Editors Choice

जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

पुरमेकादशद्वारमजस्यावक्रचेतसः



पुरमेकादशद्वारमजस्यावक्रचेतसः। अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते। एतद्वै तत्‌ ॥

॥ लिप्यन्तरणम् ॥

puramekādaśadvāramajasyāvakracetasaḥ | anuṣṭhāya na śocati vimuktaśca vimucyate | etadvai tat ||

॥ अन्वयः ॥

अजस्य अवक्रचेतसः आत्मनः एकादशद्वारं पुरम् अस्ति तम् अनुष्ठाय नरः न शोचति। विमुक्तः विमुच्यते च। एतत् वै तत् ॥

॥ अन्वयलिप्यन्तरणम् ॥

ajasya avakracetasaḥ ( ātmanaḥ ) ekādaśadvāraṁ puram ( asti tam ) anuṣṭhāya ( naraḥ ) na śocati| vimuktaḥ vimucyate ca| etat vai tat ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

द्वितीयोऽध्यायः

द्वितीया वल्ली (पञ्चमी वल्ली )

[ मुक्तस्वरूपस्य परमात्मात्मकत्वम् ]

दुरधिगमत्वात्परमात्मतत्त्वस्य पुनस्तद्विवेचनायारभते - पुरम् इति । 

पुरमेकादशद्वारमजस्यावक्रचेतसः ।

अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते ॥ एतद्वै तत् ॥१॥

शरीरं पुरमुच्यते द्वारादिसाम्यात् । सप्तभिर्मुखे भवैर्नाभ्या सहार्वाग्भिस्त्रिभिर्मूर्नैकेन चैकादशद्वारमुच्यते । त्वङ्मांसरुधिरादिभिः प्राकारैः परिवेष्टितमेतत्पुरम् । द्वारपाश्चादित्यादयः तत्तदधिष्ठातृदेवताः। अतोऽस्य पुरत्वं युक्तम् । यथायथमितस्ततः समाहृत्यार्थान्बलिमुपहरद्भिरिन्द्रियैः पौरैरुपसेव्यमानः प्रभुपदेऽभिषिक्तो जीवः । यस्तु शरीरं पुरं वेत्ति, सः पुरात् पौरेभ्यश्चात्यन्तविलक्षणमात्मानं जानात्येव । नैतावता कृतकृत्यता, किन्तु येनायमस्मिन्पुरे प्रभुपदेऽभिषेचितः तं चेद्विजानीयात् । स चाजोऽवक्रचेताः परमात्मा । जीवस्य हि कर्मसम्बन्धेनोपाधिद्वाराऽस्ति नाम जन्मसम्बन्धः । अस्य तु कथमपि न तत्सम्बन्ध इत्यज उच्यते । कर्मणा ज्ञानसंकोचात्कदाचिद्वक्रचेता नाम जीव: ; अयं तु नित्यासङ्कुचितज्ञानोऽवक्रचेताः । चेतः शब्देन ज्ञानं लक्ष्यते । तदात्मनोऽस्मिन्पुरे प्रभुपदे योजयितारं परमात्मानं ज्ञात्वा तदिदमेकादशद्वारं पुरं तस्यावक्रचेतसः अनुष्ठाय - विधाय, सम्बन्धसामान्ये षष्ठी, तदर्थं विधायेति यावत् । न शोचति । 'विचित्रा देहसम्पत्तिरीश्वराय निवेदितुम्' (विष्णुतत्वे ) इति हि स्मर्यते । इह भगवान् दयमानमनाः करणकलेवरयोगं विदधाति चेतनानां स्वाराधनेन समुज्जीवनाय । कतिचन मन्दभाग्याः अजानन्तो देहात्मभ्रमेण स्वतन्त्रात्मभ्रमेण च च्यवन्त्येव । यः पुनर्विज्ञायाऽऽत्मयाथात्म्यमीश्वरनिसृष्टां करणकलेवरसम्पत्तिं सर्वानपि तद्व्यापारान् तदाराधनरूपानेव तनुते ; स हि सर्वशोकमूलतो विमुक्तो भवति । तदुच्यते - अजस्यावक्रचेतसः अर्थे पुरमिदं विधाय न शोचतीति, इति भावः । इहैव शोकमूलभूतै रागद्वेषादिभिर्विमुक्तः शरीरावसानसमये विमुच्यते प्रकृतिसम्बन्धतः, न पुनः शरीरं प्राप्स्यति, किन्त्वर्चिरादिना प्राप्य भगवल्लोकं विमुक्तो भविष्यति । एतद्वै तत् - यदाराधनेन विमुक्तो भवति, तदेतत् पूर्वोक्तमित्यर्थः ।

यद्वा - कामनामूलकः सर्वोऽनर्थः, सा च देहात्माभिमानमूला, अतस्तत्त्वं विचार्यम् । वस्तुत आत्मा न जायते शरीरं तु जायते, अतश्चाऽयं ततो भिन्नः । शरीरं तु जडम्, अयं तु अवक्रचेताः - ज्ञानैकवपुः, ज्ञानस्वरूपे ह्यस्य न देवादिवैषम्येण वक्रता, अतश्चायमत्यन्तभिन्नः । अनुष्ठायैतत् - अनुष्ठानपर्यन्तं ज्ञात्वेति यावत्, शास्त्रतस्तु सर्व एव जानन्तीदं वैषम्यम्, तद्व्यावृत्तिर्ज्ञाप्यतेऽनुष्ठायेत्यनेन । न शोचति - शोकमूलभूतदेहात्मभिमानापगमात् । विमुक्तश्च विमुच्यते - यथा व्याख्यातमेतत् । एतद्वै तत् - एवम्भूतो मुक्तोऽपि तदात्मक इति भावः ॥१॥

॥ आङ्गल-अर्थः ॥

The Unborn who is not devious-minded hath a city with eleven gates; when He taketh up his abode in it, He grieveth not, but when He is set free from it, that is His deliverance. This is the thing thou seekest.

॥ हिन्दी-अर्थः ॥

''वह 'अजन्मा' जो अकुटिलमना है, उसकी एकादश द्वारोवाली पुरी है; जब 'वह' उसमें अवस्थित हो जाता है तब 'वह' शोक नहीं करता, किन्तु जब 'वह' उससे मुक्त हो जाता है तब वह मुक्ति-लाभ करता है। यही है 'वह', जिसकी तुम्हें अभीप्सा है।

॥ शब्दावली ॥

अजस्य - ajasya - the unborn

अवक्रचेतसः - avakracetasaḥ - one who is not devious-minded

एकादशद्वारम् पुरम् - ekādaśadvāram puram - a city with eleven gates

अनुष्ठाय - anuṣṭhāya - having taken up his abode in it

न शोचति - na śocati - He grieveth not

विमुक्तः - vimuktaḥ - being free from it

विमुच्यते - vimucyate - he delivers himself

च - ca - and

एतत् वै तत् - etat vai tat - this is the thing thou seekest

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ