Ad Code

न तत्र सूर्यो भाति न चन्द्रतारकं



न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥

लिप्यन्तरणम्

na tatra sūryo bhāti na candratārakaṁ nemā vidyuto bhānti kuto'yamagniḥ | tameva bhāntamanubhāti sarvaṁ tasya bhāsā sarvamidaṁ vibhāti ||

अन्वयः

तत्र सूर्यः न भाति चन्द्रतारकम् च न इमाः विद्युतः न भान्ति अयं अग्निः कुतः तत् प्रकाशयेत् तं भान्तम् एव सर्वम् अनुभाति। तस्य भासा इदं सर्वम् विभाति ॥

अन्वयलिप्यन्तरणम्

tatra sūryaḥ na bhāti candratārakam ( ca ) na imāḥ vidyutaḥ na bhānti ayaṁ agniḥ kutaḥ ( tat prakāśayet ) taṁ bhāntam eva sarvam anubhāti| tasya bhāsā idaṁ sarvam vibhāti ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

ज्योतिषां ज्योतिष्ट्वमुपपादयति - न तत्रेति ।

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।

तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥१०॥

तत्र - परे ब्रह्मणि सूर्यो न भाति न प्रकाशते, सूर्यस्तस्य न प्रकाशको भवतीति यावत् । न चन्द्रतारकं नेमा विद्युतो भान्ति - ये च चन्द्रादयो दिव्यास्तेऽपि न प्रकाशकाः । कुतोऽयमग्निः अत्यन्तसन्निकृष्टात्यल्पदेशप्रकाशको भौमोऽयमग्निस्तु कुतः । ननु प्रकाशकतया लोके प्रसिद्धस्य सूर्यादेस्तत्प्रकाशकता कुतो नेत्यत्राह - तमेव भान्तमनुभाति सर्वम् - स हि भाति सर्वतो दीप्तिमान्निरन्तरम्, तमनु सर्वमिदं सूर्यादि भाति । ननु कथमुच्यते तमेव भान्तमनुभातीति ? तत्राह - तस्य भासा सर्वमिदं विभातीति । तस्यैव परमात्मनः प्रकाशलेशेनैषां प्रकाश इत्यर्थः । परमात्मसङ्कल्पाधीनप्रकाशा इति यावत् ॥१०॥

आङ्गल-अर्थः ॥

There the sun shines not and the moon has no splendour and the stars are blind; there these lightnings flash not, how then shall burn this earthly fire? All that shines is but the shadow of his shining; all this universe is effulgent with his light.

हिन्दी-अर्थः

वहां न सूर्य प्रकाशित होता है और चन्द्र आभाहीन हो जाता है तथा तारे बुझ जाते हैं; वहां ये विद्युत् भी नहीं चमकतीं, तब यह पार्थिव अग्नि भी कैसे जल पायेगी? जो कुछ भी चमकता है, वह उसकी आभा से अनुभासित होता है, यह सम्पूर्ण विश्व उसी के प्रकाश से प्रकाशित एवं भासित हो रहा है।

शब्दावली

तत्र - tatra - there

सूर्यः - sūryaḥ - the sun

न भाति - na bhāti - shines not

न चन्द्रतारकम् - na candratārakam - and the moon has no splendour and the stars are blind

इमाः विद्युतः - imāḥ vidyutaḥ - there these lightnings

न भान्ति - na bhānti - flash not

कुतः - kutaḥ - how then?

अयम् अग्निः - ayam agniḥ - this earthly fire shall burn

तम् भान्तम् एव - tam bhāntam eva - when he shines

सर्वम् अनुभाति - sarvam anubhāti - all that is shines after that

तस्य भासा - tasya bhāsā - with his light

इदम् सर्वम् - idam sarvam - all this universe

विभाति - vibhāti - is effulgent


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code