Ad Code

यथा सर्वे प्रभिद्यन्ते हृदयस्येह



यथा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः। अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम्‌ ॥

॥ लिप्यन्तरणम् ॥

yathā sarve prabhidyante hṛdayasyeha granthayaḥ | atha martyo'mṛto bhavatyetāvaddhyanuśāsanam ||

॥ अन्वयः ॥

इह हृदयस्य सर्वे ग्रन्थयः यदा प्रभिद्यन्ते। अथ मर्त्यः अमृतः भवति। एतावत् हि अनुशासनम् ॥

॥ अन्वयलिप्यन्तरणम् ॥

iha hṛdayasya sarve granthayaḥ yadā prabhidyante| atha martyaḥ amṛtaḥ bhavati| etāvat hi anuśāsanam ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ रागादीनां सवासनाविनाशः मोक्षहेतुः ]

कामस्यापि मूलभूतोऽभिमानस्तस्मिन्नपगते सर्वं सम्पन्नमित्याशयेनाह - यदेति । 

यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः ।

अथ मर्त्योऽमृतो भवत्येतावदनुशासनम् ॥१५॥

हृदयस्य ये ग्रन्थयः - अनात्मन्यात्माभिमानस्तन्मूलकाश्च अन्येऽस्वे स्वाभिमानप्रभृतयः । एते दुर्मोचा इति ग्रन्थय उच्यन्ते । नैत आत्मनः स्वरूपसम्बद्धा, अन्तःकरणोपाधिका इति हृदयस्येत्युक्तिः । ते सर्वे, इह प्रभिद्यन्ते - प्रकर्षेण नश्यन्ति, सवासनं विनश्यन्ति । अथ मर्त्योऽमृतो भवति । एतावदनुशासनम् - नेतोऽन्यदुपदेष्टव्यमवशिष्टमस्ति । यदुपदिष्टादुपायादपरो ज्ञातव्यो नावशिष्यते कश्चिदुपायः॥१५॥

॥ आङ्गल-अर्थः ॥

When all the strings of the heart are rent asunder, even here in this human birth, then the mortal becometh immortal. This is the whole teaching of the Scriptures.

॥ हिन्दी-अर्थः ॥

'' जब यहीं, इसी मानव जीवन में हृदय-ग्रन्थियाँ छिन्न-भिन्न हो जाती हैं, तो यह मर्त्य (मानव) अमर हो जाता है। यही श्रुतियों की सम्पूर्ण शिक्षा है, अनुशासन है।

॥ शब्दावली ॥

यदा - yadā - when are rent asunder,

हृदयस्य सर्वे ग्रन्थयः - hṛdayasya sarve granthayaḥ - all the strings of the heart

प्रभिद्यन्ते - prabhidyante - are rent asunder

अथ - atha - then

इह - iha - even here in this human birth

मर्त्यः - martyaḥ - the mortal

अमृतः - amṛtaḥ - immortal

भवति - bhavati - becometh

एतावत् हि - etāvat hi - this in its entirety

अनुशासनम् - anuśāsanam - is the teaching of the Scriptures

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code