Ad Code

न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा

 


न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मण वा। ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥

लिप्यन्तरणम्

na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇa vā | jñānaprasādena viśuddhasattvastatastu taṁ paśyate niṣkalaṁ dhyāyamānaḥ ||

अन्वयः

तत् आत्मतत्वं चक्षुषा न गृह्यते। वाचा अपि न। अनैः देवैः न। तपसा कर्मणा वा न ज्ञानप्रसादेन विशुद्धसत्वः भवति ततः तु ध्यायमानः निष्कलं तं पश्यते ॥

अन्वयलिप्यन्तरणम्

( tat ātmatatvaṁ ) cakṣuṣā na gṛhyate| vācā api na| anaiḥ devaiḥ na| tapasā karmaṇā vā ( na ) jñānaprasādena viśuddhasatvaḥ ( bhavati ) tataḥ tu dhyāyamānaḥ niṣkalaṁ taṁ paśyate ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

[ भगवत्कृपयैव तद्दर्शनम् ]

नन्विहैव हृदयगुहायां निहितमत्यन्तसन्निकृष्टमपि तत्कश्चिदेव पश्यति न सर्वो जन इत्येतत्कुत इत्याशङ्कामपनयन्नाह - न चक्षुषेति ।

न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा ।ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमानः ॥८॥

सत्यं सन्निहितं नाम सर्वस्य हृदयगुहायां तत्परमात्मतत्त्वम्, तावता जातमात्रः सर्वः कथं द्रष्टुं समर्थ: स्यात्, स्यान्नाम समर्थो यदि प्रभवेच्चक्षुरादिकं तस्मिन्, स हि परमात्मा न चक्षुषा गृह्यते नान्यैर्देवैः - त्वगादिभिरिन्द्रियैः, नापि वाचा - वाक् व्यवहारः, यो हि चक्षुराद्यगोचरः स कथं तन्मूलव्यवहारस्य गोचरो भवेत्, ननु मा भूज्जातमात्रस्य तत्साक्षात्कार:, ये हि तपोनिष्ठाः कर्मनिष्ठा वा तेषां स्यात्, विप्रकृष्टमपि स्वर्गादि लभन्ते हि ते इत्यत्राह - तपसा कर्मणा वेति । वर्षसहस्रं वाताम्बुपर्णाशनीभूयानुष्ठितेन तपसा शतकृत्वो ऽनुष्ठितेनाश्वमेधादिना वा कर्मणा नायं गृह्यते । ननु यो नाम पश्यति स केन साधनेन ? यदपरेषां नेति परेषां विप्रकृष्टोऽयं भवति, तं साधनविशेषमाह - ज्ञानप्रसादेनेति । यद्यपि सर्वे चैतन्यस्वभावतया ज्ञानधर्माण एव, ज्ञानं तु न प्रसन्नं किन्त्वाविलमेवं, अनादिविपरीतवासनया ह्यनुक्षणमहं ममेत्यभिमानतः कामक्रोधादिभिः कलुषीकृतम्, यदा पुनर्यथावस्थितात्मस्वरूपाधिगमस्तदा त्वपगताभिमानादि प्रशान्तरागादिदोषं प्रसन्नं भवति कतकाधिगमेनेव सलिलम्, एवम्भूतेन ज्ञानस्य प्रसादेन निर्मलतया यस्य सत्त्वमन्तःकरणं विशुद्धम् - प्रवृद्धसत्त्वतया ध्यानयोग्यं भवति, स विशुद्धसत्त्वस्ततः पश्चात्तत एव हेतोर्निष्कलम्- निरवयवं नित्यं तं परमात्मानं ध्यायमानः अविरतमन्वहमन्यप्रत्ययानन्तरितेन चेतसाऽनुस्मरन्कश्चिदेव योगिनामग्रणीः पश्यति । इदं च ध्यानं न सर्वेषां सुलभमिति कस्यचिदेवायमन्तिके अन्येषामतिदूर इति युक्तमुक्तमिति भावः ॥८॥

आङ्गल-अर्थः

Eye cannot seize, speech cannot grasp Him, nor these other godheads; not by austerity can he be held nor by works: only when the inner being is purified by a glad serenity of knowledge, then indeed, meditating, one beholds the Spirit indivisible.

हिन्दी-अर्थः

'उसे' न चक्षु ग्रहण कर पाते हैं न वाणी, न अन्य देवता उसे ग्रहण कर पाते हैं; उसे न तपस्या से ग्रहण किया जा सकता है न कर्मों के द्वाराː जब अन्तर सत्ता ज्ञान के प्रसाद से विशुद्ध हो जाती है, केवल तभी ध्यान की अवस्था में उस अखण्ड 'परमात्म तत्त्व' को देखा जाता है।

शब्दावली

चक्षुषा न गृह्यते - cakṣuṣā na gṛhyate - eye cannot seize

वाचा अपि न - vācā api na -

अनैः देवैः न - anaiḥ devaiḥ na - nor by these other godheads it is seized

तपसा कर्मणा वा न - tapasā karmaṇā vā na - not by austerity can he be held nor by works

ज्ञानप्रसादेन - jñānaprasādena - by a glad serenity of knowledge

विशुद्धसत्वः - viśuddhasatvaḥ - only when the inner being is purified

ततः तु - tataḥ tu - then indeed

ध्यायमानः - dhyāyamānaḥ - meditating

तम् निष्कलम् - tam niṣkalam - the Spirit indivisible

पश्यते - paśyate - one beholds

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code