Ad Code

संवत्सरो वै प्रजापतिः स्तस्यायने दक्षिणञ्चोत्तरं च।



उपनिषद् ॥ प्रश्नोपनिषद् प्रथमः प्रश्नः

संवत्सरो वै प्रजापतिः स्तस्यायने दक्षिणञ्चोत्तरं च। तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते त एव पुनरावर्तन्ते। तस्मादेत ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते। एष ह वै रयिर्यः पितृयाणः ॥

॥ ane dakṣiṇañcottaraṁ ca | tadye ha vai tadiṣṭāpūrte kṛtamityupāsate te cāndramasameva lokamabhijayante ta eva punarāvartante| tasmādeta ṛṣayaḥ prajākāmā dakṣiṇaṁ pratipadyante | eṣa ha vai rayiryaḥ pitṛyāṇaḥ ||

॥ अन्वयः ॥

प्रजापतिः वै संवत्सरः तस्य दक्षिणं च उत्तरं च अयने वर्तेत तत् ये ह वै तत् इष्टापूर्त्ते कृतं इति उपास्ते ते चान्द्रमसं लोकम् अभिजयन्ते ते एव पुनरावर्त्तन्ते। तस्मात् एते ऋषयः प्रजाकामाः दक्षिणं प्रतिपद्यन्ते एषः ह वै रयिः यः पितृयाणः ॥

॥ अन्वयलिप्यन्तरणम् ॥

prajāpatiḥ vai saṁvatsaraḥ tasya dakṣiṇaṁ ca uttaraṁ ca ayane ( varteta ) tat ye ha vai tat iṣṭāpūrtte kṛtaṁ iti upāste te cāndramasaṁ lokam abhijayante te eva punarāvarttante| tasmāt ete ṛṣayaḥ prajākāmāḥ dakṣiṇaṁ pratipadyante eṣaḥ ha vai rayiḥ yaḥ pitṛyāṇaḥ ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ इष्टापूर्तकारिणां पुनरावृत्तिः ]

प्रजाः सिसृक्षुः प्रजापतिरादौ चन्द्रादित्यौ रयिप्राणावसृजदित्युक्तम् । ततः किम् ?, ताभ्यां सृष्टाभ्यां प्रजाः कथमभवन् ? तत्रोच्यते - संवत्सर इत्यादिना ।

संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च । तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते त एव पुनरावर्तन्ते तस्मादेते ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । 

एष ह वै रयिर्यः पितृयाणः ॥९॥

अयमाशयः - चन्द्रादित्याभ्यामहोरात्रशुक्लकृष्णदक्षिणोत्तरायणादिकालविभागः, ततश्च व्रीह्याद्यन्ननिष्पत्तिः, ततो रेतः, ततश्च प्रजाः, यश्चान्नमत्ति प्राणी तस्य प्राणानादित्यो रश्मिषु सन्निधत्ते यच्चाद्यमन्नं व्रीहियवादि तच्चोषधीशः पुष्णाति रश्मिभिः, तद्युक्तमुक्तं प्रजाकामः प्रजापतिरादौ चन्द्रादित्यावसृजदितीति ।

संवत्सरो वै प्रजापतिः - यः प्रजाकामो हिरण्यगर्भशरीरः परमात्मा चन्द्रादित्यावसृजत्, स एवायनद्वयसमुदायात्मकसंवत्सरात्मकोऽप्यभूत् । प्रजासृष्टिद्वारभूते संवत्सरादौ प्रजापतित्वमुपचर्यते । चन्द्रादित्ययोः स्रष्टरि हिरण्यगर्भेऽपि तथैवेति केचिदाहुः । तस्य संवत्सरस्य द्वाववयवौ दक्षिणायनमुत्तरायणं चेति । तत्र दक्षिणायनं रयित्वेन कल्पयन्नाह - तद्ये ह वै इति । तत् तत्र, दक्षिणायनोत्तरायणयोर्मध्य इत्यर्थः । दक्षिणं प्रतिपद्यन्त इत्युत्तरेण सम्बन्ध: । इष्टम् - यागादि, पूर्तम् - वापीकूपतटाकादिः, एवम्प्रकारं यत्कृतमनित्यं कर्म, तद्य उपासते - श्रद्धयाऽनुतिष्ठन्ति, ते चन्द्रमः सम्बन्धिनं लोकं प्राप्नुवन्ति । प्राप्यान्नमयं लोकं भुक्त्वा च भोग्यं पुनरावर्तन्ते क्षीणे कृते । कृतोपासका ह्येते न नित्यात्मस्वरूपोपासका: । त एते प्रजाकामाः । प्रजाशब्दः कामानामुपलक्षकः । दक्षिणायनं प्रतिपद्यन्ते । कर्मिणः कामकामा दक्षिणेन पथा चन्द्रं प्राप्य कृते प्रक्षीणे पुनरावर्तन्ते, तस्मात् एष ह वै रयिर्यः पितृयाणः पितृयाणमिति प्रथितं दक्षिणायनं रयित्वेन रूपितो यश्चन्द्रस्तत्प्रापकत्वात्पुनरावृत्तेरपकर्षाच्च रयित्वेनोच्यत इति भाव: । तत्र चन्द्रप्रापकत्वमग्रे निरूपयिष्यमाणं रात्रिकृष्णपक्षयो रयित्वे लिङ्गं बोध्यम् । स्मर्यते च पितृयाणकोटावनयोरपि गणना 'धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते' (भगवद्गीता - ८.२५) इति ॥९॥

॥ आङ्गल-अर्थः ॥

“The year also is that Eternal Father and of the year there are two paths, the northern solstice and the southern. Now they who worship God with the well dug and the oblation offered, deeming these to be righteousness, conquer their heavens of the Moon; these return again to the world of birth. Therefore do the souls of sages who have not yet put from them the desire of offspring, take the way of the southern solstice which is the road of the Fathers. And this also is Matter, the Female.

॥ हिन्दी-अर्थः ॥

''संवत्सर (वर्ष) भी वह 'परमपिता' (प्रजापति) है तथा संवत्सर के दो अयन अर्थात् दो मार्ग हैं- उत्तरायण एवं दक्षिणायन। और, जो लोग कूपादि खनन तथा यज्ञों में हवि की आहुति देकर 'ईश्वर' की उपासना करते हैं, और इसी सब को सत्कर्म मानते हैं, वे चान्द्रमस स्वर्ग-लोकों को ही विजित करते हैं; ये ही लोग जन्म के लोक में पुनः लौटकर आते हैं। इसी कारण वे ऋषिगण जिन्होंने पुत्रप्राप्ति की कामनाओं का त्याग नहीं किया है, वे दक्षिणायन मार्ग का अनुसरण करते हैं जो कि पितृयाण (पितरों का मार्ग) है। तथा यह भी 'रयि' (जड़तत्त्व) 'नारीतत्त्व' है।

॥ शब्दावली ॥

संवत्सरः वै - saṁvatsaraḥ vai - the year also is

प्रजापतिः - prajāpatiḥ - that Eternal Father

तस्य - tasya - of that (the year)

दक्षिणम् च - dakṣiṇam ca - the southern

उत्तरम् च - uttaram ca - and the northern solstice

अयने - ayane - there are two paths

तत् ये ह वै - tat ye ha vai - now they who

तदिष्टापूर्त्ते कृतम् इति - tadiṣṭāpūrtte kṛtam iti - with the well dug and the oblation offered, deeming these to be righteousness

उपास्ते - upāste - worship God

ते - te - they

चान्द्रमसम् लोकम् - cāndramasam lokam - their heavens of the Moon

अभिजयन्ते - abhijayante - conquer

ते एव - te eva - these

पुनरावर्त्तन्ते - punarāvarttante - return again to the world of birth

तस्मात् - tasmāt - therefore, take the way of the southern solstice which is the road of the Fathers. And this also is Matter, the Female

एते प्रजाकामाः ऋषयः - ete prajākāmāḥ ṛṣayaḥ - do the souls of sages who have not yet put from them the desire of offspring

दक्षिणम् - dakṣiṇam - the southern solstice

प्रतिपद्यन्ते - pratipadyante - take the way of

यः - yaḥ - this indeed

पितृयाणः - pitṛyāṇaḥ - is the road of the Fathers

एषः ह वै रयिः - eṣaḥ ha vai rayiḥ - this also is Matter, the Female


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code