Ad Code

आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः

 


प्रश्नोपनिषद प्रथम प्रश्न

आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः रयिर्वा एतत्‌ सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥

लिप्यन्तरणम्

ādityo ha vai prāṇo rayireva candramāḥ rayirvā etat sarvaṁ yanmūrtaṁ cāmūrtaṁ ca tasmānmūrtireva rayiḥ ||

अन्वयः

आदित्यः ह वै प्राणः चन्द्रमा एव रयिः वा यत् मूर्त्तं यत् च अमूर्त्तम् एतत् सर्वं वै रयिः तस्मात् मूर्तिः एव रयिः ॥

अन्वयलिप्यन्तरणम्

ādityaḥ ha vai prāṇaḥ candramā eva rayiḥ vā yat mūrttaṁ yat ca amūrttam etat sarvaṁ vai rayiḥ tasmāt mūrtiḥ eva rayiḥ ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

[ प्राण- रयिशब्दार्थरूनिपणम् ]

का रयि:? कश्च प्राणः ? यदेतन्मिथुनमुच्यते, तदेतच्छ्रुतिरेव व्याचष्टे -

आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः रयिर्वा एतत्सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥५॥

आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः अत्र प्राणशब्देन निर्दिष्ट आदित्य:, रयिशब्देन निर्दिष्टश्चन्द्रमा इत्यर्थः । रयिशब्देन चन्द्रमसो निर्देशे हेतुमाह - रयिर्वेति । यन्मूर्तं - स्थूलं पृथिव्यादि, यञ्चामूर्तं सूक्ष्मं वाय्वादि, तत्सर्वं रयिः । वाशब्दः प्रसिद्ध्यर्थः । रयिशब्दो धने प्रसिद्धः, धनं च भोग्यम्, पृथिव्यादिकं सर्वं भोग्यवर्गान्तर्गतमेव । तन्मूर्तममूर्तं च रयिरित्येतत्सुप्रसिद्धमिति भावः । ततः किमायातमित्यत्राह - तस्मान्मूर्तिरेव रयिरिति । तस्मात् - मूर्तमूर्तयो रयित्वात् । मूर्तिः - मूर्तिमात्रं रयिरेव । एवकारस्य भिन्नक्रमेणान्वयः । तच्चन्द्रमसो मूर्तविशेषस्य रयित्वेन निर्देश: समुचित इति भावः ॥५॥

॥ आङ्गल-अर्थः ॥

“The Sun verily is Life and the Moon is no more than Matter; yet truly all this Universe formed and formless is Matter; therefore Form and Matter are One.

॥ हिन्दी-अर्थः ॥

''आदित्य (सूर्य) ही 'प्राण' है तथा चन्द्रमा 'रयि' (जड़तत्त्व) से अधिक और कुछ नहीं है; तथापि वस्तुतः यह समस्त मूर्त एवं अमूर्त विश्व 'जड़तत्त्व' ही है अतः 'मूर्त' एवं 'रयि' (जड़तत्त्व) 'एक' ही हैं।

॥ शब्दावली ॥

आदित्यः - ādityaḥ - the Sun

ह वै प्राणः - ha vai prāṇaḥ - verily is Life

चन्द्रमा एव - candramā eva - the Moon

रयिः वा - rayiḥ vā - is no more than Matter

यत् मूर्त्तम् - yat mūrttam - formed

यत् च अमूर्त्तम् - yat ca amūrttam - formless

एतत् सर्वम् वै - etat sarvam vai - truly all this Universe

रयिः - rayiḥ - is Matter

तस्मात् - tasmāt - therefore

मूर्तिः एव रयिः - mūrtiḥ eva rayiḥ - Form and Matter are One

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code