इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता। त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥
॥ लिप्यन्तरणम् ॥
indrastvaṁ prāṇa tejasā rudro'si parirakṣitā | tvamantarikṣe carasi sūryastvaṁ jyotiṣāṁ patiḥ ||
॥ अन्वयः ॥
प्राण त्वं इन्द्रः तेजसा रुद्रः असि परिरक्षिता त्वं सूर्यः अन्तरिक्षे चरसि त्वं ज्योतिषां पतिः ॥
॥ अन्वयलिप्यन्तरणम् ॥
prāṇa tvaṁ indraḥ tejasā rudraḥ asi parirakṣitā tvaṁ sūryaḥ antarikṣe carasi tvaṁ jyotiṣāṁ patiḥ ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता । त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥९॥
इन्द्रस्त्वम् - परमेश्वरस्त्वमसि । स्तुतिप्रकरणमेतत् । हे प्राण तेजसा त्वमसि रुद्रः । न केवलं रुद्रः, परिरक्षिता च परितो रक्षिता, सर्वान्सर्वतो रक्षसि । त्वमेवाहवप्रवहादिरूपो भूत्वाऽऽकाशे चरसि । ज्योतिषां पतिः सूर्यश्च त्वमेवासि । नात्र पौनरुक्त्यम्, आभिमुख्येन हि स्तुतिः प्रवर्तते ॥९॥
॥ आङ्गल-अर्थः ॥
“'Thou art Indra, O Breath, by thy splendour and energy and Rudra because thou preservest; thou walkest in the welkin as the Sun, that imperial lustre.
॥ हिन्दी-अर्थः ॥
'''हे प्राण! आप इन्द्र हैं अपनी तेजस्विता के कारण तथा रुद्र हैं क्योंकि आप परिरक्षण करते हैं; ज्योतिष्मान् नक्षत्राधिपति के समान आप सूर्य बनकर अन्तरिक्ष में विचरण करते हैं।
॥ शब्दावली ॥
प्राण - prāṇa - O Breath!
त्वम् इन्द्रः - tvam indraḥ - thou art Indra
तेजसा - tejasā - by thy splendour and energy
रुद्रः - rudraḥ - Rudra
असि - asi - thou art
परिरक्षिता - parirakṣitā - thou art the preserver
त्वम् सूर्यः - tvam sūryaḥ - thou the Sun
अन्तरिक्षे - antarikṣe - in the welkin
चरसि - carasi - thou walkest
त्वम् - tvam - thou
ज्योतिषाम् पतिः - jyotiṣām patiḥ - that imperial lustre

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know