अशरीरं शरीरेष्वनवस्थेष्ववस्थितम्। महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥
॥ लिप्यन्तरणम् ॥
aśarīraṁ śarīreṣvanavastheṣvavasthitam | mahāntaṁ vibhumātmānaṁ matvā dhīro na śocati ||
॥ अन्वयः ॥
अनवस्थेषु शरीरेसु अवस्थितम् अशरीरं महान्तं विभुम् आत्मानं मत्वा धीरः न शोचति ॥
॥ अन्वयलिप्यन्तरणम् ॥
anavastheṣu śarīresu avasthitam aśarīraṁ mahāntaṁ vibhum ātmānaṁ matvā dhīraḥ na śocati ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ आत्मज्ञस्य संसारदुःखनिवृत्तिः ]
एवं द्वाभ्यां प्राप्तुः प्रत्यगात्मनः स्वरूपमुक्तम् । द्वाभ्यां च प्राप्यस्य परमात्मनः स्वरूपमुक्तम् । अथोपायस्वरूपमाह - अशरीरम् इति ।
अशरीरं शरीरेष्वनवस्थेष्ववस्थितम् ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥२२॥
शीर्यत इति शरीरं विशरणस्वभावं वपुः तद्रहितः, तत्प्रयोजककर्माभावात् । अथाऽप्यनवस्थेषु शरीरेष्ववस्थितम् - अस्थिरेषु सुरनरतिर्यगादिनानाशरीरेष्वन्तर्यामितया स्थितम् ।
यद्वा शरीरेष्वनवस्थेष्ववस्थितमथाऽप्यशरीरम्, तत्संसर्गकृतसुखदुःखाद्यनन्वयात् । ‘अनश्नन्नन्योऽभिचाकशीति' (मुंडकोपनिषद् - ३.१.१) । अत एव विभुम् - वैभवशालित्वाद्वा विभुम् । महान्तं विभुम् - महावैभवशालिनमित्येतत् । एवम्भूतम्, आत्मानम् - परमात्मानम्, धीरो मत्वा न शोचति - सांसारिकदुःखान्निवृत्तो भवतीत्यर्थः ॥२२॥
॥ आङ्गल-अर्थः ॥
Realising the Bodiless in bodies, the Established in things unsettled, the Great and Omnipresent Self, the wise and steadfast soul grieves no longer.
॥ हिन्दी-अर्थः ॥
''शरीरों में 'अशरीरी', अस्थिर पदार्थों में 'स्थित'-तत्त्व, 'महिमामय' 'विभुव्यापी आत्मा' का साक्षात्कार करके ज्ञानी एवं धीर पुरुष शोक नहीं करते।
॥ शब्दावली ॥
शरीरेसु - śarīresu - in bodies
अशरीरम् - aśarīram - the Bodiless
अनवस्थेषु - anavastheṣu - in things unsettled
अवस्थितम् - avasthitam - the Established
महान्तम् - mahāntam - the Great
विभुम् - vibhum - the Omnipresent Self
आत्मानम् - ātmānam - Self
मत्वा - matvā - realising
धीरः - dhīraḥ - the wise and steadfast soul
न शोचति - na śocati - grieves no longer

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know