दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता। विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त ॥
॥ लिप्यन्तरणम् ॥
dūramete viparīte viṣūcī avidyā yā ca vidyeti jñātā | vidyābhīpsinaṁ naciketasaṁ manye na tvā kāmā bahavo'lolupanta ||
॥ अन्वयः ॥
या च अविद्या विद्या इति च या ज्ञाता एते दूरं वीपरिते विषुची। नचिकेतसं विद्याभीप्सिनं मन्ये। यतः बहवः कामाः त्वा न अलोलुपन्त ॥
॥ अन्वयलिप्यन्तरणम् ॥
yā ca avidyā vidyā iti ( ca yā ) jñātā ete dūraṁ vīparite viṣucīī| naciketasaṁ vidyābhīpsinaṁ manye| ( yataḥ ) bahavaḥ kāmāḥ tvā na alolupanta ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ नचिकेतसः विषयविरक्ततया ब्रह्मोपदेशार्हता ]
प्रेयोवरणादर्थतो हानि:, श्रेयोवरणाच्च साधु भवति इत्युक्तम्, तत्कुत: ? इत्यत्राह - दूरमेत इति ।
दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता ।
विद्याभीप्सिनं (तं ) नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त ॥४॥
विद्येति या ज्ञाता, या च अविद्येति ज्ञाता, पण्डितैरिति शेषः । पण्डिता हि श्रेयो विद्यां मन्यन्ते प्रेयस्तु अविद्याम् । आत्मस्वरूपविषयिणी हि विद्या, पुत्रादिभोग्यविषयिणी हि अविद्या । एते - तत्त्वज्ञानकामकर्मात्मके विद्याविद्ये दूरं विपरीते - तेजस्तमसीवात्यन्तं विरुद्धस्वभावे । विषूची - विभिन्नगती, विपरीतफलके इति यावत् । तद्युक्तं " श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते" (कठोपनिषद् - १.२.१) इति । तदेवं दृढाग्रहं नचिकेतसं त्वामेवेह जगति विद्याभीप्सिनं श्रेयः समुत्सुकमहं मन्ये ॥४॥
॥ आङ्गल-अर्थः ॥
For far apart are these, opposite, divergent, the one that is known as the Ignorance and the other the Knowledge. But Nachiketas I deem truly desirous of the knowledge whom so many desirable things could not make to lust after them.
॥ हिन्दी-अर्थः ॥
''कारण, परस्पर सर्वथा भिन्न, विपरीत, अलग-अलग दिशाओं में जाने वाली ये, एक 'अविद्या' नाम से जानी जाती है तथा दूसरी 'विद्या' । परन्तु, हे नचिकेता! मैं तुम्हें विद्या का सच्चा अभीप्सु मानता हूं जिसे बहुविध काम्य वस्तुऐं भी अपने प्रति लोलुप नहीं बना सकीं।
॥ शब्दावली ॥
या च - yā ca - that which
अविद्या इति - avidyā iti - the Ignorance
या च - yā ca - that which
विद्या इति - vidyā iti - the Knowledge
ज्ञाता - jñātā - is known
एते - ete - both of these
दूरम् - dūram - far apart
वीपरिते - vīparite - opposite
विषुची - viṣucīī - divergent
नचिकेतसम् - naciketasam - to Nachiketas
विद्याभीप्सिनम् - vidyābhīpsinam - truly desirous of the knowledge
मन्ये - manye - I deem
बहवः - bahavaḥ - so many
कामाः - kāmāḥ - desirable things
त्वा - tvā - to you
न अलोलुपन्त - na alolupanta - could not make to lust after them

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know