Ad Code

विश्वरूपं हरिणं जातवेदसं

 



उपनिषद् ॥ प्रश्नोपनिषद् प्रथमः प्रश्नः

विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम्‌। सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥

॥ लिप्यन्तरणम् ॥

viśvarūpaṁ hariṇaṁ jātavedasaṁ parāyaṇaṁ jyotirekaṁ tapantam | sahasraraśmiḥ śatadhā vartamānaḥ prāṇaḥ prajānāmudayatyeṣa sūryaḥ ||

अन्वयः

विश्वरूपं हरिणं जातवेदसं परायणम् एकं ज्योतिः तपन्तं। सहस्ररश्मिः शतधा वर्त्तमानः प्रजानां प्राणः एषः सूर्यः उदयति ॥

अन्वयलिप्यन्तरणम्

viśvarūpaṁ hariṇaṁ jātavedasaṁ parāyaṇam ekaṁ jyotiḥ tapantaṁ| sahasraraśmiḥ śatadhā varttamānaḥ prajānāṁ prāṇaḥ eṣaḥ sūryaḥ udayati ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ जीवः परमात्मानुवर्ती ]

विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् । सहस्त्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥८॥

विश्वरूपं - व्याख्यातमेतत् । हरिणम् - हरयो रश्मयो यस्य तम्, छान्दसः प्रयोगः । जातवेदसम् - जातं वेद: प्रज्ञानं यस्मात्तम्, श्रूयतेऽन्यत्र जातवेदः शब्दः सूर्ये 'उदुत्यं जातवेदसं देवं वहन्ति केतवः' (तैत्तिरीय सं. १.४.४४) इति । परायणम् - करणे ल्युट्, उत्कृष्टं गतेर्द्वारमिति यावत् । श्रूयते च विदुषामादित्यं गतानां ब्रह्मप्राप्त्याऽपुनरावृत्तिः । एकं ज्योतिः - अद्वितीयं ज्योतिः, इतरेषां लौकिकानां ज्योतिषां इतोऽपकृष्टत्वात् । तपन्तम् - तापक्रियाकर्तारम् । अभिगच्छन्त्यात्मविद इति शेषः । सहस्त्ररश्मिश्चायं शतधा वर्तमानः, सर्वेषां चक्षुष्यधिष्ठातृतया सन्निधानात् । सायमग्नौ सन्निधानाच्च । तथा च श्रूयते - 'आदित्यश्चक्षुर्भूत्वा अक्षिणी प्राविशत्' (ऐतरेयोपनिषत् - २) ‘अग्निं वा आदित्यः सायं प्रविशति' ( तैत्तिरीय. ब्राह्मणम् - २.१.२ ) इति । प्रजानां प्राणः व्याख्यातमेतत्। एवम्भूतः सूर्यः सर्वान्प्रकाशयन्नन्वहमुदेति ।

परे तु - प्राणशब्दनिर्दिष्टो योऽयमादित्यः सोऽपि परमात्मात्मक इत्याह स एष इति । योऽसौ विश्वान्नरानन्तरात्मा सन्नयति । अत एव सर्वशरीरः स एष प्राणोऽग्निरुदयते प्राणत्वेन निर्दिष्ट आदित्यो भूत्वाऽन्वहमुदेति, भगवान्हि सर्वान्तरः सर्वशरीरः, तदादित्यात्मना स एव प्रकाशत इति सर्वस्य स्रष्टा परमात्मा स्तुतो भवति । इहाग्निशब्देनादित्यस्य निर्देश: सूर्याग्न्योरेकत्वभावनया । श्रूयते च - 'उद्यन्तं वाऽऽदित्यमग्निरनु समारोहति' ( तैत्तिरीय ब्राह्मणम् - २.१.२) इति । उत्तरमन्त्रे अग्निशब्दस्थाने सूर्यशब्दः । श्रूयते च प्राणः प्रजानामुदयत्येष सूर्य' इति । विश्वरूपमिति । सर्वान्तर्यामितया सर्वशरीरम् । हरिणम् ज्ञानप्रभारूपरश्मिबहुलम्, सर्वज्ञमित्येतत् । जातवेदसम् जातं वेद: प्रज्ञानं यस्मात्तम्, सर्वप्रज्ञानकारणम् । अत एव ज्योतिरद्वितीयम् । ज्योतिषां ज्योतिः । तपन्तम् - सर्वतः प्रकाशमानं परमात्मानम् । शतधा सर्वप्रकारेण, अनुवर्तमानः सन्नुदयति । कः ? एष सूर्यः प्रजानां प्राणः सहस्त्ररश्मिरिति व्याचक्षते ॥८॥

आङ्गल-अर्थः ॥

“'Fire is this burning and radiant Sun, he is the One lustre and all-knowing Light, he is the highest heaven of spirits. With a thousand rays he burneth and existeth in a hundred existences; lo this Sun that riseth, he is the Life of all his creatures.'

हिन्दी-अर्थः

''अग्नि है यह तप्त एवं देदीप्यमान् 'सूर्य', यह है 'एकमेव' ज्योति तथा सर्वज्ञ 'प्रकाश', यह आत्मचैतन्य का उच्चतम व्योम है। यह सहस्र रश्मियों से जगमगाता है तथा शतविध अस्तित्वों में विद्यमान होता है; अहो, यह 'सूर्य' जो उदित हो रहा है, यह अपनी समस्त प्रज्जाओं का 'प्राण' है।

शब्दावली

विश्वरूपम् - viśvarūpam - variegated

हरिणम् - hariṇam - Light

जातवेदसम् - jātavedasam - all-knowing

परायणम् - parāyaṇam - the one who is the highest heaven of spirits

एकम् ज्योतिः - ekam jyotiḥ - the One lustre

तपन्तम् - tapantam - burning and radiant

सहस्ररश्मिः - sahasraraśmiḥ - with a thousand rays

शतधा वर्त्तमानः - śatadhā varttamānaḥ - the one who burneth and existeth in a hundred existences

प्रजानाम् प्राणः - prajānām prāṇaḥ - the one who is the Life of all his creatures

एषः सूर्यः - eṣaḥ sūryaḥ - this Sun

उदयति - udayati - riseth

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code