ञान के लिए उपयुज्यमान आनुपूर्वी पकारोत्तर आकारत्व अर्थात् “पात्व” रूपानुपूर्वी है । इस आनुपूर्वी से साक्षादवच्छिन्ना विधेयता “पा पाने” इस शास्त्र से की गई विधेयता ही है, न कि “पै शोषणे” की विधेयता है । “पा पाने” के द्वारा जहाँ पान अर्थ में पात्वावच्छिन्न विधेय है वहीं “पै शोषणे” के द्वारा पैत्वावच्छिन्न की विधेयता होने से यह प्रतिपदोक्त नहीं कहा जाता, किन्तु “पा पाने” ही प्रतिपदोक्त माना जाता है । इसी प्रकार “विभाषा दिक्” सूत्र के उद्देश्यतावच्छेदक के ज्ञान के लिए उपयुज्यमान आनुपूर्वी है - “दिक्त्व” रूप आनुपूर्वी, तदवच्छिन्न उद्देश्यतानिरूपित विधेयताश्रयत्व “दिनामान्यन्तराले” इस सूत्र से विहित समास में ही है, न कि “अनेकमन्यपदार्थे” सूत्र से विहित दिग्वाचकों के समास में ।
प्रस्तुत स्थल में “इको गुणवृद्धी” इस शास्त्र के उद्देश्यतावच्छेदक के ज्ञान के लिए उपयुज्यमान जो गुणत्वरूपा और वृद्धित्वरूपा आनुपूर्वी है, उससे साक्षात् अवच्छिन्न विधेयता “त्यदादीनामः” के अकार में नहीं है । यहाँ अकारनिष्ठ विधेयता अत्वावच्छिन्ना है, गुणत्वावच्छिन्न नहीं है । इस प्रकार लक्षणप्रतिपदोक्तपरिभाषा से यहाँ कार्य नहीं चल सकता है । इसलिए योजना के द्वारा “इको गुणवृद्धी” का यथोक्त अर्थ करके ही “त्यदादीनामः” इत्यादि स्थलो के दोष का उद्धार करना चाहिए । यह बात इसी सूत्र के भाष्य से भी ध्वनित है ।
अस्याश्च विधेयसमर्पक गुणवृद्धिपदश्रुतिर्लिङ्ग, तदाह - विधीयेते इति । अत एव 'अतो गुणे' 'वृद्धिर्यस्ये'त्यादौ न दोषः । एतेन - “शब्दपरयोः पूर्वयोर्गुणवृद्धिपदयोरनुवृत्त्या यत्र ते पदे तत्रेदमुपतिष्ठते इत्यर्थेन 'त्यदानीनाम:' इत्यादिव्यावृत्ती सिद्धायामिह गुणवृद्धीति व्यर्थम्” इत्यपास्तम् ।
अस्याश्च = = “इको गुणवृद्धी” इस परिभाषा की प्रवृत्ति वहीं होती है जहाँ विधेयसमर्पकत्वेन गुण और वृद्धि पद का ग्रहण किया गया होता है । विधेय के रूप में गृहीत गुण और वृद्धि पद का श्रवण होना ही इस परिभाषा का लिंग है । जहाँ पर गुण और वृद्धि पद विधेय रूप में गृहीत नहीं होंगे वहाँ इस परिभाषा की प्रवृत्ति नहीं होगी । इसी तात्पर्य से इस सूत्र की वृत्ति में “विधीयेते” इस पद का प्रयोग किया गया है । यह “विधीयेते” पद वृत्ति में अध्याहार करके कहा गया है । इसका परिणाम यह होता है कि “अतो गुणे” और “वृद्धिर्यस्याचाम्” इन सूत्रों में इस परिभाषा की उपस्थिति नहीं होती है । कारण यह है कि “अतो गुणे” सूत्र में 'गुणे' यह पद निमित्त के रूप में आया है और 'वृद्धिर्यस्य” इस सूत्र में वृद्धिपद उद्देश्य के रूप में आया है । विधेय के रूप में कहीं भी नहीं आया है । इसलिए इन दोनों जगहों पर इस परिभाषा की प्रवृत्ति नहीं होती है ।
एतेन = अनुवाद (उद्देश्य) स्थल में इस सूत्र की प्रवृत्ति न हो जाय इसलिए विधेयत्वेन गुण - वृद्धि पद को इस परिभाषा का लिंग मानने के कारण यह आवश्यक है कि सूत्र में अर्थपरक गुण - वृद्धि पद रहें, जिनके आधार पर “विधीयेते” इस पद का अध्याहार हो सके । ऐसा स्वीकार करने से प्राचीनों का यह कथन परास्त हो जाता है कि पूर्वयोः = “अदेङ् गुणः” और “वृद्धिरादैच्” इन पूर्वसूत्रों में पठित और शब्दपरक (स्वरूपबोधक्) गुण और वृद्धि पदों की अनुवृत्ति करके प्रस्तुत सूत्र (इको गुणवृद्धी) का अर्थ ऐसा किया जायेगा कि जहाँ गुण और वृद्धि पद हैं वहाँ इस परिभाषा की उपस्थिति होती है । इस अर्थ से “त्यदादीनामः” “पथिमथ्य” आदि का दोष वारित हो जायेगा । ऐसी स्थिति में “इह” इको “गुणवृद्धी” इस सूत्र में गुणवृद्धि पद व्यर्थ है । इस मत के परास्त होने का कारण जैसा कि ऊपर बताया जा चुका है कि सूत्र में अर्थ परक गुणवृद्धि पद को रख कर “विधीयेते” पद का आध्याहार करने से ही यह बात सिद्ध होती है कि विधेय समर्पकगुणवृद्धि पद ही इस परिभाषा का लिंग है । यदि सूत्र में गुणवृद्धि पद नहीं रहेंगे तब यह बात सिद्ध नहीं हो सकेगी । इसलिए सूत्रस्थ गुणवृद्धि पद का खण्डन करना अपास्त ही समझना चाहिए । दूसरी बात यह भी है कि प्राचीनों के इस कथन के अनुसार “अतो गुणे” “वृद्धिर्यस्य” इत्यादि सूत्रस्थलीय दोषों का उद्धार भी नहीं हो सकेगा, क्योंकि यहाँ गुणवृद्धि पद पढ़े हुए हैं । इसलिए प्राचीन मत हेय है ।
एतन्मूलक एव विधौ परिभाषोपतिष्ठते नानुवादे' इत्युद्घोषः । एवञ्च पदोपस्थापक परिभाषाविषये 'विधीयते' इत्यस्यैवाध्याहारो बोद्ध्यः । एवञ्च 'तस्मिन्निति निर्दिष्टे' 'षष्ठीस्थाने' इत्यादेरनुवादेऽपि प्रवृत्तिः । तेन 'प्रत्ययस्थात्कात्पूर्वस्य' 'उदात्तस्वरितयोर्यणः' इत्यादौ न दोषः । 'उदीचामातः स्थाने' इति स्थानेग्रहणन्तु स्पष्टार्थ मेव । तत्र विधिवाक्ये प्रथमाया विधेयविभक्तित्वेन तदन्तस्य विधेयसमर्पकत्वनिर्णयः । अत एव गुणादिपदानामिक्पदोपस्थापनेन चरितार्थानामपि वाक्यार्थान्वयिता । तदर्थस्य तदनन्वयित्वे विधेयत्वाभावेन उपस्थापकत्वस्यैव भङ्गापत्तेः । इयञ्चैधितेत्यादौ व्यञ्जनानां गुणव्यावृत्त्यर्थ, 'भिन्नमित्यादौ निषेधप्रवृत्तये इग्लक्षणत्वसम्पत्त्यर्थचेति दिक्
एतन्मूलक एव = “विधीयेते” इस पद का अध्याहार करके “इको गुणवृद्धी” सूत्र का सूत्रार्थ करने का ही फलितार्थ है - “विधौ परिभाषोपतिष्ठते नानुवादे” यह परिभाषा। तात्पर्य यह है कि पदोपस्थापक परिभाषाएँ दो हैं, एक तो “इको गुणवृद्धी” और दूसरी “अचश्च”। इन दोनों सूत्रों में क्रमशः “विधीयेते” और विधीयते “इन पदों का अध्याहार होता है । इस अध्याहारमूलक ही यह प्रवाद (उद्घोष) चल पड़ा कि “विधौ परिभाषोपतिष्ठते” अर्थात् परिभाषोपस्थाप्य का अन्वय विधेय = विधेय विशेषण में होता है, अनुवाद में नहीं होता है । “विधौ परिभाषोपतिष्ठते” को उद्घोष कहने से यह भी संकेत मिलता है कि यह परिभाषा उद्घोषमात्र है, इसका वास्तविक अस्तित्व नहीं है । “उदीचामातः स्थाने” सूत्र के 'स्थाने' ग्रहण को, जो इस परिभाषा का ज्ञापक बताया गया है, वह ठीक नहीं है; क्योंकि वहाँ स्थान पदार्थ की उपस्थिति “षष्ठी स्थाने योगा “इस सूत्र से नहीं हो सकती है । कारण यह है कि “षष्ठी स्थाने योगा” यह परिभाषा “निर्दिश्यमानस्य “इस परिभाषा के ज्ञापन के लिए आवश्यक है । ऐसी स्थिति में जब “स्थाने” ग्रहण आवश्यक हो जाता है तब उससे “विधौ परिभाषोपतिष्ठते” इस परिभाषा का ज्ञापन नहीं हो सकता है । इसलिए यही कहना ठीक है कि “विधौ परिभाषोपतिष्ठते” यह उद्घोष 'विधीयेते' और 'विधीयते' इन पदों का अध्याहारमूलक ही है ।
एवञ्च = “विधौ परिभाषोपतिष्ठते” इस परिभाषा के “विधीयेते” पद के अध्याहारमूलक होने के कारण अनतिरिक्त होने से यह निष्कर्ष निकलता है कि पदोपस्थापक परिभाषा के विषय में “विधीयते” इस पद का ही अध्याहार करना चाहिए और “विधौ परिभाषोपतिष्ठते” को उसका प्रवाद या उद्घोष मानना चाहिए । यदि कहा जाय कि “विधीयेते” और “विधीयते” इन पदों का अध्याहार भी इसी परिभाषा के कारण होता है तो यह कहना ठीक नहीं है । क्योंकि “इको गुणवृद्धी” सूत्र में “अदेङ गुणः” और “वृद्धिरादैच्” सूत्रों से ही गुण - वृद्धि पदों की अनुवृत्ति से कार्य चल सकता है ।
इसी प्रकार “अचश्च” सूत्र में भी “उकालोऽच्” सूत्र से अच् की अनुवृत्ति लाकर और उसकी आवृत्ति करके इष्टसिद्धि हो सकती थी । ऐसी स्थिति में पूर्वसूत्र में गुण और वृद्धि का ग्रहण तथा “अचश्च” में “अच्” ग्रहण अनावश्यक हो जाते हैं । तत्सामर्थ्यात् उक्त दोनों सूत्रों में क्रमशः “विधीयेते” और “विधीयते” का अध्याहार होता है । इसलिए यही कहना ठीक है कि “विधौ परिभाषोपतिष्ठते” यह परिभाषा ही अध्याहारमूलक है, न कि अध्याहार परिभाषा - मूलक। इससे स्पष्ट होता है कि विधेय को परिभाषा का लिंग मानना केवल “इको गुणवृद्धी” और “अचश्च” इन दो सूत्रों के लिए ही है । इन सूत्रों से उपस्थाप्य का अन्वय विधेय के विशेषण में होता है । उदाहरण के लिए “मृजेर्वृद्धिः” सूत्र में उपस्थित “इक:” इस षष्ठ्यन्त पद का अन्वय विधेय वृद्धि के विशेषण “मृज्” में ही होता है । इस प्रकार इन सूत्रों की प्रवृत्ति विधेयस्थल में होने का परिणाम यह होता है कि “वृद्धिर्यस्याचाम्” सूत्र में जहाँ वृद्धिपद अनूद्यमान (उद्देश्य) का विशेषण है वहाँ “इको गुणवृद्धी” सूत्र की प्रवृत्ति नहीं होती है, किन्तु “तस्मिन्निति निर्दिष्टे पूर्वस्य” “षष्ठी स्थाने योगा” इन परिभाषाओं की प्रवृत्ति तो अनुवाद अंश में भी हो ही जाती है । अनुवाद का अर्थ है उद्देश्य या उद्देश्य का विशेषण उदाहरण के लिए “इको यणचि” इस सूत्र को लिया जा सकता है । यहाँ यण विधेय है, उसमें विशेषण है इक । इसी इक् पदार्थ में “तस्मिन्निति” सूत्र से उपस्थित अव्यवहितांश और पूर्वांश का अन्वय होता है । यहाँ ध्यातव्य है कि इक उद्देश्य है ।
तेन = पदोपस्थापक “इको गुणवृद्धी” और “अचश्च” इन दोनों परिभाषाओं के अतिरिक्त परिभाषाओं की अनुवाद में प्रवृत्ति को स्वीकार करने से ही “प्रत्ययस्थात् कात्” तथा “उदात्तस्वरितयोर्यणः” आदि सूत्रों में दोष नहीं होता है । इन दोनों सूत्रों में क्या दोष था और “तस्मिन्निति” सूत्र के अनुवाद में प्रवृत्ति होने से वह दोष कैसे हट गया -इन सब बातों का स्पष्टोकरण इस प्रकार है -” प्रत्ययस्थात्” यह सूत्र प्रत्ययस्थ ककार से पूर्व अकार को इकार करता है, आप पर में रहने पर यहाँ इत्व विधेय है और अकार उद्देश्य है । उस अकार में विशेषण है ककार और उस ककार का विशेषण है आप इस प्रकार आप् प्रत्यय अनुवाद के विशेषण का विशेषण है । “आपि” यह अनूद्यमान के विशेषण का विशेषण सप्तम्यन्त पद है । इस सप्तम्यन्त पद के आधार पर यहाँ “तस्मिन्निति” परिभाषा की प्रवृत्ति अनूद्यमान के विशेषण के विशेषण में होती है । परिणामस्वरूप सूत्रार्थ होता है कि आप से अव्यवहितपूर्वत्वविशिष्ट जो ककार, उससे अव्यवहित पूर्व अकार को इकार होता है । ऐसा अर्थ करने का परिणाम यह होता है कि “सर्विका” इस प्रयोग में ककार से अव्यवहित पूर्व वकारोत्तरवर्ती अकार को ही इकार होता है, सकारोत्तरवर्ती अकार को नहीं होता है । यदि “आपि” और “कात्” जैसे अनुवाद (उद्देश्य) के विशेषण तथा उसके विशेषण में “तस्मिन्निति” और “तस्मादित्युत्तरस्य” इन परिभाषाओं की प्रवृत्ति नहीं होती तो उक्त अर्थ नहीं होता, किन्तु 'आप पर में रहने पर प्रत्ययस्थ ककार से पूर्व अकार को इकार हो इतना मात्र अर्थ होता । परिणाम यह होता कि “सर्विका” में सकारोत्तरवर्ती अकार को भी इत्वापत्ति हो जाती । अनुवाद में “तस्मिन्निति” आदि की प्रवृत्ति स्वीकार करने से यह दोष नहीं होता है, जैसा कि ऊपर बताया जा चुका है ।
इसी प्रकार “उदात्तस्वरितयोर्यणः स्वरितो ऽनुदात्तस्य “इस सूत्र में विधेय के परम्परया विशेषण में भी “षष्ठी स्थाने योगा” इस परिभाषा की प्रवृत्ति कराई गई है । “उदात्त के स्थान पर और स्वरित के स्थान पर जो यण, उससे पर में जो अनुदात्त उस अनुदात्त को स्वरित होता है”। इस प्रकार वहाँ सूत्रार्थ होने से स्पष्ट है कि वहाँ विधेय स्वरित है । उसका विशेषण और उद्देश अनुदात्त है, उसका विशेषण यण है और यण का विशेषण उदात्त और स्वरित हैं । इससे स्पष्ट है कि उदात्तस्वरितस्थानिक यणपरक अनुदात्त जो यह उद्देश्यदल है, जिसे उद्देश्य करके यहाँ स्वरित का विधान किया जा रहा है, उस उद्देश्य दल में अत्यन्त अप्रधान जो “उदात्तस्वरितयोः” यह पद है, उसमें भी “षष्ठी स्थानेयोगा” इस परिभाषा की प्रवृत्ति कराकर प्रस्तुत सूत्र का उपर्युक्त अर्थ किया गया है । इससे स्पष्ट है कि “इको गुणवृद्धी” और “अचश्च” इन दोनों पदोपस्थापक परिभाषाओं को छोड़कर “तस्मिन्निति”, “षष्ठी स्थाने” आदि परिभाषाओं की प्रवृत्ति अनुवाद में भी होती है
उपर्युक्त विवेचन से यह स्पष्ट हो गया कि “षष्ठी स्थाने” इस परिभाषा की प्रवृत्ति अनुवाद में भी होती है । ऐसी स्थिति में “उदीचामातः स्थाने” सूत्र में किया गया “स्थाने” ग्रहण स्पष्टार्थ ही है, क्योंकि “आत” इस अनूद्यमान के विशेषण में भी “षष्ठी स्थाने” की प्रवृत्ति हो जायेगी, जिससे “स्थाने” इस अर्थ का लाभ हो जायेगा । “उदीचाम्” सूत्रस्थ “स्थाने” पद को “विधौ परिभाषोपतिष्ठत इस परिभाषा के ज्ञापन के लिए आवश्यक नहीं माना जा सकता, क्योंकि यह परिभाषा “विधीयते पद के अध्याहारमूलक उद्घोष (प्रवाद) मात्र है । इसका वास्तविक अस्तित्व नहीं है ।
अब यह विचार हो रहा है कि “इको गुणवृद्धी” सूत्र से जो षष्ठ्यन्त 'इक' पद की उपस्थिति कराई जायेगी, वह विधेयसमर्पक गुणवृद्धि पद के निर्णय के बाद ही होगी । गुण - वृद्धि पद का विधेयसमर्पकत्व तो तत्तद सूत्रों के वाक्यार्थबोध के बाद ही प्रतीत हो सकेगा । ऐसी स्थिति में वहाँ “मिदेर्गुणः” इत्यादि सूत्रों में “अलोऽन्त्यस्य” सूत्र की प्रवृत्ति क्यों न होवे ? इस शंका के उत्तर में कह रहे हैं कि तत्र = “मिदेर्गुणः” इत्यादि सूत्रों में वाक्यार्थबोध की पर्यालोचना की अपेक्षा होने पर भी “प्रथमा” के विधेय विभक्ति होने के कारण तदन्तस्य== = प्रथमान्त “गुणः” इत्यादि पदों की विधेयसमर्पकता (विधेयबोधकता) में कोई बाधा नहीं है । अत एव = “गुणः” आदि पदों के विधेय होने के कारण ही उनके द्वारा “इक” इस षष्ठ्यन्त पद की उपस्थिति होती है । इस प्रकार यद्यपि “इक:” इस षष्ठ्यन्त पद को उपस्थापित करके प्रथमान्त “गुण” आदि पद चरितार्थ हो चुके हैं तथापि उनकी विधेयता को ख्यापित करने के लिए उनका वाक्यार्थ में अन्वय होता है । यदि वाक्यार्थ में प्रथमान्तार्थ का अन्वय नहीं होगा तो प्रथमान्तार्थ में विधेयता नहीं होगी । ऐसी स्थिति में उनका “इक:” इस पष्ठ्यन्त पद का उपस्थापकत्व ही भङ्ग हो जायेगा ।
इस परिभाषा का फल बतलाते हुए कह रहे हैं -इयञ्च = “इको गुणवृद्धी” यह परिभाषा “एधिता” इत्यादि प्रयोगों में व्यञ्जन वर्णों के गुण की व्यावृत्ति के लिए है । यदि यह परिभाषा नहीं होती तो “सार्वधातुकार्धधातुकयोः “इस सूत्र का ऐसा अर्थ होता कि सार्वधातुक और आर्धधातुक पर में रहने पर अंग को गुण होता है । यह गुण “अलोऽन्त्यस्य” के सहयोग से व्यञ्जन वर्ण “ध्” के स्थान पर होने लगता । प्रस्तुत परिभाषा से इक् पद की उपस्थिति कराने से व्यञ्जन वर्णों को गुण नहीं होता है, किन्तु अंगावयव इक् को ही गुण होता है ।
इस परिभाषा का दूसरा प्रयोजन यह है कि जिस - जिस गुण या वृद्धि विधायक सूत्र में इसके द्वारा “इक:” इस षष्ठ्यन्त पद की उपस्थिति कराई जाती है वह गुण और वृद्धि इग्लक्षण अर्थात् इक्निमित्तक या इक्स्थानिक कहे जाते हैं । इसका परिणाम यह होता है कि “भिन्नम् “इस प्रयोग में जहाँ भिद् धातु से क्त प्रत्यय करने पर “पुगन्तलघूपधस्य च” इस सूत्र से गुण की प्राप्ति होती है और उस गुण के इग्लक्षण गुण होने के कारण “क्क्ङिति च” सूत्र से निषेध कर दिया जाता है, जिससे “भिन्नम्” इस प्रयोग की सिद्धि होती है । “पुगन्तलघूपधस्य च “सूत्र से विधेय गुण इगलक्षण गुण इसलिए है कि इस सूत्र में “मिदेर्गुणः” सूत्र से गुण की अनुवृत्ति आती है । यह गुण पद विधेयता का प्रयोजक है, इसलिए उसके आधार पर “इको गुणवृद्धी” परिभाषा से षष्ठ्यन्त “इक” पद की उपस्थिति होती है । इस प्रकार यह गुण इग्लक्षण गुण कहा जाता है । इस प्रकार “क्क्ङिति च” इस निषेधशास्त्र की प्रवृत्ति के लिए गुण का इ'लक्षणत्व सम्पादन करने के लिए भी यह सूत्र आवश्यक है ।
विशेष -इस सूत्र की वृत्ति में कौमुदीकार ने कहा है कि “गुणवृद्धिशब्दाभ्यां यत्र गुण - वृद्धो विधीयेते तत्र ‘इकः' इति षष्ठ्यन्तं पदमुपतिष्ठते”। स्पष्ट है कि इस वृत्ति में “उपतिष्ठते” इस क्रिया का कर्ता “इक:” इस षष्ठ्यन्तपद को बनाया गया है, किन्तु पाठ्यन्त पद “उपतिष्ठते” क्रिया का कर्ता कैसे बन सकता है ? कर्तृवाच्य की क्रिया होने के कारण आवश्यक है कि इस क्रिया का कर्ता प्रथमान्त हो । इसलिए प्रकृतसूत्रस्थ “इकः “यह पद षष्ठयन्त न होकर षष्ठ्यन्तानुकरण लुप्तप्रथमान्त है, ऐसा मानना चाहिए । इक् शब्द से षष्ठी का एकवचन लाने पर “इकस्” जो षष्ठ्यन्त बनता है उसका अनुकरण यहाँ इकस शब्द रख कर उसे नपुंसकलिंग मान कर उसके आगे सुविभक्ति लाई गई है और उस सु विभक्ति का 'नपुंसकत्वात् लुक हो गया है । इ शब्दघटक सकार का रुत्व - विसर्ग करके “इकः” यह लुप्तप्रथमान्त कर्तृवाचक पद बनता है, जो “उपतिष्ठते” क्रिया का कर्ता बनता है । इकस शब्द को यदि नपुंसकलिंग में न मान कर पुल्लिंग माना जाता और सुविभक्ति का हल्यादिलोप किया गया होता तो उस लोप का प्रत्ययलक्ष करके “अत्वसन्तस्य “सूत्र से दीर्घ होने लगता । परिणाम यह होता कि “इकः “की जगह “इका:” ऐसा रूप बनने लगता । नपुंसक में लुक् करने से लुमता लुप्त होने के कारण प्रत्ययलक्षण नहीं होता, जिससे पाणिनि का निर्देश संगत होता है ।
॥ महाभाष्यम् ॥
(२. इक्परिभाषासूत्रम् १.१.३ आ. २)
इको गुणवृद्धी १.१. ३
॥ सूत्रप्रयोजनाधिकरणम् ॥
आक्षेपभाष्यम् - इग्ग्रहणं किमर्थम् ?
(७४. समाधानवार्त्तिकम् - १) * इग्ग्रहणमात्सन्ध्यक्षरव्यञ्जननिवृत्त्यर्थम् *
भाष्यम् - इग्ग्रहणं क्रियते । किं प्रयोजनम् ? आकारनिवृत्त्यर्थं सन्ध्यक्षरनिवृत्त्यर्थं व्यञ्जननिवृत्त्यर्थञ्च ।
प्रथमप्रयोजनोपपादनभाष्यम् - आकारनिवृत्त्यर्थं तावत् - याता, वाता । आकारस्य गुणः प्राप्नोति । इग्ग्रहणान्न भवति ।
द्वितीयप्रयोजनोपपादनभाष्यम् - सन्ध्यक्षरनिवृत्त्यर्थम् - ग्लायति, म्लायति । सन्ध्यक्षरस्य गुणः प्राप्नोति । इग्ग्रहणान्न भवति ।
तृतीयप्रयोजनोपपादनभाष्यम् - व्यञ्जननिवृत्त्यर्थम् - उम्भिता, उम्भितुम्, उम्भितव्यम् । व्यञ्जनस्य गुणः प्राप्नोति । इग्ग्रहणान्न भवति ।
प्रथमप्रयोजननिराकरणभाष्यम् - आकारनिवृत्त्यर्थेन तावन्नार्थः । आचार्यप्रवृत्तिर्ज्ञापयति - नाकारस्य गुणो भवतीति । यदयम् ' आतोऽनुपसर्गे कः ' इति ककारमनुबन्धं करोति । कथं कृत्वा ज्ञापकम् ? कित्करण एतत्प्रयोजनम् - कितीत्याकारलोपो यथा स्यात् । यदि चाकारस्य गुणः स्यात्, कित्करणमनर्थकं स्यात् । गुणे कृते द्वयोरकारयोः पररूपेण सिद्धं रूपं स्यात् - गोदः कम्बलद इति । पश्यति त्वाचार्यः - नाकारस्य गुणो भवतीति, ततः ककारमनुबन्धं करोति ।
द्वितीयप्रयोजननिराकरणभाष्यम् - सन्ध्यक्षरनिवृत्त्यर्थेनापि नार्थः । उपदेशसामर्थ्यात् सन्ध्यक्षरस्य गुणो न भवति ।
तृतीयप्रयोजननिराकरणभाष्यम् - व्यञ्जननिवृत्त्यर्थेनापि नार्थः । आचार्यप्रवृत्तिर्ज्ञापयति - न व्यञ्जनस्य गुणो भवतीति । यदयं जनेर्ड शास्ति । कथं कृत्वा ज्ञापकम् ? डित्करण एतत्प्रयोजनम् - डितीति टिलोपो यथा स्यात् । यदि व्यञ्जनस्य गुणः स्यात्, डित्करणमनर्थकं स्यात् । गुणे कृते त्रयाणामकाराणां पररूपेण सिद्धं रूपं स्यात् - उपसरजो मन्दुरज इति । पश्यति त्वाचार्यः - न व्यञ्जनस्य गुणो भवतीति । ततो जनेर्ड शास्ति ।
प्रथमप्रयोजनबाधकज्ञापकनिराकरणभाष्यम् - नैतानि सन्ति ज्ञापकानि । यत्तावदुच्यते - कित्करणं ज्ञापकं आकारस्य गुणो न भवतीति । उत्तरार्थमेतत्स्यात् - ' तुन्द - शोकयोः परिमृजापनुदोः ' इति ।
प्रथमप्रयोजनबाधकज्ञापकान्तरभाष्यम् - यत्तर्हि ' गापोष्टक् ' इत्यनन्यार्थं ककारमनुबन्धं करोति ।
द्वितीयप्रयोजनबाधकसामर्थ्यदूषकभाष्यम् - यदप्युच्यते - उपदेशसामर्थ्यात् सन्ध्यक्षरस्य गुणो न भवतीति । यदि - यद्यत्सन्ध्यक्षरस्य प्राप्नोति, तत्तदुपदेशसामर्थ्याद्वाध्यते, आयादयोऽपि तर्हि न प्राप्नुवन्ति ।
सामर्थ्यदूषणनिराकरणभाष्यम् - नैष दोषः । यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते । यस्य तु विधेर्निमित्तमेव नासौ बाध्यते । गुणं च प्रत्युपदेशोऽनर्थकः, आयादीनां पुनर्निमित्तमेव ।
तृतीयप्रयोजनबाधकज्ञापकनिराकरणभाष्यम् - यदप्युच्यते - जनेर्डवचनं ज्ञापकम्, न व्यञ्जनस्य गुणो भवतीति । सिद्धे विधिरारभ्यमाणो ज्ञापकार्थो भवति । न च जनेर्गुणेन सिद्धयति । कुतो ह्येतत् - जनेर्गुण उच्यमानोऽकारो भवति, न पुनरेकारो वा स्यादोकारो वेति ?
ज्ञापकसाधकभाष्यम् - आन्तर्यतोऽर्धमात्रिकस्य व्यञ्जनस्य मात्रिकोऽकारो भविष्यति ।
ज्ञापकबाधकभाष्यम् - एवमप्यनुनासिकः प्राप्नोति ।
ज्ञापकसाधकभाष्यम् - पररूपेण शुद्धो भविष्यति ।
ज्ञापकबाधकभाष्यम् - एवं तर्हि गमेरप्ययं डो वक्तव्यः । गमेश्च गुण उच्यमान आन्तर्यत ओकारः प्राप्नोति । तस्मादिग्ग्रहणं कर्तव्यम् । इति ।
॥ गुणवृद्धिशब्दानुवृत्त्यधिकरणम् ॥
आक्षेपभाष्यम् - यदीग्ग्रहणं क्रियते, द्यौः पन्थाः सः इममिति, एतेऽपीकः प्राप्नुवन्ति ।
(७५. सिद्धान्तसमाधानवार्त्तिकम् - १) * संज्ञया विधाने नियमः *
भाष्यम् - संज्ञया ये विधीयन्ते तेषु नियमः ।
आक्षेपभाष्यम् - किं वक्तव्यमेतत् ?
समाधानभाष्यम् - न हि; कथमनुच्यमानं गंस्यते ? गुणवृद्धिग्रहणसामर्थ्यात् ।
सामर्थ्याक्षेपभाष्यम् - कथं पुनरन्तरेण गुणवृद्धिग्रहणमिको गुणवृद्धी स्याताम् ?
समाधानभाष्यम् - प्रकृतं गुणवृद्धिग्रहणमनुवर्तते । क्व प्रकृतम् ? ' वृद्धिरादैजदेङ्गुणः ' ।
आक्षेपभाष्यम् - यदि तदनुवर्तते ' अदेङ्गुणो वृद्धिश्च ' इत्यदेङां वृद्धिसञ्ज्ञाऽपि प्राप्नोति ।
समाधानभाष्यम् - (१) - सम्बन्धमनुवर्तिष्यते - ' वृद्धिरादैच् ' ' अदेङ्गुणः ' । वृद्धिरादैच् ततः - ' इको गुणवृद्धी ' इति । गुणवृद्धिग्रहणमनुवर्तते, आदैजदेङ्ग्रहणं निवृत्तम् ।
समाधानभाष्यम् - (२) - अथवा मण्डूकगतयोऽधिकाराः । यथा मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति तद्वदधिकाराः ।
एकदेशिसमाधानभाष्यम् - (३) अथवैकयोगः करिष्यते - ' वृद्धिरादैजदेङ्गुणः ' ततः ' इको गुणवृद्धी ' इति । न चैकयोगेऽनुवृत्तिर्भवति ।
समाधानभाष्यम् - (४) - अथवा ' अन्यवचनाच्चकाराकरणाच्च प्रकृतापवादो विज्ञायते, यथोत्सर्गेण प्रसक्तस्यापवादो बाधको भवति ' । अन्यस्याः सञ्ज्ञाया वचनाच्चकारस्य चानुकर्षणार्थस्याकरणात्प्रकृताया वृद्धिसञ्ज्ञाया गुणसञ्ज्ञा बाधिका भविष्यति । यथोत्सर्गेण प्रसक्तस्यापवादो बाधको भवति ।
समाधानभाष्यम् - (५) - अथवा वक्ष्यत्येतत् - ' अनुवर्तन्ते च नाम विधयः, न चानुवर्तनादेव भवन्ति । किं तर्हि ? यत्नाद्भवन्ति ' इति ।
समाधानभाष्यम् - (६) - अथवा उभयं निवृत्तम् । तदपेक्षिष्यामहे ।
॥ परिभाषात्वसाधकाधिकरणम् ॥
पक्षद्वयोपस्थापकभाष्यम् - किं पुनरयमलोऽन्त्यशेषः, आहोस्विदलोऽन्त्यापवादः ? कथं चायं तच्छेषः स्यात्, कथं वा तदपवादः ? यद्येकं वाक्यम् - तच्चेदं च, अलोऽन्त्यस्य विधयो भवन्ति - ' इको गुणवृद्धी अलोऽन्त्यस्य ' इति । ततोऽयं तच्छेषः । अथ नानावाक्यम् - ' अलोऽन्त्यस्य विधयो भवन्ति ' , ' इको गुणवृद्धी - अन्त्यस्य चानन्त्यस्य च ' इति । ततोऽयं तदपवादः ।
भाष्यम् - कश्चात्र विशेषः ?
(७६. तच्छेषपक्षदूषणवार्त्तिकम् - ३) * वृद्धिगुणावलोऽन्त्यस्येति चेन्मिदिमृजिपुगन्तलघूपधच्छिदृशिक्षिप्रक्षुद्रेष्विग्ग्रहणम् *
व्याख्याभाष्यम् - वृद्धिगुणावलोऽन्त्यस्येति चेन्मिदिमृजिपुगन्तलघूपधच्छिदृशिक्षिप्रक्षु - द्रेष्विग्ग्रहणं कर्तव्यम् । ' मिदेर्गुणः ' इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति । ' मृजेर्वृद्धिः ' इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति । ' पुगन्तलघूपधस्य ' गुणः, इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति । ऋच्छेलिटि गुणः, इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति । दृशेः ' ऋदृशोऽङि गुणः ' इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति । क्षिप्रक्षुद्रयोर्गुणः, इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति ।
(७७. तच्छेषदूषणान्तरवार्त्तिकम् - ४) * सर्वादेशप्रसङ्ग श्चानिगन्तस्य *
एकदेशिव्याख्याभाष्यम् - सर्वादेशश्च गुणोऽनिगन्तस्य प्राप्नोति । याता, वाता । किं कारणम् ? ' अलोऽन्त्यस्य ' इति षष्ठी । षष्ठी चैव ह्यन्त्यमिकमुपसंक्रान्ता, अङ्गस्येति च स्थानषष्ठी । तद्यदिदानीमनिगन्तमङ्गं तस्य गुणः सर्वादेशः प्राप्नोति ।
दूषणोद्धारभाष्यम् - नैष दोषः । यथैव ह्यलोऽन्त्यस्येति षष्ठी अन्त्यमिकमुपसंक्रान्ता, एवमङ्गस्येत्यपि स्थानषष्ठी । तद्यदिदानीमनिगन्तमङ्गं तत्र षष्ठ्येव नास्ति, कुतो गुणः कुतः सर्वादेशः ।
वार्तिकसमन्वयान्तरभाष्यम् - एवं तर्हि नायं दोषसमुच्चयः । किं तर्हि ? पूर्वापेक्षोऽयं दोषः । ह्यर्थे चायं चः पठितः - ' मिदिमृजिपुगन्तलघूपधच्छिदृशिक्षिप्रक्षुद्रेष्विग्ग्रहणं सर्वादेशप्रसङ्गो ह्यनिगन्तस्य ' इति । मिदेर्गुणः ' इक ' इति वचनादन्त्यस्य न, ' अलोऽन्त्यस्य ' इति वचनादिको न । उच्यते च गुणः । स सर्वादेशः प्राप्नोति । एवं सर्वत्र ।
तदपवादपक्षाभ्युपगमभाष्यम् - अस्तु तर्हि तदपवादः ।
(७८. तदपवादपक्षदूषणवार्त्तिकम् - ५) * इङ्मात्रस्येति चेज्जुसिसार्वधातुकार्धधातुकह्रस्वाद्यो र्गुणेष्वनन्त्यप्रतिषेधः *
भाष्यम् - इङ्मात्रस्येति चेज्जुसिसार्वधातुकार्धधातुकह्रस्वाद्योर्गुणेष्वनन्त्यप्रतिषेधो वक्तव्यः । जुसि गुणः, स यथेह भवति - ' अजुहवुः अबिभयुः ' इति । एवम् ' अनेनिजुः - पर्यवेविषुः ' अत्रापि प्राप्नोति । सार्वधातुकार्धधातुकयोर्गुणः, स यथेह भवति - ' कर्ता - हर्ता - नयति - तरति - भवति ' इति । एवम् ' ईहिता - ईहितुम् - ईहितव्यम् ' इत्यत्रापि प्राप्नोति । ह्रस्वस्य गुणः, स यथेह भवति - ' हे अग्ने हे वायो ' इति । एवं ' हे अग्निचित् - हे सोमसुत् ' इत्यत्रापि प्राप्नोति । जसि गुणः, स यथेह भवति ' अग्नयः वायवः ' इति । एवं ' अग्निचितः - सोमसुतः ' इत्यत्रापि प्राप्नोति । ऋतो डिसर्वनामस्थानयोर्गुणः, स यथेह भवति - ' कर्तरि - कर्तारौ - कर्तारः ' इति । एवं ' सुकृति - सुकृतौ सुकृतः ' इत्यत्रापि प्राप्नोति । घेर्डिंति गुणः, स यथेह भवति - ' अग्नये - वायवे ' इति । एवम् ' अग्निचिते - सोमसुते ' इत्यत्रापि प्राप्नोति । ओर्गुणः, स यथेह भवति - ' बाभ्रव्यः माण्डव्यः ' इति । एवं ' सुश्रुत् - सौश्रुतः ' इत्यत्रापि प्राप्नोति । नैष दोषः ।
(७९. सिद्धान्त्येकदेशिवार्त्तिकम् - ६) * पुगन्तलघूपधग्रहणमनन्त्यनियमार्थम् *
भाष्यम् - पुगन्तलघूपधग्रहणमनन्त्यनियमार्थं भविष्यति - पुगन्तलघूपधस्यैवानन्त्यस्य नान्यस्यानन्त्यस्येति ।
नियमदूषणभाष्यम् - प्रकृतस्यैव नियमः स्यात् । किञ्च प्रकृतम् ? सार्वधातुकार्धधातुकयोरिति । तेन भवेदिह नियमान्त्र स्यात ' ईहिता - ईहितुमईहितव्यम् ' इति । ह्रस्वाद्योर्गुणस्त्वनियतः सोऽनन्त्यस्यापि प्राप्नोति ।
नियमान्तरदूषणभाष्यम् - अथाऽप्येवं नियमः स्यात् - पुगन्तलघूपधस्य सार्वधातुकार्धधातुकयोरेवेति । एवमपि सार्वधातुकार्धधातुकयोर्गुणोऽनिंयतः सोऽनन्त्यस्यापि प्राप्नोति - ईहिता - ईहितुम् - ईहितव्यमिति ।
उभयविधनियमदूषणभाष्यम् - अथाप्युभयतो नियमः स्यात् - पुगन्तलघूपधस्थव सार्वधातुकार्धधातुकयोः, सार्वधातुकार्धधातुकयोरेव पुगन्तलघूपधस्येति । एवमप्ययं जुसि गुणोऽनियतः सोऽनन्त्यस्यापि प्राप्नोति - ' अनेनिजुः पर्यवेविषुः ' इति ।
॥ असम्बद्धपरिभाषानिरासाधिकरणम् ॥
भाष्यम् - एवं तर्हि - नायं तच्छेषः, नापि तदपवादः । अन्यदेवेदं परिभाषान्तरमसम्बद्धमनया परिभाषया ।
परिभाषान्तरपक्षसमर्थकभाष्यम् - परिभाषान्तरमिति च मत्वा क्रोष्ट्रीयाः पठन्ति - (क्रोष्ट्रीयवार्त्तिकम्) * नियमादिको गुणवृद्धी भवतो विप्रतिषेधेन *
भाष्यम् - यदि चायं तच्छेषः स्यात्तेनैव तस्यायुक्तो विप्रतिषेधः । अथापि तदपवादः, उत्सर्गापवादयोरप्ययुक्तो विप्रतिषेधः । तत्र नियमस्यावकाशः - ' राज्ञः क च ' राजकीयम् । ' इको गुणवृद्धी ' इत्यस्यावकाशः - ' चयनं चायको लवनं लावकः ' इति । इहोभयं प्राप्नोति - ' मेद्यति - माष्टि ' इति । ' इको गुणवृद्धी ' इत्येतद्भवति विप्रतिषेधेन ।
विप्रतिषेधबाधकभाष्यम् - नैष युक्तो विप्रतिषेधः । ' विप्रतिषेधे परम् ' इत्युच्यते । पूर्वश्वायं योगः, परो नियमः ।
विप्रतिषेधसाधकभाष्यम् - इष्टवाची परशब्दः । विप्रतिषेधे परं यदिष्टं तद्भवतीति ।
विप्रतिषेधबाधकभाष्यम् - एवमप्ययुक्तो विप्रतिषेधः । द्विकार्ययोगो हि विप्रतिषेधः । न चात्रैको द्विकार्ययुक्तः ।
विप्रतिषेधसाधकभाष्यम् - नावश्यं द्विकार्ययोग एवं विप्रतिषेधः । किं तर्हि ? असम्भवोऽपि । स चास्त्यत्रासम्भवः । कोऽसावसम्भवः ? इह तावत् - ' वृक्षेभ्यः - प्लक्षेभ्यः ' इति एकः स्थानी, द्वावादेशौ, न चास्ति सम्भवः - यदेकस्य स्थानिनो द्वावादेशौ स्याताम् । इहेदानीं - ' मेद्यति, मेद्यतः, मेद्यन्ति ' इति द्वौ स्थानिनौ, एक आदेशः, न चास्ति सम्भवः - यत् द्वयोः स्थानिनोरेक आदेशः स्यादित्येषोऽसम्भवः । सत्येतस्मिन्त्रसम्भवे युक्तो विप्रतिषेधः ।
विप्रतिषेधवाधकभाष्यम् - एवमप्ययुक्तो विप्रतिषेधः । द्वयोर्हि सावकाशयोः समवस्थितयोर्विप्रतिषेधो भवति । अनवकाशश्चायं योगः ।
विप्रतिषेधोपपादनस्मरणभाष्यम् - ननु च - इदानीमेवास्यावकाशः प्रक्लप्तः - चयनं चायको लवनं लावक इति ।
विप्रतिषेधबाधकभाष्यम् - अत्रापि नियमः प्राप्नोति । नाप्राप्ते नियमेऽयं योग आरभ्यते । यावता च नाप्राप्ते नियमेऽयं योग आरभ्यते, ततस्तदपवादोऽयं योगो भवति । उत्सर्गापवादयोश्चायुक्तो विप्रतिषेधः । अथापि कथञ्चित् ' इको गुणवृद्धी ' इत्यस्यावकाशः स्यात् । एवमपि यथेह विप्रतिषेधादिको गुणो भवति - मेद्यति - मेद्यतः मेद्यन्ति इति, एवमिहापि स्यात् - अनेनिजुः - पर्यवेविषुरिति ।
॥ सिद्धान्तभूतपदोपस्थितिपक्षनिरूपणम् ॥
सिद्धान्तिभाष्यम् - एवं तर्हि - वृद्धिर्भवति गुणो भवतीति यत्र ब्रूयात् ' इकः ' इत्येत - त्तत्रोपस्थितं द्रष्टव्यम् । किं कृतं भवति ? द्वितीया षष्ठी प्रादुर्भाव्यते । तत्र कामचारः - गृह्यमाणेन वेकं विशेषयितुम्, इका वा गृह्यमाणम् । यावता कामचारः, इह तावन्मिदिमृजिपुगन्तलघूपधच्छिदृशिक्षिप्रक्षुद्रेषु गृह्यमाणेनेकं विशेषयिष्यामः - एतेषां य इगिति । इहेदानीं जुसिसार्वधातुकार्धधातुकह्रस्वाद्योर्गुणेष्विका गृह्यमाणं विशेषयिष्यामः - एतेषां गुणो भवति ' इकः ' इगन्तानामिति ।
तच्छेषपक्षोक्तदूषणनिराकरणभाष्यम् - अथवा सर्वत्रैवात्र स्थानी निर्दिश्यते । इह तावन्मिदेरित्यविभक्तिको निर्देशः - मिद् एः मिदेः, मिदेरिति । अथवा षष्ठीसमासो भविष्यति - मिद इः मिदिः, मिदेरिति । पुगन्तलघूपधस्येति नैवं विज्ञायते - पुगन्ताङ्गस्य लघूपघस्य चेति । कथं तर्हि ? पुकि अन्तः पुगन्तः, लघ्वी उपधा लघूपधा, पुगन्तश्च लघूपधा च पुगन्तलघूपधम्, पुगन्तलघूपधस्येति । अवश्यं चैतदेवं विज्ञेयम्, अङ्गविशेषणे हि सतीह प्रसज्येत - भिनत्ति - छिनत्तीति । ऋच्छेरपि प्रश्लिष्टनिर्देशोऽयम् - ऋच्छति ऋ ऋ ऋताम् ' ऋच्छत्यॄताम् ' इति । दृशेरपि योगविभागः करिष्यते - ' उरङि गुणः ' उः अङि गुणो भवति । ततो ' दृशेः ' दृशेश्चाङि गुणो भवति । उरित्येव । क्षिप्रक्षुद्रयोरपि ' यणादिपरं गुणः ' इतीयता सिद्धम् । सोऽयमेवं सिद्धे सति यत्पूर्वग्रहणं करोति तस्यैतत् प्रयोजनम् - इको यथा स्यादनिको मा भूदिति ।
॥ वृद्धिपदप्रयोजनाधिकरणम् ॥
आक्षेपभाष्यम् - अथ वृद्धिग्रहणं किमर्थम् ?
प्रत्याक्षेपभाष्यम् - किं विशेषेण वृद्धिग्रहणं चोद्यते, न पुनर्गुणग्रहणमपि । यदि किञ्चिदृणग्रहणस्य प्रयोजनमस्ति, वृद्धिग्रहणस्यापि तद्भवितुमर्हति । को वा विशेषः ?
प्रत्याक्षेपसमाधानभाष्यम् - अयमस्ति विशेषः - गुणविधौ न क्वचित्स्थानी निर्दिश्यते, तत्रावश्यं स्थानिनिर्देशार्थ गुणग्रहणं कर्तव्यम् । वृद्धिविधौ पुनः सर्वत्रैव स्थानी निर्दिश्यते - ' अचो ञ्णिति ' ' अत उपधायाः ' ' तद्धितेष्वचामादेः ' इति ।
समाधानभाष्यम् - अत उत्तरं पठति -
(८०. सिद्धान्तिसमाधानवार्तिकप्रथमखण्डम् - १) * वृद्धिग्रहणमुत्तरार्थम् *
भाष्यम् - वृद्धिग्रहणं क्रियते । किमर्थम् ? उत्तरार्थम् । ' क्ङिति ' इति प्रतिषेधं वक्ष्यति, स वृद्धेरपि यथा स्यात् ।
पूर्वपक्षिण आक्षेपभाष्यम् - कश्चेदानीं क्ङित्प्रत्ययेषु वृद्धेः प्रसङ्गः । यावता ' ञ्णिति ' इत्युच्यते ?
वृद्धिग्रहणप्रयोजनभाष्यम् - ' तच्च मृज्यर्थम् ' । मृजेर्वृद्धिरविशेषेणोच्यते । सा क्ङिति मा भूत् - मृष्टः मृष्टवानिति ।
प्रयोजनभाष्यम् - ' इहार्थं चापि ' । मृज्यर्थं वृद्धिग्रहणं कर्तव्यम् । मृजेर्वृद्धिरविशेषेणोच्यते । सेको यथा स्यात्, अनिको मा भूदिति ।
(प्रयोजननिरसनवार्त्तिकम्) * मृज्यर्थमिति चेद्योगविभागात्सिद्धम् *
भाष्यम् - मृज्यर्थमिति चेद्योगविभागः करिष्यते - ' मृजेर्वृद्धिरचः ' । ततः - ' ञ्णिति ' ञिति णिति च वृद्धिर्भवति ' अचः ' इत्येव ।
आक्षेपभाष्यम् - यद्यचो वृद्धिरुच्यते, ' न्यमार्ट ' अटोऽपि वृद्धिः प्राप्नोति ।
एकदेशिनः समाधानभाष्यम् - ' अटि चोक्तम् ' । किमुक्तम् ? ' अनन्त्यविकारेऽन्त्यसदेशस्य कार्य भवति ' इति ।
(८१. सिद्धान्तवार्त्तिकम् - २) * वृद्धिप्रतिषेधानुपपत्तिस्त्विक्प्रकरणात् *
भाष्यम् - वृद्धेस्तु प्रतिषेधो नोपपद्यते । किं कारणम् ? इक्प्रकरणात् । इग्लक्षणयोर्गुणवृद्धयोः प्रतिषेधः । न चैवं सति मृजेरिग्लक्षणा वृद्धिर्भवति । तस्मान्मृजेरिग्लक्षणा वृद्धिरेषितव्या ।
इक्परिभाषानुपस्थितिसूचकभाष्यम् - एवं तर्हि - इहान्ये वैयाकरणा मृजेरजादौ संक्रमे विभाषा वृद्धिमारभन्ते - परिमृजन्ति, परिमार्जन्ति, परिमृजतु, परिमार्जतु इत्याद्यर्थम् । तदिहापि साध्यम् । तस्मिन् साध्ये योगविभागः करिष्यते - ' मृजेर्वृद्धिरचः ' भवति । ततः - ' अचि क्ङिति ' अजादौ च क्ङिति मृजेर्वृद्धिर्भवति । परिमार्जन्ति - परिमार्जन्तु । किमर्थमिदम् ? नियमार्थम् - अजादावेव क्ङिति, नान्यत्र । क्वान्यत्र मा भूत् ? मृष्टः, मृष्टवानिति । ततो ' वा ' वाचि क्ङिति मृजेर्वृद्धिर्भवति । परिमृजन्ति, परिमार्जन्ति, परिममृजतुः, परिममार्जतुरिति ।
प्रयोजनान्तरसूचकभाष्यम् - इहार्थमेव तर्हि सिजर्थं वृद्धिग्रहणं कर्तव्यम् । सिचि वृद्धिरविशेषेणोच्यते, सेको यथा स्यात्, अनिको मा भूदिति ।
प्रयोजनाक्षेपभाष्यम् - कस्य पुनरनिकः प्राप्नोति ?
समाधानभाष्यम् - अकारस्य । अचिकीर्षीत्, अजिहीर्षीत् ।
प्रत्याक्षेपभाष्यम् - नैतदस्ति । लोपोऽत्र बाधको भविष्यति ।
प्रयोजनभाष्यम् - आकारस्य तर्हि प्राप्नोति - अयासीत्, अवासीत् ।
प्रयोजनाक्षेपभाष्यम् - नास्त्यत्र विशेषः, सत्यां वृद्धावसत्यां वा ।
समाधानभाष्यम् - सन्ध्यक्षरस्य तर्हि प्राप्नोति । नैव सन्ध्यक्षरमन्त्यमस्ति ।
उदाहरणभाष्यम् - ननु चेदमस्ति - ढलोपे कृते उदवोढाम्, उदवोढम्, उदवोढेति । नैतदस्ति । असिद्धो ढलोपः, तस्यासिद्धत्वान्नैतदन्त्यं भवति ।
उदाहरणभाष्यम् - व्यञ्जनस्य तर्हि प्राप्नोति - अभैत्सीत् - अच्छेैत्सीत् । हलन्तलक्षणा वृद्धिर्बाधिका भविष्यति ।
उदाहरणभाष्यम् - यत्र तर्हि सा प्रतिषिध्यते - ' नेटि ' इति । अकोषीत् - अमोषीत् ।
उदाहरणाक्षेपभाष्यम् - सिचिवृद्धेरप्येष प्रतिषेधः । कथम् ? लक्षणं हि नाम ध्वनति भ्रमति मुहूर्तमपि नावतिष्ठते ।
आक्षेपे प्रकारविशेषभाष्यम् - अथवा ' सिचि वृद्धिः परस्मैपदेषु ' इति सिचि वृद्धिः प्राप्नोति । तस्या हलन्तलक्षणा वृद्धिर्बाधिका । तस्या अपि ' नेटि ' इति प्रतिषेधः ।
दृष्टान्ताक्षेपभाष्यम् - अस्ति पुनः क्वचिदन्यत्रापि अपवादे प्रतिषिद्धे उत्सर्गोऽपि न भवति ?
इक्परिभाषानुपस्थितिभाष्यम् - अस्तीत्याह, सुजति॒ अश्व॑सूनुते, अध्व॑र्यो अद्रिभिः सुतम्, शुक्रं तें अन्यदिति पूर्वरूपत्वे प्रतिषिद्धेऽयादयोऽपि न भवन्ति ।
सिद्धान्तिनः प्रयोजनभाष्यम् - उत्तरार्थमेव तर्हि सिजर्थं वृद्धिग्रहणं कर्तव्यम् । सिचि वृद्धिरविशेषेणोच्यते, सा क्ङिति मा भूत् - न्यनुवीत्, न्यधुवीत् ।
प्रयोजननिरासभाष्यम् - नैतदस्ति प्रयोजनम् । अन्तरङ्गत्वादत्रोवङादेशे कृतेऽनन्त्यत्वादृद्धिर्न भविष्यति ।
सिद्धान्तिभाष्यम् - यदि तर्हि सिच्यन्तरङ्ग भवति - अकार्षीत् - अहार्षीत्, गुणे कृते रपरत्वे चानन्त्यत्वाद्वृद्धिर्न प्राप्नोति ।
पूर्वप्येकदेशिनो भाष्यम् - मा भूदेवम् । ' हलन्तस्य - ' इत्येवं भविष्यति ।
सिद्धान्त्येकदेशिनः दूषणभाष्यम् - इह तर्हि - न्यस्तारीत् - न्यदारीत् । गुणे कृते रपरत्वे चानन्त्यत्वाद्वृद्धिर्न प्राप्नोति । हलन्तक्षणायाश्च ' नेटि ' इति प्रतिषेधः ।
पूर्वपक्ष्येकदेशिनः समाधानभाष्यम् - मा भूदेवम् । ' ल्रान्तस्य ' इत्येवं भविष्यति ।
सिद्धान्त्येकदेशिन आक्षेपभाष्यम् - इह तर्हि अलावीत् - अयावीत् । गुणे कृतेऽवादेशे चानन्त्यत्वादृद्धिर्न प्राप्नोति । हलन्तलक्षणायाश्च ' नेटि ' इति प्रतिषेधः ।
पूर्वपक्ष्येकदेशिनः समाधानभाष्यम् - मा भूदेवम् । ' ल्रान्तस्य ' इत्येवं भविष्यति ।
सिद्धान्त्येकदेशिन आक्षेपभाष्यम् - ' ल्रान्तस्य ' इत्युच्यते, न चेदं ल्रान्तम् ।
पूर्वपक्ष्येकदेशिनः समाधानभाष्यम् - ' ल्रान्तस्य ' इत्यत्र वकारोऽपि निर्दिश्यते ।
सिद्धान्त्येकदेशिन आक्षेपभाष्यम् - किं वकारो न श्रूयते ?
पूर्वपक्ष्येकदेशिनः समाधानभाष्यम् - लुप्तनिर्दिष्टो वकारः ।
सिद्धान्त्येकदेशिनो दूषणभाष्यम् - यद्येवम् मा भवानवीत्, मा भवान् मवीत् - अत्रापि प्राप्नोति ।
पूर्वपक्ष्येकदेशिनः समाधानभाष्यम् - अविमव्योर्नेति वक्ष्यामि ।
सिद्धान्त्येकदेशिन आक्षेपभाष्यम् - तद्वक्तव्यम् ।
पूर्वपक्ष्येकदेशिनः समाधानभाष्यम् - न वक्तव्यम् । ' णिश्विभ्यां तौ निमातव्यौ ' । यद्यप्येतदुच्यते, अथवैतर्हि णिश्वयोः प्रतिषेधो न वक्तव्यो भवति । गुणे कृतेऽयादेशे च यान्तानां नेत्येव प्रतिषेधो भविष्यति ।
सिद्धान्त्येकदेशिन पूर्वोक्तदोषवारणाय ज्ञापकभाष्यम् - एवं तह्मचार्यप्रवृत्तिर्ज्ञाप - यति - न सिच्यन्तरङ्ग भवति इति । यदयम् ' अतो हलादेर्लघोः ' इत्यकारग्रहणं करोति । कथं कृत्वा ज्ञापकम् ? अकारग्रहणस्यैतत्प्रयोजनम् । इह मा भूत् - अकोषीत् - अमोषीत् । यदि सिच्यन्तरङ्गं स्यात्, अकारग्रहणमनर्थकं स्यात् । गुणे कृतेऽलघुत्वादृद्धिर्न भविष्यति । पश्यति त्वाचार्यः ' न सिच्यन्तरङ्ग भवति ' इति । ततोऽकारग्रहणं करोति ।
पूर्वपक्ष्येकदेशिन आक्षेपभाष्यम् - नैतदस्ति ज्ञापकम् । अस्त्यन्यदेतस्य वचने प्रयोजनम् । किम् ? यत्र गुणः प्रतिषिद्धयते तदर्थमेतत्स्यात् । न्यकुटीत् - न्यपुटीत् इति ।
सिद्धान्त्येकदेशिनः समाधानभाष्यम् - यत्तर्हि णिश्योः प्रतिषेधं शास्ति, तेन ' नेहान्त - रङ्गमस्ति ' इति दर्शयति । पूर्वोक्तज्ञापकस्थिरीकरणभाष्यम् - यच्च करोत्यकारस्य ग्रहणं लघोरिति कृतेऽपि ।
(८२. सिद्धान्तिन उपसंहारवार्तिकम् - ३) * तस्मादिग्लक्षणा वृद्धिः *
भाष्यम् - तस्मादिग्लक्षणा वृद्धिरास्थेया ।
॥ स्वतन्त्रविधित्वनिराकरणाधिकरणम् ॥
(८३. आक्षेपवार्तिकम् - १) * षष्ठ्याः स्थानेयोगत्वादिनिवृत्तिः *
भाष्यम् - षष्ठ्याः स्थानेयोगत्वात्सर्वेषामिकां निवृत्तिः प्राप्नोति । अस्यापि प्राप्नोति - दधि, मधु ।
अस्य स्वतन्त्रत्वे दूषणभाष्यम् - पुनर्वचनमिदानीं किमर्थं स्यात् ?
(८४. स्वतन्त्रत्वे दूषणसमाधानवार्तिकम् - २) * अन्यतरार्थं पुनर्वचनम् *
भाष्यम् - अन्यतरार्थमेतत्स्यात् - सार्वधातुकार्धधातुकयोर्गुण एवेति ।
(८५. समानन्यायेनेतरत्राक्षेपवार्तिकम् - ३) * प्रसारणे च *
भाष्यम् - प्रसारणे च सर्वेषां यणां निवृत्तिः प्राप्नोति । अस्यापि प्राप्नोति - याता, वाता ।
स्वातन्त्र्ये दूषणभाष्यम् - पुनर्वचनमिदानीं किमर्थं स्यात् ?
(८६. स्वातन्त्र्ये दूषणनिराकरणवार्तिकम् - ४) * विषयार्थं पुनर्वचनम् *
भाष्यम् - विषयार्थमेतत्स्यात् - वचिस्वपियजादीनां कित्येवेति ।
(८७. समानन्यायेनाक्षेपवार्त्तिकम् - ५) * उरण रपरे च *
भाष्यम् - उरण रपरे च सर्वेषामृकाराणां निवृत्तिः प्राप्नोति । अस्यापि प्राप्नोति - कर्तृ, हर्तृ ।
(८८. सर्वाक्षेपनिराकरणसिद्धान्तवार्त्तिकम् - ६) * सिद्धं तु षष्ठ्यधिकारे वचनात् *
भाष्यम् - सिद्धमेतत् । कथम् ? षष्ठ्यधिकरो इमे योगाः कर्तव्याः । एकस्तावत् क्रियते तत्रैव । इमावपि योगौ षष्ठ्यधिकारमनुवर्तिष्येते ।
लौकिकाधिकारसम्पादकं भाष्यम् - अथवा षष्ठ्यधिकारे इमौ योगावपेक्षिष्यामहे ।
समाधानान्तरभाष्यम् - अथवा इदं तावदयं प्रष्टव्यः - सार्वधातुकार्धधातुकयोर्गुणो भवति इति । इह कस्मान्न भवति - याता, वाता ? इदं तत्रापेक्षिष्यते - ' इको गुणवृद्धी ' इति । यथैव तर्हि इदं तत्रापेक्ष्यते, एवमिहापि तदपेक्षिष्यामहे ' सार्वधातुकार्धधातुकयोः - इको गुणवृद्धी ' इति ॥ ३ ॥
इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य प्रथमे पादे तृतीयमाह्निकम्प्रथमेऽध्याये प्रथमे पादे चतुर्थमाह्निक
/vyakaranam/sutraani/1/1/3

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know