Ad Code

सर्वं ह्येतद्‌ ब्रह्म अयमात्मा ब्रह्म

 


सर्वं ह्येतद्‌ ब्रह्म अयमात्मा ब्रह्म सोऽयमात्मा चतुष्पात्‌ ॥

लिप्यन्तरणम्

sarvaṁ hyetad brahma ayamātmā brahma so'yamātmā catuṣpāt ||

अन्वयः

एतत् सर्वं हि ब्रह्म। सः अयम् आत्मा चतुष्पात् ॥

अन्वयलिप्यन्तरणम्

etat sarvaṁ hi brahma| saḥ ayam ātmā catuṣpāt ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ नादात्मकः पादचतुष्टययुक्तः परमात्मा ]

सर्वं ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥२॥

कुत एतत् ? आह - सर्वं ह्येतत् ब्रह्म, अयमात्मा ब्रह्म एतत् - दृश्यमानमखिलमेव सङ्घातलक्षणं भूतभविष्यद्वर्तमानविभेदविभिन्नं ब्रह्मैव ब्रह्मकार्यत्वात् ब्रह्मशरीरत्वात् ब्रह्मात्मकमेव हि, यश्चान्यस्त्रिकालातीतोऽयं जीवात्मा सोऽपि ब्रह्म हि ब्रह्मात्मको हि । न चान्तरं प्रणवब्रह्मणोः, वाच्यवाचकयोरभेदाध्यवसायात्, तदोङ्कार एव सर्वमिदमिति युक्तमुक्तमिति भावः । एवं प्रणवं स्तुत्वा, अथोपासनमुपदेष्टुमुपक्रमते - सोऽयमात्मा चतुष्पादित्यादिना । सः - ब्रह्मात्मकतया प्रस्तुत:, अयमात्मा - प्रत्यगात्मा, चतुष्पात् - चत्वारः पादा यस्य तथोक्तः ॥२॥

॥ इति माण्डूक्योपनिषद्भाष्ये प्रथमः खण्डः ॥

॥ आङ्गल-अर्थः ॥

All this Universe is the Eternal Brahman, this Self is the Eternal, and

हिन्दी-अर्थः ॥

यह सम्पूर्ण 'विश्व' 'शाश्वत-ब्रह्म' ही है यह 'आत्मा' 'ब्रह्म' हैं एवं 'आत्मा' चतुर्विध है, इसके चार पाद हैं।

शब्दावली

एतत् सर्वम् हि - etat sarvam hi - all this Universe is

ब्रह्म - brahma - the Eternal Brahman

सः अयम् आत्मा - saḥ ayam ātmā - this Self is the Eternal

चतुष्पात् - catuṣpāt - the Self is fourfold


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code