- उपनिषद् ॥
व्याख्या:= प्रश्नोपनिषद् प्रथम प्रश्न
अथादित्य उदयन् यत् प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते। यद्दक्षिणां यत् प्रतीचीं यदुदीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते ॥
॥ लिप्यन्तरणम् ॥
athāditya udaīṁ diśaṁ praviśati tena prācyān prāṇān raśmiṣu sannidhatte | yaddakṣiṇāṁ yat pratīcīṁ yadudīcīṁ yadadho yadūrdhvaṁ yadantarā diśo yatsarvaṁ prakāśayati tena sarvān prāṇān raśmiṣu sannidhatte ||
॥ अन्वयः ॥
अथ आदित्यः उदयन् यत् प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते यत् दक्षिणां यत् प्रतीचीं यत् उदीचीं यत् अधः यत् ऊर्ध्वं यत् अन्तरा दिशः यत् अन्यत् सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते ॥
॥ अन्वयलिप्यन्तरणम् ॥
atha ādityaḥ udayan yat prācīṁ diśaṁ praviśati tena prācyān prāṇān raśmiṣu sannidhatte yat dakṣiṇāṁ yat pratīcīṁ yat udīcīṁ yat adhaḥ yat ūrdhvaṁ yat antarā diśaḥ yat ( anyat ) sarvaṁ prakāśayati tena sarvān prāṇān raśmiṣu sannidhatte ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ आदितस्य प्राणशब्दवाच्यत्वे हेतुः ]
यद्यप्येवं सत्यादित्यस्यापि रयित्वमविशिष्टम्, तथाऽपि सर्वप्राणसमुत्तेजनलक्षणविशेषमाश्रित्य प्राणत्वेन निर्देश इत्यभिप्रयन्नाह - अथेति । चन्द्रमसो रयित्वमुपपादितम् । इदानीमादित्यस्य प्राणत्वमुपपाद्यत इति विभागो व्यज्यते - अथेत्यनेन ।
अथादित्य उदयन्यत्प्राचीं दिशं प्रविशति तेन प्राच्यान्प्राणान् रश्मिषु सन्निधत्ते । यद्दक्षिणां यत्प्रतीचीं
यदुदीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं प्रकाशयति तेन सर्वान्प्राणान् रश्मिषु सन्निधत्ते ॥६॥
उदयन्नेवायमादित्यः प्राचीं दिशं प्रविशति, स्वप्रभया व्याप्नोतीत्येतत् । तेन प्राच्यान्प्राणान्स्वरश्मिषु सन्निधत्ते - रश्मिभिर्धारयतीत्येतत् । तत्रत्यान्प्राणान् रश्मिभिः पुष्णातीति भावः । यद्दक्षिणां दिशं प्रविशति, यत्प्रतीचीं दिशं यदुदीचीं दिशं यच्चोर्ध्वं, यच्चाधः, यदन्तरा दिश आग्नेय्याद्याः, यञ्चान्यत्सर्वं प्रकाशयति, तेन तत्र तत्र विद्यमानान्सर्वान्प्राणान्स्वरश्मिषु सन्निधत्ते । पुष्णातीति भावः ।
परे तु - अद्यविभागमभिप्रेत्य आदित्यो ह वै प्राणो रयिरेव चन्द्रमा इत्याह । रयिरित्यद्यं लक्ष्यते ।
ननु कथमत्त्त्रद्यविभागः, रयिर्वा एतत्सर्वं यन्मूर्तं चामूर्तं च यन्मूर्तं कठिनं पार्थिर्वं यच्चान्यदकठिनं जलादि सर्वमेवाद्यं स्थूलमिव सूक्ष्मेण सूक्ष्ममपि ततोऽपि सूक्ष्मेण विनाश्यत एवेत्याक्षिप्य समाधत्ते तस्मान्मूर्तिरेव रयिरिति । यद्यपि सर्वमेव रयिः, तथापि तस्मात् - अमूर्तात्, अमूर्तमपेक्ष्य, मूर्तिरेव रयिर्भवेत् । तत्र चन्द्रमसोऽद्यवर्गान्तर्गत- सकलौषधिरसपोषकत्वेन रयित्वं सुव्यक्तम् । आदित्यस्य कथमत्तृत्वमित्याशङ्कायां 'प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ' (भगवद्गीता - १५.१४ ) इति प्राणस्यादनोपकारकत्व- स्मरणात्, लोकतश्च तदवगमात् स होवाच किं मेऽन्नं भविष्यतीति यत्किञ्चिदिदमाश्वभ्य आशकुनिभ्य इति होचुः' (छांदोग्योपनिषद् - ५.२.१) इति श्रुतेश्चात्तृत्वं प्राणेष्वाकलय्य तादृश- प्राणपोषकत्वेनादित्यस्यात्तृत्वमित्यभिप्रयन्नाह - अथेतीति व्याचक्षते ॥६॥
॥ आङ्गल-अर्थः ॥
“Now when the Sun rising entereth the East, then absorbeth he the eastern breaths into his rays. But when he illumineth the south and west and north, and below and above and all the angles of space, yea, all that is, then he taketh all the breaths into his rays.
॥ हिन्दी-अर्थः ॥
''अथ, जब उदीयमान सूर्य पूर्व (प्राची) में प्रवेश करता है, तब प्राची की प्राणावायु (प्राच्यप्राणों) को अपनी रश्मियों में भर लेता है। किन्तु जब वह दक्षिण दिशा, पश्चिम दिशा (प्रतीचि) और उत्तर दिशा (उदीचि), अधः तथा ऊर्ध्व दिशाओं को तथा अन्तरिक्ष के समस्त कोणों को, वस्तुतः जो कुछ भी है उसे प्रकाशित करता है, तब वह समस्त प्राणों को अपनी रश्मियों में धारण कर लेता है।
॥ शब्दावली ॥
अथ - atha - now
आदित्यः - ādityaḥ - the Sun
उदयन् - udayan - rising
यत् प्राचीम् दिशम् - yat prācīm diśam - the East
प्रविशति - praviśati - entereth
तेन - tena - then
प्राच्यान् प्राणान् - prācyān prāṇān - the eastern breaths
रश्मिषु - raśmiṣu - into his rays
सन्निधत्ते - sannidhatte - absorbeth
यत् दक्षिणाम् - yat dakṣiṇām - the south
यत् प्रतीचीम् - yat pratīcīm - the west
यत् उदीचीम् - yat udīcīm - the north
यत् अधः - yat adhaḥ - below
यत् ऊर्ध्वम् - yat ūrdhvam - above
यत् अन्तरा दिशः - yat antarā diśaḥ - all the angles of space
यत् सर्वम् - yat sarvam - all that is
प्रकाशयति - prakāśayati - he illumineth
तेन - tena - then
सर्वान् प्राणान् - sarvān prāṇān - all the breaths
रश्मिषु - raśmiṣu - into his rays
सन्निधत्ते - sannidhatte - he taketh

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know