शतं चैका च हृदयस्य नाड्यस्तासां
मूर्धानमभिनिःसृतैका। तयोर्ध्वमायन्नमृतत्वमेति विश्वङ्ङन्या उत्क्रमणे भवन्ति ॥
॥ लिप्यन्तरणम् ॥
śataṁ caikā ca hṛdayasya nāḍyastāsāṁ mūrdhānamabhiniḥsṛtaikā | tayordhvamāyannamṛtatvameti viśvaṅṅanyā utkramaṇe bhavanti ||
॥ अन्वयः ॥
हृदयस्य शतं च एका च नाड्यः सन्ति । तासाम् एका मूर्धानाम् अपि निसृता। तया उर्ध्वम् आयन् अमृतत्वम् एति। अन्याः विष्वक् उत्क्रमणे भवन्ति ॥
॥ अन्वयलिप्यन्तरणम् ॥
hṛdayasya śataṁ ca ekā ca nāḍyaḥ ( santi )| tāsām ekā mūrdhānām api nisṛtā| tayā urdhvam āyan amṛtatvam eti| anyāḥ viṣvak utkramaṇe bhavanti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ उपासकस्य निष्क्रमणप्रकारः ]
मुमुक्षोः परमा गतिर्योग उक्तः । तत्रान्तरङ्गता कामाभिमाननिवृत्त्योरुक्ता । अथ योगिनो मुच्यमानस्य निष्क्रमणप्रकारो निरूप्यते - शतं चैका चेति ।
शतञ्चैका च हृदयस्य नाड्यस्तासां मूर्द्धानमभिनिस्सृतैका ।
तयोर्ध्वमायन्नमृतत्वमेति विष्वड्डन्या उत्क्रमणे भवन्ति ॥१६॥
हृदयस्य नाड्यः - प्राधान्येन शतम्, एकाच एकाधिकशतसङ्ख्याकाः प्रधाननाड्या इति यावत् । तासां मध्ये या, मूर्धानमभिनिस्सृता तया - सुषुम्णाख्यया नाड्याऽन्तकाले, ऊर्ध्वमुदच्छन्नमृतत्त्वम् - परमां मुक्तिमधिगच्छति । अन्यास्तु नाड्यो, विष्वड्डुत्क्रमणे भवन्ति - समन्तादुत्क्रमणे भवन्ति । सुरनरतिर्यगादिनानाविधगतये भवन्तीत्येतत् ॥१६॥
॥ आङ्गल-अर्थः ॥
A hundred and one are the nerves of the heart and of all these only one issueth out through the head of a man; by this the soul mounteth up to its immortal home but the rest lead him to all sorts and conditions of births in his passing.
॥ हिन्दी-अर्थः ॥
''हृदय की एक सौ एक नाड़ियां हैं, उनमें से एक मूर्धा से होकर बाहर निकलती है; इसके द्वारा अन्तरात्मा ऊर्ध्वारोहण करते हुए अपने अमृतधाम को (अमृतत्व) प्राप्त करती है, किन्तु शेष अन्य प्रयाण करने पर उसे अनेक प्रकार के जन्मों की परिस्थितियों में ले जाती हैं।
॥ शब्दावली ॥
शतम् च एका च - śatam ca ekā ca - a hundred and one
हृदयस्य नाड्यः - hṛdayasya nāḍyaḥ - are the nerves of the heart
तासाम् एका - tāsām ekā - of all these only one
मूर्धानाम् अपि - mūrdhānām api - the head of a man
निसृता - nisṛtā - issueth out through
तया - tayā - by this
उर्ध्वम् आयन् - urdhvam āyan - the soul mounteth up
अमृतत्वम् एति - amṛtatvam eti - to its immortal home
अन्याः - anyāḥ - but the rest
विष्वक् - viṣvak - to all sorts and conditions of births
उत्क्रमणे भवन्ति - utkramaṇe bhavanti - in his passing
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know