१.३.१०
सूत्राणि:॥ यथासंख्यमनुदेशः समानाम् ॥
॥ व्याख्या: ॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - यथासङ्ख्यम् १।१ अनुदेशः १।१ समानाम् ६।३। सङ्ख्यामनतिक्रम्य इति यथासङ्ख्यम् (अव्ययीभावः) ।
अन्वयः - समानां यथासङ्ख्यमनुदेश: ।
अर्थ: - अस्मिन् शास्त्रे समानाम् = समसङ्ख्यानां शब्दानां यथासङ्ख्यम् अनुदेश: = उच्चारणं भवति ।
उदाहरणम् - तूदीशलातुर वर्मतीकूचवाराड् ढक्छण्ढञ्यकः (४.३.९४) इति ।
आर्यभाषार्थ - इस शब्दशास्त्र में (समानाम्) समान संख्यावाले शब्दों का (यथासंख्यम्) संख्या के अनुसार ही (अनुदेश:) उच्चारण किया जाता है । जैसे 'तूदीशलातुर वर्मतीकूचवाराड् ढक्छण्ढज्यकः' (४.३.९४) अर्थात् तूदी, शलातुर, वर्मती, कूचवार शब्दों से ढक, छण्, ढञ् और यक् प्रत्यय होते हैं । इस सूत्र से प्रथम शब्द से प्रथम प्रत्यय, द्वितीय शब्द से द्वितीय प्रत्यय, तृतीय शब्द से तृतीय प्रत्यय और चतुर्थ शब्द से चतुर्थ प्रत्यय संख्या के अनुसार किया जाता है, अन्यथा किसी शब्द से कोई भी प्रत्यय होना सम्भव है ।
॥ काशिका ॥
संख्याशब्देनात्र क्रमो लक्ष्यते । यथासंख्यं यथाक्रममनुदेशो भवति । अनुदिश्यत इत्यनुदेशः । पश्चादुच्चार्यत इत्यर्थः । समानाम् = समसंख्यानां समं परिपठितानामुद्देशिनामनुदेशिनां च यथाक्रममुद्देशिभिरनुदेशिनः संबध्यन्ते । “तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः” (४.३.९४/१४७४) । प्रथमात् प्रथमः, द्वितीयाद् द्वितीय इत्यादि । तौदेयः । शालातुरीयः । वार्मतेयः । कौचवार्यः । समानामिति किम् ? “लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः” (१.४.९०/५५२) । लक्षणादयश्चत्वारोऽर्थाः, प्रत्यादयस्त्रयः सर्वेषां सर्वत्र कर्मप्रवचनीयसंज्ञा भवति ।इह कस्मान्न भवति - ”वेशोयशआदेर्भगाद्यल् ख च” (४.४.१३१/३४७७) इति ? स्वरितेन लिङ्गेन यथासंख्यम् । यत्र नेष्यते, तत्र स्वरितत्वं न प्रतिज्ञायते । “स्वरितेनाधिकारः” (१.३.११/४६) इति स्वरितग्रहणं पूर्वेणापि संबध्यते ।
॥ न्यासः ॥
‘संख्याशब्देनात्र क्रमो लक्ष्यते’ इति । यत्रानेके उद्देशिनोऽनुदेशिनश्च तत्रानियमेन सम्बन्धे प्राप्ते नियमार्थमिदमारभ्यते । यत्रोद्देशिनोऽनुदेशिनोऽनेकसंख्याः; तत्रावश्यं संख्याभेदेन भवितव्यम् । यत्र च संख्याभेदः, तत्र नियतभावी क्रमः; संख्याभेदवतां युगपदुच्चारयितुमशक्यत्वात् । अतः साहचर्यात् संख्याशब्देन क्रमो लक्ष्यते । अर्थधर्मत्वं तु शब्दे समारोप्य संख्याशब्देन क्रमो लक्ष्यत इत्युक्तम् । यथाक्रमग्रहणं कथं न कृतम् ? वैचित्र्यार्थम् । तु ‘यथासंख्यम्’ इति । ‘यथाऽसादृश्ये’ (२.१.७) इति वीप्सायामव्ययीभावः । ‘अनुदिश्यत इत्यनुदेशः’ इति । ‘अकर्तरि च कारके संज्ञायाम्’ (३.३.१९) इति घञ् । ‘पश्चादुच्चार्यते’ इति . अनुशब्दस्य पश्चादर्थवृत्तित्वाद्दिश्चोच्चारणक्रियत्वात् । ‘समसंख्यानम्’ इति । समसंख्यतया समानत्वं दर्शयति ।’ (समं परिपठितानाम्’इति मूल (काशिका) पाठः ।)समगणनपरिपठितानाम’ इति । तमेवार्थं शब्दान्तरेण व्यक्तीकरो - ‘उद्देशिनामनुदेशिनाञ्च्’ इति । यथाक्रममित्येतदपेक्षया षष्ठी । उद्देशिनो यद्यपि सूत्रे न श्रूयन्ते, तथापि सम्बन्धित्वात् पश्चाद्भावस्यानुदेशग्रहणाल्लभ्यन्ते । ‘यथाक्रमम्’ इति । पूर्ववद्वीपसायामव्ययीभावः, तृतीयान्तञ्चैतत्; तदयमत्रार्थः - उद्देशिनामनुदेशिनाञ्च योऽयं क्रमस्तेन क्रमेणानुदेशिनः सम्बध्यन्त उद्देशिभिः सहे - यद्यप्युद्देशिनामिति षष्ठ्यन्तं प्रकृतम्, तथाप्यर्थाद्विभक्तेर्विपरिणामो भविष्यतीति तृतीयान्तं सम्पद्यते । ‘प्रथमात् प्रथमः’ इत्यादिना यथाक्रमसम्बन्धं दर्शयति । आदिशब्दस्तृतीयात् तृतीयः, चतुर्थाच्चतुर्थ इत्यादिपरिग्रहाय । तौदेय इत्यादी ‘सोऽस्याभिजनः’ (४.३.९०) इत्यत्रार्थे तद्धितः । ‘इह’ इत्यादि । ‘वेशोयशआदेर्भगात्’ ९४.४.१३१) इति द्वे प्रकृती, ‘यल्खौ’ इति प्रत्ययावपि द्वावेव, अतो यथासंख्येन भवितव्यमित्यभिप्रायः । इह केनचिनदाचार्येण शिष्याः प्रतिग्राहिताः - ‘वेशो यश आदेर्भगाद्यल् ख च’ इत्येको योगः । अन्ये तु द्वावेतौ योगविति - ‘वेशोयश आदेर्भगात्’ इत्येको योगः, ‘यल् ख च’ इति द्वितीयः । तत्र य एक एवायं योग इत्येवं शिष्या ग्राहितास्तान्प्रत्ययं प्रश्नः । वृत्तिकारेणापि तन्मतमेवाश्रित्य ‘स्वरितेन’ इत्यादिना परीहार उक्तः । ये तु द्वावेतौ योगावित्येवं ग्राहितास्तान् प्रत्येष प्रश्नो नास्ति; योगविभागेनैव यथासंख्यस्य स्यात्, योगविभागकरणमनर्थकं स्यादित्यभिप्रायः । कथं पुनः स्वरितेन लिङ्गेन यथासंख्यं लभ्यते, यावता नेह स्वरितग्रहणमस्तीत्याह - ‘स्वरितेनाधिकारः’ इत्यादि । ‘स्वरितेनाधिकारः’ (१.३.११) इति योगं विभज्य ‘स्वरितेन’ इत्येको योगः, ‘अधिकारः’ इति द्वितीयः । तत्र प्रथमो योगः पूर्वेणापि ‘यथासंख्यम्’ इत्यादिना सम्बध्यते । अपिशब्दात् परेणापि ‘अधिकारः’ इत्यनेन । यदि तर्हि स्वरितेन लिङ्गेन यथासंख्यं भवति, एवं हि सति सन्देहः स्यात् । तथा हि - यथासंख्यमिति स्वरितेनाधिकारोऽपि तत्र न ज्ञायते - किमधिकारार्थः स्वरितानुषङ्गः ? अथवा यथासंख्यार्थ इति ? सन्देहमात्रमेतत् । सर्वनसन्देहेष्विदमुच्यते - ‘भवति व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्’ (व्या. प.७५) इति ॥
॥ पदपञ्जरी ॥
सङ्ख्याशब्देनान्न क्रमो लक्ष्यत इति । कथम् ? अव्यभिचारात् । यत्रैक एवोद्देश्यनुद्देशी च यथा’मुद्रादण्’ इति, न तत्र नियमप्रसङ्ग इत्यनेकत्वसङ्ख्याया एवेह ग्रहणम् । सा च क्रमं न व्यभिचरति, युगपदनेकस्य शब्दस्योच्चारयितुमशक्यत्वात् । मुख्ये त्वर्थेऽयमर्थः स्यात्समानां समसङ्ख्यानामुद्देशिनां या सङ्ख्या चतुरादिलक्षणा तया उद्देश्यः त्वादेवास्यार्थस्य सिद्धत्वाद् । अतः क्रमपर एवं सङ्ख्याशब्द इति । यथाक्रमग्रहणं तु न कृतम्, सङ्ख्याद्वारकं साम्यं यथा विज्ञायेत,अन्यथा स्थानप्रयत्ना दिकृतमपि समत्वं प्रतीयेत । ननु च क्रियमाणमपि सङ्ख्याग्रहणं क्रमपरमिति कथमतः संख्यासाम्यप्रतिपत्तिः ? सत्यम्; क्रमे शब्दः पर्यवस्यति, मुख्योऽप्यर्थः प्रतीयते । स हि प्रतीतो लाक्षणिकं गमयति; तस्मात् संख्याग्रहणसामर्थ्यात् तद्द्वारकमेव साम्यं गृह्यते । यथासंख्यमिति । ‘यथाऽसाहश्ये’ इति वीप्सायामव्ययीभावः । अनुदेशो भवतीति । सम्बन्धी भवतीति द्रष्टव्यम् । तथा च वभ्यति - अनुदेशिनः सम्बध्यन्ते इति । अनुदिश्यत इत्यनुदेश इति । अकर्त्तरि च कारके संज्ञायाम् इत्यसंज्ञायापि कर्मपि घञ् । अनुशब्दः पश्चादर्थे, द्दशिरुच्चाक्रिय इत्याह - पश्चच्चार्यत इत्यर्थ इति । यदुक्तं संख्याद्वारकं साम्यं गृह्यते इति तद्दर्शयति - समानां समसंख्यानाम् । अस्यैव विवरणम् - समंपठितानामिति । उद्देशिनामिति । कञ्चिद्धर्मं विधातुं प्रसिद्धवच्छब्दपरामर्शयोग्येन रूपेण उपादानमुद्देशः, तद्वन्त उद्देशिनः विधेयतया पश्चादुच्चारणमनुदेशः, तद्वन्तोऽनुदेशिनः । यद्यपि सूत्रे उद्देशिनो न श्रुतास्तथाप्यनुदेशशब्दस्य सम्बन्धिशब्दत्वात् समसंख्यत्वस्य च प्रतियोग्यपेक्षत्वात् त एव गम्यन्ते । उद्देशिनामनुदेशिनां चेति यथाक्रममित्येतदपेक्षया षष्ठ्यौ । यथाक्रममिति । पूर्ववदव्ययीभावस्तृतीयान्तं चैतत् ।
तदयमत्रार्थः - समसंख्यानामुद्देशिनामनुदेशिनां च योयः क्रमः = प्रथमचरमभवस्तेन तेनानुदेशिनः सम्बध्यन्ते, उद्देशिभिः सहेत्यर्थाद् गम्यते । क्वचित् उद्देशिभिरिति पठ्यते । तत्र सहयोगे तृतीया । प्रथमाद् प्रथम इत्यादिना सूत्रार्थमुदाहरणे योजयति । वहन्ति, वर्षन्ति नदन्तीत्यादौ लोक एव यथासंख्यसम्बन्धस्य द्दष्टत्वान्नार्थ एतेन ? उच्यते; व्युत्क्रमेणापि सम्बन्धो लोके द्दश्यते - कन्याब्रह्मचारिणी, दण्डकन्दुकहस्ताविति । योग्यतावशादत्र सम्बन्ध इति चेत्; क्रमेणापि सम्बन्धः, तद्वशादेव योग्या हि नद्यो वहने, घनाश्च वर्षणे । अत एवैकस्य धर्मिणि बहुषु धर्मेषु विहितेषु विधानक्रमेणान्यथा वा योग्यतानुरूप एव सम्बन्धो भवति - अमुमुद्वर्त्तय, स्नापय, भोजय, भोजय, स्नापयउद्वर्त्तयेति स्यादेतत् - स्वतः प्राप्तिरियं यदुक्तक्रमेण सम्बन्धः । तथा हि, योग्यताविशेषानवधारणे प्रथमप्रतीतयोः सम्बन्धः, बाधकाभावात् । तावता हि द्वयोरपि चरितार्थत्वम्, द्वितीयस्य धर्मिणो धर्मस्य वा प्रतियोग्ययेक्षायां प्रथमश्रुतस्य चरितार्थत्वाद्, अचरितार्थन द्वितीयेन प्रतियोगिनां सम्बन्धः । एवं सर्वत्र तस्मात् स्वतः प्राप्तः प्राप्त्या क्रमसम्बन्धः सिद्धः इति । यद्येवम्, लक्षणेत्थम्भूताख्यान इत्यादौ वैषम्येऽप्येवमेव स्याद्, यावतां साम्यं तावतामादितः क्रमेण सम्बन्धः, परिशिष्टस्य तु सर्वैरनन्तरेण वेत्यतः समानामिति वक्ष्यामीत्यारम्भः । स्वरितेनेति विशेषं वक्ष्यामीति । क्वचिद्धि साम्येऽपि नेष्यते । अथारभ्यमाणेऽप्यस्मिन् परम्सैपदानां णलादयः, लुटः प्रथमस्य डारौरसः, ‘एचोऽयवायाव’इत्यत्र कथमस्य प्रवृत्तिः, यावता परस्मैपदादिसंज्ञया युगपदेव संज्ञिनां प्रतीतिः, न क्रमेण ? सत्यम्, तिबादिसूत्रे, अक्षरमाम्नाये च तिबादयः क्रमेण प्रतीतिः, स एव क्रमो नियामको भविष्यति । एवं द्वन्द्वेऽपि । पाघ्रेत्यादौ युगपदधिकरणवचनतायां द्वन्द्वेऽपि क्रमस्य प्रतीतेः स एव नियामकः । ननु च तिपो णल्, तसोऽतुस, पः पिबः, जिघ्नः-इत्येवं भिन्नवाक्यतयोपदेशोऽस्तु एवं हीदं न वक्तव्यं भवति ? सत्यम्; एवं तु गौरवं स्यात् तस्य रूपेणानिदशात्, तत्र विभक्तेर्भेदेनोच्चारणाच्च । तथा’विदो लटो वा’ इत्यत्रानन्तर्यान्मसोमेत्येव सम्बध्येत, तदाह - संज्ञासमासनिर्देशात् सर्वप्रसङ्गोऽनुदेशस्य । तत्र यथासंख्यवचनं नियमार्थम्, संज्ञासमासनिर्देशच्च पृथग्विक्तिसंज्ञ्यनुच्चारणार्थः, प्रकरणे च सर्वसम्प्रत्यार्थः इति । तौदेय इत्यादी’सोऽस्याभिजनः’ इत्यत्रार्थेप्रत्ययः ।
इहेत्यादि । एकयोगत्वपक्षे चोद्यम्, भिन्नयोगपक्षे तु योगविभागो यथासंख्यनिरासार्थ इति वक्ष्यति । केचित्तु विभज्य योगं पठन्ति, अन्ये त्वेकमेव । स्वरितेनेत्यादि परिहारः । कथं पुनरयं विशेषो लभ्यत इत्याह - स्वरितेनाधिकार इत्यादि । यद्येवम्, स्वरिते द्दष्टे सन्देहः स्यात्, न ज्ञायते - किमयं यथासंख्यार्थः ? आहोस्विदधिकारार्थः ? इति । सन्देहमात्रमेतद्, भवति, सर्वसन्देहेषु चेदमुपतिष्ठते - ‘व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्’ इति । तत्र व्याख्यानान्निर्णयो भविष्यति ॥
॥ शब्दकौस्तुभः ॥
समसङ्ख्यानां सम्बन्धो यथाक्रमं स्यात् । “नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः” (३.१.१३४) नन्दनः, ग्राही, पचः। “समूलाकृतजीवेषु हन्कृञ्ग्रहः” (३.४.३६) ‘समूलघातं हन्ति’ इत्यादि । अत्रानुवाद्ययोरपि धातूपपदयोर्यथाक्रमं बोध्यम् । स्यादेतत् - विदिभिदिछिदेः कुरच्” (३.२.१६२) इत्यादौ तच्छीलाद्यर्थत्रयेण यथासङ्ख्यं प्राप्तोति । एवं “ख्यत्यात्” (६.१.११२) ङसिङसोः इत्यादावपीति चेत् । अत्रभाष्यम् - ”स्वरितेनेत्यपकृष्यते । तेन स्वरितत्वाभावान्नेह यथासङ्ख्यम्”इति । प्रतिज्ञास्वरिताः पाणिनीयाः । स्वरितत्वा भावादेव “कर्तृकमंणोश्च भूकृञोः” (३.३.१२७) इति सूत्रे न यथासंख्यं “नाडीमुष्ट्योश्च” (३.२.३०) इति सूत्रे यथासंख्यं च भवत्येवेति भाष्यम् । वृत्तिकारस्तु “कर्तृकर्मणोश्च” (३.३.१२७) “नाडीमुष्ट्योश्च” (३.२.३०) इति सूत्रद्वय । पिभाष्य विपरीतं वदन्नुपेक्ष्यः । “नाडीमुष्ट्योश्च” (३.३.३०) इति सूत्रे यथा सङ्ख्याभावपरं भाष्यमपि पूर्वापरविरोधाच्चिन्त्यम् । एतदेव वा मतान्तरपरं सत्तत्रत्यवृत्तेरालम्बनमस्तु । “कर्त्तृकर्मणो-” (३.३.१२७) इत्यत्र तु वृत्तिश्चिन्त्यैव । “वैशोयशआदेर्भगाद्यल्खौ” (४.४.१३१) इत्यत्राप्यस्वरितात्वादेव न यथासङ्ख्यम् । इह भाष्ये वृत्तौ चेत्थं स्थितम् । चतुर्थे तु वृत्तिकारोयोगे व्यभजत् । “भगाद्यल्” इति “खच” इति च ।
॥ व्याकरणसिद्धान्तसुधानिधिः ॥
समसङ्ख्यानाम् सम्बन्धो यथाक्रमं स्यात् । स चोद्देश्यविधेयानां यथा नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः नन्दनः । ग्राही । पचः । उद्देश्यानामेव यथा समूलाकृतजीवेषु हन्कृञ्ग्रहः अत्र विधेयस्य णमुल एकत्वेऽपि अनुवाद्ययोः धातूपपदयोरेव यथासङ्ख्यम् । परस्मैपदानां णलतु इत्यादौ परस्मैपदशब्देन सर्वेषां युगपत्प्रत्यासत्तेर्न पाठक्रमेण व्यवस्था । लोके अजाविधनौ देवदत्तयज्ञदत्ताविति समासनिर्देशे क्रमनियमाभावः । द्वन्द्वेऽनेकावयवात्मकसमुदाय एवैकशब्दतः प्रतिपादनादित्यारम्भः ।
ननु विदिभिदिच्छिदेः कुरच् इत्यादौ तच्छीलाद्यर्थत्रयेण यथासङ्ख्यं स्यात् । एवं ख्यत्यात्, ङसिङसोः इत्यादावपीति चेदत्र भाष्यम्स्वरितेन इत्यपकृष्यते तेन स्वरितत्वाभावात्र यथासङ्ख्यम् । प्रतिज्ञास्वरिताः पाणिनीयाः । अत एव कर्तृकर्मणोश्च भूकृओः इत्यत्र न यथासङ्ख्यम् । तेन भवतेरकर्मकत्वात्कर्तर्येवोपपदे खल् । करोतेस्तु कर्मण्यपि । केचित्तु प्राप्त्यर्थस्य भवतेरुपपदद्वयेऽपि स इत्याहुः । नाडीमुष्ट्योश्च इत्यत्र तु भवत्येव । स्यादेतत् इको यणचि इत्यत्र यथासङ्ख्यं न स्यात् । इकारोकार ऋकाराणां प्रत्येकमष्टादश भेदाः लृकारस्य तु द्वादशेति इकां षट्षष्टिसङ्ख्यत्वात् । यणां च सप्तत्वात् । भाव्यमानत्वेऽपि गुणानामभेदकतया सानुनासिक्यानामपि यवलानां ग्रहणात् । न चात्रान्तरमपरिभाषयैव निर्वाहः । स्थानेऽन्तरतमसूत्रे किमुदाहरणम् इको यणचि दध्यत्र । सङ्ख्यातानुदेशेनाप्येतत्सिद्धम् इति भाष्यविरोधात् । अत्राहुः इक्शब्दबोध्या या इत्वादिजातयस्तदवच्छिन्नानां यणशब्दबोध्ययत्वादिजातिचतुष्टयावच्छिन्ना भवन्तीति सूत्रार्थः । तथा च निरूढलक्षणाऽपि नाङ्गीकार्येति लाघवम् । न च निरनुनासिकानामनुनासिकयकारादिप्रसङ्गवारणायान्तरतमपरिभाषाश्रयणे आवश्यके कृतमेतत्प्रवृत्त्येति वाच्यम् । तदंशे यथासङ्ख्यपरिभाषायाः पाठविरहात् । अन्तरतमपरिभाषाप्रवृत्तावपि स्थान्यंशे परत्वाद्यथासङ्ख्यस्यैव प्रवृत्तेः । अत एव प्रत्याहारपाठे शब्दतः साम्यमस्तीति तत्र कैयटः ।
एतेन ऋकारलृकाराभ्यां प्रत्येकं तस्या एव त्रिंशत उपस्थितौ सत्यामृकारस्य लुकार लृकारस्य च रेफ आदेशः परं स्यादित्यपि निरस्तम् । अत एव हयवरट् सूत्रे हरयवडिति न्यासे परत्वाद्यथासङ्ख्यमेव प्रवत्र्तेत इति शब्दकौस्तुभेऽप्युक्तम् ।
॥ सिद्धान्तकौमुदी ॥
समसम्बन्धी विधिर्यथासङ्ख्यं स्यात् । कियूँह्यः । किंह्यः । किब्ँह्वलयति । किंह्वलयति । किल्ँह्लादयति । किंह्लादयति ॥
॥ बालमनोरमा ॥
यथासङ्ख्यम् । साम्यमिह सङ्ख्यातो विवक्षितम् । अनुदेशः = विधानम् । समानामिति यदि कर्मणि षष्ठी स्यात्तर्हि स्थान्यादिभिः समसङ्ख्यानां यत्र विधानं, यथा 'एचोऽयवायाव' इत्यादौ तत्रैव यथासङ्ख्य प्रवृत्तिः स्यात्, 'समूलाकृतजीवेषु हन्कृञ्ग्रहः' इत्यत्र न स्यात्, तत्र विधेयस्य णमुल एकत्वात् । अतः 'समाना'मिति सम्बन्धसामान्ये षष्ठी । एवञ्च समूलाद्युपपदानां हनादिधातूनां च समसङ्ख्यानामुपादानेन एकस्य प्रत्ययस्य विधिरपि समसङ्ख्याकसम्बन्धी विधिरेवेति तत्रापि यथासङ्ख्यप्रवृत्तिनिर्बाधा । तदाह - समसम्बन्धीति । यथासङ्ख्यमिति । सङ्ख्याशब्देनात्र प्रथमत्वद्वितीयत्वादिरूपाः सङ्ख्याघटितधर्मा विवक्षिताः, ताननतिक्रम्य यथासङ्ख्यम् । ततश्च 'एचोऽयवायाव' इत्यादिषु प्रथमस्य स्थानिनः प्रथम आदेशः, द्वितीयस्य द्वितीय इत्येवमक्रमेण स्थान्यादेशतन्निमित्तादीनां समसङ्ख्याकानां क्रमेणाऽन्वयः प्रतिपत्तव्य इति फलितम् । प्रकृ - ते च यपरके हकारे परे मकारस्य यकारः, वपरके वकारः, लपरके लकार इति सिध्यति । किय्ँ ह्य इति । मस्य यत्वे रूपम् । 'ह्य' इत्यव्ययम्, पूर्वेद्युरित्यर्थः । यत्वाभावे मोऽनुस्वारः । किव्ँ ह्वलयतीति । मस्य वत्वम् । ह्वल चलने, णिच् । किल्ँ ह्लादयतीति । मस्य लत्वम् । 'ह्लादी सुखे च' णिच् ॥
॥ तत्त्वबोधिनी ॥
यथासङ्ख्यमनुदेशः । अनुदिश्यत इति अनुदेशः । पश्चादुच्चार्यत इत्यर्थः । 'समाना' मिति संबन्धे षष्ठी, तदाह - समसम्बन्धी विधिरिति । 'समकर्मकं विधान' मिति तु नोक्तम्, तथाहि सति यत्रोद्देशिषु समेषु समानां विधानं पाघ्रदिषु पिबादीनां प्रियस्थिरादिषु च प्रस्थादीनां' तत्रैव यथाक्रमं प्रवृत्तिः स्यात् । इष्यते तु अनुवाद्ययोरपि यथासङ्ख्यत्वम् । 'समूलाकृतजीवेषु हन्कृञ्ग्रहः' इत्यत्र यथा । समानामिति किम् ? 'लक्षणेत्थंभूते' त्यत्र लक्षणादयश्चत्वारोऽर्थाः, प्रत्यादयस्तु त्रयः, तत्र सर्वेषां सर्वत्र कर्मप्रवचनीयसंज्ञा यथा स्यात् ॥
॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥
सूत्रगतशब्दानां सिद्धिः
यथा ‘येन प्रकारेण’ विग्रहे यच्छब्दात् “ प्रकारवचने थाल्” इति सूत्रेण थाल्प्रत्यये अनुबन्धलोपे “ प्राग्दिशो विभक्तिः” इति सूत्रेण विभक्तिसंज्ञायाम् “ त्यदादीनामः” इति सूत्रेण अकारान्तादेशे ‘य + अ + था’ इति जाते “ अतो गुणे” इति सूत्रेण पररूपे संयोगे ‘यथा’ इति जाते प्रातिपदिकत्वे सुप्रत्यये “ तद्धितश्चासर्वविभक्तिः” इति सूत्रेण अव्ययसंज्ञायाम् “ अव्ययादाप्सुपः” इति सूत्रेण सुप्प्रत्ययस्य लुकि कृते सति निष्पद्यते ‘यथा’ इति शब्दः ।
संख्या ‘संख्यायतेऽनया’ इति विग्रहे ‘चक्षिङ् व्यक्तायां वाचि’ धातोः आर्धधातुकविवक्षायाम् “ चक्षिङः ख्याञ्” इति सूत्रेण ख्यादेशे स्त्रीत्वविवक्षायाम् “ आतश्चोपसर्गे” इति सूत्रेण अङ्प्रत्यये अनुबन्धलोपे आकारलोपे टाप्प्रत्यये विभक्तिकार्ये च कृते सति निष्पद्यते ‘संख्या’ इति शब्दः ।
यथासंख्यम् ‘संख्यामनतिक्रम्य’ इति यथासंख्यम् इति अव्ययीभावसमासः ।
अनुदेशः अनुदिश्यते इति विग्रहे अनुपूर्वकात् ‘दिश अतिसर्जने’ धातोः “ अकर्तरि च कारके संज्ञायाम्” इति सूत्रेण कर्मणि घञ्प्रत्यये अनुबन्धलोपे विभक्तिकार्ये च कृते सति निष्पन्नो रूपो भवति ‘अनुदेशः’ इति । पश्चाद्भवज्ञानमित्यर्थः ।
समानाम् समति इति विग्रहे सम वैक्लव्ये धातोः “ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः” इति सूत्रेण अच्प्रत्यये अनुबन्धलोपे विभक्तिकार्ये च कृते सति निष्पन्नो रूपो भवति ‘समः’ इति । तेषां ‘समानाम्’ इति षष्ठ्यन्तबहुवचनम् ।
सूत्रेऽस्मिन् ‘यथा’ इति शब्देन पदार्थानतिवृत्तिः इत्यर्थो बोध्यः । अत्र ‘संख्या’ इति शब्देन एकत्वादिव्यवहारहेतुर्गुणविशेष इति ज्ञेयः । अर्थात् प्रथमत्वद्वितीयत्वादिरूपाः संख्याघटितधर्मा विवक्षिताः । यद्वा संख्यानं गणनम् । यथासंख्यं यथागणनम् । एवञ्चात्र ‘समः’ इति शब्देन तुल्यार्थो ज्ञातव्यः ।
सूत्रस्य निष्पन्नोऽर्थः
सूत्रेऽस्मिन् यथासंख्यम्, अनुदेशः, समानाम् इति त्रीणि पदानि सन्ति । यथासंख्यं प्रथमान्तम् । अनुदेशः प्रथमान्तम् । समानाम् षष्ठ्यन्तम् । यथासंख्यम् = संख्याबोधक्रममनतिक्रम्य । संख्या-गणनमिति वा, तथा च यथागणनं वाक्यार्थबोधकालिकः सम्बन्धः । संख्याशब्दस्यैकत्वादौ रूढस्य तु नेह ग्रहणं तथा सति वाक्यार्थानुपपत्तेः । अनुदेशः = पश्चाद्भवज्ञानविषयः पृथगुपस्थितयोः पदार्थयोः सम्बन्ध इत्यर्थः । प्रथमं सम्बन्धिनोरुपस्थितिः । तदनन्तरमनयोः कः सम्बन्ध इति जिज्ञासा जायते । अतः सम्बन्धः पश्चाज्ज्ञानविषयत्वेन ‘अनुदेशः’ इत्युच्यते । अर्थात् पदज्ञानाद्यनन्तरभववाक्यार्थबोधकालिकः सम्बन्धोऽनुदेशः । समानाम् = तुल्यानामित्यर्थः । तुल्यत्वप्रयोजिका च द्वित्वादिसंख्या । ततः संख्यया तुल्यानामित्यर्थः । तथा च समसंख्यानां सम्बन्धो यथासंख्यामित्यर्थः । समानामिति चावर्तते, एकत्रानुयोगित्वमपरत्र प्रतियोगित्वं च षष्ठ्यर्थः । यो विशेषणीभूय भासते स सम्बन्धस्य प्रतियोगी । यश्च विशेष्यीभूय भासते स सम्बन्धानुयोगी । यथा राज्ञः पुरुषः इत्यत्र स्वस्वामिभावसम्बन्धस्य राजा प्रतियोगी पुरुषश्चानुयोगी । तुल्यसंख्याप्रतियोगिकः तुल्यसंख्यानुयोगिकोऽनुदेशः संख्याक्रममनतिक्रम्य क्रममनुसृत्य बोध्यः । अर्थात् समसंख्याकप्रतियोगिकः समसंख्याकानुयोगिकश्च सम्बन्धो येन क्रमेण पदज्ञानं पदादुपस्थितिर्वा तेनैव क्रमेण शाब्दबोधविषयो बोद्धव्यः । अत एव समानां तुल्यसंख्यावतामनुदेशः = पदज्ञानाद्यनन्तरभववाक्यार्थबोधकालिकः सम्बन्धो यथासंख्यमिति सूत्रार्थो निष्पन्नः । समसम्बन्धी विधिर्यथासंख्यं स्यात् इति सूत्रार्थः प्रोक्तः कौमुद्यां भट्टोजीदीक्षितेन ।
सूत्रमिदं नियमसूत्रं भवेद् वा परिभाषासूत्रम् ?
‘यत्रानेके उद्देशिनोऽनुद्देशिनश्च तत्रानियमेन सम्बन्धे प्राप्ते नियमार्थमिदमारभ्यते’ इति न्यासः । ‘अनियमे नियमकारिणी परिभाषा’ इत्यनुसारेण परिभाषासूत्रमिदम् । ‘तदंशे यथासंख्यपरिभाषायाः पाठविरहात्’ इति व्याकरणसिद्धान्तसुधानिधिः ।
‘अनुदेशशब्दस्य सम्बन्धिशब्दत्वादुद्देश्याक्षिप्तः । तेनायमर्थः समानां समसंख्यानां मध्ये यथागणनमुद्देशिभिः सहानुदेशिनः सम्बध्यन्ते’ इत्युक्तं प्रदीपे कैयटेन । अत एवेदं च परिभाषासूत्रं भवति । समानां स्थान्यादेशनिमित्तादीनां सम्बन्ध एतस्या लिङ्गम् । यत्र विधौ समानां सम्बन्धो निमित्तं तत्र एषोपतिष्ठते । ‘अन्य निवृत्तिफलकत्वे सति सिद्धार्थप्रतिपादकत्वलक्षणम्’ इति लक्षणानुसारेण सूत्रमिदं नियमकोटौ आयाति । ‘सिद्धे सत्यारभ्यमाणो विधिर्नियमाय’ इति सर्वसम्मतलक्षणं नियमसूत्रस्य भवति । तल्लक्षणं परिभाषासूत्रस्यापि भवति यथा - ‘अनियमे नियमकारिणी परिभाषा’ इति । अनया दृष्ट्या नियमसूत्रपरिभाषासूत्रयोः सादृश्यं भवति ।
साम्यं शब्दतो ग्राह्यमर्थतो वा ?
‘समानाम्’ इत्यस्य साम्यवतामित्यर्थः । तत्र साम्यं शब्दतो ग्राह्यमर्थतो वेति निर्णयाय भाष्यकारेण ‘किं पुनः शब्दतः साम्ये संख्यातोऽनुदेशो भवत्याहोस्विदर्थतः’ इत्येवं विचाराधिकरणमारब्धम् । तदाशयश्च कैयटेनेत्थं प्रकटितम् - यद्यप्यर्थे शब्दस्य गुणभावादर्थत एव साम्यं न्याय्यं तथापि शब्दधर्मेणाप्यर्थस्य व्यपदेशो दृश्यते, यथा भ्रमरशब्दस्य द्विरेफत्वात् द्विरेफी भ्रमर इति, तथा द्व्यक्षरं मांसम्, द्व्यक्षरमस्थि तस्माच्छब्दतोऽपि साम्यमत्राशङ्कितम् । तस्यायमाशयः - यद्यप्यर्थप्रत्यायनार्थमेव शब्दः प्रयुज्यत इति शब्दस्य गुणत्वमर्थस्य प्राधान्यमित्यर्थत एव साम्यं ग्राह्यमिति नास्ति संदेह इति न विचारारम्भावश्यकता तथापि वाच्यवाचकयोरभेदोपचाराच्छब्दधर्मेणाप्यर्थस्य व्यवहारो लोके भ्रमरादिपदार्थे द्विरेफवत्त्वादिव्यवहारविधया क्रियत एवेति शब्दस्यापि तत्र प्राधान्यदर्शनादस्ति शङ्का इति । शब्दतः साम्यविवक्षापक्षे चायमर्थः - शब्दतः संख्यया समानां योऽनुदेशः पश्चाद्भव उच्चार्यमाणेन सम्बन्धः स यथासंख्यमिति । तथा च संज्ञया निर्दिष्टानां प्रतिनिर्दिष्टेन सह न शब्दतः साम्यं भवति । संज्ञाया एकरूपत्वात् तेषां चानेकत्वादिति तत्र दोषः स्यादित्याह वार्तिककारः - संख्यासाम्यं शब्दतश्चेण्णलादयः परस्मैपदानां डारौरसः प्रथमस्यायवायाव एच इत्यनिर्देशः ।
अयमाशयः - परस्मैपदशब्देन परोक्षास्थानिका नवेत्यादय आदेशा उपस्थाप्यन्त इति तेषां नवानां णलादिभिर्नवभिः सह साम्यमर्थत एवास्ति, न तु शब्दत इति । शब्दतः साम्यस्य ग्रहणे संख्यातानुदेशो न प्राप्नोति । एवं लुटः प्रथमपुरुषस्य स्थाने विधीयमाना डारौरसो बहवः । प्रथमस्येत्येकः शब्द इति संख्यातानुदेशो न प्राप्नोति । एवम् “ एचोऽयवायावः” इति सूत्रे अयवायावश्चत्वार एच इत्येकं पदमिति शब्दतः साम्याभावात् संख्यातानुदेशो न प्राप्नोतीति शब्दतः साम्याश्रयणं न युक्तम् । अथास्त्वर्थतः साम्यमिति चेत् ? अत्रापि पक्षे दूषणसद्भावात्, तथाहि तत्र दूषणप्रदर्शनवार्तिकम् - अर्थतश्चेल्लृलुटोर्नन्द्यरीहणसिन्धुतक्षशिलादिषु दोषः इति । “ स्यतासी लृलुटोः” इत्यत्र सूत्रे स्यतासी द्वौ, लृलुटोरित्यस्य त्रयोऽर्थाः । वैषम्यात्संख्यातानुदेशो न प्राप्नोति । “ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः” इत्यत्र सूत्रे नन्द्यादयो बहवः, ल्युणिन्यचस्त्रयः । वैषम्यात्संख्यातानुदेशो न प्राप्नोति । अस्यायमाशयः - गृह्यमाणशब्दार्थभूतानां संख्यया साम्यं विवक्षितमित्यर्थो विज्ञायते चेत् तदा यत्र गणेन निर्देशः क्रियते तत्र तदर्थभूता बहवो भवन्ति प्रत्ययाश्च न तावन्त इति संख्यातानुदेशो न प्राप्नोतीत्युभयोः पक्षयोर्दोष इति । इत्थमुभयोः पक्षयोर्दोषान् प्रदर्श्य शब्दतः साम्यं स्वीकृत्य तस्मिन् पक्षे प्रसक्तान् दोषान् स्थानेऽन्तरतमः इति सूत्रेण परिजहार । ततश्च यत्र यथासंख्यमनिष्टं तत्र कुत्रचिदुपायान्तरमपि प्रक्रियानुसारं प्रदर्श्य स्वरितत्वप्रतिज्ञया स्वरितेनाधिकारः इत्यग्रिमसूत्रस्थस्वरितेनेति पदमनुवृत्य न वा समानयोगवचनाद् इति वार्तिकेन च समाहितम् । एकस्मिन् योगे उच्चारितानामित्यर्थत्वेन तस्य वार्तिकस्य सर्वदोषाः परिहृताः ।
तद्यथा भगवांञ्छ्रीपतञ्जलिर्भाष्ये प्राह - ‘अथवैवं वक्ष्यामि, ‘यथासंख्यमनुदेशः समानां स्वरितेन’ ततः ‘अधिकारः’ अधिकारश्च भवति स्वरितेनेति’ इति भाष्याद्यत्र स्वरितत्वं प्रतिज्ञायते तत्रैव शब्दतोऽर्थतो वा साम्याश्रयणेन यथासंख्यमन्वयस्वीकर्तव्यं नान्यत्र सत्यपि संख्यासाम्ये । व्याख्यानतश्च स्वरितत्वज्ञानम् । स्वरितत्वाभावादेव “ कर्तृकर्मणोश्च भूकृञोः” इति सूत्रे न यथासंख्यं भवति । “ नाडीमुष्ट्योश्च” इति सूत्रे यथासंख्यं भवत्येवेति भाष्यम् ।
ननु शत्रुं मित्रं विपत्तिञ्च जय रञ्जय भञ्जय इत्यादौ लोके यथा क्रमेणान्वयबोधो नहि शत्रोः रञ्जयपदबोध्यक्रियया अन्वयो विवक्षितः, एवमेव अन्यासामपि क्रियाणां व्युत्क्रमेण अन्वय उदाहार्य तथैव शास्त्रेऽपि क्रमेणान्वये सिद्धे सूत्रं नारम्भणीयमिति चेन्न, तत्र समाधानवार्तिकम् - ‘संज्ञासमासनिर्देशात् सर्वप्रसङ्गोऽनुदेशस्य तत्र यथासंख्यवचनं नियमार्थम्’ इति । अस्यायमाशयः - “ परस्मैपदानां णलतुसुस्थलथुसणल्वमाः” इति सूत्रे उद्देश्यवाचकपदेन ‘परस्मैपदानाम्’ इत्यनेन न क्रमेण स्थानिनां शब्दतो ग्रहणं किन्तु परस्मैपदेनोपस्थापिततिप्तस्झीत्यादिरूपोपस्थित्या अर्थतः, न शब्दस्वरूपतः शत्रुं मित्रमित्यादिवन्निर्देशः । क्रमाख्येण लौकिकप्रमाणेन तत्रैव क्रमेणान्वयबोधो यत्रोद्देश्यविधेययोः शब्दद्वारा साक्षादभिधानम् । यत्र तु तत्पदादुपस्थितिद्वारा क्रमो गम्यते तत्र नास्य विषयतेति परस्मैपदानामित्यादौ न निर्वाहः, सरूपेण क्रमवतां तेषां निर्देशाभावात् । एवञ्च लोके तु यत्रासमासेनोच्चारणं तत्रैव क्रमेण सम्बन्धोऽनुभवसिद्धः । अत एव समासनिर्देशे पार्थक्येन पदार्थोपस्थितेरभावादेव ‘अजाविधनौ देवदत्तयज्ञदत्तौ इत्युक्ते कस्याजाधनं कस्यावय इति न ज्ञायते’ इत्युक्तं भाष्ये ।
अतः स्थानाख्यलौकिकप्रमाणेन अप्राप्तक्रमान्वयबोधार्थं सूत्रमिदमारम्भणीयम् । एवमेव “ आद्यन्तौ टकितौ” इत्यत्र टकित्समुदायत्वावच्छिन्ने आद्यन्तसमुदायत्वावच्छिन्नस्यान्वयं मत्वा द्वन्द्वे कृते पश्चात् आदिपदार्थस्य टित्त्वावच्छिन्नेऽन्तपदार्थस्य कित्त्वावच्छिन्ने पदार्थैकदेशत्वेनान्वयो न स्यात् । आरब्धे तु यथासंख्यसूत्रे एतदारम्भसामर्थ्याद् एकदेशान्वयस्यापि स्वीकारात् क्रमेणान्वयः सिद्धः । अत उपस्थितिद्वारा यत्रोद्देश्यस्य बोधः, यत्र वा कृते समासे तदेकदेशस्य यथासंख्यमन्वयो विवक्षित इत्युभयविधस्थलेऽस्य सूत्रस्य प्रयोजनम् ।
अत्र समानता च न येन केनापि रूपेण ग्राह्यम्, अपि तु उपस्थितत्वाद् योग्यतया संख्यया च ग्रहणीयम् ।
उदाहरणम्
इदं परिभाषासूत्रं व्याकरणशास्त्रे दृष्टस्यऽनियमस्य कथं केन प्रकारेण दूरीकरोतीति कैश्चिदुदाहरणैरत्र सङ्क्षेपतः प्रस्तूयते -
येन क्रमेण पदज्ञानं यथा “ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः” इत्यस्मिन् सूत्रेऽनया परिभाषया नन्द्यादिभ्यो ल्युः, ग्रह्यादिभ्यो णिनिः, पचादिभ्योऽच्प्रत्ययो यथासंख्यं भवति । तथा येन क्रमेण पदार्थोपस्थितिर्यथा “ परस्मैपदानां णलतुसुस्थलथुसणल्वमाः” इत्यस्मिन् सूत्रे अनया परिभाषया परस्मैपदेन तिप्तस्झि.... इत्यादिसूत्रे क्रमेण निर्दिष्टानां तिबादीनामुपस्थित्या तेनैव क्रमेण णलादय आदेशा यथासंख्येन भवन्ति । एतेन येन क्रमेण पदज्ञानं पदादुपस्थितिर्वा तेनैव क्रमेण वाक्यार्थबोधविषयीभूतः सम्बन्धो ज्ञेयः ।
ननु “ स्यतासी लृलुटोः” इत्यत्र सूत्रे यथासंख्यं न स्यात्, लृपदेन लृङः लृटश्चैव ग्रहणेन संख्यया तुल्यत्वाभावादिति चेन्न, उपस्थितिकालिकस्यैव साम्यस्य ग्रहणेन एकस्य लृ इत्यस्योपस्थितेः सत्त्वाद् धर्मसाम्यमादयादोषाच्च ।
“ बहुगणवतुडति संख्या” इति सूत्रेण पाणिनिना संख्यासंज्ञा विधीयते । बहुगणशब्दाविह त्रित्वादिपरार्धान्तसंख्याव्यापकधर्मविशेषवाचिनौ गृह्येते, न तौ वैपुल्यसङ्घवाचिनौ संख्यायतेऽनया इत्यन्वर्थसंज्ञाविधानादिति बालमनोरमा ।
संख्या एक आदिभिः संकल्यते । पाणिनीयव्याकरणे संख्याशब्दस्य पारिभाषिकशब्दरूपेण तथा लोके विद्यमानसंख्याशब्देन च प्रयोगो भवति । “ संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्” इति सूत्रेण कृत्वसुच्प्रत्ययेन बहुकृत्वः, पञ्चकृत्वः इत्याद्युदाहरणानि सिद्ध्यन्ति ।
॥ प्रौढमनोरमा - संस्कृतव्याख्या ॥
समसम्बन्धी विधिरिति ॥ समकर्मकं विधानमिति तु नोक्तम् । अनुवाद्ययोरपि यथासंख्यस्येष्टत्वात् । समूलाकृतजीवेषु हन्कृञ्ग्रहः इत्यत्र यथा ॥
॥ प्रौढमनोरमा-शब्दरत्न - हिन्दी ॥
कौमुदी - यथासंख्यमनुदेशः समानाम् (१.३.१०) समसम्बन्धी विधिर्ययथासंख्यं स्यात् ।
मनोरमा - समसम्बन्धीविधिरिति । समकर्मकं विधानमिति तु नोक्तम् । अनुवाद्ययोरपि यथासंख्यस्येष्टत्वात् । 'समूलाकृतजीवेषु हन्कुञ्ग्रहः' (पा.सू.३.४.३६) इत्यत्र यथा ।
'यथासंख्यमनुदेशः समानाम्' सूत्र की व्याख्या जो कौमुदी में की गयी 'समसम्बन्धी' इत्यादि । उसके विषय में मनोरमाकार कहतेहैं - समकर्मकं विधानमिति तु नोक्तम् । इसका तात्पर्य यह है कि - सूत्रस्थ 'अनुदेश:' शब्द 'अनुदेशनम्' इस भाव अर्थ में घञ् प्रत्ययान्त नहीं है । यदि भावघञन्त होता तो 'अनुदेश' शब्द का अर्थ होता 'विधान । ' अतः यहाँ 'अनुदेश' शब्द 'अनुदिश्यते' इस कर्म अर्थ में 'धन्' प्रत्ययान्त है । एवञ्च ‘अनुदेश' शब्द का अर्थ हुआ 'विधि' । इसीलिए चूँकि कर्म अर्थ में घञ् प्रत्यय होने से 'कर्म' अर्थ घञ् प्रत्यय से उक्त हो गया । अतः 'सम' शब्द से जो षष्ठीविभक्ति आयी है उसे कर्म में नहीं माना जाएगा, तो 'शेषे षष्ठी' से सम्बन्ध सामान्य रूप शेष अर्थ में षष्ठी मानी जाएगी तो समानाम् का अर्थ होगा 'समसम्बन्धी’ । यदि कर्म में षष्ठी होती तो 'समानाम्' का अर्थ होता 'समकर्मकं । इस प्रकार मनोरमाकार ने जो कहा कि 'समकर्मकं विधानमिति नोक्तम्' इसमें उनका यही तात्पर्य है कि अनुदेश शब्द कर्मघञन्त होने से 'विधि' वाची है और 'समानाम्' में शेषषष्ठी है । ऐसा अर्थ क्यों माना जाए? तो इसका उत्तर मनोरमाकार ने दिया 'अनुवाद्ययोरपि यथासंख्यस्येष्टत्वात्' । अनुवाद्य का अर्थ होता है उद्देश्य। एवञ्च जहाँ पर उपपदविशिष्ट कोई उद्देश्य होगा वहाँ पर उद्देश्यत्व उपपद में भी रहेगा और प्रधान में तो रहेगा ही तो उन दोनों उद्देश्यों (उपपद तथा प्रधान) में भी यथासंख्य इष्ट है । अतः समसम्बन्धी यह अर्थ करना आवश्यक है । जैसे 'समूलाकृतजीवेषु हन्कृञ्ग्रहः' इस सूत्र में समूल, अकृत, जीव इन उपपदों तथा 'हन् कृञ् ग्रह' इन प्रधानों में यथासंख्य इष्ट है । अतः णमुल् रूप विधेय के एक होने पर भी यहाँ यथासंख्य होने से 'समूल उपपद रहते ही हन् धातु से णमुल् होता है । ' इसी प्रकार 'अकृत' उपपद रहने पर ही कृञ् धातु से णमूल होता है । इत्यादि । इस प्रकार उद्देश्यवाचकपदों में भी यथासंख्य हो एतदर्थ 'समसम्बन्धी' यह अर्थ आवश्यक है और इसके लिए 'सम' शब्द में शेषषष्ठी मानना आवश्यक था । अतः 'अनुदेश' को कर्मघञन्त माना गया । यदि इसे भावघञन्त मानकर 'समानाम्' कर्मषष्ठी मानें और 'समकर्मकं विधानं यथासंख्यं स्यात्' ऐसा अर्थ करें तब 'स्यतासी लृलुटोः' इत्यादि स्थल में जहाँ उद्देश्य तथा विधेय (कर्म) की संख्या समान है वहाँ तो यथासंख्य हो जाएगा । परन्तु उपर्युक्त 'समूलाकृत' - इत्यादिस्थल में नहीं होगा । क्योंकि यहाँ उद्देश्य तो तीन हैं और विधेय = णमुल् एक। अतः 'समकर्मकं विधानं' अर्थ नहीं किया गया । यह तात्पर्य मनोरमाकार का है ।
परन्तु मनोरमाकार ने जो 'यथासंख्यस्येष्टत्वात्' ऐसा वाक्य प्रयोग किया वह अशुद्ध सा लगता है क्योंकि 'यथासंख्य' शब्द के षष्ठी में 'यथासंख्यस्य' ऐसा रूप नहीं बन सकता । क्योंकि 'यथासंख्य' शब्द में 'संख्यामनतिक्रम्य' इस विग्रह में अव्ययीभाव समास होता है और अदन्त अव्ययभाव में पश्चमी को छोड़कर अन्यत्र तो 'नाव्ययीभावात्' से नित्य अम् हो जाता है, तृतीया, पञ्चमी में विकल्प से अवश्य होता है । परन्तु षष्ठी में 'अम्' भाव नित्य होता ही है । अतः षष्ठी में 'यथासंख्यम्' ऐसा प्रयोग यदि मनोरमाकार करते तो उचित था 'यथासंख्यस्य' यह प्रयेग तो असाधु है । शब्दरत्नकार उसी को उपपन्न करने के लिए कहते हैं -
शब्दरत्न - यथासंख्यस्येति । ख्यान्तैकदेशेन सूत्रस्य ग्रहणं बोध्यम् ।
तात्पर्य यह है कि 'यथासंख्यम्' ऐसा जो सूत्र में पढ़ा है उसका एकदेश ‘यथासंख्य’ है । मनोरमाकार द्वारा प्रयुक्त यह एकदेश = यथासंख्य, सूत्रस्थ 'यथासंख्यम्' का अनुकरण है । एवं च अनुकार्य तथा अनुकरण में भेदविवक्षा पक्ष में अनुकरण में भी अर्थवत्त्व माना जाता है । अतः उसके आगे सुप् (ङस्) विभक्ति तो आएगी ही, परन्तु उसका लुक् नहीं होगा । क्योंकि यह अव्ययीभाव पद नहीं है अपि तु अनुकरण है । अतः उसे 'स्य' आदेश होगा तो 'यथासंख्यस्य' ऐसा रूप बनेगा । यह प्रयोग भी साधु है । एवं च इस अनुकरणात्मक एकदेश से 'यथासंख्य' युक्त पूरे सूत्र का ग्रहण होगा सत्या या भामा से जैसे 'सत्यभामा' का ग्रहण होता है । इस प्रकार यथासंख्यस्येष्टत्वात् का अर्थ होगा ‘यथासंख्ययुक्तस्य = यथासंख्यमनुदेशः समानाम् इति सूत्रस्य प्रवृत्तेः इष्टत्वात् । ' इस प्रकार मनोरमाकार का 'यथासंख्यस्य' यह प्रयोग साधु ही है ।
॥ लघुशब्देन्दुशेखरः - संस्कृतव्याख्या ॥
'यथासंख्य० (१.३.१०) । सम्यक् ख्यानं संख्या = क्रमवैशिष्टयेन ज्ञानम्; ‘यत्सांख्यैः प्राप्यते स्थानम्' इत्यत्र संख्याशब्दस्य ज्ञानार्थताया दृष्टत्वात् । तामनतिक्रम्य यथासंख्यम् । अनुदेशः = पश्चाद्भववाक्यार्थबोधकालिकः सम्बन्धः । साम्यम्- संख्या, योग्यत्वाद, व्याख्यानाच्च । एवञ्च समसङ्ख्यानां येन क्रमेण पदज्ञानम्, पदादु- पस्थितिर्वा, तेनैव क्रमेण वाक्यार्थवोधविषयः सम्बन्धस्तेषामित्यर्थः । फलितमाह - समसम्बन्धीति ।
यद्यपि स्थानाख्यलौकिकप्रमाणादेव सिद्धम्, तथापि परस्मैपदानाम्' (३.४.८२) 'एवोऽयवायावः' (६.१.७८) इत्यादी शब्दतः सूत्रान्तरस्थक्रममादाय सम्बन्धबोधार्थम्, आद्यन्तौ टकितौ' (१.१.४६) इत्यादी समासनिर्देशे साहित्ये द्वन्द्वविधाना- प्राप्तक्रमान्वयबोधनार्थश्वेदम् । एवञ्च तत्र यथासंख्येनान्वयबोधकवाक्य कल्पना; एतत्प्रा- माण्यात्ः ततश्च बोध इति बोध्यम् । अत्र 'स्वरितेन' (१.३.११) इत्यपकृष्यते इति 'ख्यत्यात्' (६.१.११२) इत्यादी नातिप्रसङ्गः । तत्र प्रतिपत्तिकालिकमेव सङ्ख्या साम्यमेतच्छास्त्रप्रवृत्त्युपयोगीति 'ञमङणनम्' (मा०सू०७) इति सूत्रे भाष्ये स्पष्ठम् ।
यथासंख्यमनुदेशः समानाम् ॥ यथासंख्यपदार्थमाह- सम्यगिति । क्रमेण ज्ञानम् । संख्यामनतिक्रम्य यथासंख्यम् ! अव्ययीभावसमासः । 'यत्सांख्यः प्राप्यते स्थानं तद्योगैरपि गम्यते' (गी० ५. अ०, ५ श्लो.) इति गीतावचने संख्याशब्दस्य ज्ञानवा- चितायाः दृष्टत्वात् । पश्चादिति । पदज्ञानाद्यनन्तरं जायमानो वाक्यार्थबोधकालिकः सम्बन्धः । साम्यम् = समानता च न येन केनापि रूपेण, किन्तु उपस्थितत्वात्, योग्यतया, संख्यया च गृह्यते । शब्दार्थमाह-एवञ्चेति । येन क्रमेण पदज्ञानं यथा 'नन्दिग्रहिपचा- दिभ्यो ल्युणिन्यचः' इत्यनेन नन्दयादिभ्यो ल्युः, ग्रह्मादिभ्यो णिनिः, पचादिभ्योऽच्प्रत्ययो यथासंख्यं भवति । तथा येन क्रमेण पदार्थोपस्थितिः, यथा 'परस्मैपदानां णलतुसुस्थल- थुसणल्वमाः' इत्यत्र परस्मैपदशब्देन 'तिप्तरिश' इत्यादिसूत्रे क्रमेण निर्दिष्टानां तिबादी- नामुपस्थित्या तेनैव क्रमेण णलादय आदेशा यथासंख्येन भवन्ति । एतेन येन क्रमेण पदज्ञानम्, पदादुपस्थितिर्वा, तेनैव क्रमेण वाक्यार्थबोधविषयीभूतः सम्बन्धो ज्ञेय इति फलितम् ।
स्थानाख्येति । स्थानञ्चान क्रमो विवक्षितः । एवञ्च 'शत्रु मित्रं विपतिञ्च जय रजय भजय' इत्यत्र यथा क्रमिकान्वयो लोके दृष्टः (नहि शत्रोः रञ्जय- पदबोध्यक्रिया अन्य विवक्षितः, एवमेव अन्यासामपि क्रियाणां व्युत्क्रमेण अन्वय उदाहार्यः) तथैवात्रापि शास्त्रे क्रमेणान्वये सिद्धे यथासंख्यमिति सूत्रं नावश्यकम् ? इति शङ्का समाधत्ते तथापीति । 'परस्मैपदानाम्' इति सूत्रे उद्देश्यवाचकपदेन 'परस्मैपदानाम्' इत्यनेन न क्रमेण स्थानिनां शब्दतः उपादानं किन्तु परस्मैपदेनोपस्थापित तिप्तसझी- त्यादिरूपोपस्थित्या अर्थतः, न तु शब्दस्वरूपतः शत्रु मित्रमित्यादिवन्निर्देशः । तथा च स्थानाख्येन = क्रमाख्येण लौकिकप्रमाणेन तत्रैव क्रमेणान्वयबोधो यत्र उद्देश्यविधेययोः शब्दद्वारा साक्षादभिधानम् । यत्र तु तत्पदादुपस्थितिद्वारा क्रमो गम्यते तत्र नास्य विषयतेति 'एचोऽयवायावः', परस्मैपदानामित्यादौ न निर्वाहः, सरूपेण क्रमवतां तेषां निर्देश। भावात् एवमेव 'आद्यन्तौ टकितौ' इत्यत्र टकित्समुदायत्वावच्छिन्ने आद्यन्तसमुदायत्वावच्छिन्नस्य अन्वयं मत्वा द्वन्द्वे कृते पश्चात् आदिपदार्थस्य टित्वावच्छिन्ने अन्तपदार्थस्य कित्वाव- च्छिन्ने पदार्थेकदेशत्वेन अन्वयो न स्यात् । आरब्धे तु यथासंख्यसूत्रे एतदारम्भसामर्थ्यात् एकदेशान्वयस्यापि स्वीकारात् क्रमेणान्वयः सिद्धः । अत उपस्थितिद्वारा यत्र उद्देश्यस्य बोधः, यत्र वा कृते समासे तदेकदेशस्य यथासंख्यमन्वयो विवक्षितः - इत्येतदुभयविधस्थले अस्य सूत्रस्य प्रयोजनम् । साहित्ये इति । समुदाये इत्यर्थः । यद्यपि समा- साद् उपस्थितिरेकैव, तथापि यथासंख्य सूत्रबलात् समस्यमानयोः पृथक् क्रमो गृह्यते ।
ननु ‘ख्पत्यात्परस्य' इत्यत्र 'ख्य', 'त्य' इत्येतयोः 'ङसि', 'ङस्' इत्येताभ्यां समसंख्यासाम्यात् यथासंख्यमन्वये रूपशब्दात् परस्याः पञ्चम्या एकवचनस्य त्यशब्दात् षष्ठ्या एकवचनस्यैव उत्वं स्यान्नतु उभाभ्यां परस्य उभयविभक्त्येकवचनस्येत्यत आह- स्वरितेनेति । तथा च स्वरितत्त्ववति यथासंख्यमिति प्रवर्तते । कुत्र च स्वरितत्त्वम्, कुत्र च न ? इति व्याख्यानतो निर्णेयम् । प्रतिपत्तिकालिकमेव = प्राथमिकवाक्यार्थबोधकालिकम् । तेन 'स्यतासी लृलुटोः' इत्यत्र लुपदेन लुङ्लुटोरुभयार्थबोधनेऽपि न क्षतिः । अन्यथा ऌशब्दस्य उभयार्थबोधकत्वेन लुलुटोरित्यनेन त्रयाणां ग्रहणम्, 'स्यतासी' इत्यनेन तु द्वयोरिति संख्यासाम्याभावात् यथासंख्यं न स्यात् । केचित्तु 'धर्मेणापि साम्ये यथासंख्यं भवति, तथा च लत्वं लुटि लुङि चोभयत्रेति तद्गतो लत्वधर्म एक एवेति संख्यासाम्यं सूपपादम्' इत्याहुः ।
भाष्ये इति । तत्र हि मकारो न कर्त्तव्यः । 'मकारेण ये प्रत्याहाराः ते झभञ् - सूत्रघटकप्रकारेणैव सन्तु' इति कथयित्वा एवं सति 'ङमो हस्वादचि' इत्यनेन ङञ इत्युक्ती झभेत्यनयोरपि ङमुट् स्यात्, पदान्ते झकारभकारयोरभावान्न दोषः । एवं तहि श्रय आगमिनः, पञ्चङत्रुटः - इति यथासंख्यं न प्राप्नोति ? इत्याशङ्कय प्रतिपत्तिकालिकं संख्यासाम्यमादाय समाहितम् । लक्ष्ये पदान्तयो; झकारभकारयोरभावेऽपि प्राथमिकबोधे पञ्च आग- मिनः, पञ्च च आगमा इति साम्यमादाय यथासंख्यं भवतीति उक्तम् । तेनायमर्यो भाष्यसम्मतः ।
टिप्पणीकारास्तु-तुल्यसंख्य प्रतियोगिकः तुल्यसंख्यकानुयोगिक आकाङ्क्षा- भाष्यसम्बन्धः अव्यवहितोत्तरत्वादिरूपः संख्याकर्मकातिक्रमणकर्तृत्वाभाववान् । सङ्ख्या- कर्मकातिक्रमणकर्तृत्वाभावश्च स्वप्रतियोगिवृत्त्यपेक्षाबुद्धिविशेषविषयतासजातीयापेक्षा- बुद्धिविशेषविषयतावदनुयोगिकत्वम् । तथा च 'समूलाकृतजीवेषु हनुकृञग्रहः' इत्यत्र समूलपूर्वकात् हन्-धातोः, अकृतपूर्वकात् कृञ्धातोः, जीवपूर्वकात् ग्रह-धातोः णमुल्प्रत्ययो भवति, न तु समूलपूर्वकात् कृञ्धातोः, अकृतपूर्वकात् हनुधातोः - इत्येव व्युत्क्रमेणापि णमुल् । तत्र समूलप्रतियोगिको हननुयोगिकः आकाङ्क्षाभाष्यः सम्बन्धोऽव्यवहितोत्तर- त्वरूपः स्वम् अव्यवहितोत्तरत्वादिसम्बन्धः तस्य प्रतियोगी समूल इति तद्वृत्तियाँ अपेक्षाबुद्धिविशेषस्य विशेष्यता सा समूल इत्येकः, एतदेकविशिष्टः हन् इत्येकः - इतीमौ द्वौ इत्याकारिकापेक्षा बुद्धिविशेषस्य विषयता तत्सजातीयापेक्षाबुद्धिविशेषविषयता हन्- निष्ठा, तादृशविषयतावान् हन्, स एवानुयोगी अव्यवहितोत्तरत्वसम्बन्धस्य इति तदनुयोगि कत्वं तत्र सम्बन्धे । विषयतायां साजात्यश्च – स्वनिरूपकापेक्षाबुद्धिनिष्ठजन कतानिरूपितजन्यतावच्छेदकसंख्यात्वव्याप्यजात्यवच्छिन्नजन्यतानिरूपितजनकतावच्छेदकत्वम्, स्ववृ- त्तिस्वनिरूपकापेक्षाबुद्धीयैकत्वनिष्ठप्रकारतानिरूपितैकत्वविशिष्टत्वावच्छिन्नधर्मितात्व,स्व-वृत्ति, स्वनिरूपकापेक्षाबुद्धीयैकत्वनिष्ठप्रकारतानिरूपितैकत्वानवच्छिन्नर्घार्मतात्व-इत्येतदन्यतरवत्त्वमित्युभयधर्माभ्याम् । हन्निष्ठापेक्षा बुद्धिविशेषविषयतायां समूलवृत्त्यपेक्षाबुद्धिविशेषविषयतानिरूपिकाया अपेक्षाबुद्धिः तन्निष्ठा या जनकता तन्निरूपिता या जन्यता तदवच्छेदिका या संख्यात्वव्याप्या जातिः द्वित्वत्वजातिः, तादृशद्वित्वत्वजात्यवच्छिन्ना हन्वृत्तित्वनिष्ठजन्यता तन्निरूपितजनकता या अवच्छेदकत्वस्य, तथा समूलवृत्त्यपेक्षाबुद्धिविशेषविषयतावृत्ति यत् सम्बन्धनिरूपकापेक्षा बुद्धीयेकस्वनिष्ठेकप्रका रतानिरूपित कत्वानवच्छिन्नधर्मितात्वम्, तस्य च सत्त्वात् लक्षणसमन्वयः। हनित्येतद् एकविशिष्टः, कृञ् इत्येकः- इत्येवमपेक्षाबुद्धेः सरवेन एकत्वावच्छिन्नप्रकारतानिरूपिता एकत्वावच्छिन्ना धर्मिता कृनिष्ठापेक्षा बुद्धिविषयत्वाव- च्छिन्ना विषयतारूपा सावच्छिन्ना धर्मिता भवितुमर्हति, न तु हनुवृत्त्यपेक्षाबुद्धिविशेष- विषयता तस्याः ।
एते यवला निरनुनासिका एव; विधीयमानत्वेन सवर्णाग्राहकत्वात्, जातिप्रहणप्राप्तस्येव गुणाभेवकत्वप्राप्तस्यापि 'अप्रत्ययः' इत्यनेन निषेधाच्च । एवं 'मय उनः' (८.३.३३) इत्यत्रापि । अत एव मतोर्मस्य नानुनासिको वकारः । अन्यथा 'तद्वानासाम्' (४.४.१२५) इत्यादौ नित्यानुनासिकापत्त्या तन्निर्देशासङ्गत्यापत्तिरित्याहुः ॥
परममूलासङ्गति ध्वनयन्नाह - एते इति । 'वा पदान्तस्य' इत्यनेन विधीयमानः परसवर्णः आन्तरतम्यात् संय्यन्ता, संवत्सर इत्यादी सानुनासिका यवला भवन्ति इत्युक्तम्, तन्न, व्यक्तिपक्षे एषां विधीयमानत्वेन अणुदित्सूत्रे अप्रत्यये इत्युक्ततया सवर्णग्रहणाप्रस क्त्या सानुनासिकस्य ग्रहणाभावात् । 'गुणा अभेदकाः' इति पक्षेण प्राप्तस्यापि सवर्णग्रहस्य निषेधकत्वाद् अप्रत्यय इत्यंशस्य । अत एव जातिपक्षाश्रयणेनापि न सानुनासिकस्य यकारादेर्ग्रहणसम्भवः, 'अप्रत्यय' इत्यंशस्य तस्यापि निषेधकत्वात् । अत एव = सर्वस्यापि निषेधकत्वादेव । ‘तद्वानासाम्' इति सूत्रे सूत्रकृता मतुपो मकारस्य 'झयः' इति सूत्रेण विधीयमानो वकारो नानुनासिकः कृतः, विधीयमानत्वेन सवर्णस्याग्राहकत्वात् । अन्यथा सानुनासिके वकारे प्रत्यये भाषायामिति वचनेन नित्यमनुनासिकः स्यात् ।
नित्यानुनासिकेति । नित्यानुनासिकशब्देन प्रत्यये भाषायामित्यस्य ग्रहणम् । केचित्तु ‘झयः' इति वत्वस्य तत्पदेन ग्रहणं कुर्वन्ति । परत्र पक्षे नित्यपदोपादानस्य स्वा- रस्यं न प्रतिभाति ।
॥ लघुशब्देन्दुशेखरः - हिन्दी ॥
यथासङ्ख्य । सम्यक् ख्यानं सङ्ख्या क्रमवैशिष्ट्येन ज्ञानम् । 'यत्साङ्ख्यैः प्राप्यते स्थानमित्यत्र सङ्ख्याशब्दस्य ज्ञानार्थताया दृष्टत्वात् । तामनतिक्रम्य यथासङ्ख्यम् । अनुदेश - पश्चाद्भववाक्यार्थबोधकालिकः योग्यत्वाद्व्याख्यानाच्च । एवञ्च समसङ्ख्यानां सम्बन्धे येन क्रमेण पदज्ञानं पदादुपस्थितिर्वा तेनैव क्रमेण वाक्यार्थबोधविषयः सम्बन्धस्तेषामित्यर्थः । फलितमाह - समसम्बन्धीति । यद्यपि स्थानाख्यलौकिकप्रमाणादेव सिद्धं तथापि 'परस्मैपदानाम्' 'एचोऽयवायाव' इत्यादौ शब्दतः सूत्रान्तस्थक्रममादाय सम्बन्ध - बोधार्थम्, 'आद्यन्तौ टकितावित्यादौ समासनिर्देशे साहित्ये द्वन्द्वविधानादप्राप्तक्रमान्वयबोधनार्थञ्चेदम्? एवञ्च तत्र यथासङ्ख्येनान्वयबोधकवाक्यकल्पना एतत्प्रामाण्यात्, ततश्च बोध इति बोध्यम् ।
“यथासंख्यमनुदेशः समानाम्” इस सूत्र में जो “यथासंख्य” शब्द है वह “संख्यामनतिक्रम्य” इस विग्रह में पदार्थानतिवृत्ति अर्थ में अव्ययीभाव समास करके बना हुआ है । इसमें आया हुआ संख्या शब्द यद्यपि एकत्वादि संख्या का वाचक है तथापि यहाँ संख्या शब्द से रूढ़ एकत्वादि संख्या का ग्रहण नहीं किया जाता है, क्योंकि वैसा करने से सूत्रार्थ इस प्रकार होगा - “समसम्बन्धी विधि एकत्वादि संख्या का अतिक्रमण नहीं करती है”। किन्तु ऐसा अर्थ यहाँ वाञ्छित नहीं है । इसलिए कह रहे हैं कि संख्या शब्द से वह प्रसिद्ध अर्थ न लेकर “सम्यक ख्यानं संख्या” इस यौगिक व्युत्पत्ति के आधार पर क्रमवैशिष्ट्येन ज्ञान अर्थात् क्रम से होने वाला ज्ञान संख्या शब्द का अर्थ है । यदि कहा जाय कि संख्या शब्द के ज्ञानार्थकत्व में क्या प्रमाण है ? तो इसका उत्तर देते हुए कह रहे हैं कि “यत् सांख्यैः प्राप्यते स्थानम्” इस वाक्य में संख्या शब्द का ज्ञानार्थकत्व देखा गया है । ज्ञान के द्वारा जो स्थान प्राप्त किया जाता है, यहाँ इस वाक्य का अर्थ है । यहाँ संख्या शब्द का अर्थ ज्ञान है । “संख्या एव सांख्यम्” इस विग्रह में स्वार्थिक ष्यञ् प्रत्यय के द्वारा बना हुआ सांख्य शब्द संख्या शब्द से अनतिरिक्त है ।
अनुदेश शब्द का पश्चाद भव अर्थात् पदज्ञान और पदार्थोंपस्थिति के बाद होने वाले वाक्यार्थबोधकालिक आकांक्षाभास्य सम्बन्ध अर्थ है । “समानाम्” इस पद में आया हुआ सम शब्द तुल्य अर्थात् साम्य का वाची है । यह साम्य या तुल्यता संख्या के आधार पर ली जाती है । ऐसा लेने का कारण यह है कि समसम्बन्धियों में संख्या के आधार पर ही तुल्यता की योग्यता है । इसके अतिरिक्त व्याख्यान (उपस्थिति रूप व्याख्यान) से भी यहाँ संख्या से ही साम्य लिया जाता है । इस प्रकार इस सूत्र का अर्थ ऐसा होता है - “सम संख्या वालों का वाक्यार्थबोधकालिक सम्बन्ध उसी क्रम से होता है जिस क्रम से पदज्ञान अथवा पदजन्य पदार्थोंपस्थिति होती है”। इसी का फलितार्थ दीक्षितजी कौमुदी में कहते हैं कि समसम्बन्धी विधि यथासंख्य होती है ।
अब यह शंका हो रही है कि एक लौकिक न्याय है - “क्रमिकाणां क्रमेणैवान्वयः “अर्थात् क्रमिक पदार्थों का क्रम से ही अन्वय होता है; जैसे “शत्रु मित्रं विपत्ति च जय रज्जय भजय” अर्थात् “शत्रु जय मित्रं रजय और विपत्ति भञ्जय” इस प्रकार क्रम से अन्वय कर लिया जाता है । इसी प्रकार यहाँ शब्दशास्त्र में भी इसी लौकिक न्याय से यथासंख्य सूत्र के बिना ही कार्य चल सकता है । नागेश भट्ट इस लौकिक न्याय के लिए स्थानाख्य लौकिक प्रमाण शब्द का प्रयोग किये हैं । यहाँ स्थान शब्द का अर्थ क्रम है । इस प्रकार स्थानाख्य लौकिक प्रमाण से हो जब यथासंख्य अन्वय सम्भव है तब इस सूत्र की क्या आवश्यकता है ? इस शंका के उत्तर में कह रहे हैं कि जहाँ शब्द के द्वारा क्रमिकों का उपादान (कथन) रहता है वहीं पर स्थानाख्य लौकिक न्याय से कार्य होता है; जैसे “शत्रु मित्रम्” इत्यादि में शब्दतः क्रमिकों का कथन हुआ है । किन्तु जहाँ शब्दतः क्रमिकों का कथन नहीं हुआ है; जैसे “परस्मैपदानाम्” इत्यादि सूत्र में णल् आदि आदेशों का तो शब्दतः उपादान किया गया है, किन्तु उनके स्थानी का उल्लेख शब्दतः नहीं है । उनका बोध तो परस्मैपदोपस्थाप्य और 'तिप्तस्झि' सूत्र में उनके पाठ के आधार पर होता है । इसी प्रकार “एचोऽयवायावः” सूत्र में केवल आदेश मात्र का पार्थक्येन कथन किया गया है । अयादि के स्थानियों का बोध तो “अइउण्” इत्यादि सूत्र में पठित तथा एच पद से उनकी उपस्थिति के बाद होता है । इस प्रकार शब्दतः जहाँ सूत्रान्तर में क्रम का निर्देश हो और उदाहरणस्थल में अर्थतः उसका बोध होता हो ऐसे स्थलों के लिए 'यथासख्य' सूत्र की आवश्यकता है । ऐसे स्थलों पर सूत्रान्तरस्य क्रम को लेकर यह सूत्र यथासंख्यान्वय कराता है । यदि कहा जाय कि सूत्रान्तरस्थ क्रम को लेकर यद्यपि विलम्ब से क्रमिकान्वय होता है तथापि वहाँ भी लौकिक प्रमाण से ही कार्य चल सकता है तो इस सूत्र की क्या आवश्यकता है ? इस शंका के उत्तर में कह रहे हैं कि “आद्यन्तौ टकितौ” इत्यादि स्थलों में जहाँ द्वन्द्व समस्त पदों का निर्देश (उच्चारण) किया गया है और जहाँ साहित्य (एकधर्मावच्छिन्नान्वयत्व रूप साहित्य) प्रधान रहता है, ऐसे द्वन्द्वसमासीय स्थलों में क्रम से अन्वय अप्राप्त रहता है । इस प्रकार के अप्राप्त क्रमान्वयस्थल में क्रमबोध के लिए इस सूत्र की आवश्यकता है । इस स्थल का स्पष्टीकरण इस प्रकार है - द्वन्द्व समास साहित्य में होता है । साहित्य का अर्थ है - अनेकधर्मावच्छिन्न पदार्थों का एकधर्मावच्छिन्न में अन्वय । जैसे “धवखदिरौ छिन्धि” यहाँ धवखदिर का एकधर्मावच्छिन्न छेदन क्रिया में कर्मत्व सम्बन्ध से अन्वय होता है । इसलिए यहाँ द्वन्द्व साधु है । “आद्यन्तौ टकितौ” सूत्र में यदि टित् का अन्वय आदि में और कितु का अन्वय अन्त में कर देते हैं तब साहित्याभावात् द्वन्द्व ही नहीं होगा । इसलिए आद्यन्त समुदाय का टित् - कित समुदाय में अन्वय किया जाता है । इस प्रकार द्वन्द्व समास उपपन्न तो हो जाता है किन्तु यह स्पष्ट नहीं होता कि किसका अन्वय आदि में है और किसका अन्वय अन्त में इस प्रकार की विचिकित्सा में यथासंख्य सूत्र आवश्यक होता है । इसके द्वारा यहाँ द्वितीय वाक्यार्थबोध होता है । इस द्वितीय वाक्यार्थबोध में आद्यन्त समुदायोपस्थाप्य आदि में टित् का तथा अन्त में कितु का अन्वय होता है । लौकिक प्रमाण की प्रवृत्ति तो वहीं पर होती है जहाँ असमस्त पदों का उच्चारण किया गया होता है । समास - स्थल में इससे कार्य नहीं चल सकता । इसीलिए भाष्यकार ने कहा कि “अजाविधनौ देवदत्तयज्ञदतौ; न जाने कस्याजा कस्यावयः”। अर्थात् देवदत्त और यज्ञदत्त अजावी धन हैं । पर किसकी अजा है और किसकी अवि ? यह बात ज्ञात नहीं होती है । इससे स्पष्ट है कि लौकिकन्याय समासस्थल में प्रवृत्त नहीं होता है ।
इस प्रकार समास में अप्राप्त जो क्रमिक अन्वय है उसे कराने के लिए यथासंख्य सूत्र आवश्यक है । इस सूत्र के सामर्थ्य से द्वन्द्व समास के बाद द्वितीय वाक्यार्थबोध होता है, जिसमें क्रमिकान्वय बोध इस सूत्र के द्वारा कराया जाता है ।
अत्र स्वरितेनेत्यपकृष्यते, इति ख्यत्यादि' त्यादौ नातिप्रसङ्गः ।। प्रतिपत्तिकालिकमेव सङ्ख्यासाम्यमेतच्छास्त्रप्रवृत्त्युपयोगीति 'ञमङणनमिति सूत्रे तत्र भाष्ये स्पष्टम् ।
एते यवला निरनुनासिका एव विधीयमानत्वेन सवर्णाग्राहकत्वात् । जातिग्रहणप्राप्तस्येव गुणाभेदकत्वप्राप्तस्यापि 'अप्रत्यय' इत्यनेन निषेधाच्च । एवं 'मय उञ' इत्यत्रापि । अत एव मतोर्मस्य नानुनासिको वकारः, अन्यथा 'तद्वानासामित्यादौ नित्यानुनासिकापत्त्या तन्निर्देशासङ्गत्यापत्तिरित्याहुः ।
यथासंख्य सूत्र को स्वीकार करने पर एक यह समस्या उपस्थित होती है कि “ख्यत्यात् परस्य” सूत्र में भी इसके द्वारा यथासंख्य अन्वय करने पर ख्य का अन्वय ङसि के साथ तथा त्य का अन्वय इस के साथ होने लगेगा । परिणामस्वरूप अनिष्टापत्ति होगी । इस बात को दृष्टिगत कर कह रहे हैं कि अत्र = “यथासंख्य” सूत्र में “स्वरितेनाधिकारः” (१ । ३ । ११) इस सूत्र से “स्वरितेन” इस पद का अपकर्षण होता है । इसका परिणाम यह होता है कि जहाँ स्वरितत्व की प्रतिज्ञा रहेगी वहीं यथासंख्य सूत्र की प्रवृत्ति होगी । “ख्यत्यात्परस्य” इस सूत्र में स्वरितत्व की प्रतिज्ञा नहीं है, अतः यहाँ इसकी प्रवृत्ति नहीं होती है ।
प्रतिपत्तिकालिक = प्राथमिक वाक्यार्थबोधकालिक जो संख्या की समानता है वही इस सूत्र की प्रवृत्ति में उपयोगी है । ऐसा मानने का फल यह होता है कि “स्यतासी लृलुटोः “इस सूत्र में कोई अनुपपत्ति नहीं होती है, अपितु यहाँ भी यथासंख्यान्वय हो जाता है । इस सूत्र के प्राथमिक वाक्यार्थबोध के समय विकरण (स्य और तास) तथा निमित्त “लू” और “लुट्” इन दोनों की संख्या में समानता है ही पीछे लृ शब्द से लृट् और लृङ् दोनों की उपस्थिति होती है तो होती रहे। स्य विकरण तो लृत्वावच्छिन्न का होगा ही । यह बात “जमङणनम् “सूत्र के भाष्य में स्पष्ट है ।
कौमुदीकार ने “यवलपरे यवला वा” इस वार्तिक से विधेय य, व और ल को स्थानी के अनुरूप अनुनासिक आदेश करके “कियूँ हा:” “कियूँ ह्वलयति”, “किलें ह्रादयति” तथा अभाव पक्ष में मकार के स्थान पर अनुस्वार करके उदाहरण दिया है । नागेशभट्ट इस बात से असहमत हैं । इनका कहना है कि उपर्युक्त उदाहरणों में यवल ये निरनुनासिक आदेश ही होंगे, क्योंकि जहाँ विधीयमान स्थल होता है वहाँ “अप्रत्यय” ग्रहण से सवर्ण की प्राहकता का निषेध हो जाता है । यह “अप्रत्यय” ग्रहण न केवल अणुदित्सूत्र से प्राप्त सवर्णग्राहकता का ही निषेध करता है, अपितु जातिपक्ष से प्राप्त सवर्ण ग्राहकता का तथा उसी प्रकार गुणाभेदकत्वेन प्राप्त सवर्ण की प्राहकता का निषेध कर देता है । इसलिए उपर्युक्त उदाहरणों में य, व और ल निरनुनासिक ही होते हैं । इसी प्रकार “मय उबः “सूत्र से विधेय वकार भी भाव्यमान होने के कारण सवर्ण का ग्राहक नहीं होता है । फलस्वरूप वहाँ भी निरनुनासिक ही वकार आदेश होता है ।
अत एव = भाव्यमान होने से सवर्ण का ग्राहक न होने के कारण मतुप के मकार को अनुनासिक वकार आदेश नहीं होता है । अन्यथा यदि यह बात न मानी जाय तो “तद्वानासाम्” इस प्रयोग में “झयः “सूत्र से मतुप् के मकार के स्थान पर नित्य अनुनासिक वकार हो जायेगा, जिससे इस निर्देश की ही असंगति हो जायेगी ।
॥ महाभाष्यम् ॥
(१२८. यथासंख्यपरिभाषासूत्रम् १.३.१ आ. ७).
यथासंख्यमनुदेशः समानाम् १.३.१०
॥ उदाहरणाधिकरणम् ॥
आक्षेपभाष्यम् - किमिहोदाहरणम् ?
उदाहरणभाष्यम् - 'इको यणचि' दध्यत्र मध्वत्र ।
उदाहरणबाधकभाष्यम् - नैतदस्ति । स्थानेऽन्तरतमेनाप्येतत्सिद्धम् । कुत आन्तर्यम् ? तालुस्थानस्य तालुस्थान ओष्ठस्थानस्यौष्ठस्थानो भविष्यतीति ।
उदाहरणभाष्यम् - इदं तर्हि 'तस्थस्थमिपां तांतंतामः' इति ।
उदाहरणबाधकभाष्यम् - ननु चैतदपि स्थानेऽन्तरतमेनैव सिद्धम् । कुत आन्तर्यम् ? एकार्थस्यैकार्थो द्वयर्थस्य द्वयों बह्वर्थस्य बहों भविष्यतीति ।
उदाहरणभाष्यम् - इदं तर्हि 'तूदीशलातुरखर्मतीकूचवाराड्ढछण्ढव्यकः' इति ।
॥ सूत्रप्रयोजनाधिकरणम् ॥
आक्षेपभाष्यम् - किमर्थमिदमुच्यते ?
(८५६. समाधानवार्त्तिकम् - १) * सञ्ज्ञासमासनिर्देशात्सर्वप्रसङ्गोऽनुदेशस्य तत्र यथासंख्यवचनं नियमार्थम् *
भाष्यम् - सञ्ज्ञया समासैश्च निर्देशाः क्रियन्ते । सञ्ज्ञया तावत् - 'परस्मैपदानां णलतुसुस्थलथुसणल्वमाः' इति । समासैः - 'तूदीशलातुरवर्मतीकूचवाराहृक्छण्ढञ्यकः' इति । सञ्ज्ञासमासनिर्देशादेतस्मात्कारणात् सर्वप्रसङ्गः सर्वस्योद्देशस्य सर्वोऽनुदेशः प्राप्नोति । इष्यते च समसंख्यं यथा स्यादिति । तच्चान्तरेण यत्नं न सिध्यतीति तत्र यथासंख्यवचनं नियमार्थम् । एवमर्थमिदमुच्यते ।
आक्षेपभाष्यम् - किं पुनः कारणं सञ्जया च समासैश्च निर्देशाः क्रियन्ते ?
(८५७. समाधानवार्त्तिकम् - २) * सञ्ज्ञासमासनिर्देशः पृथग्विभक्तिसंज्यनुच्चारणार्थः *
भाष्यम् - सञ्ज्ञया च समासैश्च निर्देशाः क्रियन्ते पृथग्विभक्तीः संज्ञिनश्च मोच्चीचरमिति ।
(८५८. प्रयोजनान्तरवार्त्तिकम् - ३) * प्रकरणे च सर्वसम्प्रत्ययार्थः *
भाष्यम् - प्रकरणे च सर्वेषां सम्प्रत्ययो यथा स्याद् 'विदो लटो वा' इति ।
॥ संख्यातानुदेशविायनिर्णयाधिकरणम् ॥
आक्षेपभाष्यम् - किं पुनः शब्दतः साम्ये संख्यातानुदेशो भवत्याहोस्विदर्थतः ?
भाष्यम् - कश्चात्र विशेषः ?
(८५९. शब्दसाम्यपक्षेदूषणवार्त्तिकम् - ४) * संख्यासाम्यं शब्दतश्चेण्णलादयः परस्मैपदानां डारौरसः प्रथमस्यायवायाव एच इत्यनिर्देशः *
भाष्यम् - संख्यासाम्यं शब्दतशेण्णलादयः परस्मैपदानां डारौरसः प्रथमस्यायवायाव एच इत्यनिर्देशः अगमको निर्देशोऽनिर्देशः । 'परस्मैपदार्नां णलतुसुस्थलथुसणल्वमाः' इति णलादयो बहवः, परस्मैपदानामित्येकः शब्दः, वैषम्यात्संख्यातानुदेशो न प्राप्नोति । डारौरसः प्रथमस्य - डारौरसो बहवः, प्रथमस्येत्येकः शब्दः, वैषम्यात् संख्यातानुदेशो न प्राप्नोति । 'एचोऽयवायावः' अयवायावो बहवः, एच इत्येकः शब्दः वैषम्यात् संख्या - तानुदेशो न प्राप्नोति ।
अर्थसाम्यपक्षाङ्गीकारभाष्यम् - अस्तु तर्थितः ।
(८६०. अर्थसाम्यपक्षदूषणवार्तिकम् - ५) * अर्थतश्चेल्लूलुटोर्नन्द्यरीहणसिन्धुतक्षशिलादिषु दोषः *
भाष्यम् - अर्थतश्चेल्लुलुटोर्नन्द्यरीहणसिन्धुतक्षशिलादिषु दोषो भवति । 'स्यतासी ललुटोः' स्यतासी द्वौ, ललुटोरित्यस्य त्रयोऽर्थाः । वैषम्यात्संख्यातानुदेशो न प्राप्नोति । 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः' नन्द्यादयो बहवः, ल्युणिन्यचस्त्रयः । वैषम्यात्संख्या - तानुदेशो न प्राप्नोति । अरीहणादयो बहवः, वुञादयः सप्तदश, वैषम्यात्संख्यातानुदेशो न प्राप्नोति । 'सिन्धुतक्षशिलादिभ्योऽणजी' सिन्धुतक्षशिलादयो बहवः, अणौ द्वौ, वैषम्यात्संख्या - तानुदेशो न प्राप्नोति ।
(८६१. अर्थसाम्यपक्षदूषणान्तरवार्त्तिकम् - ६) * आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु *
भाष्यम् - आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु च दोषो भवति । आत्मनेपदविधिश्च न सिध्यति - 'अनुदात्तडित आत्मनेपदम्' अनुदात्तङित्तौ द्वौ, आत्मनेपदमित्यस्य द्वावर्थी, तत्र संख्यातानुदेशः प्राप्नोति । निष्ठा - 'रदाभ्यां निष्ठातो नः पूर्वस्य च दः' इति रेफदकारौ द्वौ, निष्ठेत्यस्य द्वावर्थी, तत्र संख्यातानुदेशः प्राप्नोति । सार्वधातुकद्विग्रहणेषु च दोषो भवति - 'श्नसोरल्लोपः' श्नमस्ती द्वौ, सार्वधातुकमित्यस्य द्वावर्थी, तत्र संख्यातानुदेशः प्राप्नोति ।
(८६२. आक्षेपवार्त्तिकम् - ७) * एङः पूर्वत्वे प्रतिषेधः *
भाष्यम् - एङः पूर्वत्वे प्रतिषेधो वक्तव्यः । 'एङः पदान्तादति' 'ङसिङसोश्च' ङसिङसौ द्वौ, एङित्त्यस्य द्वावर्थी, तत्र संख्यातानुदेशः प्राप्नोति ।
शब्दसाम्यपक्षाभ्युपगमभाष्यम् - अस्तु तर्हि शब्दतः ।
आक्षेपभाष्यम् - ननु चोक्तं 'संख्यासाम्यं शब्दतश्चेण्णलादयः परस्मैपदानां डारौरसः प्रथमस्यायवायाव एच इत्यनिर्देशः' इति ।
समाधानभाष्यम् - नैष दोषः । स्थानेऽन्तरतम' इत्यनेन व्यवस्था भविष्यति । कुत आन्तर्यम् ? एकार्थस्यैकाथों द्वधर्भस्य द्वघयों, वह्वर्थस्य बहर्थः । संवृतावर्णस्य संवृतावर्णः, विवृतावर्णस्य विवृतावर्णः ।
(८६३. आक्षेपवार्त्तिकम् - ८) *
भाष्यम् - अतिप्रसङ्गो भवति गुणवृद्धिप्रतिषेधे क्ङिति । गुणवृद्धी द्वे, क्ङितौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ।
समाधानभाष्यम् - नैष दोषः । गकारोप्यत्र निर्दिश्यते ।
तटस्थभाष्यम् - तद्गकारग्रहणं कर्तव्यम् ।
सिद्धान्तिभाष्यम् - न कर्तव्यम् । क्रियते न्यास एव । ककारे गकारश्चर्वभूतो निर्दिश्यते गिति किति ङितीति ।
(८६४. आक्षेपवार्त्तिकम् - ९) * उदिकूले रुजिवहोः *
भाष्यम् - उदिकूले द्वे, रुजिवहौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ।
आक्षेपदूषकभाष्यम् - नैष दोषः । नोदिरुपपदम् । किं तर्हि ? विशेषणं रुजिवहोः । उत्पूर्वाभ्यां रुजिवहिभ्यां कूल उपपद इति ।
(८६५. आक्षेपवार्त्तिकम् - १०) * तच्छीलादिषु धातुत्रिग्रहणेषु *
भाष्यम् - तच्छीलादिषु धातुत्रिग्रहणेषु दोषो भवति । 'विदिभिदिच्छिदेः कुरच्' विदिभिदिच्छिदयस्त्रयः, तच्छीलादयस्त्रयः, तत्र संख्यातानुदेशः प्राप्नोति ।
(८६६. आक्षेपवार्त्तिकम् - ११) * घञादिषु द्विग्रहणेषु *
भाष्यम् - घञादिषु द्विग्रहणेषु दोषो भवति । 'निरभ्योः पूल्वोः निरभी द्वौ, पूल्वौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति । इति ।
आक्षेपनिराकरणभाष्यम् - नैष दोषः । इष्यते चात्र संख्यातानुदेशः निष्पावः अभिलाव आक्षेपव्याख्यान्तरभाष्यम् एवं तर्हि अकर्तरि च कारके भावे चेति द्वौ, पूल्वौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ।
(८६७. आक्षेपवार्त्तिकम् - १२) * अवे तृस्त्रोः करणाधिकरणयोः *
भाष्यम् - तूस्त्रौ हौ, करणाधिकरणे द्वे, तत्र संख्यातानुदेशः प्राप्नोति ।
(८६८. आक्षेपवार्त्तिकम् - १३) * कर्तृकर्मणोश्च भूकृओः *
भाष्यम् - कर्तृकर्मणी द्वे, भूकृौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ।
(८६९. आक्षेपवार्त्तिकम् - १४) * अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि *
भाष्यम् - अनुवक्तृप्त्यमर्षी द्वौ, किवृत्ताकिंवृत्ते है, तत्र संख्यातानुदेशः मानोति ।
(८७०. आक्षेपवार्त्तिकम् - १५) * कृभ्वोः क्त्वाणमुलौ *
भाष्यम् - कृभ्वौ द्वौ क्त्वाणमुलौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ।
(८७१. आक्षेपवार्त्तिकम् - १६) * अधीयानविदुषोश्छन्दोब्राह्मणानि *
भाष्यम् - छन्दोब्राह्मणानीति द्वे, अधीते वेदिति च द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ।
(८७२. आक्षेपवार्त्तिकम् - १७) * रोपधेतोः पथिदूतयोः *
भाष्यम् - 'रोपधेतोः प्राचाम्, तद्गच्छति पथिदूतयोः' । रोपधेतौ द्वौ, पथिदूतौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ।
(८७३. आक्षेपवार्त्तिकम् - १८) * तत्र भवस्तस्य व्याख्यानः क्रतुयज्ञेभ्यश्च *
भाष्यम् - तत्रभवस्तस्य व्याख्यानौ द्वौ, क्रतुयज्ञौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ।
(८७४. आक्षेपवार्त्तिकम् - १९) * सङ्घादिष्वञ्प्रभृतयः *
भाष्यम् - सङ्घादिष्वप्रभृतयः संख्यातानुदेशेन न सिध्यन्ति ।
आक्षेपवारकभाष्यम् - नैष दोषः । घोषग्रहणमपि तत्र कर्तव्यम् ।
(८७५. आक्षेपवार्त्तिकम् - ) * वेशोयशआदेर्भगाद्यत्खौ *
भाष्यम् - वेशोयशआदी द्वौ, यत्खौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ।
(८७६. आक्षेपवार्त्तिकम् - २१) * ङसिङसोः ख्यत्यात्परस्य *
भाष्यम् - ङसिङसौ द्वौ, ख्यत्यौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ।
(८७७. उक्ताक्षेपबाधकसमाधानवार्त्तिकम् - २२) * न वा समानयोगवचनात् *
भाष्यम् - न वा एष दोषः । किं कारणम् ? समानयोगवचनात् समानयोगे संख्यातानुदेशं वक्ष्यामि ।
अथ यथासंख्यानुपपत्तिप्रकरणम्
(८७८. आक्षेपवार्त्तिकम् - २३) * तस्य दोषो विदो लटो वा *
भाष्यम् - तस्यैतस्य लक्षणस्य दोषः 'विदो लटो वा' इति संख्यातानुदेशो न प्राप्नोति ।
(८७९. आक्षेपवार्त्तिकम् - २४) * ध्माधेटोः नाडीमुष्ट्योश्च *
भाष्यम् - ध्माधेटोः नाडीमुष्ट्योश्च संख्यातानुदेशो न प्राप्नोति ।
(८८०. आक्षेपवार्त्तिकम् - २५) * खलगोरथादिनित्रकट्यचश्च *
भाष्यम् - संख्यातानुदेशो न प्राप्नोति ।
(८८१. आक्षेपवार्त्तिकम् - २६) * सिन्ध्वपकराभ्यां कन् अणौ च *
भाष्यम् - संख्यातानुदेशो न प्राप्नोति ।
(८८२. आक्षेपवार्त्तिकम् - २७) * युष्मदस्मदोश्चादेशाः *
भाष्यम् - युष्मदस्मदोश्चादेशाः संख्यातानुदेशान्न सिद्ध्यन्ति ।
उपसंहारभाष्यम् - तस्माद्यस्मिन्पक्षेऽल्पीयांसो दोषाः, तमास्थाय प्रतिविधेयं दोषेषु ।
समाधानान्तरभाष्यम् - अथ वैवं वक्ष्यामि 'यथासंख्यमनुदेशः समानां स्वरितेन' ततः 'अधिकारः' अधिकारश्च भवति स्वरितेनेति ।
आक्षेपभाष्यम् - एवमपि स्वरितं दृष्ट्वा सन्देहः स्यात् - न ज्ञायते - किमयं समसंख्यार्थः, आहोऽस्वदधिकारार्थ इति ?
आक्षेपबाधकभाष्यम् - सन्देहमात्रमेतद्भवति । सर्वसन्देहेषु चेदमुपतिष्ठते 'व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्' इति । समसंख्यार्थ इति व्याख्यास्यामः । यथासंख्यमनुदेशः समानाम् ॥ १० ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know