Ad Code

पुरमेकादशद्वारमजस्यावक्रचेतसः



पुरमेकादशद्वारमजस्यावक्रचेतसः। अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते। एतद्वै तत्‌ ॥

॥ लिप्यन्तरणम् ॥

puramekādaśadvāramajasyāvakracetasaḥ | anuṣṭhāya na śocati vimuktaśca vimucyate | etadvai tat ||

॥ अन्वयः ॥

अजस्य अवक्रचेतसः आत्मनः एकादशद्वारं पुरम् अस्ति तम् अनुष्ठाय नरः न शोचति। विमुक्तः विमुच्यते च। एतत् वै तत् ॥

॥ अन्वयलिप्यन्तरणम् ॥

ajasya avakracetasaḥ ( ātmanaḥ ) ekādaśadvāraṁ puram ( asti tam ) anuṣṭhāya ( naraḥ ) na śocati| vimuktaḥ vimucyate ca| etat vai tat ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

द्वितीयोऽध्यायः

द्वितीया वल्ली (पञ्चमी वल्ली )

[ मुक्तस्वरूपस्य परमात्मात्मकत्वम् ]

दुरधिगमत्वात्परमात्मतत्त्वस्य पुनस्तद्विवेचनायारभते - पुरम् इति । 

पुरमेकादशद्वारमजस्यावक्रचेतसः ।

अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते ॥ एतद्वै तत् ॥१॥

शरीरं पुरमुच्यते द्वारादिसाम्यात् । सप्तभिर्मुखे भवैर्नाभ्या सहार्वाग्भिस्त्रिभिर्मूर्नैकेन चैकादशद्वारमुच्यते । त्वङ्मांसरुधिरादिभिः प्राकारैः परिवेष्टितमेतत्पुरम् । द्वारपाश्चादित्यादयः तत्तदधिष्ठातृदेवताः। अतोऽस्य पुरत्वं युक्तम् । यथायथमितस्ततः समाहृत्यार्थान्बलिमुपहरद्भिरिन्द्रियैः पौरैरुपसेव्यमानः प्रभुपदेऽभिषिक्तो जीवः । यस्तु शरीरं पुरं वेत्ति, सः पुरात् पौरेभ्यश्चात्यन्तविलक्षणमात्मानं जानात्येव । नैतावता कृतकृत्यता, किन्तु येनायमस्मिन्पुरे प्रभुपदेऽभिषेचितः तं चेद्विजानीयात् । स चाजोऽवक्रचेताः परमात्मा । जीवस्य हि कर्मसम्बन्धेनोपाधिद्वाराऽस्ति नाम जन्मसम्बन्धः । अस्य तु कथमपि न तत्सम्बन्ध इत्यज उच्यते । कर्मणा ज्ञानसंकोचात्कदाचिद्वक्रचेता नाम जीव: ; अयं तु नित्यासङ्कुचितज्ञानोऽवक्रचेताः । चेतः शब्देन ज्ञानं लक्ष्यते । तदात्मनोऽस्मिन्पुरे प्रभुपदे योजयितारं परमात्मानं ज्ञात्वा तदिदमेकादशद्वारं पुरं तस्यावक्रचेतसः अनुष्ठाय - विधाय, सम्बन्धसामान्ये षष्ठी, तदर्थं विधायेति यावत् । न शोचति । 'विचित्रा देहसम्पत्तिरीश्वराय निवेदितुम्' (विष्णुतत्वे ) इति हि स्मर्यते । इह भगवान् दयमानमनाः करणकलेवरयोगं विदधाति चेतनानां स्वाराधनेन समुज्जीवनाय । कतिचन मन्दभाग्याः अजानन्तो देहात्मभ्रमेण स्वतन्त्रात्मभ्रमेण च च्यवन्त्येव । यः पुनर्विज्ञायाऽऽत्मयाथात्म्यमीश्वरनिसृष्टां करणकलेवरसम्पत्तिं सर्वानपि तद्व्यापारान् तदाराधनरूपानेव तनुते ; स हि सर्वशोकमूलतो विमुक्तो भवति । तदुच्यते - अजस्यावक्रचेतसः अर्थे पुरमिदं विधाय न शोचतीति, इति भावः । इहैव शोकमूलभूतै रागद्वेषादिभिर्विमुक्तः शरीरावसानसमये विमुच्यते प्रकृतिसम्बन्धतः, न पुनः शरीरं प्राप्स्यति, किन्त्वर्चिरादिना प्राप्य भगवल्लोकं विमुक्तो भविष्यति । एतद्वै तत् - यदाराधनेन विमुक्तो भवति, तदेतत् पूर्वोक्तमित्यर्थः ।

यद्वा - कामनामूलकः सर्वोऽनर्थः, सा च देहात्माभिमानमूला, अतस्तत्त्वं विचार्यम् । वस्तुत आत्मा न जायते शरीरं तु जायते, अतश्चाऽयं ततो भिन्नः । शरीरं तु जडम्, अयं तु अवक्रचेताः - ज्ञानैकवपुः, ज्ञानस्वरूपे ह्यस्य न देवादिवैषम्येण वक्रता, अतश्चायमत्यन्तभिन्नः । अनुष्ठायैतत् - अनुष्ठानपर्यन्तं ज्ञात्वेति यावत्, शास्त्रतस्तु सर्व एव जानन्तीदं वैषम्यम्, तद्व्यावृत्तिर्ज्ञाप्यतेऽनुष्ठायेत्यनेन । न शोचति - शोकमूलभूतदेहात्मभिमानापगमात् । विमुक्तश्च विमुच्यते - यथा व्याख्यातमेतत् । एतद्वै तत् - एवम्भूतो मुक्तोऽपि तदात्मक इति भावः ॥१॥

॥ आङ्गल-अर्थः ॥

The Unborn who is not devious-minded hath a city with eleven gates; when He taketh up his abode in it, He grieveth not, but when He is set free from it, that is His deliverance. This is the thing thou seekest.

॥ हिन्दी-अर्थः ॥

''वह 'अजन्मा' जो अकुटिलमना है, उसकी एकादश द्वारोवाली पुरी है; जब 'वह' उसमें अवस्थित हो जाता है तब 'वह' शोक नहीं करता, किन्तु जब 'वह' उससे मुक्त हो जाता है तब वह मुक्ति-लाभ करता है। यही है 'वह', जिसकी तुम्हें अभीप्सा है।

॥ शब्दावली ॥

अजस्य - ajasya - the unborn

अवक्रचेतसः - avakracetasaḥ - one who is not devious-minded

एकादशद्वारम् पुरम् - ekādaśadvāram puram - a city with eleven gates

अनुष्ठाय - anuṣṭhāya - having taken up his abode in it

न शोचति - na śocati - He grieveth not

विमुक्तः - vimuktaḥ - being free from it

विमुच्यते - vimucyate - he delivers himself

च - ca - and

एतत् वै तत् - etat vai tat - this is the thing thou seekest

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code