Ad Code

यदा त्वमभिवर्षस्यथेमाः प्राण



यदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः। आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति

लिप्यन्तरणम्

yadā tvamabhivarṣasyathemāḥ prāṇa te prajāḥ | ānandarūpāstiṣṭhanti kāmāyānnaṁ bhaviṣyatīti ||

अन्वयः

प्राण त्वं यदा अभिवर्षसि अथ ते इमाः प्रजाः कामाय अन्नं भविष्यति इति आनन्दरूपाः तिष्ठन्ति ॥

अन्वयलिप्यन्तरणम्

prāṇa tvaṁ yadā abhivarṣasi atha te imāḥ prajāḥ kāamāya annaṁ bhaviṣyati iti ānandarūpāḥ tiṣṭhanti ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

यदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥१०॥

हे प्राण पर्जन्यात्मना मेघात्मना वा यदा त्वमभिवर्षसि तदा ते इमाः प्रजाः समृद्धमन्नं नः कामाय भविष्यतीत्यानन्दप्रचुरा भवन्ति ॥१०॥

आङ्गल-अर्थः

“'When thou, O Breath, rainest, thy creatures stand all joy because there shall be grain to the heart's desire.

हिन्दी-अर्थः

'''हे प्राण! जब आप वृष्टि बनकर बरसते हैं तब आपकी यह प्रजा आनन्द सें भर उठती है क्योंकि अब यथेष्ट अन्न उत्पन्न होगा।

शब्दावली

प्राण - prāṇa - O Breath!

यदा - yadā - when

त्वम् अभिवर्षसि - tvam abhivarṣasi - thou rainest

अथ - atha - then

ते - te - thy

इमाः प्रजाः - imāḥ prajāḥ - creatures

कामाय - kāamāya - to the heart's desire

अन्नम् - annam - grain

भविष्यति इति - bhaviṣyati iti - there shall be

आनन्दरूपाः - ānandarūpāḥ - all joy

तिष्ठन्ति - tiṣṭhanti - stand


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code