हंसः शुचिषद्वसुरान्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत्। नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥
॥ लिप्यन्तरणम् ॥
haṁsaḥ śuciṣadvasurāntarikṣasaddhotā vediṣadatithirduroṇasat | nṛṣadvarasadṛtasadvyomasadabjā gojā ṛtajā adrijā ṛtaṁ bṛhat ||
॥ अन्वयः ॥
सः आत्मा शुचिषत् हंसः अन्तरिक्ष्सतस् वेदिसत् होता दुरोणसत् अतिथिः नृषत् वरसत् ऋतसं व्योमसत् अव्जा गोजा ऋतजा अद्रिजा ऋतं वृहत् ॥
॥ अन्वयलिप्यन्तरणम् ॥
( saḥ ) ātmā śuciṣat haṁsaḥ antarikṣsatas vedisat hotā duroṇasat atithiḥ nṛṣat varasat ṛtasaṁ vyomasat avjā gojā ṛtajā adrijā ṛtaṁ vṛhat ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ परमात्मनः सर्वात्मकत्वम् ]
सर्वस्य चिदचित्पदार्थस्यैतदात्मकतामाह - हंस इति ।
हंसश्शुचिषत् वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।
नृषत् वरसत् ऋतसत् व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥२॥
शुचौ - निर्लेपे आकाशे वर्तमानो हंसः - सूर्यः । वसुरन्तरिक्षसत् - आकाशे सततमनुसञ्चरन् यो वासयति वायुः । होता वेदिषत् - वेद्यां वर्तमानो यश्च होता, होताऽत्राग्निः, वेदिश्च पृथिवी, तथा च श्रूयते - 'अग्निर्वै होता इयं वेदिः परोऽन्तः पृथिव्या' इति ; ऋत्विग्विशेषो वा। अतिथिर्दुरोणसत् - यश्च गृहान्प्रविशत्यतिथि: । नृषत् - यस्तु मनुष्ययोनौ । वरसत् - यश्च देवयोनौ । ऋतसत् - यश्च सत्यलोके वर्तमानः । व्योमसत् - व्योम्नि परमाकाशे वर्तमानः । अब्जा गोजा ऋतजा अद्रिजा: - ये जलजा:, ये च भूमिजाः, ये च आकाशजाः, ये च पर्वतप्रभवाः, सर्वमेतत्, बृहत् ऋतम् - अपरिच्छिन्नब्रह्मात्मकम् । ऋतमिति सत्यमुच्यते, सत्यं ब्रह्मैव, ‘सत्यं ज्ञानम्' इति श्रुतेः ॥२॥
॥ आङ्गल-अर्थः ॥
Lo, the Swan whose dwelling is in the purity, He is the Vasu in the interregions, the Sacrificer at the altar, the Guest in the vessel of the drinking; He is in man and in the Great Ones and His home is in the Law and His dwelling is in the firmament; He is all that is born of water and all that is born of earth and all that is born of the mountains. He is the Truth and He is the Mighty One.
॥ हिन्दी-अर्थः ॥
"देखो वह 'हंस' जो शुचिता में वास करता है, 'वह' अन्तरिक्ष में 'वसु' है, यज्ञवेदी पर वह 'होता' है, पानीय-पात्र में 'अतिथि' है; 'वह' मनुष्य में है, 'वह' 'वरिष्ठ' जनों में है, वह 'ऋतवासी' है, व्योमवासी है, 'वही' है वे सब, जो जल से उत्पन्न होते हैं, पृथ्वी से उत्पन्न होते हैं, पर्वतों से उत्पन्न होते हैं, ('ऋत' से उद्भूत हैं)*। 'वह 'सत्य' (ऋत) है 'महान्' (बृहद्) है।
॥ शब्दावली ॥
हंसः - haṁsaḥ - the Swan
शुचिषत् - śuciṣat - whose dwelling is in the purity
वसुः - vasuḥ - the Vasu
अन्तरिक्ष्सतस् - antarikṣsatas - in the interregions
होता - hotā - the Sacrificer
वेदिसत् - vedisat - at the altar
अतिथिः - atithiḥ - the Guest
दुरोणसत् - duroṇasat - in the vessel of the drinking
नृषत् - nṛṣat - the one who is in man
वरसत् - varasat - the one who is in the Great Ones
ऋतसम् - ṛtasam - the one who has His home in the Law
व्योमसत् - vyomasat - the one whose dwelling is in the firmament
अव्जा - avjā - all that is born of water
गोजा - gojā - all that is born of earth
ऋतजा - ṛtajā - the one born of the Truth
अद्रिजा - adrijā - all that is born of the mountains
ऋतम् - ṛtam - the Truth
वृहत् - vṛhat - the Mighty One
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know