१.३.११
सूत्राणि:॥
स्वरितेनाधिकारः ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - स्वरितेन ३।१ अधिकार: १।१।
अर्थ: - अस्मिन् शास्त्रे स्वरितेन चिह्नेनाधिकारो वेदितव्यः ।
उदाहरणम् - प्रत्ययः (३.१.१) ज्याप्प्रातिपदिकात् (४.१.१) अङ्गस्य (६.४.१) भस्य (६.४.१२९) पदस्य (८.४.१२९) इत्यादि ।
आर्यभाषार्थ - इस शब्दशास्त्र में स्वरित नामक स्वर चिह्न से (अधिकार:) उस शब्द का अधिकार समझना चाहिये। जैसे-प्रत्यय: (३.१.१) । धातो: (३.१.९१) । ज्यापुप्रातिपदिकात् ( ४.१.१) । अङ्गस्य (६.४.१) । भस्य (६.४.१२९) पदस्य (८.४.१२९) इत्यादि ।
विशेष - आजकल अष्टाध्यायी में अधिकारवाले शब्दों पर स्वरित स्वर का चिन दिखाई नहीं देता है । 'प्रतिज्ञास्वरिता: पाणिनीया:' इस गुरुवचन से पाणिनिमुनि के शिष्य प्रतिज्ञामात्र से ही अधिकारवाले शब्दों को स्वरित मानते हैं कि यह शब्द स्वरित है, अतः अब इसका यहां अधिकार है । इस शब्द की आगामी सूत्रों में अनुवृत्ति ली जाती है ।
॥ काशिका ॥
‘स्वरितेन’ इति इत्थम्भूतलक्षणे तृतीया । स्वरितो नाम स्वरविशेषो वर्णधर्म:, तेन चिह्नेनाधिकारो वेदितव्यः । अधिकारः = विनियोगः । स्वरितगुणयुक्तं शब्दरूपमधिकृतत्वादुत्तरत्रोपतिष्ठते । प्रतिज्ञास्वरिताः पाणिनीयाः - “प्रत्ययः” (३.१.१/१८०), “धातोः” (३.१.९१/२८२९), “याप्प्रातिपदिकात्” (४.१.१/१८२),”अङ्गस्य” (६.४.१/२००), “भस्य”,”पदस्य” ॥
॥ न्यासः ॥
‘इत्थंभूतलक्षणे तृतीय’ इति । स्वरितेन चिह्नेनाधिकारस्योपलक्षणीयत्वात् । यदि पारिभाषिकस्येह स्वतिस्य ग्रहणं स्यात्, ‘रषाभ्यां नो णः समानपदे’ (८.४.१) इत्यत्र णकारण्णाकारस्याधिकारस्याधिकारता न स्यात्; परिभाषिकस्याज्धर्मत्वात् । णकारस्यानच्कत्वादिति मत्वा सर्वेषां वर्णानामचां हलाञ्च स्वरिताख्यो यो वर्णधर्मो गुणस्यस्येदं ग्रहणम्, न पारिभाषिकस्येति दर्शयन्नाह - ‘स्वरितो नाम स्वरदोषो वर्णधर्मः’ इति । वर्णधर्मस्य तु गर्हणमधिकारावगमाय । स इह हल्यपि स्वरितासरञ्जनाद्विज्ञायते । ‘अधिकारो विनियोगः’ इति । व्यापारकरणम् । ‘अधिकृतत्वादुत्तरत्रोपतिष्ठते’ इति । यथा पुरुषो यत्राधिकृतो नगरादौ तत्रैवोपतिष्ठते, तथा स्वरितगुणयुक्तं शब्दरूपं सूत्रकारेण नियुक्तं सूत्रकारेण तत्र तत्रोपतिष्ठते । ‘उत्तरत्र’ इति वचनमुपलक्षणार्थम् । क्वचित् पूर्वत्राप्युपतिष्ठत एव । क्व पुनरस्य सद्भावो भवति ? क्व च वा न भवति ? इत्याह - ‘प्रतिज्ञास्वरिताः पाणिनीयाः’ इति । प्रतिज्ञया स्वरितो येषां ते तथोक्ताः । तदेतदुक्तं भवति - यत्रेव त आचार्याः स्वरितत्वं प्रतिजानते तत्रैवास्य सद्भावो भवति नान्यत्रेति तदपि प्रतिज्ञानं नानियमेन भवति, किं तर्हि ? यत्राचार्याः स्मरन्ति तत्रैव भवति । स चायं धर्मः कलागद्युपम इति वेदितव्यः । कार्यार्थमुपादीयते, कृतकार्यस्तु निवर्तते; न तु प्रयोगसमवायी भवति ‘प्रत्ययः’ (३.१.१) इत्यादिना येऽधिकाराः स्वरितनावच्छिद्यन्ते तेषामुदाहरणानि दर्शयति अथ किमर्थोऽयमधिकारः क्रियते ? प्रतियोगं तस् ग्रहणं मा कार्षीदित्येवमर्थमिति चेत्, न; यथा देवदत्ताय गौर्दीयतां कम्बलश्चेत्युक्ते न च पुनरुच्यते देवदत्तायेति, अथ च प्रस्तुतत्वाद्देवदत्तस्य कम्बलश्चेत्यस्य साकाङ्क्षत्वात् तेनैव सम्बन्धो भवति; तथा च ‘सृ स्थिरे’ (३.३.१७)’भावे’ (३.३.१८) इत्येवमादीनामपि वाक्यानां साकाङ्क्षत्वाद्घञादीनाञ्च प्रस्तुतत्वात् तैरेव सम्बन्धो भविष्यति, तत्किमधिकरेण ? सत्यमेतत्; यत्रान्य निर्देशो नास्ति तत्रोपतिष्ठते, यत्र त्वन्यनिर्देशस्तत्रासौ प्रकृतस्य निवर्तक एव स्यात् । तथा हि - गौर्दीयतां यज्ञदत्ताय कम्बलो विष्णुमित्रायेत्युक्तेऽन्यनिर्देशेन प्रस्तुतो देवदत्तो निवर्तत्ते । एवञ्चान्यनिर्देशेनास्य निवर्तकत्वे सति अभिविधौ भाव इनुण’ (३.३.४४) इत्यस्येनुणो निर्देशेन प्रस्तुतस्य घञो निवर्तितत्वात् ‘आक्रोशेऽवन्योर्ग्रहः’ (३.३.४५) इत्यत्रानन्तरेणेनुणा सम्बन्धः स्यात्, न पुनर्व्यवहितेन घञा,घञ् त्विष्यते । ननु च दृष्टानुवृत्तिसामर्थ्याद् घञेवानुवर्तिष्यते तेनैवाभिसम्बन्धो भविष्यति, तथा च तत्र वक्ष्यति - ‘दृष्टानुवृत्तिसामर्थ्यात्तत्र घञेवानुवर्त्तते, नानन्तर इनुण्’ इति नैतदस्ति; यदि दृष्टानुवृत्तिसामर्थ्यादघञ एवानुवृत्तिः स्यात्, तदा ‘ऋदोरप्’ (३.३.५७) इत्तत्रोत्तरेष्वपि योगेषु घञेवानुवर्त्तेत, नाप्प्रत्ययः । यत्पवुनर्वक्ष्यति - ‘दृष्टानुवृत्तिसामर्थ्यात्’ इति , तत्र दृष्टानुवृत्तिसामर्थ्यशब्देन स्वरितत्वमेवोक्तम् । दृष्टमनुवृत्तौ सामर्थ्यम् - अधिकृतस्य शब्दरूपस्य यस्मादिति बहुव्रीहिकृत्वा । तस्मात् स्वरितत्वादित्ययमन्त्रार्थः । यद्येषोऽर्थः सूत्राकाराभिमतः स्यात्, स्वरितत्वादिति कस्मान्नोक्तमिति चेत् ? न स्वच्छन्दतो हि वचसां प्रवृत्तिः, अर्थस्तु परीक्षणीय इत्यचोद्यतमेतत् । तदेवं यतोऽन्यनिर्दशः प्रस्तुतस्य निवर्त्तको भवति तस्मादधिकारः कर्त्तव्यः । तस्मिंश्च क्रियमाणे तदवगमोपायदर्शनाय ‘स्वरितेनाधिकारः’ इत्येतदिप कर्त्तव्यः ॥
॥ पदपञ्जरी ॥
अत्र पारिभाषिकस्य’स्वरितस्य ग्रहणे रषाभ्यान्नोण:’ इत्यादी नकारादेर्व्यञ्जनस्याधिकारोपलक्षणं नोक्तं स्याद्, पारिभाषिकस्याञ्धर्मत्वादिति मत्वाह - स्वरितो नाम वर्णधर्म इति । वर्णमात्रधर्म इत्यर्थः । स चायं धर्मः सलाध्मातादितुल्यः केवलं सूत्रेष्वेव भवति, न प्रयोगे । क्वचित्तु स्वरितो नाम स्वरदोषो वर्णधर्म इति पाठः । तत्र स्वरदोषः = उच्चारणदोषः, अधिकारशब्दों भावसाधनः । विनियोग इति । व्यापारणम् । अथ शब्दस्यविनियुक्तस्य को व्यापार इत्याह - अधिकृतत्वादुत्तरत्रोपतिष्ठत इति । उपस्थानमप्येतदेव यदुतास्य तत्रबुद्धिस्थता । उत्तरत्रेत्युलक्षणम्, क्वचित् पूर्वत्राप्युपतिष्ठते; सूत्रकारेण पठितस्यास्य स्वरितत्वस्य संकीर्णत्वात् पाठस्य विषयविभागो दुर्ज्ञेय इत्याह - प्रतिज्ञास्वरिता इति । प्रत्याय इत्याद्युदाहरणानि । किमर्थ पुनरिदमुच्यते, यावता निर्द्दिश्यमानं लोकेऽधिक्रियते, यथा - देवदत्ताय गौर्द्दयतां कम्बलश्चेति देवदत्तायेति गम्यते, तथा’सृ स्थिरे’ इत्यादीनां साकाङ्क्षत्वादनुवृत्तैर्घञादिभिरेव सम्बन्धो भविष्यति ? अन्यनिर्देशस्तन्निवर्त्तकः, तद्यथा - देवदत्ताय गौर्द्दयताम्, विष्णुमित्राय कम्बल इति कम्बलो गोर्निवर्त्तको भवति, तथेहापि’अभिविधौ भावे’ इतीनुण् घञो निवर्त्तकः स्यात्, ततश्च’आक्रोशेऽवन्येर्ग्रहः’ इत्यादिष्वनन्तर इनुणेव स्यात्, तस्मात्परिभाषा । अधिकारपरिमाणज्ञानं तु न ज्ञायते - कियन्तमवधिमधिकारोऽनुवर्त्तत इति ? यथा - प्रागभ्यासविकारेभ्योऽङ्गधिकारः ?, धातोरिति प्राक् लादेशेभ्यः ? उताध्यायस्य परिसमाप्तेः ? एवं तर्ह्यभयार्थमिदम् - अधिकारार्थं च निवृत्त्यर्थं च । कथम् ? स्वरितेनाधिकारः स्वरिते द्दष्टेऽधिकारो न भवतीत्यर्थः, तेन विंशतिकात् खः । इत्यत्र स्वरितत्वं प्रतिज्ञेयं तद्दर्शनाच्च द्वित्रिपूर्वादित्यस्य निवृत्तिरष्यते तत्र तावतिथोऽलनुबन्धनीय:, यथा - द्वित्रिपूर्वान्निष्कात् इत्यत्रेकारः । तेन द्वयोर्योगयोरनुवृत्तिर्भविष्यति । एवमन्यत्रापि यत्र तावतिथोऽल् नास्ति तत्र प्राग्वचनं कर्तव्यम्, यथा - अङ्गस्य प्राक् टेः इति तद् गुरु भवति । स्यादेतत्,व्याख्यानात् परिमाणं ज्ञास्यते इति ? अधिकारोऽपि तर्हि व्याख्यानात् ज्ञायताम् । इनुण्घञिति संदेहे घञिति व्याख्यास्यामः, इनुण आनन्तर्यम्, घञोऽप्यनुवृत्तिसामर्थ्य द्दष्टमित्यस्त्येव संदेहः । ‘ग्रहवृद्दनिश्चिगमश्च इत्यादिषु त्वनन्तरस्याप एवाधिकारः, न द्दष्टानुवृत्तिसामर्थ्यस्यापि घञः, सिद्धत्वाद्, व्याख्यानाद्वा । यदप्युत्प्रेक्षितम् - आकांक्षारहितेऽपि वाक्ये प्रकृतस्य सम्बन्धार्थं शास्त्रीयोऽधिकारः - यथा दूरान्तिकार्थभ्यो द्वितीया च इत्यत्र पञ्चम्यधिकार इति । तत्रापि व्याख्यानमेव शरणमिति तदेव सर्वत्रास्तु नार्थ एतेन ? इदं तर्हि प्रयोजनम् - अन्यत्र द्दष्टस्याधिकारस्य स्वरितेनोपलक्षणं यथा स्याद्, यथा - ‘गोस्त्रियोरुपसर्जनस्य’इत्यत्र स्त्रीग्रहणस्य, न ह्येतल्लौकिकेनाधिकारेण सिद्धम्, आनुषङ्गिकं वास्य प्रयोजनं यत् साकाक्षेषु व्यहितस्य चानुवृत्तिः ॥
॥ शब्दकौस्तुभः ॥
“इत्थंभूतलक्षणे” (२.३.२१) तृतीया । अधिकारविनियोगः स्वरितत्वयुक्तशब्दस्वरूपमधिकृतं बोध्यम् । “प्रत्ययः” (३.१.१) “परश्च” (३.१.२) इत्यादि । यथा प्रायेणोत्तरत्रोपस्थितिः । क्व चित्तु पूर्वत्रापि । तदुक्तम् - “अतिङित्युभयोर्योगायोः शेषः” इति । कियद्दूरमधिकार इत्यत्र व्याख्यानं शरणम् । यथा आतृतीयाध्यायान्तं धात्वधिकारो न तु प्राग्लादेशेभ्य एव । तथा आसप्तमाध्यायपरिसमाप्तेरङ्गाधिकारो न तु प्रागभ्यासविकारेभ्य एवेत्यादि । यद्वा - ’स्वरिते’ इति सप्तम्यन्तम् । तेन तस्मिन्दृष्टे अधिकारो निवर्त्तय इत्यर्थः । कः स्वरिताधिकारार्थः कश्च तन्निवृत्त्यर्थ इत्यत्र तु व्याख्यानमेव शरणम् । नन्वेवं व्याख्यानादेवानुवृत्त्यननुवृत्ती स्तां किमनेन सूत्रेण, सत्यम्, अर्थान्तराणि सङ्ग - हीतुं सूत्रं कृतम् । तथाहि - स्वरितेनाधिकाररूपोर्थो ग्राह्यः । “गोस्त्रियोः” (१.२.४८) इत्यत्र च स्त्रीशब्दः स्वर्यते । तेन गोटाङ्ग्रहणं कृन्निवृत्त्यर्थमिति न वक्तव्यम् । किञ्च अधिकं कार्यमधिकारः । गौणेऽपि शास्त्राप्रवृत्तिरित्यर्थः । तथा च गौणमुख्यन्यायो यत्र नेष्यते(अपादानाधिकरणादौ) तत्र स्वरितः पाठ्यः । अपि च अधिकः कारः कृतिरियम् । यत्पूर्वः सन् परं बाधते । तथा च पूर्वविप्रतिषेधा संगृहीता भवन्ति । तत्र तत्र स्वरितापाठेनैव गतार्थत्वादिति दिक् ।
॥ इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य तृतीये पादे प्रथमान्हिकम् ॥
॥ व्याकरणसिद्धान्तसुधानिधिः ॥
इत्थम्भूतलक्षणे तृतीया । अधिकारो विनियोगः । स्वरितत्वं चाधिकारज्ञापनार्थम् न तु प्रयोगसमवेतम् । स्वरितत्वयुक्तं शब्दस्वरूपमधिकृतं बोध्यम् । यथा प्रत्ययः इत्यादि उत्तरत्रोपतिष्ठते । क्वचित्पूर्वत्रापि । तदुक्तम् अतिङित्युभयोः शेषः इति । अवधिविशेषे तु व्याख्यानं प्रमाणम् । आतृतीयाध्यायान्तं धात्वधिकारो न तु लादेशेभ्यः प्रागेव । सप्तमाध्यायसमाप्तिपर्यन्तमङ्गाधिकारो न तु प्रागभ्यासविकारेभ्य एवेत्यादिदर्शनात् । यद्वा स्वरिते सति नाधिकार इत्यर्थः । तेन पूर्वाधिकारनिवृत्तिः । तथा च विंशतिकात्खः इत्यत्र स्वरितत्वदर्शनाद् द्वित्रिपूर्वाद् इत्यस्य निवृत्तिरनुमीयते । न चैकः स्वरितोऽधिकारार्थ एकस्त्वधिकारनिवृत्त्यर्थ इति सन्देहनिर्णयानुपपत्तिः । व्याख्यानात्तदुपपत्तेः । न चैवं व्याख्यानमेवानुवृत्त्यननुवृत्तौ नियामकमस्तु किं प्रकृतसूत्रेणेति वाच्यम् । अर्थान्तरसङ् ग्रहार्थत्वात् । तथाहि स्वरितेनाधिकाररूपोऽथों ग्राह्यः । तेन गोस्त्रियोः इत्यत्र स्त्रीशब्दस्य स्वरितत्वप्रतिज्ञानात् स्त्रियाम् इत्यधिकारे विहितः प्रत्ययो गृह्यते तेन गोटाङ्ङ्ग्रहणं कृन्निवृत्त्यर्थम् इति वार्त्तिकं गतार्थम् ।
किञ्च अधिकं कार्यमधिकारः । गौरवस्यापि ग्रहणमित्यर्थः । तेन यत्र गौणमुख्यन्यायो नेष्यते तत्र स्वरितः पाठ्यः यथाऽपादानाधिकरणादौ । तेन भीत्रार्थानाम् इत्यादेर्बुद्धिकल्पितमपायमाश्रित्य प्रत्याख्यानं सङ्गच्छते । छन्दसि इत्यस्य प्रमाशब्दत्वेन गौणे आर्षग्रन्थरूपेऽपि छन्दसि प्रवृत्तिः । अत एवार्षत्वात्साधुत्वमिति तत्र तत्रोद्घोषः । गङ्गायां गाव इत्यादौ गङ्गाशब्दस्य नदीवृत्तित्वेऽपिसामीप्याद्गौणमाधारत्वमिति तत्रापि सप्तमी । यदा तु गङ्गापदस्य तरि तात्पर्य तदा प्रकृतावेव लक्षणा विभक्तिर्मुख्यार्थेवेति विशेषः । अपि च अधिकः कारः कृतिरियं पूर्वोऽपि परं बाघते स्वरितत्वयोगात् । तेन पूर्वविप्रतिषेधानां सङ्ग्रहः । तद्वार्त्तिकानां च तद्विवेकार्थत्वम् तुल्यजातीयस्य च परस्य पूर्वेण बाधो न तु नित्यत्वादियुक्तस्येति नातिप्रसङ्गः ।
॥ सिद्धान्तकौमुदी ॥
स्वरितत्वयुक्तं शब्दस्वरुपमधिकृतं बोध्यम् ॥ परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः (परिभाषा) ॥ असिद्धं बहिरङ्गमन्तरङ्गे (परिभाषा) ॥ अकृतव्यूहाः पाणिनीयाः (परिभाषा) ॥ निमित्तं विनाशोन्मुखं दृष्ट्वा तत्प्रयुक्तं कार्यं न कुर्वन्तीत्यर्थः ॥
॥ बालमनोरमा ॥
स्वरितेनाधिकारः । अधिकारः = व्यापृतिः । यथा लोके 'अधिकृतो ग्रामेऽसा'विति व्यापृत इति गम्यते । शब्दस्य च उत्तरसूत्रेष्वनुवृत्तिरेव व्यापृतिः । स्वरितेन = स्वरविशेषेण अधिकार उत्तरत्रानुवृत्तिरूपव्यापारः प्रत्येतव्यः । यत् पदं शास्त्रकृता स्वरिताख्यस्वरविशेषविशिष्टमुच्चारितं तदुत्तरसूत्रेष्वनुवर्तनीयमिति यावत् । फलितमाह - स्वरितत्वयुक्तमित्यादिना । आनुनासिक्यवत्सव्रितोच्चारणमपि प्रतिज्ञागम्यम् । अनुवृत्तावुत्तरावधिस्तु व्याख्यानादेवावगन्तव्यः । यद्यपि निवृत्तिवदनुवृत्तिरपि व्याख्यानादेव भविष्यतीति किं सूत्रेण, तथापि भाष्ये एतत्प्रयोजनं बहुधा प्रपञ्चितम् । परनित्येति । परादीनां मध्ये पूर्वपूर्वापेक्षया उत्तरमुत्तरं शास्त्रं बलवत्तपरमित्यर्थः । 'उत्तरोत्तर' मित्यत्र 'आनुपूर्व्ये द्वे वाच्ये' इति द्वित्वम् । 'कर्मधारयवदुत्तरेषु' इति कर्मधारयवद्भावात्सुपो लुक् । बलवच्छब्दात् 'द्विवचनविभज्योपपदे तरबीयसुनौ' इति ईयसुन् । 'विन्मतोर्लु'गिति मतुपो लुक् । परापेक्षया नित्यान्तरङ्गापवादाः, नित्यापेक्षयाऽपि अन्तरङ्गापवादौ, अन्तरङ्गापेक्षयापि अपवाद इत्येवं क्रमेण पूर्वपूर्वापेक्षया उत्तरोत्तरबलवत्त्वमिति फलितोऽर्थः । परं विप्रतिषेधसूत्रात् बलवत् । परान्नित्यं यथा - तुदति । अत्र 'तुदादिभ्यः शः' इति शप्रत्ययं बाधित्वा परत्वाल्लधूपधगुणः प्राप्तः, स च शप्रत्यये प्रवृत्ते सति न प्रवृत्तिमर्हति । शप्रत्ययस्तु कृतेऽकृतेऽपि लघूपधगुणे प्रवृत्तिमर्हतीति स नित्यः । 'कृताकृतप्रसङ्गी यो विधिः स नित्य' इति हि तल्लक्षणम् । अतो नित्यः शप्रत्ययो लघूपधगुणं बाधित्वा प्रथमं प्रवर्तते । ततः 'सार्वधातुकमपित्' इति शस्य ङित्त्वात् 'क्ङिति च' इति निषेधान्न गुणः । अक्लृप्ताऽभावकस्य नित्यशास्त्रस्याऽभावकल्पनापेक्षया क्लृप्ताऽभावकस्याऽनित्यशास्त्रस्यैव तत्कल्पनं युज्यत इति नित्यस्य बलवत्त्वे बीजम् । परादन्तरङ्गं यथा - उभये देवमनुष्याः । अत्र 'प्रथमचरमे'ति परमपि विकल्पं बाधित्वा 'सर्वादीनी'ति नित्यैव सर्वनामसंज्ञा भवति, तस्या विभक्तिनिरपेक्षत्वेनारङ्गत्वात् । अल्पापेक्षमन्तरङ्गमिति हि तल्लक्षणम् । तस्य बलवत्त्वे बीजमाह - असिद्धं बहिरङ्गमन्तरङ्गे । अन्तरङ्गशास्त्रे प्रसक्ते बहिरङ्गशास्त्रमविद्यमानं प्रत्येतव्यमित्यर्थः । इयं तु परिभाषा 'वाहऊठ्' सूत्रे भाष्ये स्थिता । परादपवादो यथा - दध्ना । अस्थिदधीत्यनङ् । इह परमप्यनेकालिति सर्वादेशं बाधित्वा 'ङिच्चे' त्यन्तादेशः, तस्य येन नाप्राप्तिन्यायेन तदपवादत्वात् । अपवादस्य बलवत्त्वे बीजं । त्वनुपदमेवोक्तम् । नित्यादन्तरङ्गं यथा - ग्रामणिनि कुले इह । नित्यमपीकोऽचीति नुमं बाधित्वा 'ह्रस्वो नपुंसके' इति ह्रस्वः । प्रथमतः कृते नुम्यनजन्तत्वाद्ह्रस्वो न स्यात् । अन्तरङ्गादपवादो यथा - दैत्यारिः । श्रीशः । परमपि सवर्णदीर्घं बाधित्वाऽन्तरङ्गत्वादाद्गुणे यणि च प्राप्तेऽपवादत्वात्सवर्णदीर्घः । अकृतव्यूहाः पाणिनीयाः । न कृतः अकृतः, व्यूह = प्रकृतिप्रत्ययविवेचनं यैस्तेऽकृतव्यूहाः पाणिनीयाः = पाणिनिशिष्या इत्यक्षरार्थः । तर्हि सर्वस्य शास्त्रस्य वैयर्थ्यमित्यतोऽध्याहृत्य व्याचष्टे - निमित्तमित्यादिना । 'सेदुष' इत्याद्युदाहरणम् । तच्च शब्दाधिकारे 'सेदिवस्'शब्दनिरूपणावसरे मूल एव स्पष्टीभविष्यति । इयं परिभाषा निर्मूला निष्फला चेति परिभाषेन्दुशेखरे स्पष्टम् ॥
॥ तत्त्वबोधिनी ॥
स्वरितेनाधिकारः । अत्रेत्थंभूतलक्षणे तृतीया । अधिकारो विनियोगः । कियद्दूरमधिकार इत्यत्रतु व्याख्यानमेव शरणम् । यथा - आसप्तमाध्यायपरिसमाप्तेरङ्गाधिकारः, न तु प्रागभ्यासविकारेभ्य एवेत्यादि । यद्वा स्वरिता इति सप्तम्यन्तम्, स्वरिते दृष्टे अधिकारो निवर्तत इत्यर्थः । कः स्वरितोऽधिकारार्थः, कश्च तन्निवृत्त्यर्थ इत्यत्र तु व्याख्यानमेव शरणम् । नन्वेवं व्याख्यानादेवानुवृत्त्यननुवृत्ती स्तः किमनेन सूत्रेणेति चेत्, अत्राहुः - अर्थान्तरसङ्ग्रहायेदं सूत्रं कृतम् । तथाहि - अधि - अधिकः कारोऽधिकारः । अधिकं कार्यं गौणेपि शास्त्रप्रवृत्तिरित्यर्थः । तथा च गौणमुख्यन्यायो यत्र नेष्यते अपादानाधिकरणादौ, तत्र स्वरितः पाठ्यः । किंच अधिकः कारः कृतिरियं-यत्पूर्वः सन् परं बाधते । तथा च 'नुमचिरतृज्वद्भावेभ्यो नु' डित्यादिवक्ष्यमाणपूर्वविप्रतिषेधाः सर्वे सङ्गृहीता भवन्ति, तत्र स्वरितपाठेनैव गतार्थत्वादिति । परनित्येति । परान्नित्यं यथा - 'तुदादिभ्यः शः' । तुदति । 'रुधादिभ्यः श्नम्' । रुणद्धि । परमपि लघूपधगुणं बाधित्वा नित्यत्वात् शश्नमौ । तथा धिनवाव, धिनवाम । परमपि 'लोपस्चास्यान्यतरस्यां म्वो' रित्युकारलोपं बाधित्वा नित्यत्वादाडुत्तमस्येत्याट् । परादन्तरङ्गं यथापरमपि 'अनेका' लिति सर्वादेशं बाधित्वा 'डिच्चे' त्यन्तादेशः । दध्ना, दध्ने । 'अस्थिदधी' त्यनङ् । नित्यादन्तरङ्गं यथा-' ग्रामणिनी कुले' । नित्यमपीकोऽचीति नुमं बाधित्वा 'ह्यस्वो नपुंसके' इति ह्यस्वः । कृते तु नुमि अनजन्तत्वाद्ध्रस्वो न स्यात् । अन्तरङ्गादपवादो यथा -'दैत्यारि' , 'श्रीशः' । परमपि सवर्णदीर्घं बाधित्वाऽन्तरङ्गत्वादाद्गुणे यणि च प्राप्तेऽपवादत्वात्सवर्णदीर्घः । तथा 'उन्न्यः' सुल्वौ 'सुल्वः' इत्यत्रान्तरङ्गत्वादियङि उवङि च प्राप्तेऽपवादत्वादेरनेकाच इति, 'ओः सुपी' ति च यण् । यद्यपवादोऽन्यत्र चरितार्थस्तर्हि परान्तरङ्गाभ्यां उवङि च प्राप्तेऽपवादत्वादेरनेकाच इति, 'ओः सुपी' ति च यण् । यद्यपवादेऽन्यत्र चरितार्थत्वात्ताताङि न प्रवर्तते, किंतु परेण 'अनेकाल्शि' दित्यनेन बाध्यते, जीवतात् । भवतात् । अयजे इन्द्रम्, ग्रामे इह, सर्वे इत्थम् । अत्र अयज इ इन्द्रम्, ग्राम इह, सर्व ई इत्थमिति स्थितेऽन्तरङ्गेण गुणेन सवर्णदीर्घो बाध्यते । तस्य असमानाश्रये 'दैत्यारिः' 'श्रीश' इत्यादौ चरितार्थत्वात् । असिद्धमिति । तेन 'पचावेद' मित्यादौ 'एत ऐ' इत्यैत्वं न । अकृतव्यूहा इति । अकृतकार्या इत्यर्थः । एवं तर्हि सर्वस्य शास्त्रस्य वैयथ्र्यं स्यादत आह - निमित्तं विनाशोन्मुखं दृष्ट्वेति । लोकसिद्धार्थकथनमेतत् । यद्वा । अक्षरार्थेनाप्येतत्कथनम् । ऊह्रते तर्क्यत इत्यूहः - कार्यम् , विशिष्टो य ऊहो व्यूहो विनाशोन्मुखनिमित्तकं कार्यम् । अकृतो व्यूहो यैस्ते अकृतव्यूहा इति । यद्यपि 'कृतमपि शास्त्रं निवर्तयन्ती' ति परिभाषान्तरं पठते, फलं च तुल्यं, तथापि 'अकृतव्यूहा' इत्येव लघु, 'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वर' मिति न्यायादिति भावः । न कुर्वन्तीति । यथा निषेदुषी' मित्यादौ क्वसोरिटमन्तरङ्गत्वात्प्राप्तमपि 'भाविना संप्रसारणेन वलादित्वं नङ्क्षयती' त्यालोच्य न कुर्वन्तीत्यर्थः॥इति तत्त्वबोधिन्यां परिभाषाप्रकरणम् ॥
॥ बृहच्छब्देन्दुशेखरः ॥
कौमुदीमूलम् - स्वरितत्वयुक्तं शब्दस्वरुपमधिकृतं बोध्यम् ॥ [(परिभाषा) परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः] ॥ [(परिभाषा) असिद्धं बहिरङ्गमन्तरङ्गे] ॥ [(परिभाषा ) अकृतव्यूहाः पाणिनीयाः] ॥ निमित्तं विनाशोन्मुखं दृष्ट्वा तत्प्रयुक्तं कार्यं न कुर्वन्तीत्यर्थः ॥
स्वरितेनाधिकारः १.३.११ । इत्थम्भूतलक्षणे तृतीया । स्वरितत्वज्ञाप्योऽधिकारो विनियोग इत्यर्थः । स्वरितत्वञ्चेदं दोषविशेषरूपमज्झल्साधारणं स्व रूपमधिक्रियमाणपदघटकाज्निष्ठं वा । तच्चानुनासिक्यवत्प्रतिज्ञागम्यम् । विनियोगश्च प्रायेणोत्तरत्रोपस्थितिः, क्वचित्पूर्वत्रापि । कियद् दूरमधिकार इत्यत्रासति गमके व्याख्यानमेव शरणम् ।
किञ्च स्वरितेनाधिकारगतिः । तेन गोस्त्रियो १.२.४८ इत्यादौ ख्यधिकारस्थप्रत्ययग्रहणमित्याद्याकरादवसेयम् एतेन - व्याख्यानादेव निवृत्तिवदनुवृत्तिरपि भविष्यति, आकाङ्क्षायान्तु सत्यामश्रुतकल्पनाया अन्या व्यत्वाच्छ्रुतापेक्षणस्य न्याय्यत्वाच्च किं सूत्रेण इत्यपास्तम् । स्पष्टं चेदं भाष्ये ।
परनित्येति । परं विप्रतिषेधसूत्राद् बलवत् । नित्यं कृताकृतप्रसङ्गि, तद्विपरीत मनित्यम् । तत्राक्लृप्ताभावकस्या भावकल्पनापेक्षया क्लृप्ताभावकस्यैव तत्कल्पनं युक्तमिति तस्य बलवत्त्वे बीजम् । अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्येऽन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम् । तदीयनिमित्तसमुदायाद्बहिर्भूताङ्गकं बहिरङ्गम् । तस्य बलवत्त्वे बीजमाह असिद्धमिति । इयञ्च वाह ऊठ् ६.२.१३२ इति सूत्रेण ज्ञापिता ।
यद्यपि प्रत्यङ्गवर्त्ती लोको दृश्यते । मनुष्योऽयं प्रातरुत्थाय प्रथमं शरीर कार्याणि करोति, ततः सुहृदां, ततः सम्बन्धिनाम् इति न्यायमूलकत्वमस्या अचः परस्मिन्.. १.१.५७ इति भाष्ये उक्तं, तथापि तेन न्यायेन युगपत्प्राप्तिविषयतैव स्यात् । ज्ञापकेन तु सर्वविषयता बोध्यते इति वाह ऊठ् ६.२.१३२ इति सूत्रे कैयटे स्पष्टम्। अन्यथा वाहः सम्प्रसारणे पूर्वरूपे च कृते प्रयाश्रये गुणे वृद्धिरेचि ६.९.८८ इति वृद्धौ प्रष्ठौह इत्यादिसिद्धावूठ्विधानं व्यर्थं स्यात् । नाजानन्तर्यपरिभाषा तु नास्त्येवेति न अयजे इन्द्रम् इत्यादौ दोष इति परिभाषेन्दुशेखरे विस्तरः । अपवादस्तु वचनप्रामाण्याद् बलवान् । अकृतेति । न कृतो विशिष्ट ऊहस्तकों निमित्तविनाशेऽपि कार्यस्थितिरूपः, यथा दण्डविनाशेऽपि घटस्थितिः, स यैस्ते इत्यर्थस्तदाह - निमित्तमित्यादि । तत्प्रयुक्तं कार्यजातमपि न कुर्वन्ति नोच्चारयन्तीत्यर्थ इति कैयटादयः ।
अन्ये तु - व्यूहोऽन्तरङ्गशास्त्रं बहिरङ्गापोहनरूपत्वात् तन्निमित्तविनाशं दृष्ट्वा पूर्वमपि न कुर्वन्ति इत्यर्थ इत्याहुः । इयं परिभाषा निष्फला निर्मूलेति परिभाषेन्दुशेखरे निरूपितम् । इति परिभाषाप्रकरणम् ।
॥ प्रौढमनोरमा - संस्कृतव्याख्या ॥
परनित्येति । परान्नित्यं यथा - तुदति,रुणद्धि । परमपि लघूपधगुणं बाधित्वा रधिजभोः इति नुम् । न च सोऽपि शब्दान्तरप्राप्त्याऽनित्य इति वाच्यम्, कृताकृतप्रसङ्गमात्रेणापि क्वचिन्नित्यताभ्युपगमात् । अन्तरङ्गं यथा - उभये देवमनुष्याः । इह प्रथमचरम इति परमपि विकल्पं बाधित्वा सर्वादीनि इति सर्वनामसंज्ञा विभक्तिनिरपेक्षत्वेनान्तरङ्गत्वात् । अपवादोऽपि यद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यत एव । तद्यथा - अयजे इन्द्रं, ग्रामे इह, सर्वे इत्थम् । अत्रान्तरङ्गेण गुणेन सवर्णदीर्घो बाध्यते । स च यद्यपि यण्गुणयोरपवादस्तथापि समानाश्रये चरितार्थः । तथा च वार्तिकम् - 'इण्ङिशीनामाद् गुणः सवर्णदीर्घत्वात्' इति ॥ असिद्धमिति ॥ तेन पचावेदमित्यादावेत ऐत्वं न । अकृतव्यूहा इति ॥ यद्यपि 'कृतमपि कार्यं निवर्तयन्ति' परिभाषान्तरं पठ्यते, फलं च तुल्यम्, तथापि 'अकृत' इत्येव लघु । 'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्' इति न्यायादिति भावः । न कुर्वन्तीति । यथा 'निषेदुषीम्' इत्यादौ क्वसोरिटमन्तरङ्गत्वात्प्राप्तमपि भाविना सम्प्रसारणेन वलादित्वं नङ्क्ष्यतीत्यालोच्य न कुर्वन्तीत्यर्थः ॥ इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायां परिभाषाप्रकरणम् ॥
॥ प्रौढमनोरमा-शब्दरत्न - हिन्दी ॥
कौमुदी - परनित्यान्तरङ्गापवादानामुत्तरोत्तरीयं बलीयः ।
मनोरमा - परनित्येति । परान्नित्यं यथा - तुदति, रुणद्धि । परमपि लघूपधगुणं बाधित्वा शश्नमौ। तथा रन्धेर्णिच् रन्धयति । परामप्युपधावृद्धिं बाधित्वा 'रधिजभों' (पा. सू. ७.१.६१) इति नुम् । न च सोऽपि शब्दान्तरप्राप्त्याऽनित्य इति वाच्यम्, कृताकृतप्रसङ्गमात्रेणापि क्वचिन्नित्यताभ्युपगमात् ।
पर की अपेक्षा नित्य बलवान् होता है । इसका उदाहरण है - तुदति, रुणद्धि। यहाँ पर क्रमशः 'तुदादिभ्यः श:' से विहित 'श' तथा 'रुधादिभ्यः श्नम्' से विहित श्नम् की अपेक्षा 'पुगन्तलघूपधस्य' से विहित गुण पर होने के कारण 'विप्रतिषेधे परं कार्यम्' के अनुसार श्, श्नम् को बाधकर लघूपध गुण होना चाहिए था । परन्तु श, तथा श्नम् चूँकि नित्य है अतः पर भी लघूपधगुण को बाधकर श होता है तो तुदति, तथा श्नम् होता है तो रुणद्धि यह रूप बनता है । इसी प्रकार 'रन्थ्' धातु से णिच् होने पर जो रन्धयति प्रयोग बनता है । वहाँ भी 'रध्' धातु से णिच् होने पर रध् + इ इस स्थिति में 'अत उपधायाः' से परत्वात् उपधावृद्धि प्राप्त होती है, परन्तु उसे बाधकर नित्यत्वात् 'रधिजभो:' से नुम् हो जाता है । पश्चात् उपधा में 'अत्' के नहीं रहने से उपधावृद्धि नहीं होती है तो गुण होकर 'रन्धयति' प्रयोग बनता है ।
यहाँ कोई 'नुम' के विषय में प्रश्न करता है कि नुम् भी शब्दान्तर को प्राप्त होने से 'शब्दान्तरं प्राप्नुवन् विधिरनित्यः' के अनुसार अनित्य है, तो वह उपधावृद्धि को कैसे रोक सकता है । शब्दरत्नकार यहाँ कहते हैं -
शब्दरत्न - शब्दान्तरप्राप्त्येति । यद्व्यक्तिसम्बन्धितया पूर्वं प्रवृत्तिस्तद्व्यक्तिसम्बन्धितयैव पुनः प्रवृत्तौ कृताकृतप्रसिकत्वं प्रसिद्धमिति भावः ।
तात्पर्य यह है कि 'कृताकृतप्रसङ्गोविधिर्नित्यः' के अनुसार जो विधि कृताकृतप्रसङ्ग हो उसे नित्य कहा जाता है । कृताकृतप्रसङ्ग का अर्थ शब्दरत्नकार स्पष्ट करते हैं कि जिस व्यक्ति अर्थात् शब्दविशेष के विषय में कोई कार्य पहले प्रवृत्त हो चुका हो, उसी शब्द विशेष के विषय में पुनः वही कार्य यदि प्रवृत्त हो सकता है तो वह कार्य कृताकृत प्रसङ्ग कहलाता है । यह प्रसिद्ध है । ऐसी विधि ही नित्य कहलाती है । जैसे तुद् + ति यहाँ पर लघुपधगुण हो जाने पर भी 'तोद्' (तुद्) व्यक्ति के विषय में 'तुदादिभ्यःशः' से विहित 'श' प्रत्यय प्रवृत्त हो सकता है, और लघूपध गुण न हो तब भी उसकी प्रवृत्ति हो सकती है । अतः 'श' नित्य है । ऐसी स्थिति में जिस व्यक्ति विशेष के विषय में पूर्व में कोई कार्य प्रवृत्त हुआ, उससे भिन्न किसी अन्य शब्दरूप व्यक्ति विशेष में यदि वह कार्य प्रवृत्त हुआ तो इसका अर्थ हुआ कि वह शब्दान्तर में प्राप्त होगया, तो ऐसे विधि नित्य नहीं अपि तु अनित्य होता है । नुम भी तुद् को गुण हो जाने पर जिस ‘तोद्' रूप ओकारोपध को प्राप्त होगा गुण नहीं करने पर उससे भिन्न 'तुद्' इस उकारोपध व्यक्तिविशेष में प्रवृत्त होगा । इस प्रकार व्यक्तिविशेषरूप शब्दान्तर को प्राप्त होने वाला नुम् भी अनित्य ही है । पुनः उसे नित्यत्वात् उपधावृद्धि से बलवान् मानकर बाधक कैसे कहा गया? मनोरमाकार इसके उत्तर में कहते हैं - कृताकृतप्रसङ्गमात्रेण इत्यादि । शब्दरत्नकार इसका आशय बताते हैं -
शब्दरत्न - कृताकृतेति । व्यक्तिविशेषानाश्रयणेनेत्यर्थः । 'वृद्धयौत्वतृज्वद्भाव' इत्यस्य त्वत्र न प्राप्तिः, साहचर्येण विभक्तिनिमित्तानामेव वृद्धयादीनां तत्र ग्रहणात् । नित्यत्वेनैव सिद्धे वाचनिकपूर्वविप्रतिषेधाश्रयणे फलाभावाच्चेति दिक् ।
तात्पर्य यह है कि व्यक्तिविशेष का आश्रयण के विना भी अर्थात् तुद् तथा तोद् रूप विभिन्न रूपविशिष्ट व्यक्तिविशेष की भिन्नता को न मानकर केवल धातु 'तुद्' की एकता के कारण कृताकृतप्रसनित्व मानकर कहीं - कहीं नित्यता मानी जाती है । इसलिए गुणविशिष्ट तथा गुणरहित व्यक्तिविशेष का आश्रय किये विना केवल धातु मात्र की अभिन्नता के कारण नुम को नित्य मानकर उसे उपधावृद्धि का बाधक कहा गया । यहाँ कोई कहता था कि - 'रन्धयति' में उपधावृद्धि को तो पूर्वविप्रतिषेध से ही नुम् बाध देता । क्योंकि वार्तिककार कहते हैं 'वृद्धयौत्वतृज्वद्भावगुणोभ्यो नुम् विप्रतिषेधेन' पुनः उसे नित्य मानकर नित्यत्वात् उपधावृद्धि का बाधक मानने की क्या आवश्यकता? शब्दरत्नकार इसीलिए आगे कहते हैं - 'वृद्धयौत्व' इत्यादि । तात्पर्य यह है कि 'रन्धयति' में 'वृद्ध्यौत्व' वार्तिक की प्राप्ति नहीं होती । क्योंकि साहचर्य परिभाषा के कारण विभक्ति निमित्तक वृद्धि का ही वहाँ ग्रहण होता है । क्योंकि 'औत्व' का निमित्त विभक्ति है । अतः वृद्धि भी उस वार्तिक में वही लिया जाएगा, जिसका निमित्त विभक्ति हो । उसी विभक्तिनिमित्तकवृद्धि को पूर्वविप्रतिषेधेन नुम् बाधता है । यहाँ तो उपधावृद्धि प्राप्त हो रही है । अतः उसे उपर्युक्त वार्तिक के आधार पर नुम् पूर्वविप्रतिषेधेन नहीं बाध सकता था । दूसरी बात यह भी है कि जब नित्यत्वात् नुम् वृद्धि को बाध ही सकता है तो उसके लिए वाचनिक अर्थात् वार्तिकरूप वचन के आधार पर 'पूर्वविप्रतिषेध' का आश्रय लेने का कोई फल भी नहीं है । अतः मनोरमाकार ने नित्यत्वात् नुम् को पर उपधावृद्धि का बाधक कहा ।
मनोरमा - अन्तरङ्गं यथा - उभये देवमनुष्याः । इह 'प्रथमचरम' (पा.सू. 1/1/33) इति परममपि विकल्पं बाधित्वा 'सर्वादीनि' (पा.सू. 1/1/27) इति सर्वनामसंज्ञा विभक्तिनिरपेक्षत्वेनान्तरङ्गत्वात् । अपवादोऽपि यद्यन्यत्र चरितार्थस्तर्हयन्तरङ्गेण बाध्यत एव। तद्यथा - अयजे इन्द्रं, ग्रामे इह, सर्वे इत्थम् । अत्रान्तरत्रेण गुणेन सवर्णदीर्घो बाध्यते । स च यद्यपि यण्गुणयोरपवादस्तथापि समानाश्रये चरितार्थः । तथा च वार्तिकम् - 'इण्डिशीनामाद्गुणः सवर्णदीर्घत्वात्' इति ।
पर को अन्तरत्नशास्त्र भी बाध देता है । जैसे 'उभये देवमनुष्याः' यहाँ 'उभय' के तयप् प्रत्ययान्त होने के कारण 'प्रथमचरमतयाल्प' सूत्र से परत्वात् विकल्प से सर्वनामसंज्ञा प्राप्त थी, परन्तु अन्तरङ्गत्वात् 'सर्वादीनि' सूत्र उस पर विकल्प को बाधकर नित्यसर्वनामसंज्ञा करता है । सर्वादीनि विभक्ति निरपेक्ष होकर सर्वनाम संज्ञा करता है । यहाँ शब्दरत्नकार कहते हैं -
शब्दरत्न - अन्तरङ्गत्वादिति । भाष्ये तु 'अयच्' प्रत्ययान्तरं न तु तयबादेशः, 'उभयी' इत्यत्र ङीप् तु मात्रजिति प्रत्याहाराश्रयणेन साधितः। एवं चोभयशब्दे विकल्पस्य प्राप्तिरेव नेति उक्तम् । अन्तरङ्गस्य बलवत्त्वे ज्ञापकमन्यत्र प्रपिञ्चतम् ।
यहाँ शब्दरत्नकार, मनोरमाकार से अपनी मतभिन्नता प्रकट करते हुए कहते हैं कि 'उभय' शब्द में जो 'अयच्' प्रत्यय सुनाई दे रहा है उस अयच् प्रत्यय को भाष्यकार ने एक स्वतन्त्र प्रत्यय माना है, न कि तयपू के स्थान पर आदेश रूप। इस प्रकार 'उभय' शब्द को स्थानिवद्भाव से तयप् प्रत्ययान्त मानकर 'प्रथमचरम' से विकल्प की (विकल्प से सर्वनाम संज्ञा की) प्राप्ति ही नहीं है पुनः उसे विभक्तिनिरपेक्ष होने से अन्तरङ्ग 'सर्वादीनि' बाध देगा यह कथन मनोरमाकार का भाष्यसम्मत नहीं । इस पर पुनः प्रश्न होता है कि यदि 'उभय' तयबन्त नहीं अपितु स्वतन्त्र अयच् प्रत्ययान्त है तो स्त्रीत्वविवक्षा में 'उभय' शब्द से 'टिड्डाणञ्' से ङीप् कैसे हो पाएगा और 'उभयी' यह प्रयोग कैसे निष्पन्न होगा ? इसका उत्तर देते हुए शब्दरत्नकार कहते हैं कि 'उभयी' में ङीप् तो 'टिड्ढाणञ्' सूत्र में पठित 'मात्रच्' को प्रत्याहार मानकर हो जाएगा । इस प्रकार 'मात्रच्' प्रत्याहार के भीतर जो भी प्रत्यय आएंगे तदन्त से 'टिड्ढणञ्' सूत्र ङीप् करेगा । 'अयच्' प्रत्यय भी 'मात्रच्' प्रत्याहार के भीतर ही आता है क्योंकि 'मात्रच्' प्रत्याहार 'प्रमाणेद्वयसज्दघ्नच्मात्रच्' इस सूत्र के मात्र से लेकर 'द्वित्रिभ्यां तस्यायज्वा ' इस सूत्र में पढ़े गये अयच् के 'चकार' तक लिया जाता है । एवञ्च 'उभय' के अयजन्त होने पर भी ‘टिड्ढणञ्' से ङीप् हो जाएगा उभयी बन जाएगा । कोई दोष नहीं है । इस प्रकार 'उभय' में उपर्युक्त सूत्र से विकल्प की प्राप्ति ही नहीं है । अन्तरत्र जो बलवान् होता है सो उसके बलवत्त्व का ज्ञापक अर्थात् उसे बलवान् क्यों माना जाता है, वह लघुशेखरग्रन्थ में विस्तार से मैंने प्रतिपादित किया है । मनोरमाकार आगे कहते हैं कि अपवादशास्त्र भी यदि कहीं अन्यत्र चरितार्थ रहता है तो वह भी अन्तरत्र शास्त्र के द्वारा बाधा ही जाता है । यहाँ शब्दरत्नकार कहते हैं -
शब्दरत्न - बाध्यत एवेति । निरवकाशत्वरूपस्य बलबत्त्ववीजस्याभावात् ।
तात्पर्य यह है कि अपवादशास्त्र की बलवत्ता का कारण (बीज) हैं उसका निरवकाश होना अर्थात् अचरितार्थ होना । एवञ्च यदि वह अपवादशास्त्र कहीं चरितार्थ हो गया तो इसका अर्थ हुआ निरवकाश नहीं रहा । तो उसमें बलवत्ता का बीज (कारण) जो निरवकाशत्व, उसके नहीं रहने से वह बलवान् नहीं रह जाएगा तो उसे ग्रामे अन्तरङ्ग बाधेगा ही । मनोरमाकार इसका उदाहरण देते हैं - अयजे इन्द्रम्, इह, सर्वे इत्थम् । यहाँ पर अन्तरङ्ग गुण के द्वारा सवर्णदीर्घ (अपवाद) बाध दिया जाता है । वह सवर्णदीर्घ यद्यपि यण्, तथा गुण का अपवाद है, परन्तु समानाश्रय में अर्थात् सवर्णी अच् (या अक्) में दण्डाढकम्, हरीश, विष्णूदयः इत्यादि में चरितार्थ है तो अयज इ + इन्द्रः, ग्राम + इ + इन्द्रः, सर्व + इ + इत्थम् इस स्थिति में इन्द्रः या इत्थम् के इकार तथा विभक्ति वाले इकार का परस्पर सवर्णदीर्घ भी प्राप्त होता है और अयज, ग्राम, सर्व इन सब शब्दों के अन्त में जो अकार है उसका विभक्ति वाले इकार के साथ तीनों स्थल में गुण भी प्राप्त है । इनमें सवर्णदीर्घ यद्यपि गुणका अपवाद है । अतः उसे, गुण को बाधना चाहिए था अर्थात् सवर्णदीर्घ होना चाहिए था । परन्तु वह सवर्णदीर्घ अन्यत्र समानाश्रय में चरितार्थ है । अतः उसमें निरवकाशत्व नहीं रह जाने के कारण बलवत्ता भी नहीं रही तो गुण ही अन्तरङ्ग होने के कारण सवर्णदीर्घ को बाध देता है । सवर्ण दीर्घ की अपेक्षा गुण यहाँ अन्तरन इसलिए है कि प्रकृति तथा प्रत्यय के अवयवों को गुण हो रहा है जो कि एक पद के अवयव हैं । जबकि सवर्णदीर्घ बाहरी शब्द के अवयव के साथ हो रहा है । अतः अन्तः अपेक्षहोने के कारण गुण अन्तरङ्ग है और बहिरपेक्ष होने से यहाँ सवर्णदीर्घ बहिरङ्ग है । वार्तिक भी है इण् इङ् शीनामाद्गुणः, सवर्णदीर्घत्वात् ।
कौमुदी - असिद्धं बहिरनमन्तरजे (परिभाषा)।
मनोरमा - असिद्धमिति । तेन पचावेदम् इत्यादावेत ऐत्वं न ।
शब्दरत्न - तेनेति । पूर्वा तु अन्तरङ्गबहिरनयोर्युगपत्प्राप्तावेति भावः ।
अन्तरङ्ग शास्त्र की दृष्टि में बहिरङ्ग शास्त्र असिद्ध होता है । इसलिए पचाव + इदम् यहाँ पर ‘आद्गुण' से गुण होकर जब 'पचावेदम्' बन जाता है तो 'एत ऐ' सूत्र से 'वे' के एकार को ऐत्व नहीं होता । क्योंकि एक 'एत्' की अपेक्षा करने के कारण अल्पापेक्ष होने से 'एत ऐ' अन्तरङ्ग है, जबकि 'आद् गुण:' पूर्व में अवर्ण तथा पर में अच् की अपेक्षा करने से बह्वपेक्ष होने से बहिरन है । एवञ्च अन्तरङ्ग 'एत ऐ' की अपेक्षा बहिरङ्ग आद्गुणः से विहित गुण के असिद्ध हो जाने से वहाँ 'एत ऐ' को एकार दिखाई नहीं देता है तो 'ऐ' नहीं होता ।
शब्दरत्नकार यहाँ कहते हैं कि पचावेदम् में पूर्वा अर्थात् 'परनित्यान्तरत्नानाम्' परिभाषा की प्रवृत्ति नहीं होगी क्योंकि जहाँ अन्तरन तथा बहिरङ्ग युगपत् अर्थात् एकसाथ प्राप्त होते हैं वहीं वह निर्णय करने के लिए प्रवृत्त होती है न कि जहाँ दोनों की क्रमशः प्राप्ति होती हो वहाँ पर। यहाँ तो बहिरज गुण पहले प्रवृत्त हो जाता है, पश्चात् अन्तरत्ड्ग 'एत ऐ' की प्राप्ति होती है ।
कौमुदी - अकृतव्यूहा पाणिनीयाः । निमित्तं विनाशोन्मुखं दृष्टवा तत्प्रयुक्तं कार्यं न कुर्वन्तीत्यर्थः ।
मनोरमा - अकृतव्यूहा इति । यद्यपि कृतमपि कार्यं निर्वतयन्ति इति परिभाषान्तरं पठ्यते, फलं च तुल्यम्, तथापि 'अकृत - इत्येव लघु । ' 'प्रक्षालनाद्धि पक्कस्य दूरादस्पर्शनं वरम् । ' इति न्यायादिति भावः ।
यद्यपि 'कृतमपि कार्यं निवर्त्तयन्ति' ऐसी भी परिभाषा पढ़ी गयी है । अर्थात् 'किया जा चुका कार्य भी निवृत्त हो जाता है । '
इस प्रकार 'अकृतव्यूह' परिभाषा तथा 'कृतमपिकार्यं' इस परिभाषा का फल तुल्य ही है क्योंकि अकृतव्यूह परिभाषा के अनुसार जिस कार्य का निमित्त विनष्ट होने वाला हो वह कार्य पहले ही नहीं होता । जबकि 'कृतमपि कार्यम्' परिभाषा के अनुसार किया गया कार्य भी निवृत्त हो जाता है । फल तो एक ही हुआ 'कार्याभाव। ' तथापि इन दोनों में अकृतव्यूह परिभाषा को मानने में ही लाघव है क्योंकि कीचड़ लगाकर उसे धोने से अच्छा है कीचड़ का स्पर्श ही न करें। ऐसे ही कार्य करके पश्चात् उसे निवृत्त करने से अच्छा तो यही है कि कार्य पहले किया ही न जाए ।
मनोरमा - न कुर्वन्तीति । यथा 'निषेदुषीम्' इत्यादी क्वसोरिट्मन्तरङ्गत्वात्प्राप्तमपि भाविना संप्रसारणेन वलादित्वं नङ्क्ष्यतीत्यालोच्य न कुर्वन्तीत्यर्थः ।
जैसे 'निषेदुषीम्' यहाँ पर 'क्वसु' के 'वस्' को 'आर्धधातुकस्येड्वलादेः' से वलादि मानकर अन्तरङ्गत्वात् इट् प्राप्त होताहै । परन्तु भविष्य में होने वाले 'वसोः सम्प्रसारणम्' से विहित सम्प्रसारण के द्वारा इट्का निमित्त जो वस् का वलादित्व है वह नष्ट हो जाएगा (क्योंकि वकार को सम्प्रसारण होकर उकार हो जाएगा) इसबात की आलोचना करके पहले ही 'इट्' नहीं करते । यहाँ शब्दरत्नकार कहते हैं -
शब्दरत्न - न कुर्वन्तीत्यर्थः । यदि तु 'सेदुषः' इत्यादौ पदावधिकेऽन्वाख्याने सेद् वस् अस् इति स्थिते इट्संप्रसारणयोः प्राप्तौ प्रतिपदविधित्वेन शीघ्रोपस्थितिकत्वात्पूर्वं सम्प्रसारणे वलादित्वाभावादिट: प्राप्तिरेव न लक्ष्यानुरोधाच्चात्र पदावधिकमेवान्वाख्यानमिति तत्सिद्धिरित्युच्यते, तदैषा परिभाषा निष्फलेति बोध्यम् । अत एवैषा भाष्ये न क्वापि व्यवहृतेत्यन्यत्र विस्तरेण निरूपितम् ।
इस शब्दरत्न को समझने से पूर्व यह समझना आवश्यक है कि अन्वाख्यान का क्या अर्थ है और वह कितने प्रकार का है । अतः पहले इसे समझें।
अन्वाख्यान कहते हैं शब्दसंस्कार को। शब्दसंस्कार रूप वह अन्वाख्यान तीन प्रकार से किया जाता है । अतः उसके तीन भेद हैं - (1) क्रमिकान्वाख्यान, (2) पदावधि कान्वाख्यान, (3) वाक्यावधिकान्वाख्यान ।
(1) इनमें प्रयोग में जिस क्रम से उच्चारण किया गया है, उसी क्रम से संस्कार रूप अन्वाख्यान क्रमिकान्वाख्यान कहलाता है ।
(2) पदपर्यन्त प्रकृति तथा प्रत्यय को रखकर उसका श्रुतक्रमानुरोध से संस्कार रूप अन्वाख्यानपदावधिकान्वाख्यान कहलाता है ।
(3) वाक्यपर्यन्त जितने पद हैं उन सबके प्रकृतियों को तथा प्रत्ययों को रखकर श्रुत क्रमानुरोध से संस्कार रूप अन्वाख्यान वाक्यावधिकान्वाख्यान कहा जाता है ।
ऐसी स्थिति में 'सेदुष:' 'सेदुषीम्' इत्यादि में यदि पदावधिक अन्वाख्यान किया जाए तो 'सेद् वस् अस्' इस स्थिति में 'वस्' को बलादि मानकर 'आर्धधातुकस्येड्वलादेः' से इट् तथा 'वसोः सम्प्रसारणम्' से सम्प्रसारण दोनों एक साथ प्राप्त होंगे, तब प्रतिपदविधित्वेन अर्थात् 'वस्' शब्द का उच्चारण करके सम्प्रसारण का विधान करने के कारण 'वसोः सम्प्रसारणम्' की उपस्थिति इट् की अपेक्षा शीघ्र होगी तो वह पहले सम्प्रसारण कर देगा तो सेद् उस् अस् ऐसी स्थिति बनेगी। इस स्थिति में बलादित्व नहीं रह जाने के कारण 'इट' की प्राप्ति ही नहीं रहेगी। लक्ष्य के अनुरोध से यहाँ पदावधिक अन्वाख्यान ही माना जाता है । इस प्रकार जब 'इट् की प्राप्ति ही नहीं है तो 'अकृतव्यूह' परिभाषा के द्वारा उसका निषेध करना उचित नहीं । एवञ्च उपर्युक्त रीति से जब सेदुषः आदि की सिद्धि हो गयी तो इसका अर्थ हुआ कि 'अकृतव्यूह' परिभाषाका फल 'सेदुष:' की सिद्धि नहीं हुई। तो तब यह परिभाषा निष्फल ही है । यह समझना चाहिए । निष्फलत्वात् इस परिभाषाका व्यवहार भाष्य में कहीं भी नहीं किया गया है ।
यह सब बातें विस्तार से परिभाषेन्दुशेखर में निरूपित हैं ।
॥ लघुशब्देन्दुशेखरः - संस्कृतव्याख्या ॥
स्वरितेन (१.३.११) । इत्थम्भूतलक्षणे तृतीया । स्वरितत्वज्ञाप्योऽधिकारो विनियोग इत्यर्थः । स्वरितत्ववेदं दोषविशेषरूपमज्झत्साधारणं स्वरूपमधिक्रियमाण- पघटकानिष्ठं वा । तच्चानुनासिक्यवत् प्रतिज्ञागम्यम् । विनियोगश्च प्रायेणोत्तरत्रो- पस्थितिः, क्वचित् पूर्वत्रापि ।
कियद्दूरमधिकारः ? इत्यत्रासति गमके व्याख्यानमेव शरणम् । किम, स्वरिते- नायिका रगतिः । तेन 'गोस्त्रियोः' (१.१.४८) इत्यादी स्त्र्यधिकारस्यप्रत्ययग्रहण- मित्याद्याकरादवसेयम् ।
एतेन 'व्याख्यानादेव निवृत्तिवदनुवृत्तिरपि भविष्यति, आकाङ्क्षायान्तु सत्या- मयुतकल्पनाया अन्याय्यत्वाच्युतापेक्षणस्य न्याय्यत्वाच्च किं सूत्रेण' इत्यपास्तम् । स्पष्टं चेदं भाष्ये ॥
स्वरितेनाधिकारः । जटाभिस्तापस इत्यादिवत् स्वरितेनेत्यत्र ' इत्यम्भूतलक्षणे' इत्यनेन तृतीया तस्मिन्नेवार्थे । इत्थम्भूतः = कश्चित् प्रकारविशेषं प्राप्तः, स्वरितत्वं प्राप्तः, तस्य लक्षणे तृतीया इत्यर्थः । लक्षणत्वमत्र ज्ञानजनकज्ञानविषयत्वम् । यथा स्वरितत्व- ज्ञाप्योऽधिकारः । तथा च अधिकारज्ञानजनकत्वज्ञानं स्वरितत्वज्ञानं तद्विषयत्वं स्वरितस्य । तृतीयाया वैशिष्टयमर्थः । स्वरितत्वविशिष्टोऽधिकारी विनियोग' इत्यर्थः । सूत्रे स्वरितशब्दः स्वरितत्वपरः, अधिकारशब्दो भावसाधनः । अत एव तस्य विनियोगोऽय दर्शितः । स्वरितत्वमज्झल्साधारणम् अज्झविशिष्टनिष्ठं बोध्यम् । तत्र तत्र सूत्रेषु स्वरितत्वनिर्देशस्य ज्ञानाभावात् कथं तज्ज्ञातुं शक्यम् ? अत आह-तच्च इति । स्वरितत्वं लक्ष्यदर्शनात् प्रतिज्ञायते, यथा आनुनासिक्यम् । विनियोगः उत्तरयानुवृत्तिः । क्वचित् पूर्वत्रापि अनुवृत्तिः । असति गमके इति । यथा 'अङ्गस्य' इत्यस्य अवधि निर्दिष्टः । 'प्राग्दीव्यतोऽण्' इत्यत्र तु दीव्यते प्राग् अगोऽधिकारः इत्यवधिनिर्दिष्टः । यत्राव- बेनिदेशो न तत्र स्वरितत्वप्रतिज्ञया अवधिज्ञानं कर्तव्यम् ।
अथवा लक्षणाया अधिकारशब्दोऽधिकारगतिपरः । गतेर्ज्ञानमर्थः । स्वरितत्व- ज्ञाप्यम् अधिकारज्ञानम् । अधिकाराब्दः अधिक कार्य करोतीति व्युत्पत्तिलभ्यार्थकः । तयाच अधिककार्यकारित्वज्ञानमित्यर्थः । तेन 'गोस्त्रियोरुपसर्जनस्य' इत्यत्र 'स्त्रियाम्' त्यधिकृत्य विहितानां टावादिप्रत्ययानामेव ग्रहणं न तु स्त्रीबोधक सामान्यस्य । इत्यादीनि इति । आदिपदेन गोणाधारेऽपि सप्तमी 'पूर्वत्रासिद्धम्' इत्यत्र त्रिपाद्यामपि पूर्व प्रति परमसिद्धमित्यर्थस्य लाभोऽपि संगृहीतः । अनिष्ठ स्वरविशेषरूपं स्वरितत्वमिति पक्षे शब्दस्वरूपस्य तद्युक्तत्वं परम्परया बोध्यम् । स्वाश्रयाज्घटितत्वसम्बन्धेन स्वारितत्वयुक्तः शब्दः । स्वं स्वरितत्वम्, तदाश्रयः अच् तेन घटितः स शब्दः । एतेन = अर्थान्तर- कथनेन । कियद् दूरमधिकारः ? इत्यस्य सूत्राश्रयणेऽपि व्याख्यानादेव निर्णेयत्वेन तथैव अस्यानुवृत्तिरित्यपि व्याख्यानादेव अवगम्येत । वाक्यार्थबोधे पदार्थान्तरस्य आकांक्षितत्वेन तद्वाचकस्य अश्रुतस्य अनुपस्थितस्य पदस्य कल्पनापेक्षाया अन्याय्यतया पूर्वं श्रुतस्यैवा- पेक्षणात् तेनैवाकाङ्क्षाशान्तेश्च सम्भवादयमधिकारो व्यर्थ एव आरब्ध इत्यपास्तम् । अस्य न केवलमनुवृत्तिमात्रफलकत्वं किन्तु तत्र तत्र कार्यविशेषबोधनमपि प्रयोजनमिति न वैयर्थ्यम् । अस्मिन्नेव सूत्रे अधिककार्य कारित्वरूपमधिकारफलं प्रदर्शितम् ।।
परनित्य इति (प०) । परं विप्रतिषेधसूत्राद् बलवत् । नित्यं कृताकृतप्रसङ्गि, तद्विपरीतमनित्यम् । तत्राक्लृप्ताभावकल्पनापेक्षया क्लृप्ताभावकस्यैव तत्कल्पनं युक्तमिति तस्य बलवत्त्वे बीजम् । अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्त समुदायमध्ये ऽन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम् । तदीयनिमित्तसमुदायाद बहिर्भुताङ्गकं बहिरङ्गम् ॥
तस्य बलवत्त्वे बीजमाह-असिद्धमिति । इयञ्च 'वाह ऊठ् (६.४.१३२) इति सूत्रेण ज्ञापिता ।
परेति । परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः । कृतेऽपि अकृतेऽपि च कार्ये यत् प्राप्नोति तन्नित्यम् । तथाच नित्यस्य सदा प्राप्तत्वेन अन्यशास्त्रस्य कृतेऽस्मिन् अप्राप्तत्वेन तदभावः पक्षे निश्चितः । अनिश्चिताभावकस्य सूत्रस्य अप्रवृत्तिकल्पनापेक्षया निश्चिता- भावकस्य अप्रवृत्तिरेव युक्ता । एकस्याभावः कृते अकुते क्वापि न क्लप्तः, अन्यस्य च कृते पक्षे अभावो निश्चित इति यस्याभावः कदाचिद् भवेत् तस्यैवाभावः सवंदा कल्प्यतामित्येव नित्यशास्त्रे बाधकताबीजम् ।
अन्तरिति । 'असिद्ध बहिरङ्गमन्तरङ्गे' इत्यत्र अन्तःशब्दो मध्यवाचीत्याह- मध्ये इति । अङ्गशब्दो नात्र शरीरावयववाची, नवा अङ्गसंज्ञापरः, किन्तु निमित्तपरः, तदाह- अङ्गानीति । व्याकरणे शब्दस्य प्राधान्यात् शब्द एव निमित्ततया गृह्यते । अत एव अर्थकृतबहिरङ्गत्वस्य तत्र तत्रानाश्रयणमुकम् । तदीयः - अन्तरङ्गशास्त्रीयः । तस्य = अन्तरङ्गस्य । वाह ऊठ् इति । एतत्सूत्रघटकोठ्ग्रहणेन ज्ञापिता इत्यर्थः । तत्र सूत्रे ऊठ्- विधान विश्वोह इत्यत्र ऊठि कृते 'एत्येधत्यूट्सु' इत्यनेन वृद्धिविधानार्थम् । तत्र ऊठ्ग्रहणं न कर्तव्यम्, सम्प्रसारणपदमनुवत्यं तदेव विधीयताम्, सम्प्रसारणेन उकारे जाते 'युगन्तलघूपधस्य च' इति गुणे बोकारे पूर्वपरयोः 'वृद्धिरेचि' इत्यनेन वृद्धौ विश्वहः इत्यस्य सिद्धया तद् व्यर्थ सद् अन्तरङ्गपरिभाषां ज्ञापयति । ज्ञापितायां परिभाषायाम्, अन्तरङ्गस्य लघूपधगुणस्य दृष्ट्या शस्पर्यन्तमपेक्ष्य प्रवृत्तत्वाद बहिरङ्गस्य 'वाह ऊठ्' त्यस्यासिद्धत्वात् पुगन्तसूत्रस्याप्राप्यो प्रयोगसिद्धये उविधानं चरितार्थमिति भावः ।
यधपि प लोको दृश्यते, मनुष्योऽयं प्रातरुत्थाय प्रथमं शरीरकार्याणि करोति, ततः सुहृदाम्, ततः सम्बन्धिनाम्' इति न्यायमूलकत्वमस्या 'अचः परस्मिन्' (१.१.५७) इति भाष्ये उक्तम्; तथापि तेन न्यायेन युगपदप्राप्तिविषयतेव स्यात् । ज्ञापकेन तु सर्वविजयता बोद्धयते इति 'वाह ऊठ्' (६.४.१३२) इति सूत्रे कैटे स्पष्टम् । अन्यथा वाहः सम्प्रसारणे पूर्वरूपे च कृते व्याश्रये गुणे 'वृद्धिरेचि' (६.१.८८) इति वृद्धौ 'प्रष्ठोहः' इत्यादि सिद्धावृविधानं व्यर्थ स्यात् । नाजानन्तयंपरिभाषा तु नास्त्येवेति न 'अयजे इन्द्रम्' इत्यादी दोष इति परिभाषेन्दुशेखरे विस्तरः । अपवादस्तु वचनप्रामाण्याद् बलवान् ॥
न्यायसिदे ज्ञापकानुसरणं नोपयोगीति न शङ्कनीयम् । पूर्वमेव जातस्य बहिरजय पश्चात् प्रवृत्तेनान्तरङ्गशास्त्रेण असिद्धत्वं लोकन्यायेन प्रतिपादयितुमशक्यम् । अन्तरङ्गबहिरङ्गकार्ययोः युगपतु प्राप्तौ बहिरङ्गकायपिक्षया अन्तरङ्गकार्य पूर्वं करोती- त्यत्रैव लोकदृष्टान्ते, न तु कृतमपि बहिरङ्गमकृतमिव मन्यते । एतत् प्रतिपादयितुमाह- यद्यपीति । प्रत्यङ्गवर्ती बङ्गस्य प्रत्यासन्नत्वात् समीपवर्ती । अङ्गशब्दस्यार्थो लक्षणया उच्यते । बम प्रति प्रत्यङ्गम् । वीप्सायामव्ययीभावः । सर्वविषय इति । जातं समकालप्राप्तक्षेतदुभयविषयमित्यर्थः । ज्ञापनप्रकारं दर्शयति - अन्यथा इति । परिभाषाया असत् । प्र बाह्यतीति विग्रहे णिजन्ताद् 'बहश्व' (३.२.) इत्यनेन णिप्रत्यये णिलोपे सम्प्रसारणे पूर्वरूपे पुगन्तेति गुणे वृद्धी 'प्रष्ठोहः' इत्यस्य सिद्धेरूविधानस्य वैयथ्यंम् ।
नच 'नाजानन्तयें बहिष्टुप्रक्लप्तिः' इत्यनया अनिष्टं यदानन्तयं तन्निमित्तके feat अन्तङ्गणास्त्रे कर्तव्ये बहिरङ्ग परिभाषाया अप्रवृत्तिरित्यधिकया परिभाषया अन्या- नन्तर्यानिमित्तके अजूनिष्टं ग्वगुणे कर्तव्ये बहिरङ्गपरिभाषाया अप्रवृत्तो गुणे वृद्धी रूसिया ग्रहणस्य वैवज्ञापनोत्तरमपि तदवस्यमिति वाच्यम्; नाजानन्तयं- परिभाषाया अस्वीकारात् । यच्चास्याः ज्ञापकम् 'पत्वतुकोरसिद्धः' इति सूत्रे तुम्ग्रहणम्, तदन्तरङ्गपरिभाषाया अनित्यत्वे ज्ञापकमास्तामः तावतैव इष्टसिद्धेः । ज्ञापनप्रकारश्चे- पदको इति सूत्रेण पत्वे तुकि च कर्तव्ये एकादेशशास्त्रस्यासिद्धता बोध्यते । यथा अत्रीयत्य इत्यादी दीर्घे गुणे व ययाक्रमं कृते ह्रस्वस्य पिति कृति तु इत्यनेन ह्रस्वाभावात् तुग्न स्यात् । अतः सूत्रं कृतम् । कृते तु एकादेशस्य असिद्धत्वात् ह्रस्वे- कारमादाय तुक् सिध्यति । असिद्धपरिभाषायाः सत्त्वेन प्रवृत्तौ पदद्वयसम्बन्धितोः इकारयोः अकारेकारयोश्च क्रमेण दीर्घे गुणे च अपेक्षणात् तयोर्बहिरङ्गत्वमिति एकपदा- श्रितत्वेन अन्तरङ्गतुक्शास्त्रदृष्ट्या असिद्धत्वादेव तुकः सिद्धया सूत्रे तुंग्ग्रहणं व्यर्थम् । तदेव ज्ञापयति - 'नाजानन्तयें' इति । तथा च अन्यान्तर्यनिमित्तके अनिष्ठे तुकि अन्त- रङ्गपरिभाषाया अप्रवृत्त्या तुकोऽप्राप्तौ तुग्ग्रहणं सूत्रे चरितार्थम् ।
एतस्याः परिभाषायाः ज्ञापनं विनापि अन्तरङ्गपरिभाषाया अनित्यत्वज्ञापनेनैव तुग्रहणस्य चारिताथ्यं वक्तुं शक्यमतो नाजानन्तयं परिभाषाया नोपयोगः । लक्ष्यानुरोधाच्च अन्तरङ्गपरिभाषायाः प्रवृत्त्यप्रवृत्ती नाजानन्तर्य परिभाषायाः स्वीकारे यज्वातोर्लङि उत्तमपुरुषैकवचने इटि विभक्तौ अटि शपि च अयजइ इन्द्रमित्यत्र वाक्यसंस्कारपक्षे 'आद्गुण:' इत्यनेन गुणः, इन्द्रघटकेकारेण सह द्वयोरिकारयो दीर्घश्च प्राप्तः । पदद्वयसम्ब न्धिवर्णद्वयनिमित्तकत्वाद् दीर्घस्य बहिरङ्गत्वादसिद्धत्वेन गुणे उक्तं रूपं सिध्यति । 'नाजा- नन्तर्य' परिभाषायाः सत्त्वे तु अनिष्ठानन्तर्यनिमित्तकत्वाद् गुणे कर्तव्ये नाजानन्तर्यपरिभाषया अन्तरङ्ग परिभाषाया अप्रवृत्तिबोधनेन अनुवृत्ती अयजे इन्द्रमित्यत्र दोषः स्यात् । अन्तरङ्गपरिभाषाया अनित्यत्वकल्पने इष्टानुरोधाद् व्यवस्था । तथाचात्र परिभाषाया अनित्यत्वाद् प्रवृत्तिनं; इष्टानुरोधात् । विस्तरस्तु परिभाषेन्दुशेखरे द्रष्टव्यः । अपवादशास्त्रस्य सवपिक्षया वलवत्त्वं वचनारम्भसामर्थ्यादेव भवतीति ॥
अकृत ० (प०) इति । न कृतो विशिष्ट ऊहस्तर्कों निमित्तविनाशेऽपि कार्यस्थिति - रूपः, यथा दण्डविनाशेऽपि घटस्थितिः, स यैस्ते इत्यर्थः, तदाह-निमित्तमित्यादि । तत्प्रयुक्तं कार्यं जातमपि न कुर्वन्ति - नोच्चारयन्तीत्यर्थः इति कैयटादयः ।
अन्ये तु व्यूहोऽन्तरङ्गशास्त्रं बहिरङ्गापोहनरूपत्वात् । तत् निमित्तविनाशं वृष्ट्वा पूर्वमपि न कुर्वन्तीत्यर्थं इत्याहुः ।
इयं परिभाषा निष्फला निर्मूलेति परिभाषेन्दुशेखरे निरूपितम् ॥
॥ इति परिभाषाप्रकरणम् ॥
अकृतेति । अकृतव्यूहाः पाणिनीयाः । व्यूहपदघटकस्य विशब्दस्यार्थमाह - विशिष्ट इति। वैशिष्ट्यं वक्ति = विनाशेऽपि कार्यस्थितिरूपः । निमित्तपदेत निमित्तकारणम् उच्यते । पाणिनीयाः पाणिनिना प्रोक्तं पाणिनीयम्, तदधीयते इति पाणिनोयाः । व्या- करणाध्येतारः निमित्तविनाश सम्भावनायां तन्निमित्तप्रयुक्तं कार्यं प्रागेव न कुर्वन्ति = नोच्चा- रयन्तीति परिभाषार्थः । अयं भावः- निमित्तं द्विविधं दृष्टम् । एकं स्वस्य सत्त्वे कार्यस्थिते- नियामकम्, अपरच्च कार्यस्थित्यनियामकम् । प्रथमं यथा अपेक्षाबुद्धिः - अयमेकः अयमेक इत्याकारिका स्वस्थितिकालपर्यंन्स द्वित्वबुद्धिरूप कार्यस्थितेः सम्पादिका; अपेक्षायाः बुद्धेर्नाशे द्वित्वादिबुद्धेर्नाशाभ्युपगमात् । तदुक्तं न्यायमुक्तावल्याम्- 'अपेक्षाबुद्धिनाशाच्च नाशस्तेषां निरूपितः' । इति । एवमेव प्रारब्धाख्य कर्म संसारस्थितिनियामकम् । तस्य प्रारब्धकर्मक्षये संसारस्थितिरपि निवर्तते इति शास्त्रमर्यादा । अतएव 'नाभुक्तं क्षीयते कर्म', ‘क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे' इति बचनयोः परस्परं न विरोधः । 'नाभुक्तं 'क्षीयते' इति वचनं प्रारब्ध कर्मसम्बन्धि भोगमन्तरा प्रारब्धकर्मणोऽनिवृत्तेः । 'क्षीयन्ते चास्य' इति वचनन्तु सचितकर्मसम्बन्धि सञ्चितकर्मणो भगवद्दर्शनादिना निवृत्तेः । एवमेव न जपाकुसुमस्य उपाधेः सम्बन्धात् स्फटिके मणी भासमानस्य लौहित्यस्य जपाकुसुमरूपोपाधेः स्थितावेव नियामकत्वम्; उपाधेरपगमे लौहित्यस्यापि निवृत्तेः ।
द्वितीयं यथा दण्डादेः घटस्थितिनियामकत्वं न, दण्डादेः असत्त्वेऽपि घटादिस्थिति - दर्शनात् । दण्डनाशे घटनाशस्यादर्शनात् । शास्त्रे तु लक्ष्यानुसाराद् व्यवस्था विधेया । अपेक्षाबुद्धिनाशेन जातद्वित्वादिबुद्धिनाश इव प्रारब्धकर्मक्षयात् संसारस्य निवृत्तिकल्प- नमिव निमित्तस्य विनाशे जातं कार्यं निवर्तते । परिभाषाया अनित्यत्वात् दण्डादि- निमित्तविनाशे घटादिस्थितिरिव निमित्तविनाशेऽपि कार्यस्थितिः कार्य, न निवर्तते इति कैयटाशयः । निमित्तापाये नैमित्तिकस्याप्यपाय इति भावः ।
अन्यैस्तु व्यूह पदेन अन्तरङ्गशास्त्रं गृह्यते । कुतः ? बहिरङ्गापोहनरूपत्वात् - बहि- रङ्गेण शास्त्रेण निमित्तविनाशद्वारा अपोह्यते दूरीक्रियते यत् तद्रूपत्वम् अन्तरङ्ग- शास्त्रस्य । व्यूहनशब्दः कर्मल्युडन्तः, व्यूहशब्दे तु कर्मणि घञ । तत् = अन्तरङ्गशास्त्रम् । निमित्तविनाशसम्भावनायामित्यध्याहारलभ्यम् । न कुन्तीत्यर्थं । भाविनिमित्तविनादो कार्यस्यानुत्पत्ती लोके दृष्टान्त उपलभ्यते । नद्याः जलवृद्धेः सम्भावनया पूर्वमेव भवननि- र्माणादिकं तत्र न कुर्वन्ति । परिभाषाया निष्फलत्वं निर्मूलत्वञ्च परिभाषेन्दुशेखरे स्फुटम् ।
इति परिभाषाप्रकरणम् इति । अत्र विचार्यते - 'उरण् रपरः' 'यथासंख्य- मनुदेशः समानाम्' इत्यादिपरिभाषाणां प्रकरणेऽस्मिन् अनुल्लेखात् न्यूनता; तासामपि प्रथमाध्यायस्यत्वात् सन्धि कार्योपयोगिनीत्वाच्च । सन्धिकाय अनुपयोगिनीनां कासाञ्चिद् 'इको गुणवृद्धी' इत्यादिपरिभाषाणां निरूपणञ्चाप्रासङ्गिकम् । किञ्च ज्ञापकन्यायं सिद्धानां परिभाषाणां कासाञ्चित् त्यागः, कासाञ्चिद् व्याख्येयत्वेन उपादानमित्यर्धजरतीयमिति सन्देहो नावतारणीयः । प्रायेण प्रथमाध्यायस्आनां प्रायेण सन्धिकार्योपयोगिनीनाश्च परि- भाषाणामुल्लेखस्य प्रकारणे इष्टत्वात् न पूवोंकदोषाणामवकाशः । प्रायेणेति निवेशात् तद्भिन्नानां निरूपणमपि नासङ्गतम् । अत्र अष्टाध्यायीपठितानां परिभाषाणामुल्लेखो- ऽभिमतः । अतस्तद्भिन्नपरिभाषाणामनिरूपणेऽपि न प्रतिज्ञाविरोधः । न चैवमपि अध ध्याय्यामपठितानामपि कासाञ्चित् परनित्यान्तरङ्गानामित्यादिपरिभाषाणामुपन्यासोऽत्र- प्रकरणे कथमिति वाच्यम्; परत्वादनेन वाध्यते-- एतस्योपपादनाय परनित्येत्यस्या निरूपणम् । तत्रान्तरङ्गपदप्रवेशेन अन्तरङ्गपरिभाषानिरूपणमपि प्रसङ्गायातमिति तस्याः परिभाषाया उल्लेख:- इत्यादिरूपेण कथञ्चिद् गतिश्चिन्तनीया । अप्रामाष्य- ज्ञानानास्कन्दितलक्ष्यधार्मिक साधुत्वप्रकारक बोधोपयोगि साधुत्वाप्रकारकबोध जनकत्वं परिभाषा सामान्यलक्षणम् ॥
॥ लघुशब्देन्दुशेखरः - हिन्दी ॥
स्वरितेन । इत्थम्भूतलक्षणे तृतीया । स्वरितत्वज्ञाप्योऽधिकारो विनियोग इत्यर्थः । स्वरितत्वश्चेदं दोषविशेषरूपमज्झल्साधारणं स्वरूपमधिक्रियमाणपदघटकाज्निष्ठं वा । तत्त्वानुनासिक्यवत्प्रतिज्ञागम्यम् । विनियोगश्च प्रायेणोत्तरत्रोपस्थितिः, क्वचित्पूर्वत्रापि । 'कियद्दूरमधिकार' इत्यत्रासति गमके व्याख्यानमेव शरणम् । किञ्च स्वरितेनाधिकारगतिः । तेन 'गोस्त्रियोरित्यादौ ख्यधिकारस्थप्रत्ययग्रहणमित्याद्याकरादवसेयम् । एतेन 'व्याख्यानादेव निवृत्तिवदनुवृत्तिरपि भविष्यति, आकाङ्क्षायान्तु सत्यामश्रुतकल्पनाया अन्याय्यत्वाच्छ्रुतापेक्षणस्य न्याय्यत्वाच्च किं सूत्रेणेत्यपास्तम् । स्पष्टञ्चेदं भाष्ये ।
“स्वरितेनाधिकारः” इस सूत्रघटक “स्वरितेन” इस पद में जो तृतीया विभक्ति है वह “इत्थम्भूतलक्षणे” सूत्र से हुई है । तृतीया का अर्थ वैशिष्ट्य है । इसलिए “स्वरितत्वविशिष्ट का अधिकार जाता है” ऐसा इस सूत्र का अर्थ होता है । स्वरितत्व का यह वैशिष्ट्य ज्ञाप्यत्वसम्बन्ध से लिया जाता है । इसका तात्पर्य यह है कि अधिकार स्वरितत्व से ज्ञाप्य होता है और स्वरितत्व उसका ज्ञापक होता है ।
अधिकार शब्द का अर्थ विनियोग है । विनियोग का अर्थ है - व्यावृति । जैसे लोक में कहा जाता है कि वह “व्यक्ति ग्राम में अधिकृत है”। इसका तात्पर्य है कि वह ग्राम में व्यापृत है । यहाँ शास्त्र में किसी पद का उत्तरसूत्र में अनुवृत्ति होना ही उसकी व्यापति या विनियोग है । स्वरितत्व क्या है ? इस बात को स्पष्ट करते हुए शेखरकार कह रहे हैं कि यह स्वरितत्व अच् और हल दोनों में रहने वाला एक विशेष प्रकार का दोष है । इसका उभयनिष्ठत्व ही दोष है । अथवा स्वरितत्व अच् का धर्म है । अधिक्रियमाण जो पद है तद्घटक अनिष्ठ स्वरितत्व होता है । इस बात का निश्चय कैसे किया जाय कि यहाँ स्वरितत्व है ? तो इस आशंका के उत्तर में नागेश भट्ट का कहना है कि “तच्च वह स्वरितत्व आनुनासिक्य के समान प्रतिज्ञा से जाना जाता है । प्रायः करके उत्तरसूत्रों में उपस्थिति ही विनियोग शब्द का अर्थ है । स्वकीय सूत्र से जो उत्तर सूत्र है, उसके साथ एकवाक्यता करके विवक्षित वाक्यार्थ का सम्पादन करना ही विनियोग है । उदाहरण के लिए “इको यणचि” (६ ११ १७७) सूत्र के “अचि पद में स्वरितत्व की प्रतिज्ञा के आधार पर ही “अकः सवर्णे दीर्घः” (६ ११ ११०१) इस उत्तर सूत्र में “अचि” पद का अधिकार आता है ।
विनियोग शब्द की व्याख्या में नागेश भट्ट ने “प्रायेण” पद का उल्लेख किया है । इसका तात्पर्य है कि कहीं - कहीं पूर्व में भी अधिकार जाता है, जिसे अपकर्ष कहा जाता है । इसलिए वे स्वयं कह रहे हैं कि “क्वचित् पूर्वत्रापि” अर्थात् कहीं पूर्व में भी पदों का विनियोग होता है । उदाहरण के लिए “रायो हलि” (७।२।८५) इस परसूत्र में पठित “हलि” इस पद में स्वरितत्व की प्रतिज्ञा मान कर इसका “अष्टन आ विभक्तौ” (७ १२ १८४) इस पूर्वसूत्र में अपकर्ष होता है ।
किस पद का अधिकर कहाँ तक जाता है, इस बात के लिए यदि कोई प्रमाण मिले तब वहाँ तक उस पद का अधिकार ले जाना चाहिए । जैसे “प्राग् दिव्यतोऽण्” इस सूत्र में पठित “दिव्यतः प्राक् “इस वचन रूपी प्रमाण के आधार पर यहाँ पठित” अण्” इस पद का अधिकार “तेन दीव्यति खनति जयति जितम्” इस सूत्र तक जाता है । जहाँ कोई प्रमाण न हो वहाँ असति गमक स्थल में व्याख्यान से अधिकार की अवधि का निर्णय किया जाता है । जैसे “अङ्गस्य” इस सूत्र का अधिकार सप्तमाध्याय की समाप्ति पर्यन्त भाष्यादि के व्याख्यान के आधार पर ही जाता है ।
अधिकार शब्द का अर्थान्तर करके सूत्र का मुख्य प्रयोजन बताते हुए कह रहे हैं कि स्वरित से अधिकार की गति होती है । अधिकार शब्द का अर्थ है - “अधिकः कारः कार्यम् = अधिकारः”। स्वरितत्व के द्वारा अधिक कार्य का ज्ञान होता है । जैसे पूर्वशास्त्र भी स्वरितत्व की प्रतिज्ञा के बल से परशास्त्र को बाघ लेते हैं । इस प्रकार सभी पूर्वविप्रतिषेध शास्त्रों का संग्रह हो जाता है, जो स्वरितत्व की प्रतिज्ञा के आधार पर अपने से परशास्त्रों के बाधक बन जाते हैं । इसी प्रकार “आधारोऽधिकरणम्” इस सूत्रघटक आधार पद में स्वरितत्व की प्रतिज्ञा के कारण मुख्य आधार की भाँति गौण आधार का भी ग्रहण कर लिया जाता है, जिससे “गङ्गायां घोषः” इत्यादि पदों की सिद्धि होती है ।
नागेश भट्ट अधिक कार्य के ज्ञान का उदाहरण देते हुए कह रहे हैं कि “गोस्त्रियोरुपसर्जनस्य “इस सूत्र में स्वीग्रहण से “स्त्रियाम्” इस अधिकार में पठित टाप आदि प्रत्ययों का ग्रहण करके उन्हें ह्रस्व किया जाता है । ये समस्त बातें आकरप्रन्थ से जाननी चाहिए । “एतेन किञ्च” शब्द द्वारा अधिकार शब्द का अर्थान्तर करने से प्राचीनों का यह कथन परास्त हो गया कि “निवृत्ति के समान अनुवृत्ति भी व्याख्यान से ही सिद्ध है”। आकांक्षा होने पर अश्रुत की कल्पना करना अनुचित है तथा श्रुत की अपेक्षा ही वहाँ न्याय्य है । इस प्रकार जब समस्त कार्य सम्पन्न हो सकते हैं तब “स्वरितेनाधिकारः” इस सूत्र की क्या आवश्यकता है ? यह कथन इसलिए परास्त हो गया कि यह सूत्र केवल अनुवृत्ति और निवृत्ति के लिए ही न होकर अधिक कार्य के लिए भी है । अधिक कार्यों का वर्णन ऊपर किया जा चुका है । ये सभी कार्य व्याख्यान से सम्भव नहीं है, अतः यह सूत्र आवश्यक है । यह बात भाष्य में स्पष्ट है ।
परनित्येति । पर विप्रतिषेधसूत्राद्यलवत् । नित्यं = कृताकृतप्रसङ्गि तद्विपरीतमनित्यम् । तत्राक्लृप्ताभावकस्याभावकल्पनापेक्षया क्लृप्ताभावकस्यैव तत्कल्पनं युक्तमिति तस्य बलवत्त्वे बीजम् ।
अन्तर्मध्ये - बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्येऽन्तर्भूतान्यङ्गानि - निमित्तानि तदन्तरङ्गम् । तदीयनिमित्तसमुदायाद्वहिर्भूताङ्गकं - बहिरङ्गम् । बलवत्त्वेबीजमाह - असिद्धमिति । इयञ्च - 'वाह ऊठिति सूत्रेण ज्ञापिता । यद्यपि 'प्रत्यङ्गवर्ती लोको दृश्यते, मनुष्योऽयं प्रातरुत्थाय प्रथमं शरीरकार्याणि करोति, ततः सुहृदां, ततः सम्बन्धिनामिति न्यायमूलकत्वमस्या 'अचः परस्मिन्निति भाष्ये योद्ध्यत इति 'वाह ऊठ्' इति सूत्रे कैयटे स्पष्टम् । अन्यथा वाहः सम्प्रसारणे तु सर्वविषयता तस्य यस्य उक्तं तथापि तेन न्यायेन युगपत्प्राप्तिविषयतैव स्यात् ज्ञापकेन पूर्वरूपे च कृते ण्याश्रये गुणे 'वृद्धिरेचि' इति वृद्धौ प्रष्ठोह इत्यादिसिद्धावविधानं व्यर्थं स्यात् । नाजानन्तर्यपरिभाषा तु नास्त्येवेति - न 'अयजे इन्द्रमित्यादौ दोष इति परिभाषेन्दुशेखरे विस्तरः । अपवादस्तु वचनप्रामाण्याद्बलवान् ।
“परनित्यान्तरङ्गापवादानाम्” इस परिभाषा की व्याख्या करते हुए कह रहे हैं कि विप्रतिषेध सूत्र के बल से परशास्त्र पूर्वशास्त्र की अपेक्षा बलवान् होता है । यहाँ इस प्रकार अनुमान किया जाता है कि “परशास्त्रं पूर्वशास्त्रावधिकबलवत्, विप्रतिषेधशास्त्रात्”। इसका उदाहरण “वृक्षेभ्यः “यह प्रयोग है । यहाँ परशास्त्र “बहुवचने झल्येत्” से पूर्वशास्त्र “सुपि च” का बाध करके एत्व का विधान किया जाता है । नित्य शब्द से कृताकृत प्रसंगी विधि का ग्रहण होता है । इससे भिन्न विधि अनित्य कही जाती है । परशास्त्र से नित्यशास्त्र बलवान् होता है । इसका उदाहरण “तुदति” यह प्रयोग है । यहाँ श प्रत्यय और लघूपध गुण दोनों साथ - साथ प्राप्त होते हैं । इनमें लघूपधगुण श प्रत्यय होने के बाद इसलिए नहीं हो सकता कि श प्रत्यय डित है । किन्तु श प्रत्यय तो लघूपध गुण होने और न होने दोनों स्थितियों में प्राप्त है । इस प्रकार कृताकृत प्रसंगी विधि होने से श प्रत्यय नित्य है । यह नित्य श प्रत्यय पर लघूपध गुण को बाघ लेता है । परशास्त्र की अपेक्षा नित्यशास्त्र को बलवता का बीज यह है कि जिसका अभाव क्लुप्त नहीं है उसके अभाव की कल्पना की अपेक्षा जिसका अभाव क्लुप्त है, उसके अभाव की ही कल्पना करना ठीक है । यही बात नित्यशास्त्र की बलवत्ता का बीज है । प्रस्तुत स्थल में परशास्त्र लघूपध गुण विधायक शास्त्र का अभाव तो क्लृप्त है, क्योंकि श प्रत्यय होने के बाद वह प्रवृत्त नहीं हो सकता है । नित्य शास्त्र श प्रत्ययविधायक को प्रवृत्ति तो परशास्त्र की प्रवृत्ति के पहले तथा बाद में भी हो सकती है । इसलिए इसका अभाव अक्लुप्त है । ऐसी स्थिति में क्लृप्ताभावक परशास्त्र की अभावकल्पना ही उचित है ।
पर तथा नित्य शास्त्र से अन्तरङ्गशास्त्र बलवान होता है । अन्तरङ्ग की परिभाषा बताते हुए नागेश भट्ट कह रहे हैं कि अन्तरङ्ग शब्द के भीतर दो शब्द हैं - अन्तर और अङ्ग। इनमें अन्तर् का अर्थ है मध्य में। मध्य कहने से तत्काल जिज्ञासा होती है कि किसके मध्य में? इसका उत्तर देते हुए कहा गया है कि बहिरङ्गशास्त्रीय जो निमित्तसमुदाय, उसके मध्य में अन्तर्भूत हैं । अङ्ग अर्थात् निमित्त जिस शास्त्र का वह शास्त्र अन्तरङ्ग कहा जाता है । इसी प्रकार तदीय अन्तरङ्गशास्त्रीय निमित्तसमुदाय के बहिर्भूत बाहर जिसके अङ्ग निमित्त हों, वह शास्त्र बहिरङ्ग कहा जाता है । तस्य = अन्तरङ्गशास्त्र की बलवत्ता का बीज बताते हुए कह रहे हैं कि “असिद्ध बहिरङ्गमन्तरङ्गे” अर्थात् अन्तरङ्गशास्त्र की कर्तव्यता में बहिरङ्गशास्त्र असिद्ध हो जाता है । यह परिभाषा ही अन्तरङ्गशास्त्र की बलवता में बीज है ।
यह परिभाषा “वाह ऊठ्” सूत्र के ऊठ् ग्रहण से ज्ञापित है । इसके ज्ञापन का प्रकार यह है - “वाह ऊठ् “सूत्र की जगह यदि केवल “वाहः” इतना मात्र ही सूत्र करके इसके द्वारा सम्प्रसारण का विधान कर दिया जाय तो “विश्ववाह + अस्” इस स्थिति में सम्प्रसारण के द्वारा वकार को उकार करके पूर्वरूप करने के बाद प्रत्ययलक्षण करके पूर्व में किये गये ण्विप्रत्ययनिमित्तक लघूपधगुण करने पर “विश्व ओ - ए - अम्” इस स्थिति में “वृद्धिरेचि” सूत्र से वृद्धि करके “विश्वौह” इस प्रयोग की सिद्धि सम्भव है । ऐसी स्थिति में “बाह ऊठ् सूत्र में महण की क्या आवश्यकता है ? इस प्रकार ऊठ्ग्रहण व्यर्थ होकर परिभाषा का ज्ञापक होता है । परिभाषा के ज्ञापन के बाद अन्तरङ्ग लघूपध गुण की दृष्टि में बहिरङ्ग सम्प्रसारण असिद्ध हो जाता है, इसलिए लघुपथ गुण नहीं हो सकता है । परिणामस्वरूप “विश्वोह” प्रयोग की सिद्धि नहीं हो सकती । इसलिए अपहण की स्वांश में चरितार्थता होती है ।
अब यद्यपि इत्यादि अन्य के द्वारा असिद्ध बहिरङ्गमन्तर” इस परिभाषा के लोकन्याय मूलकत्व का प्रतिपादन करते हुए कह रहे हैं कि “लोक प्रत्यङ्गवर्ती देखा जाता है”। प्रत्यङ्गवर्ती का अर्थ है - प्रत्यासन्नवर्ती या समीपवर्ती प्रत्यङ्गवर्ती का अर्थ प्रत्यासन्नवर्ती इसलिए होता है कि अङ्ग प्रत्यासन्न होते हैं, इसलिए प्रत्यासत्ति रूप सम्बन्ध से अङ्ग शब्द की प्रत्यासन्न अर्थ में लक्षणा होती है । इस प्रकार स्पष्ट होता है कि मनुष्य प्रत्यासन्न कार्य में प्रवृत्त होता है । प्रातःकाल उठ कर वह पहले अपने शरीर का कार्य करता है, इसके बाद मित्र का कार्य करता है, तदनन्तर सम्बन्धियों का कार्य करता है । इससे विदित होता है कि अन्तरङ्ग कार्य पहले होता है और बहिरङ्ग कार्य बाद में होता है । इस प्रकार यह परिभाषा लोकन्यायसिद्ध है तो इसमें ज्ञापक की क्या आवश्यकता है ? यह बात “अचः परस्मिन्” सूत्र के भाष्य में कही गई है, तथापि इसमें ज्ञापक देने की आवश्यकता इसलिए है कि यदि इसे लोकन्यायसिद्ध माना जाय तो उस न्याय के आधार पर यह परिभाषा युगपत्प्राप्तिविषया ही होती । तात्पर्य यह है कि उस समय इस परिभाषा से समकाल प्राप्त बहिरङ्ग की ही असिद्धि होती । जब इसे ज्ञापक - सिद्ध माना जाता है तो अन्तरङ्ग की कर्तव्यता में जात और समकाल प्राप्त दोनों प्रकार के बहिरङ्गशास्त्रों की असिद्धि होती है । इस प्रकार ज्ञापक द्वारा इस परिभाषा की सर्वविषयता होती है । यह बात “वाह ऊठ्” सूत्र के कैयट में स्पष्ट है ।
अन्यथा = यदि “असिद्धं बहिरङ्गमन्तरङ्गे” यह परिभाषा नहीं होती तो जैसा कि ऊपर बताया जा चुका है वाह को सम्प्रसारण, पूर्वरूप तथा ण्याश्रय लघूपध गुण और “वृद्धिरेचि” सूत्र से वृद्धि करने से “प्रष्ठौहः” इत्यादि रूपों की सिद्धि हो ही जाती तो ऊठ् का विधान व्यर्थ हो जाता । यदि कहा जाय कि “नाजानन्तयें” इस परिभाषा से “प्रष्ठ - उ - ह - अस्” इस स्थिति में अन्तरङ्ग परिभाषा का निषेध हो जाने के कारण सम्प्रसारण असिद्ध नहीं होगा । ऐसी स्थिति में लघूपध गुण और उसके बाद वृद्धि कर देने से “प्रष्ठौहः” आदि की सिद्धि हो सकती है, तब ऊठ्ग्रहण की स्वांश में चरितार्थता कैसे सम्भव है ? इस प्रश्न के उत्तर में कह रहे हैं कि “नाजानन्तयें” यह परिभाषा ही नहीं है । जब यह परिभाषा ही नहीं है तब सम्प्रसारण के असिद्ध हो जाने के कारण “प्रष्ठौहः” प्रयोग की सिद्धि नहीं हो सकती है, इसलिए ऊविधान की स्वांश में चरितार्थता होती है । यदि कहा जाय कि “षत्वतुकोरसिद्धः” सूत्र का तुक्ग्रहण “नाजानन्तयें” परिभाषा में ज्ञापक है, इसलिए यह परिभाषा तो है ही? तो इसका उत्तर यह समझना चाहिए कि उस तुक् ग्रहण से “नाजानन्तयें” परिभाषा के ज्ञापन की अपेक्षा यही ज्ञापन करना चाहिए कि अन्तरङ्ग परिभाषा अनित्य है ।
इस उपर्युक्त विवेचन से स्पष्ट होता है कि अन्तरङ्ग परिभाषा है और वह अनित्य है । इसलिए 'अक्षधू' इस प्रयोग में अनित्यत्वात् उसकी प्रवृत्ति न होने से बहिरङ्ग ऊठ् यहाँ असिद्ध नहीं हुआ, जिससे “अक्षद्यू” की सिद्ध हो जाती है । “अयज + इ + इन्द्रम्” इस स्थिति में गुण और सवर्ण दीर्घ की समकाल प्राप्ति होने पर अन्तरङ्ग परिभाषा के द्वारा बहिरङ्ग दीर्घ असिद्ध हो जाता है, जिससे गुण करके “अयजे इन्द्रम्” प्रयोग की सिद्धि होती है । इस प्रकार स्पष्ट हो जाता है कि “नाजानन्तयें” परिभाषा नहीं है । यह बात परिभाषेन्दुशेखर में विस्तार से कही गई है ।
अपवादसूत्र तो वचन के प्रामाण्य से पर, नित्य और अन्तरङ्ग -इन तीनों की अपेक्षा बलवान् होते हैं । यहाँ “वचनप्रामाण्यात्” का अर्थ है - सूत्र के आरम्भसामर्थ्य से अपवाद बलवान् होता है ।
“तदप्राप्तियोग्येऽचारितार्थ्यम्” अर्थात् बाध्यशास्त्र के अप्राप्तियोग्य स्थल में बाघकशास्त्र की अचरितार्थता ही उसके बाधकत्व का बीज है । इस सम्बन्ध में विस्तृत जानकारी हेतु परिभाषेन्दु - शेखर के “येन नाप्राप्ति” न्याय का अवलोकन करें।
अकृतेति । न कृतो विशिष्ट ऊहस्तर्को - निमित्तविनाशेऽपि कार्यस्थितिरूपः, यथा दण्डविनाशेऽपि - घटस्थितिः - स यैस्ते इत्यर्थस्तदाहनिमित्तमित्यादि । तत्प्रयुक्तं कार्यं जातमपि न कुर्वन्ति = नोच्चारयन्तीत्यर्थ इति केयटादयः ।
अन्ये तु व्यूहोऽन्तरङ्गशास्त्रं, बहिरङ्गापोहनरूपत्वात्, तत् - निमित्तविनाशं दृष्ट्वा पूर्वमपि न कुर्वन्तीत्यर्थ इत्याहुः । इयं परिभाषा निष्फला निर्मूलेति परिभाषेन्दुशेखरे निरूपितम् ।
“अकृतव्यूहाः पाणिनीयाः” इस परिभाषा के व्याख्यान के प्रसंग में पहले कैयटसम्मत व्याख्या प्रस्तुत कर रहे हैं कि नहीं किया है विशिष्ट ऊह अर्थात् तर्क जिन्होंने, वे अकृतव्यूह कहे जाते हैं । ऊह शब्द यद्यपि अन्यत्र ज्ञान का वाचक है तथापि यहाँ पर निश्चीयमान कार्य विशेष की स्थिति ही ऊह पद से विवक्षित है । पाणिनिव्याकरण के ज्ञाता या अध्येता ऐसा ऊह नहीं करते हैं । तात्पर्य यह है कि जिस प्रकार दण्डरूपी निमित्तकारण के नाश होने पर भी घट रूप कार्य की स्थिति रहती है, उसी प्रकार इस शास्त्र में निमित्तकारण के नष्ट हो जाने पर कार्य की स्थिति रूप ऊह पाणिनीय लोग नहीं करते हैं ।
कैयट की इस व्याख्या का अनुसरण करते हुए दीक्षितजी ने कौमुदी में कहा है कि “निमित्तं विनाशोन्मुखं दृष्ट्वा तत्प्रयुक्तं कार्यं न कुर्वन्तीत्यर्थः”। अर्थात् पाणिनीय शास्त्र के ज्ञाता निमित्त - कारण को विनाशोन्मुख देखकर उस निमित्त के आधार पर होने वाला कार्य पहले ही नहीं करते हैं । जैसे “प्रतीच” इस प्रयोग में “अच्” के अकार के भावी विनाश को देखते हुए तत्प्रयुक्त कार्य यण पहले ही नहीं करते हैं ।
यहाँ पर “कार्यं न कुर्वन्ति” इस वाक्य का अर्थ “कार्य नोच्चारयन्ति” किया गया है । इसका तात्पर्य यह है कि किये गये कार्य का उच्चारण नहीं करते हैं अर्थात् किये गये कार्य की निवृत्ति कर देते हैं । इससे यह बात स्पष्ट होती है कि निमित्त के नष्ट हो जाने पर नैमित्तिक (कार्य) भी नष्ट हो जाता है । “निमित्तापाये नैमित्तिकस्याप्यपाय:” इस बात में इस कथन का पर्यवसान होता है । इस प्रकार यहाँ दो बातें सामने आती हैं -पहली बात तो यह निमित् को विनाशोन्मुख देख कर तत्प्रयुक्त कार्य पहले ही नहीं किया जाता है । यह व्याख्या कौमुदीकार के अनुसार है । दूसरी बात यह है कि यदि कार्य पहले हो गया है और उसके बाद उसके निमित्त का विनाश हो रहा है तो वहाँ किया हुआ कार्य भी निवृत्त हो जाता है । वहाँ उसकी स्थिति नहीं रहती है । यह कैयटसम्मत व्याख्या है । अन्य आचार्यों का कहना है कि यहाँ व्यूह पद का अर्थ अन्तरङ्गशास्त्र है । अन्तरङ्गशास्त्र को व्यूह कहने का तात्पर्य यह है कि बहिरङ्गशास्त्र से अन्तरङ्गशास्त्र का अपोहन होता है । अपोहन का अभिप्राय यह है कि बहिरङ्गशास्त्र अन्तरङ्ग के निमित्त का विनाश करके उसे दूर कर देता है । जैसे उपर्युक्त “प्रतीच:” इसी उदाहरण में यदि अन्तरङ्ग यण पहले हो जाता है तो पीछे बहिरङ्ग “अच” सूत्र यण के निमित्त अकार का विनाश कर देगा । यही बहिरंग के द्वारा अन्तरङ्ग का अपोहन है । इस व्याख्यान में “भाविनिमित्तविनाशे सति” इस पद का अध्याहार करके इस परिभाषा का अर्थ इस प्रकार किया जाता है कि “बहिरङ्गशास्त्र के द्वारा अन्तरङ्ग के निमित्त के भावी विनाश को देख कर अन्तरङ्ग शास्त्र की प्रवृत्ति पहले ही नहीं करते हैं ।
नागेश के मतानुसार यह परिभाषा निष्फल और निर्मूल है । इसलिए यह परिभाषा है ही नहीं, यह बात परिभाषेन्दुशेखर में निरूपित है ।
॥ महाभाष्यम् ॥
(१२९. परिभाषासूत्रम् १.३.१ आ. ८).
स्वरितेनाधिकारः १.३.११
सूत्रप्रयोजनाक्षेपभाष्यम् - किमर्थमिदमुच्यते ?
(८८३. समाधानतार्त्तिकम् - १) * अधिकारः प्रतियोगं तस्यानिर्देशार्थः *
भाष्यम् - अधिकारः क्रियते प्रतियोगं तस्यानिर्देशार्थ इति । किमिदं प्रतियोगमिति ? योगं योगं प्रति प्रतियोगम् । योगे योगे तस्य ग्रहणं मा कार्षमिति ।
आक्षेपभाष्यम् - किं गतमेतदियता सूत्रेण ?
समाधानभाष्यम् - गतमित्याहः । कुतः ? लोकतः । तद्यथा लोके - 'अधिकृतोऽसौ ग्रामे' 'अधिकृतोऽसौ नगरे' इत्युच्यते यो यत्र व्यापारं गच्छति । शब्देन चाप्यधिकृतेन कोन्यो व्यापारः शक्योवगन्तुमन्यदतो योगे योग उपस्थानात् ।
(८८४. समाधानबाधकवार्त्तिकम् - २) * न वा निर्दिश्यमानाधिकृतत्वाद्यथा लोके *
भाष्यम् - न वा एतत्प्रयोजनमस्ति । किं कारणम् ? निर्दिश्यमानाधिकृतत्वात् । यथा लोके । निर्दिश्यमानमधिकृतं गम्यते । तद्यथा - 'देवदत्ताय गौर्दीयताम्' 'यज्ञदत्ताय' 'विष्णुमित्राय' इति । गौरिति गम्यते । एवमिहापि 'पदरुजविशस्पृशो घञ्' 'सृ स्थिरे' 'भावे' घञिति गम्यते ।
(८८५. समाधानसाधकवार्त्तिकम् - ३) * अन्यनिर्देशस्तु निवर्तकस्तस्मात्परिभाषा *
भाष्यम् - अन्यनिर्देशस्तु लोके निवर्तको भवति । तद्यथा 'देवदत्ताय गौर्दीयताम्' 'विष्णुमित्राय कम्बलः' इति कम्बलो 'गोर्निवर्तको भवति । एवमिहापि 'अभिविधौ भाव इनुण' घञो निवर्तकः स्यात् । तस्मात्परिभाषा कर्तव्या ।
(८८६. आक्षेपवार्त्तिकम् - ४) * अधिकारपरिमाणाज्ञानं तु *
भाष्यम् - अधिकारपरिमाणाज्ञानं तु भवति । न ज्ञायते कियन्तमवधिमधिकारोऽनुवर्तत इति ।
(८८७. समाधानवार्त्तिकम् - ५) * अधिकारपरिमाणज्ञानार्थं तु *
भाष्यम् - अधिकारपरिमाणज्ञानार्थ एव तर्हि अयं योगो वक्तव्यः । अधिकारपरिमाणं ज्ञास्यामीति ।
आक्षेपभाष्यम् - कथं पुनः 'स्वरितेनाधिकार' इत्यनेनाधिकारपरिमाणं शक्यं विज्ञातुम् ?
समाधानभाष्यम् - एवं वक्ष्यामि 'स्वरिते नाधिकारः' इति । स्वरितं दृद्वाधिकारो न भवतीति ।
आक्षेपभाष्यम् - केनेदानीमधिकारो भविष्यति ?
समाधानभाष्यम् - लौकिकोऽधिकारः ।
(८८८. व्याख्यान्तरनिरसनवार्त्तिकम् - ६) * नाधिकार इति चेदुक्तम् *
भाष्यम् - किमुक्तम् ? 'अन्यनिर्देशस्तु निवर्तकस्तस्मात्परिभाषा' इति ।
उपसंहारभाष्यम् - अधिकारार्थमेव तर्हायं योगो वक्तव्यः ।
आक्षेपभाष्यम् - ननु चोक्तम् - 'अधिकारपरिमाणाज्ञानं तु' इति ।
(८८९. समाधानवार्तिकम् - ७) * यावतिथोऽलनुबन्धस्तावतो योगानिति वचनात्सिद्धम् *
भाष्यम् - यावतिथोऽलनुबध्यते तावतो योगानधिकारोऽनुवर्तत इति वक्तव्यम् ।
आक्षेपभाष्यम् - यथेदानीं यत्राल्पीयांसोऽलः, भूयसश्च योगानधिकारोऽनुवर्तते, कथं तत्र कर्तव्यम् ?
(८९०. समाधानवार्त्तिकम् - ८) * भूयसि प्राग्वचनम् *
भाष्यम् - भूयसि प्राग्वचनं कर्तव्यम् 'प्रागमुत' इति वक्तव्यम् ।
आक्षेपभाष्यम् - तत्तर्हि वक्तव्यम् ।
समाधानभाष्यम् - न वक्तव्यम् । सन्देहमात्रमेतद्भवति । सर्वसंदेहेषु चेदमुपतिष्ठते - 'व्याख्यानतो विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणम्' इति । प्रागमुत इति व्याख्यास्यामः ।
प्रत्याख्यानभाष्यम् - यद्येवं नार्थोऽनेन ।
आक्षेपभाष्यम् - केनेदानीमधिकारो भविष्यति ?
समाधानभाष्यम् - लौकिोऽधिकारः ।
आक्षेपभाष्यम् - ननु चोक्तं - 'नाधिकार इति चेदुक्तम्' । किमुक्तम् ? 'अन्यनिर्देशस्तु निवर्तकस्तस्मात्परिभाषा इति ।
समाधानभाष्यम् - सन्देहमात्रमेतद्भवति । सर्वसन्देहेषु चेदमुपत्तिष्ठते 'व्याख्यानतो विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणम्' इत्युक्तम् । इनुण्घञिति सन्देहे घञिति व्याख्यास्यामः ।
आक्षेपभाष्यम् - न तर्हीदानीमयं योगो वक्तव्यः ।
समाधानभाष्यम् - वक्तव्यश्च । किं प्रयोजनम् । स्वरितेनाधिकारगतिर्यथा विज्ञायेत । अधिकं कार्यम् । अधिकः कारः ।
उदाहरणभाष्यम् - अधिकारगतिः 'गोस्त्रियोरुपसर्जनस्य' इत्यत्र गोटाङ्ङ्ग्रहणं चोदितं तन्न कर्तव्यं भवति । स्त्रीग्रहणं स्वरयिष्यते । स्वरितेनाधिकारगतिर्भविष्यतीति स्त्रियामित्येवं प्रकृत्य ये विहितास्तेषां ग्रहणं विज्ञास्यते तत्र स्वरितेनाधिकारगतिर्भवतीति न दोषो भवति । (अधिकारगतिः) ।
द्वितीयफलोदाहरणभाष्यम् - अधिकं कार्यम् - अपादानमाचार्यः किं न्याय्यं मन्यते ? यत्र प्राप्य निवृत्तिः । तेनेहैव स्यादम् - ग्रामादागच्दति नगरादागच्छति । साङ्काश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा इत्यत्र न स्यात् । स्वरितेनाधिकं कार्यं भवतीत्यत्रापि सिद्धं भवति । तथा - अधिकरणमाचार्यः किं न्याय्यं मन्यते ? यत्र कृत्स्न आधारात्मा व्याप्तो भवति । तेनेहैव स्यात् - तिलेषु तैलम्, दध्नि सर्पिरिति । गङ्गायां गावः कूपे गर्गकुलमित्यत्र न स्यात् । स्वरितेनाधिकं कार्यं भवतीत्यत्रापि सिद्धं भवति । अधिकं कार्यम् । तृतीयफलोदाहरणभाष्यम् अधिकः कारः - पूर्वविप्रतिषेधाश्च न पठितव्या भवन्ति - 'गुणवृद्धयौत्वतृज्वद्भावेभ्यो नुम् पूर्वविप्रतिषिद्धम्' नुमचिरतृज्वद्भावेभ्यो नुट्' इति । नुम्नुटौ स्वरयिष्येते । तत्र स्वरितेनाधिकः कारो भवतीति नुम्नुटौ भविष्यतः ।
आक्षेपभाष्यम् - कथं पुनरधिकः कार इत्यनेन पूर्वविप्रतिषेधाः शक्या न पठितुम् ?
समाधानभाष्यम् - लोकतः । तद्यथा - लोकेऽधिकमयं कारं करोतीत्युच्यते योऽयं दुर्बलः सन्बलवद्भिः सह भारं वहति । एवमिहाप्यधिकमयं कारं करोतीत्युच्यते योऽयं पूर्वः सन्परं बाधते । अधिकारगतिख्यर्था विशेषायाधिकं कार्यम् । अथयोन्योऽधिकः कारः पूर्वविप्रतिषेधार्थः सः । स्वरितेनाधिकारः ॥ ११ ॥
इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य तृतीये पादे प्रथममाह्निकम् प्रथमेऽध्याये तृतीये पादे द्वितीयमाह्निकम् ।

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know