जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः प्रथमः पादः ॥
॥ लिप्यन्तरणम् ॥
jāgaritasthāno bahiḥprajñaḥ saptāṅga ekonaviṁśatimukhaḥ sthūlabhug vaiśvānaraḥ prathamaḥ pādaḥ ||
॥ अन्वयः ॥
जागरितस्थानः वाहिःप्रज्ञः सप्ताङ्गः एकोनविंशतिमुखः स्थूलभुक् वैश्वानरः प्रथमः पादः ॥
॥ अन्वयलिप्यन्तरणम् ॥
jāgaritasthānaḥ vāhiḥprajñaḥ saptāṅgaḥ ekonaviṁśatimukhaḥ sthūlabhuk vaiśvānaraḥ prathamaḥ pādaḥ ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
द्वितीयः खण्डः
[ वैश्वानरात्मकः ओंकारस्य प्रथमपादः ]
पादान्क्रमशो निरूपयति- जागरितेति ।
जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥१॥
जागरितं स्थानं यस्य स तथोक्त: । अधिष्ठाय चैतन्यप्रभया चक्षुरादि बाह्यान्रूपाद्यर्थाननुभवतीति बहिष्प्रज्ञोऽयम् । सप्ताङ्गः - यस्यास्य भूतसूक्ष्मपञ्चकं धर्माधर्मौ चेति सप्ताङ्गानि, एतैर्ह्ययमितस्ततो गमनागमनादिसाधनैर्भोगाय प्रभवति, अविनाभूतश्चायमेतैः, तदयमेतैः सप्ताङ्ग उच्यते । वासनापञ्चकं धर्माधर्मौ वा । एकोनविंशतिमुखः - ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि प्राणा अन्तःकरणचतुष्टयं चेत्येकोनविंशतिर्मुखानि यस्य स तथाभूतः, भुङ्क्ते ह्ययमेभिरर्थान् । स्थूलभुक् स्थूलं ब्राह्मं रूपाद्यर्थं भुङ्ग इति स्थूलगुच्यते । सोऽयं जाग्रद्दशावस्थः स्थूलभुग्वैश्वानरः प्रथमः पादः । कथमस्य वैश्वानरसंज्ञा ? उच्यते । विश्व बाह्यं देवादिप्रपञ्चं यथाकर्म यथासम्भवमहमहमित्यभिमन्यते तदयं नराभिमानी वैश्वानर उच्यते ॥१॥
॥ आङ्गल-अर्थः ॥
He whose place is the wakefulness, who is wise of the outward, who has seven limbs, to whom there are nineteen doors, who feeleth and enjoyeth gross objects, Vaiswanara, the Universal Male, He is the first.
॥ हिन्दी-अर्थः ॥
जाग्रत्-अवस्था जिसका स्थान है, जो बहिर्गत जगत् का ज्ञाता है, जो सात अगोंवाला है, जिसके लिए उत्रीस द्वार हैं, जो स्थूल पदार्थों की रसानुभूति करता है, 'वैश्वानर' अर्थात् 'विश्व-पुरुष', 'वह' है प्रथम पाद।
॥ शब्दावली ॥
जागरितस्थानः - jāgaritasthānaḥ - he whose place is the wakefulness
वाहिःप्रज्ञः - vāhiḥprajñaḥ - who is wise of the outward
सप्ताङ्गः - saptāṅgaḥ - who has seven limbs
एकोनविंशतिमुखः - ekonaviṁśatimukhaḥ - to whom there are nineteen doors
स्थूलभुक् - sthūlabhuk - who feeleth and enjoyeth gross objects
वैश्वानरः - vaiśvānaraḥ - Vaiswanara, the Universal Male
प्रथमः पादः - prathamaḥ pādaḥ - he is the first

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know