Ad Code

एषोऽणुरात्मा चेतसा वेदितव्यो

 


एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्‌ प्राणः पञ्चधा संविवेश। प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन्‌ विशुद्धे विभवत्येष आत्मा ॥

लिप्यन्तरणम्

eṣo'ṇurātmā cetasā veditavyo yasmin prāṇaḥ pañcadhā saṁviveśa | prāṇaiścittaṁ sarvamotaṁ prajānāṁ yasmin viśuddhe vibhavatyeṣa ātmā ||

अन्वयः

एषः अणुः आत्मा चेतसा तस्मिन् शरीरे वेदितव्यः यस्मिन् प्राणः पञ्चधा संविवेश। प्राणैः प्रजानाम् सर्वं चित्तम् ओतं यस्मिन् विशुद्धे एषः आत्मा विभवति ॥

अन्वयलिप्यन्तरणम्

eṣaḥ aṇuḥ ātmā cetasā ( tasmin śarīre ) veditavyaḥ yasmin prāṇaḥ pañcadhā saṁviveśa| prāṇaiḥ prajānām sarvaṁ cittam otaṁ yasmin viśuddhe eṣaḥ ātmā vibhavati ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ जीवात्मस्वरूपनिरूपणम् ]

इदमिह निष्पन्नम्, परमात्मसाक्षात्कारो ध्यानेन, ध्यानयोग्यता च ज्ञानप्रसादेनेति, ज्ञानप्रसाद एव परमात्मसाक्षात्कारे निदानमिति, इदमेव पुनर्विविच्यते - एषोऽणुरिति । 

एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश । प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन्विशुद्धे विभवत्येष आत्मा ॥९॥

सहजमपि ज्ञानं कलुषं भवति केन ? अनात्मन्यात्माभिमानेन । तत्र केषाञ्चिदिन्द्रिये केषाञ्चित्प्राणे केषाञ्चिन्मनसि चात्माभिमानः । तेन तेनाभिमानेन तथा तथा सङ्कल्पः कामः क्रोधस्ततश्चान्ततो ज्ञाने सर्वतः कालुष्यम् । तत्तेभ्यो विलक्षणमविषमं सर्वत्र योनौ परमात्मशेषतैकवेषमात्मनः स्वरूपं यदाऽसाववलोकयेत्, कालुष्यमूलस्याभिमानस्यापगमेन ज्ञाननैर्मल्यं, तेन च परमात्म ध्यानयोग्यता चेतसस्ततो ध्यानं, तेन तस्य साक्षात्कारः स्यात् । तस्मात्प्रथममेषोऽणुरात्मा जीवश्चेतसा विवेकशीलेन वेदितव्यः । यस्मिन् - जीवे प्राण: पञ्चधा संविवेशोपकरणतया । यस्मिन्प्रजानां प्राणैः चक्षुरादिभिरिन्द्रियैः सह सर्वं चित्तमोतम् सम्बद्धमुपकरणतया । यद्यपि चित्तमेकमेवैकस्य, तथापि वृत्तिभेदाद्बहुत्वमभिप्रेत्य सर्वमित्युक्तिः । प्रत्येकमेकस्मिन्नेकं सम्बद्धमिति वाऽऽशयः । अणुरिति निर्देशात्स्थूलाच्छरीराद्वैलक्षण्यं व्यज्यते । प्राणादीनामुपकरणतया सम्बन्धाभि- धानात्तेभ्योऽपि वैलक्षण्यं ज्ञापितम् । एवं विलक्षणस्यात्मनो जीवस्य स्वरूपं प्रथमतो वेदितव्यम् । यस्मिन्स्वात्मनि विशुद्धे - देहादिभ्यो विशोधिते, विजातीयतया यथावस्थितवेषेणावलोकिते एष आत्मा बृहत्त्वादिधर्मविशिष्टतयाऽव्यवहितमन्त्र उक्तः परमात्मा, विभवति प्रकाशते । - चेतसो ध्यानयोग्यतासम्पत्त्या ध्यानद्वारा साक्षात्कारपथगो भवतीति यावत् ।

यद्वा - पञ्चधाऽवस्थितो जीवोपकरणभूतः प्राणोऽपि यस्मिन्नेव संविवेश यस्मिन्नेव प्रतिष्ठितः । प्रजानां चित्तं प्राणैरिन्द्रियैः सह यस्मिन्नेवौतम् यच्चान्यत्सर्वं यस्मिन्नेवतं, स सर्वस्य प्रतिष्ठाभूत एषोऽणुरात्मा सर्वतः सूक्ष्मः परमात्मा चेतसा वेदितव्यः । ननु चेतसा कथमस्य वेदनं ? तद्धि प्रतिक्षणसमुन्मिषत्सङ्कल्पसहस्रसङ्कुलमित्यत्राह - यस्मिन्विशुद्धे विभवत्येष आत्मा - एष परमात्मा यस्मिन्विशुद्धे निर्मले सति विभवति - विशेषत: प्रकाशते, साक्षात्कारगोचरो भवति, तेन विमलेन चेतसा वेदितव्य इति पूर्वेण सम्बन्धः ॥९॥

आङ्गल-अर्थः

This Self is subtle and has to be known by a thought-mind into which the life-force has made its fivefold entry: all the conscious heart of creatures is shot through and inwoven with the currents of the life-force and only when it is purified can this Self manifest its power.

हिन्दी-अर्थः

यह 'आत्मा' अणुवत् सूक्ष्म है तथा इसे विचारात्मक मन (चित्त) के द्वारा जाना जाता है जिसमें प्राण ने पञ्चविध प्रवेश किया हैː प्राणियों का सचेतन मन (चित्त) प्राणों से ओत-प्रोत है जिसके विशुद्ध हो जाने पर ही यह 'आत्मा' अपनी शक्ति को अभिव्यक्त कर सकती है।८

शब्दावली

एषः आत्मा - eṣaḥ ātmā - this Self

अणुः - aṇuḥ - is subtle

चेतसा - cetasā - by a thought-mind

वेदितव्यः - veditavyaḥ - has to be known

यस्मिन् - yasmin - into which

प्राणः - prāṇaḥ - the life-force

पञ्चधा संविवेश - pañcadhā saṁviveśa - has made its fivefold entry

प्राणैः - prāṇaiḥ - with the currents of the life-force

प्रजानाम् - prajānām - of creatures

सर्वम् चित्तम् - sarvam cittam - all the conscious heart

ओतम् - otam - is shot through and inwoven

यस्मिन् विशुद्धे - yasmin viśuddhe - only when it is purified

एषः आत्मा - eṣaḥ ātmā - this Self

विभवति - vibhavati - can manifest its power

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code