हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम्। तच्छुभ्रं ज्योतिषां ज्योतिस्तद् यदात्मविदो विदुः ॥
॥ लिप्यन्तरणम् ॥
hiraṇmaye pare kośe virajaṁ brahma niṣkalam | tacchubhraṁ jyotiṣāṁ jyotistad yadātmavido viduḥ ||
॥ अन्वयः ॥
हिरण्मये परे कोशे विरजं निष्कलं ब्रह्म वर्तते तत् शुभ्रं तत् ज्योतिषां ज्योतिः आत्मविदः यत् विदुः ॥
॥ अन्वयलिप्यन्तरणम् ॥
hiraṇmaye pare kośe virajaṁ niṣkalaṁ brahma ( vartate ) tat śubhraṁ ( tat ) jyotiṣāṁ jyotiḥ ātmavidaḥ yat viduḥ ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
दिव्ये ब्रह्मपुरे ह्येष इत्युक्तमर्थं पुनरप्याह प्रतिपत्तिदाढर्याय - हिरण्मय इति ।
हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ।
तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥९
हिरण्मये प्रकाशमान इति यावत् । परे कोशे प्रकृष्टे धनागारे, धनं च ज्ञानिनां ब्रह्मैव तत् तदीयस्थानविशेष इहाभिप्रेतः। वर्तमानमिति शेषः । विरजम् - रजः शब्देन गुणत्रयं लक्ष्यते, गुणत्रयासंसृष्टमिति यावत् । निष्कलम् - निरंशम्, उपचयापचयशून्यमिति यावत् । तच्च शुभ्रम् स्वच्छम्, निर्दोषमिति यावत् । ज्योतिषां प्रकाशकानामपि ज्योतिः - प्रकाशकम् । तच्चैतन्न सर्वे प्राकृता जानन्ति, किंतु तद्यदात्मविद एव विदुः - आत्मसाक्षात्कारकुशला महर्षय एव जानीयुः ।
यद्वा - अन्तर्यामिणो विज्ञाने प्रत्यगात्मविज्ञानस्याङ्गत्वमाह - हिरण्मय इति । कोशे - कुड्मले, हृदयकमल इति यावत् । विज्ञानप्रभाप्रसरणावच्छेदकदेशत्वेन सुवर्ण- कमलवद्दीप्यमानतया हिरण्मयश्चायं कोशः । अत एव कोशान्तरतः परश्च । तस्मिन्नेतस्मिन्कोशे यत् ब्रह्म वर्तते तदात्मविदो विदुरिति सम्बन्ध: । कोशे वर्तमानमपि न तदीयेन रजसा धूसरमित्याह विरजमिति । गुणत्रयसंस्पर्शरहितमिति यावत् । निष्कलमित्यादि यथाव्याख्यातम् । तदन्तर्यामिस्वरूपं प्रकृतिविविक्तात्मस्वरूपविद एव जानीयुर्नान्य इति भावः ।। ९ ।।
॥ आङ्गल-अर्थः ॥
In a supreme golden sheath the Brahman lies, stainless, without parts. A Splendour is That, It is the Light of Lights, It is That which the self-knowers know.
॥ हिन्दी-अर्थः ॥
उस परम हिरण्मय कोश में निष्कलंक, निरवयव 'ब्रह्म' निवास करता है 'वह' 'शुभ्र-भास्वर' है, वह 'ज्योतियों' की 'ज्योति' है, 'वही' है जिसे आत्म-ज्ञानी जानते हैं।
॥ शब्दावली ॥
हिरण्मये परे कोशे - hiraṇmaye pare kośe - in a supreme golden sheath
विरजम् - virajam - stainless
निष्कलम् - niṣkalam - without parts
ब्रह्म - brahma - the Brahman lies
तत् शुभ्रम् - tat śubhram - a Splendour
ज्योतिषाम् ज्योतिः - jyotiṣām jyotiḥ - It is the Light of Lights
आत्मविदः - ātmavidaḥ - the self-knowers
यत् - yat - It is That which
विदुः - viduḥ - know

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know