नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥
॥ लिप्यन्तरणम् ॥
nāyamātmā pravacanena labhyo na medhayā na bahunā śrutena | yamevaiṣa vṛṇute tena labhyastasyaiṣa ātmā vivṛṇute tanūṁ svām ||
॥ अन्वयः ॥
अयम् आत्मा प्रवचनेन न लभ्यः। न मेधया न बहुधा श्रुतेन। एषः यं एव वॄणुते तेन लभ्यः। तस्य एषः आत्मा त्वां तनूं विवृणुते ॥
॥ अन्वयलिप्यन्तरणम् ॥
ayam ātmā pravacanena na labhyaḥ| na medhayāa na bahudhā śrutena| eṣaḥ yaṁ eva vṝṇute tena labhyaḥ| tasya eṣaḥ ātmā tvāṁ tanūṁ vivṛṇute ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ परमात्मा एव उपायः उपेयश्च ]
ननु - सुकरोऽमुपायो मेधाविनाम्, सुविज्ञेयो हि शास्त्रेणाऽयमात्मा । अथ कथमात्थ, 'कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति' (कठोपनिषद् - २.२१) इति तत्राह - नायमिति ।
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥२३॥
मेधया - मध्यतो निर्देशेन तस्याः प्रवचनश्रवणयोरत्यन्तोपयोगो व्यज्यते । स्यान्मेधा, शतशः श्रूयन्तां श्रुतिशिरांसि प्रोच्यन्तां च तथा, न तावताऽयमात्मा लभ्यस्तत्त्वतः । मेधया तु भवेच्छास्त्रार्थविज्ञानम्, न त्वस्य तत्त्वतः साक्षात्कार इति भाव: । तत्र हेतुमाह - यमेवेति । एष - परमात्मा, यं वृणुते - स्वीकरोति, यस्मिन्प्रसन्नो भवतीत्येतत् । तेनैवायमात्मा लभ्य: । लाभ इह साक्षात्कारो वा । कस्मात् ? यस्मादेषः - परमात्मा, यं वृणुते तस्मा एव स्वां तनूं विवृणुते - स्वस्वरूपं प्रदर्शयति, नान्यस्मै । तत्त्वतस्तत्परिज्ञानस्य तत्प्रसादैकमूलत्वान्न मेधादिभिस्तस्य साक्षात्कार: सुगम: । असति च साक्षात्कारे न संसारनिवृत्ति:, 'महान्तं विभुमात्मानं मत्त्वा धीरो न शोचति' (कठोपनिषद् - २.२१,४.४) इत्यत्र या मतिरुपायतया निदर्शिता, सा तु तदपरोक्षरूपेति भावः । श्रूयते चान्यत्र 'क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे' (मुंडकोपनिषद् - २.२.९) इति ॥२३॥
॥ आङ्गल-अर्थः ॥
The Self is not to be won by eloquent teaching, nor by brain power, nor by much learning: but only he whom this being chooses can win Him, for to him this Self bares His body.
॥ हिन्दी-अर्थः ॥
"यह 'आत्मा' प्रवचन द्वारा लभ्य नहीं है, न मेधाशक्ति से, न बहुत शास्त्रों के श्रवण से 'यह' लभ्य है। यह आत्मा जिसका वरण करता है उसी के द्वारा 'यह' लभ्य है, उसी के प्रति यह 'आत्मा' अपने कलेवर को अनावृत करता है।
॥ शब्दावली ॥
अयम् आत्मा - ayam ātmā - this Self
प्रवचनेन - pravacanena - by eloquent teaching
न लभ्यः - na labhyaḥ - not to be won
न मेधया - na medhayāa - nor by brain power
न बहुना श्रुतेन - na bahunā śrutena - nor by much learning
एषः - eṣaḥ - this being
यम् - yam - whom
वॄणुते - vṝṇute - chooses
तेन एव - tena eva - by him alone
लभ्यः - labhyaḥ - can be won
तस्य - tasya - to him
एषः आत्मा - eṣaḥ ātmā - this Self
स्वाम् तनूम् - svām tanūm - His own body
विवृणुते - vivṛṇute - bares

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know