न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्। हृदा मनीषा मनसाऽभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥
॥ लिप्यन्तरणम् ॥
na saṁdṛśe tiṣṭhati rūpamasya na cakṣuṣā paśyati kaścanainam | hṛdā manīṣā manasā'bhiklṛpto ya etadviduramṛtāste bhavanti ||
॥ अन्वयः ॥
अस्य रूपं सन्दृशे न तिष्ठति। कश्चन एनं चक्षुषा न पश्यति। मनीषा हृदा मनसा सः अभिक्लृप्तः। ये एतत् विदुः ते अमृताः भवन्ति ॥
॥ अन्वयलिप्यन्तरणम् ॥
asya rūpaṁ sandṛśe na tiṣṭhati| kaścana enaṁ cakṣuṣā na paśyati| manīṣā hṛdā manasā ( saḥ ) abhiklṛptaḥ| ye etat viduḥ te amṛtāḥ bhavanti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ भक्त्यैकलभ्यः परमात्मा ]
यं ज्ञात्वा मुच्यते, तस्य विज्ञाने साधनं प्रस्तौति - न सन्दृश इति ।
न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ।
हृदा मनीषा मनसाऽभिक्लृप्तो य एनम् ( एतत् ) विदुरमृतास्ते भवन्ति ॥९॥
अस्य परमपुरुषस्य रूपं यदप्राकृतं तन्न सन्दृशे तिष्ठति, प्राकृतदृष्टिपथे न तिष्ठति । अत एवैनं न कश्चिच्चक्षुषा पश्यति मनुष्यजातीयो देवजातीयो वा चक्षुषाऽऽत्मीयेन द्रष्टुं न शक्नोतीत्येतत् ।
यद्वा - नास्य रूपं तिष्ठति - नीलपीतादि लोके दृश्यमानं नास्त्यस्येत्येतत्। यद्रूपं सन्दृशे दर्शनविषयत्वे प्रयोजकं स्यात् ।
परे तु - नास्य स्वरूपं परिच्छिन्नवस्त्वन्तरवद्दर्शनविषये पथि पुरतस्तिष्ठति, यतो व्यापकोऽयम् । चक्षुषस्तु परिच्छिन्नग्रहण एव पाटवम् । अतो न चक्षुषा पश्यति कश्चनैनमिति व्याचक्षते । तर्हि केनायं ग्राह्यः इत्यत्राह - हृदेति । रूप्यरूपिविभागमनपेक्ष्यानपेक्ष्य च सन्निहितविप्रकृष्टादिविभागं सर्वमर्थजातं हरति आदत्त इति हृदित्युच्यते चेत:, तेनायं ग्राह्यः । चक्षुरादीनां रूपादिनियतार्थग्राहितयैतद्ग्रहणासामर्थ्येऽप्यचाक्षुषेऽप्यर्थे चेतसः सामर्थ्यात्तेनास्य ग्रहणं भवेदिति यावत् । यद्यपि चेत: सामान्यतः सर्वेषां साधारणम्, न तावताऽस्य ग्रहणं सिध्यति । तत् संस्कृतमेव तत्तथेति ज्ञापयन्नाह मनीषेति । तृतीयाया लोपश्छान्दसः । आत्मानात्मविवेचनक्षमा तु बुद्धिरिह मनीषेत्युच्यते । ईदृशबुद्धिविशेषसंस्कृतेन चेतसाऽयं ग्राह्य इत्युक्तं भवति । यद्यपि बहवो मनीषिणः शास्त्रत आत्मानात्मतत्त्वं विविच्य जानन्ति नाम, न तावता तेषामस्य साक्षात्कारो भवति, तथापि मननमहिम्ना भवेदेवाऽस्य साक्षात्कार इति ज्ञापयन्नाह - मनसेति । मननसाधनं मन उच्यते । मननं विविच्याधिगतस्य मुहुरनुचिन्तनम् । ध्यानयोगेन चेतसेत्युक्तंभवति । अभिक्लृप्तः - अभिगृहीतः साक्षात्कृतः, साक्षात्कारयोग्य इति यावत् । य एतद्विदुः - ईदृशं परं ब्रह्म, ये विदुस्तेऽमृताः - मुक्ता भवन्ति ।
परे तु -
'न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ।
भक्त्या च धृत्या च समाहितात्मा ज्ञानस्वरूपं परिपश्यतीह ॥' (महा. भा. १२.२१.६४)
इति भारतवचनेन श्रुतिरुपबृंहिता भवति । तत्र च हृदा मनीषेति स्थाने भक्त्या च धृत्या चेति स्मरणात्, हृदेत्यस्य भक्त्या इत्यर्थः । मनीषेत्यस्य धृत्येत्यर्थ इत्याहुः ॥९॥
॥ आङ्गल-अर्थः ॥
He hath not set His body within the ken of seeing, neither doth any man with the eye behold Him, but to the heart and mind and the supermind He is manifest. Who know Him are the immortals.
॥ हिन्दी-अर्थः ॥
'उसने' 'अपने' शरीर को (अपने रूप को) दृष्टि की पहुँच में ग्राह्व नहीं रखा है, न कोई मनुष्य 'इसे' चक्षुओ से देख पाता है, परन्तु हृदय, मन तथा अतिमन के प्रति यह अभिव्यक्त होता है। जो 'उसे' जानते हैं वे अमर हो जाते हैं।
॥ शब्दावली ॥
अस्य रूपम् - asya rūpam - its form / body
सन्दृशे - sandṛśe - within the ken of seeing
न तिष्ठति - na tiṣṭhati - is not
न कश्चन - na kaścana - neither doth any man
एनम् - enam - Him
चक्षुषा - cakṣuṣā - with the eye
पश्यति - paśyati - behold
मनीषा हृदा मनसा - manīṣā hṛdā manasā - to the heart and mind and the supermind
अभिक्लृप्तः - abhiklṛptaḥ - He is manifest
ये - ye - who
एतत् - etat - Him
विदुः - viduḥ - know
ते - te - they
अमृताः - amṛtāḥ - the immortals
भवन्ति - bhavanti - are / become
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know