जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

MK PANDEY PRESIDNT OF GVB

MK PANDEY PRESIDNT OF GVB

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

१.१.२ सूत्राणि:॥ अदेङ् गुणः ॥ ॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥




१.१.२

सूत्राणि:॥ अदेङ् गुणः ॥

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - अदेङ् १।१ गुण: १।१

समासः - अत् च एङ् च एतयोः समाहारः - अदेङ् (समाहारद्वन्द्वः) । तः परो यस्मात् स तपरः, तादपि परस्तपरः (बहुव्रीहि:) ।

अर्थः - तपराणाम् अकार-एकार-ओकाराणां गुणसंज्ञा भवति । 

उदाहरणम् - (अकार:) कर्ता । हर्ता । (एकार:) जेता । नेता । (ओकार:) होता । पोता ।

आर्यभाषार्थ - (अदेङ्) अ + त् + एङ् अर्थात् तपर अकार, एकार और ओकार की (गुण:) गुण संज्ञा होती हैं ।

उदाहरणम् - (अकार) कर्ता । करनेवाला । हर्ता । हरनेवाला । (एकार) जेता । जीतनेवाला । नेता । ले जानेवाला । (ओकार) होता । हवन करनेवाला । पोता । पवित्र करनेवाला ।

सिद्धिः - (१) कर्त्ता । कृ + तृच् । कर + तृ । कर्तृ + सु । कर्तृ अनङ् + स् । कर्तन् + त् । कर्तान् + स् । कर्तान् + ० = कर्ता । यहां डुकृञ् करणे (तनादि.उ.) धातु से 'वुल्तृचौ' (३.४१.१३३) से तृच् प्रत्यय करने पर 'सर्वधातुकार्धधातुकयो:' (७.३.८४) से 'कृ' के ऋको 'अ' गुण होता है और वह 'उरण् रपरः' (१.१.५१) से रपर हो जाता है - अर् । यहां 'ऋदुशनस्..' (७.१.९४) से कर्तृ के ऋ को अनङ् आदेश, सर्वनामस्थाने चासम्बुद्धौ (६.४.८) से नकारान्त की उपधा को दीर्घ 'हल्डयाब्भ्यो दीर्घात्..' (६.१.६८) से सु का लोप और 'नलोपः प्रातिपदिकान्तस्य (८.२.७) से न का लोप होता है । कर्ता । करनेवाला । इसी प्रकार हृञ् हरणे (भ्वा.उ.) धातु से हर्ता' शब्द सिद्ध होता है ।

(२) जेता । जि + तृच् । जे + तृ । जेतृ + सु । जेत अनङ् + सु । जेतन् + स् । जेतान् + स् । जेतान् + ०। जेता । यहां जि जये (भ्वा.उ.) धातु से पूर्ववत् तृच् प्रत्यय और 'सार्वधातुकार्धधातुकयो:' से जि' के 'इ' को ए गुण होता है । शेष कार्य पूर्ववत् है । इसी प्रकार 'णी' प्रापणे' (भ्वा.उ.) धातु से 'नेता' शब्द सिद्ध होता है ।

(३) होता । हु + तृच् । हो + तृ । होतृ + सु । होत् अनङ् + स् । होतन् + स् । होतान् + ० = होता । यहां 'हु दानादनयोरादाने चेत्येकें' (अदा.प.) धातु से पूर्ववत् तृथ् प्रत्यय करने पर सार्वधातुकार्धधातुकयोः' (७.३.८४) से हु के 'उ' को 'ओ' गुण होता है । शेष कार्य पूर्ववत् हैं । इसी प्रकार पुत्र पवने (क्रया०उ०) धातु से 'पोता' शब्द सिद्ध होता है । 

विशेष - अदेङ् पद में अ और एङ् के मध्य में त् लगाया गया है । अतः पूर्वोक्त विधि से अ और एड दोनों तपर हैं । ये तपर होने से 'तपरस्तत्कालस्य' (१.१.७०) से तत्काल का ग्रहण करते हैं । अतः यहां उदात्त, अनुदात्त, स्वरित तथा निरनुनासिक और सानुनासिक भेद से छः प्रकार के अकार, एकार और ओकार की गुण संज्ञा होती है । 

॥ काशिका ॥

‘गुण’ शब्दः संज्ञात्वेन विधीयते प्रत्येकमदेडां वर्णानां सामान्येन तद्भावितानाम्, अतद्भावितानां च । तपरकरणं त्विह सर्वार्थम् । तरिता । चेता । स्तोता । पचन्ति । जयन्ति । अहं पचे । गुणप्रदेशाः - “मिदेर्गुणः” (७.३.८२/२३४६) इत्येवमादयः ॥

॥ न्यासः ॥

‘तपरकरणं त्विह सर्वार्थम्’ इति । सर्वस्मिन्नर्थः प्रयोजनं यस्य तत् तथोक्तम् । तुशब्दः पूर्वस्माद्विशेषं दर्शय - तत्र हौजर्थमेव, इह तु सर्वार्थम्, अकारार्थमेडर्थमपि । असति हि तपरकरणं अदेडामणत्वात् सवर्णानां ग्रहणं सति भिन्नकालानामप्येषा सञ्ज्ञा स्यात् । ततश्च ‘तरिता’ इत्यत्रान्तरत्मयाद्दीर्घस्य दीर्घ एव गुणस्यात् । ननु च वृद्धिसञ्ज्ञा गुणसञ्ज्ञाया बाधिका भविष्यति, तत् कुतोऽयं प्रसङ्गः ? नैतदस्ति । एकसञ्ज्ञाधिकारे हि सञ्ज्ञया सञ्ज्ञान्तरं बाध्यते, न चात्रेकसञ्ज्ञाधि-कारः । स्यादेतत्, असत्यप्येकसञ्ज्ञाधिकारे यथा ‘जीवति तु वंश्ये युवा’ (४.१.१६३) इति गोत्रसञ्ज्ञा युवसञ्ज्ञया बाध्यते, यथा च ‘लिट् च’ (३.४.११५), ‘लिङाशिषि (३.४.११६) इति चार्धधातुकसञ्ज्ञया सार्वधातुकसंज्ञा बाध्यते, तथा गुणसंज्ञा वृद्धिसञ्ज्ञया बाधिष्यते इति ? अयुक्तमेतत । युवसञ्ज्ञाविधौ तुग्रहणं नियमार्थं क्रियते । ततो युक्तं यद्युवसञ्ज्ञया गोत्रसञ्ज्ञा बाध्यत इति । आर्धधातुकसञ्ज्ञाऽपि यत् सार्वधातुकसञ्ज्ञा बाध्यते तदपि युक्तमेव, ‘छन्दस्युभयथा’ (३.४.११७)ति वचनात् । यदि सार्वधातुकार्धधातुकसञ्ज्ञयो: समावेशः स्यात्, न बाध्यबाधकभावः, तदा ‘छन्दस्युभयथा’ (३.४.११७) इति वचनमपार्थकं स्यात् । इह तु न किञ्चित् तथाविधं निबन्धनमस्ति, यतो वृद्धिसञ्ज्ञया गुणसञ्ज्ञा बाध्यते । अथापि कथञ्चिद्बाध्येत, एवमपि त्रिमात्रिकस्यापि गुणसञ्ज्ञा स्यादेव । न हि सा तया शक्या बाधितुम्, तस्य अतद्विषयत्वात् । त्रिमात्रस्यापि गुणसञ्ज्ञायां सत्यां त्रिमात्रोऽपि गुणः प्रसज्यते । ऋकारस्य हि कालतो यथैकमत्रिकोऽकारोऽन्तरतमो न सम्भवति, तथा त्रिमात्रोऽपि तत् कुत एतल्लभ्यते ? ह्रस्वेनैवास्य गुणेन भवितव्यम् न हि त्रिमात्रेणाकारेण - किञ्च, यदि भिन्नकालानामपि गुणसञ्ज्ञा स्यात्, ‘खट्वा इन्द्रः = खट्वेन्द्रः खट्वा उर्वी खट्वोर्वी’ इत्यत्र त्रिमात्रत्वात् पूर्वोत्तरसमुदायात्मनः स्थानिनः ‘आद्गुणः’ (६.१.८७) इति त्रिमात्रो गुणः स्यात् । ‘खट्वा ईषा = खट्वेषा, खट्वा उढा - खट्वोढा’ इत्यत्र चतुर्मात्रित्वात् चतुर्मात्रः । तस्मात् सर्वार्थं तपरकरणं कर्तव्यम् । ‘तरिता’ इत्यादि । ‘तृ तप्लवनतरणयोः’ (धा.पा.९६९), ‘चिञ् चयने’ (धा.पा.१२५१), ‘ष्टुञ् स्तुतौ’ (धा.पा.१०४३), एभ्यः ‘ण्लुल्तृचौ (३.१.१३३) इति तृच् । ‘आर्धधातुकस्येड् वलादे: (७.२.३५) इतीट्, ‘सार्वधातुकार्धधातुकयोः’ (७.३.८४) इति गुणः, सु, ‘ऋदुशनस्’ (७.१.९४) इत्यादिना अनङ, ‘सर्वनामस्थाने च’ (६.४.८) इति दीर्घः । एतानि त्रीणि यथाक्रमदेङां तद्भावितानामुदाहरणानि । ‘पठन्ति, पठन्’ इत्यकारस्यात्द्द्भावितस्योदाहरणे । अत्रान्त्याकारस्य गुणसञ्ज्ञायां ‘अतो गुणे’ (६.१.९७) पररूपत्वं भव - पठन्निति शत्रन्तमेतत् । एकास्यातद्भावितस्यकार्योदाहरणम् - ‘अहं पचे’ इत्यादि । ओकारस्यातद्भावितस् तन्न सम्भवतीति न प्रदर्श्यते । 

॥ पदपञ्जरी ॥

पूर्वेण तुल्यमेतत् । तपरकरणं त्विह सर्वार्थमिति । न तु पूर्ववदन्यतरार्थमिति तु शब्दस्यार्थः । असति हि तस्मिन् दीर्घप्लुतयोरपि गुणसंज्ञा स्यात्; ततश्च तरतीति कदाचिदकारः स्यात्, कदाचिदाकारः, रपरत्वे कृत एकस्याध्यर्धमात्रत्वादपरस्यार्धतृतीयमात्रत्वात् । न चाकारस्य वृद्धिसंज्ञा बाधिका; एकसंज्ञाधिकारादन्यत्र संज्ञासमावेशात् । एडश्च त्रिमात्रचतुर्मात्रस्य गुणसंज्ञायाम् - रथेषा, खट्वेषा, अश्वोढः, वडवोढ इति त्रिमात्रतुर्मात्रौ स्याताम् । तरितेत्यादीनि तद्भावितानामदेङां क्रमेण रूपोदाहरणानि । पचन्ति जयन्तीत्यकारस्य कार्योदाहरणे । अत्रान्त्यकारे परतः शबकारस्य “अतो गुणे” इति पररूपं भवति । एकारस्यातद्भावितस्योदाहरणम् - “अहं पचे” इति । ओकारस्य तु न संभवति ॥ 

॥ शब्दकौस्तुभः ॥

अदेङां गुणसंज्ञा स्यात् । तपरकरणमिह सर्वार्थम् । तेन ‘तरति’ इत्यत्राकार एव न तु कदाचिदाकारः । न च प्रमाणत आन्तर्येण नियमसिद्धिः, रपरत्वे कृते एकस्याध्यर्द्धमात्रत्वादपरस्यार्द्धतृतीयमात्रत्वात् । ‘पचन्ति’ ‘चेता’ ‘स्तोता’ ॥

॥ व्याकरणसिद्धान्तसुधानिधिः ॥

अकार एकार ओकारश्चाविशेषेण गुणसंज्ञः स्यात् । प्रदेशाविधौ आद्गुणः इत्यादयः । अनुवादे अतो गुणे इत्यादयः । अन्यत् पूर्ववदूह्यम् ॥

॥ सिद्धान्तकौमुदी ॥

अदेङ् च गुणसंज्ञः स्यात् ॥

॥ बालमनोरमा ॥

अदेङ्गुणः । संज्ञाप्रस्तावात्संज्ञेति लभ्यते । अच्च एङ्‌ चेति समाहारद्वन्द्वः । तदाह - अदेङ् चेत्यादिना ॥

॥ तत्त्वबोधिनी ॥

अदेङ्गुणः । तपरकरणमिह सर्वार्थम् । तेन 'गङ्गोदक' मित्यत्र त्रिमात्रो न । 'तरती' त्यत्र त्वकार एव, नतु कदाचिदाकारः । नच प्रमाणत आन्तर्येण नियमसिद्धिः, रपरत्वे कृते एकस्याध्यर्धमात्रत्वादपरस्यार्धतृतीयमात्रत्वात् । गुणप्रदेशास्तु - 'आद्गुणः' 'अतो गुणे' इत्यादयः ।

॥ बृहच्छब्देन्दुशेखरः ॥

कौमुदीमूलम् - अदेङ् च गुणसंज्ञः स्यात् ॥

॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥

अत्र सूत्रे तु यथैव एङर्थं तपरकरणम्, तथैव अकारार्थमपि । तेन ह्रस्वैवाकारस्य दीर्घयोरेव एकारौकारयोर्गुणसञ्ज्ञा । तथा च ‘तरति’ इत्यादिषु स्थानिनो दीर्घत्वेऽपि ह्रस्वाकाररूप एव गुणः । न आकारो गुणसञ्ज्ञकत्वाभावात् । न च तपरत्वाभावेऽपि वृद्धिसञ्ज्ञया गुणसञ्ज्ञाया निरवकाशत्वाद् बाधादाकारो न स्यादिति वाच्यम्, आकडारादन्यत्र सञ्ज्ञासु बाध्यबाधकभावाभावात् । अत एव ‘राजभ्याम्’ इत्यादौ प्रातिपदिकपदाङ्गसञ्ज्ञादीनां समावेशः सिध्यति । तात्परत्वादेङामपि दीर्घाणामेव गुणसञ्ज्ञा । अत एव ‘रथेशः’ ‘रमेशः’ ‘गङ्गोदकम्’ ‘रम्भोरुः’ इत्यादौ त्रिमात्रचतुर्मात्रा एङ आदेशा न । अन्ये सर्वेऽपि विषयास्त एवात्रापि विवेचनीयास्सन्ति, ये “वृद्धिरादैच्” इत्यत्र विवेचिताः । वृत्तौ - ‘अ ए ओ’ इत्येषां वर्णानां गुणसञ्ज्ञा भवति इति सामान्यतया वृत्तिर्लिखिता । परं काशिकाकृता - वृद्धिरादैच् इत्यत्र प्रदर्शितं सर्वमपि भाष्यार्थं सङ्गृह्य वृत्तिर्लिखिता । सा चेत्थम् - ‘गुण शब्दः सञ्ज्ञात्वेन विधीयते प्रत्येकमदेङां वर्णानां सामान्येन तद्भावितानाम्, अतद्भावितानां च । तपरकरणं त्विह सर्वार्थम् । तरिता, चेता, स्तोता, पचन्ति, जयन्ति, अहं पचे । गुणप्रदेशाः - “मिदेर्गुणः” इत्येवमादयः’ ।

तद्भावितातद्भावितगुणसञ्ज्ञाप्रदेशाः -

                             1. आद्गुणः - ( 6.1.87 )

                                    अवर्णादचि परे पूर्वपरयोरेको गुणादेशः स्यात् संहितायाम् । उदाहरणम् - रमेशः, गङ्गोदकम्, कृष्णर्द्धिः । 

                             2. अतो गुणे - ( 6.1.97 )

                                    अपदान्तादकाराद्गुणे परतः पररूपमेकादेशः स्यात् । उदाहरणम् - भवन्ति, एधे ।

               3. न शसददवादिगुणानाम् - ( 6.4.126 )

                                    शसेर्ददेर्वकारादीनां गुणशब्देन भावितस्य च योऽकारस्तस्यैत्वाभ्यासलोपौ न । उदाहरणम् - विशशसतुः, विशशरतुः, ववमतुः, दददे । 

                             4. ओर्गुणः - ( 6.4.146 )

                                    उवर्णान्तस्य भस्य गुणः तद्धिते । उदाहरणम् - वाहूबाहवि, बाभ्रव्यः । 

                             5. स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः - ( 6.4.156 )

                                    एषां यणादिपरं लुप्यते, पूर्वस्य च गुणः इष्ठादिषु । उदाहरणम् - स्थविष्ठः, दविष्ठः, यविष्ठः. ह्रसिष्ठः. क्षेपिष्ठः, ह्रसिमा, क्षेपिमा । 

                             6. मिदेर्गुणः - ( 7.3.82 )

          मिदेरिको गुणः स्यादित्सञ्ज्ञकशकारादौ । उदाहरणम् - मेद्यते ।

                             7. जुसि च - ( 7.3.83 )

                   अजादौ जुसीगन्ताङ्गस्य गुणः स्यात् । उदाहरणम् - अबिभयुः, अजुहवुः, अबिभरुः । 

                8. सार्वधातुकार्धधातुकयोः - ( 7.3.84 )

            अनयोः परयोरिगन्ताङ्गस्य गुणः स्यात् । उदाहरणम् - नयति, भवति, तरति । 


                9. जाग्रोऽविचिण्णल्ङित्सु - ( 7.3.85 )

                                    जागर्तेर्गुणः स्याद् विचिण्णल्ङिद्भ्योऽन्यस्मिन् वृद्धिवषये प्रतिषेधविषये च । उदाहरणम् - जागरयति, जागरकः, जागरितः । 

                 10. पुगन्तलघूपधस्य च - ( 7.3.86 )

                                    पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः स्यात् सार्वधातुकार्धधातुकयोः । उदाहरणम् - व्लेपयति, रेपयति, क्नोपयति, भेदनम् ।

                             11. नाभ्यस्तस्याचि पिति सार्वधातुके - ( 7.3.87 )

                                    अभ्यस्तस्य लघूपधस्य गुणो न, अजादौ पिति सार्वधातुके । उदाहरणम् - नेनिजानि, वेविजानि, अनेनिजम्, अवेविजम् ।

                             12. भूसुवोस्तिङि - ( 7.3.88 )

                                    भू सू एतयोः सार्वधातुके तिङि परे गुणो न । उदाहरणम् - अभूत्, अभूः, अभूवम्, सुवै, सुवावहै, सुवामहै ।

                             13. गुणोऽपृक्ते - ( 7.3.91 )

                                    ऊर्णोतेर्गुणः स्यादपृक्ते हलादौ पिति सार्वधातुके । उदाहरणम् - और्णोत्, और्णोः, 

                             14. ह्रस्वस्य गुणः - ( 7.3.108 )

   ह्रस्वस्य गुणः स्यात् सम्बुद्धौ । उदाहरणम् - हे हरे !, हे गुरो !, हे मते ! ।

                             15. जसि च - ( 7.3.109 )

  ह्रस्वान्तस्याङ्गस्य गुणः स्याज्जसि परे । उदाहरणम् - हरयः, गुरवः मतयः । 

    16. ऋतो ङि सर्वनामस्थानयोः - ( 7.3.110 )

                                    ङौ सर्वनामस्थाने च परे ऋदन्ताङ्गस्य गुणः स्यात् । उदाहरणम् - ङौ - धातरि, सर्वनामस्थाने - धाता, हे धातः !, धातारौ, धातरः ।

                             17. घेर्ङिति - ( 7.3.111 )

                                    घिसञ्ज्ञकस्य ङिति सुपि गुणः स्यात् । उदाहरणम् - हरये, गुरवे, । हरेः, गुरोः ।


                  18. ऋतश्च संयोगादेर्गुणः - ( 7.4.10 )

                                    ऋदन्तस्य संयोगादेरङ्गस्य गुणः स्याल्लिटि । उदाहरणम् - जह्वरतुः, जह्वरुः, सस्मरतुः, । 

                              19. ऋच्छत्यॄताम् - ( 7.4.11 )

                                    तौदादिकस्य ऋच्छतेः ऋधातोः ॠतां च गुणः स्याल्लिटि । उदाहरणम् - आनर्च्छ, आनर्च्छतुः, आरतुः, निचकरतुः ।

                     20. ऋदृशोऽङि गुणः - ( 7.4.16 )

                                    ऋवर्णान्तानां दृशेश्च गुणः स्यादङि । उदाहरणम् - जरा, अदर्शत् ।

                             21. शीङः सार्वधातुके गुणः - ( 7.4.21 )

                                    शीङ्धातोः गुणः स्यात् सार्वधातुके परे । उदाहरणम् - शेते, शयाते, शेरते । 

                             22. गुणोऽर्तिसंयोगाद्योः - ( 7.4.29 )

                                    अर्तेः संयोगादेर्ऋदन्तस्य च गुणः स्याद् यकि यादावार्धधातुके लिङि च । उदाहरणम् - अर्यते, अर्यात्, स्मर्यते, स्मर्यात् ।

                             23. यङि च - ( 7.4.30 )

                                    अर्तेः संयोगादेश्च ऋतो गुणः स्याद् यङि । उदाहरणम् - अरार्यते, सास्मर्यते ।

                             24. मुचोऽकर्मकस्य गुणो वा - ( 7.4.57 )

                                    अकर्मकस्य मुचः गुणो वा सादौ सनि । उदाहरणम् - मोक्षते, मुमुक्षते, ।

                             25. निजां त्रयाणां गुणः श्लौ - ( 7.4.75 )

                                  णिजिर् विजिर् विष्लृ एषामभ्यासस्य गुणः श्लौ । उदाहरणम् - नेनेक्ति, वेवेक्ति ।

                             26. गुणो यङ्लुकोः - ( 7.4.82 )

                                   अभ्यासस्य गुणः स्याद्यङि यङ्लुकि च । उदाहरणम् - बोभूयते, बोभवीति, बोभोति ।


एक टिप्पणी भेजें

0 टिप्पणियाँ