यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह। बुद्धिश्च न विचेष्टते तामाहुः परमां गतिम् ॥
॥ लिप्यन्तरणम् ॥
yadā pañcāvatiṣṭhante jñānāni manasā saha | buddhiśca na viceṣṭate tāmāhuḥ paramāṁ gatim ||
॥ अन्वयः ॥
यदा पञ्च ज्ञानानि मनसा सह अवतिष्ठन्ते। बुधिः च न विचेष्तति। ताम् परमाम् गतिम् आहुः ॥
॥ अन्वयलिप्यन्तरणम् ॥
yadā pañca jñānāni manasā saha avatiṣṭhante| budhiḥ ca na viceṣtati| tām paramām gatim āhuḥ ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ विषयानभिमुखानीन्द्रियाणि मोक्षहेतवः ]
कदा चेतसस्तथात्वं, तदाह - यदेति ।
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
बुद्धिश्च न विचेष्टेत तामाहुः परमां गतिम् ॥१०॥
यस्मिन्समये श्रोत्रादीनि पञ्च ज्ञानेन्द्रियाणि मनसा सहावतिष्ठन्ते - ब्रह्मण्यभिमुखे मनसि तेन सहैवावतिष्ठन्ते, तदनुगुणान्येव भवन्ति, तद्विपरीतवृत्तिकानि न भवन्तीत्येतत् । बुद्धिश्च न विचेष्टेत - बुद्धिरध्यवसायः, स च न विरुद्धं चेष्टेत । तामाहुः परमां गतिम् - गम्यतेऽनयेति गतिः, गमनसाधनम् । मोक्षसाधनत्वात् परमां गतिमाहुः । ताम् - तत्समयसम्पन्नामिन्द्रियधारणाम् ॥१०॥
॥ आङ्गल-अर्थः ॥
When the five senses cease and are at rest and the mind resteth with them and the Thought ceaseth from its workings, that is the highest state, say thinkers.
॥ हिन्दी-अर्थः ॥
''जब पाँचो इन्द्रियाँ शान्त होकर स्थिर हो जाती हैं तथा मन भी उनके साथ स्थिर हो जाता है, और 'बुद्धि' की प्रक्रियाएँ भी शान्त हो जाती हैं तो वह उच्चतम अवस्था (परमा गति) होती है, ऐसा मनीषीगण कहते है।
॥ शब्दावली ॥
यदा - yadā - when
पञ्च ज्ञानानि - pañca jñānāni - the five senses
मनसा सह - manasā saha - with the mind
अव्तिष्ठन्ते - avtiṣṭhante - cease and are at rest
बुधिः च - budhiḥ ca - the Thought
न विचेष्तति - na viceṣtati - ceaseth from its workings
ताम् - tām - that
परमाम् गतिम् - paramām gatim - the highest state
आहुः - āhuḥ - say thinkers
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know