स त्वं प्रियान्प्रियरूपांश्च कामानभिध्यायन्नचिकेतोऽत्यस्राक्षीः। नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥
॥ लिप्यन्तरणम् ॥
sa tvaṁ priyānpriyarūpāṁśca kāmānabhidhyāyannaciketo'tyasrākṣīḥ | naitāṁ sṛṅkāṁ vittamayīmavāpto yasyāṁ majjanti bahavo manuṣyāḥ ||
॥ अन्वयः ॥
नचिकेतः सः त्वं प्रियान् प्रियरूपान् च कामान् अभिध्यायन् अत्यस्नाक्षीः वित्तमयीम् एतां सङ्कां न अवाप्तः यस्यां बहवः मनुष्याः मज्जन्ति ॥
॥ अन्वयलिप्यन्तरणम् ॥
naciketaḥ saḥ tvaṁ priyān priyarūpān ca kāmān abhidhyāyan atyasnākṣīḥ vittamayīm etāṁ saṅkāṁ na avāptaḥ yasyāṁ bahavaḥ manuṣyāḥ majjanti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ विषयपराङ्मुखतया नचिकेतसः सर्वोत्कृष्टत्वम् ]
स त्वं प्रियान् प्रियरूपाँश्च कामान् अभिध्यायन् नचिकेतोऽत्यस्त्राक्षीः ।
नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥३॥
हे नचिकेतः ! स त्वम् - श्रेयः प्रेयः साधारणमानुषस्वभावोऽपि त्वम् । यद्वा - मया प्रचाल्यमानोऽपि त्वम् प्रियान् - स्वतः प्रियान् पुत्रादीन्, प्रियरूपान् कामांश्च - रूपतः स्पृहणीयानप्सरःप्रभृतींश्च, अभिध्यायन् - अभितः कात्स्नर्येन चिन्तयन्, दुःखभूयिष्ठत्व - दुःखोदर्कतादिदोषनिरूपणेन निरूपयन्, अत्यस्राक्षीः - त्यक्तवान् । एतां वित्तमयीम् धनमयीं, सृङ्काम् - कुत्सितां गतिं नावाप्तः । यस्यां धनमय्यां कुसृतौ बहवो मनुष्या निमज्जन्ति ॥३॥
॥ आङ्गल-अर्थः ॥
And thou, O Nachiketas, hast looked close at the objects of desire, at pleasant things and beautiful, and thou hast cast them from thee; thou hast not entered into the net of riches in which many men sink to perdition.
॥ हिन्दी-अर्थः ॥
''हे नचिकेता! तुमने काम्य पदार्थों का, प्रिय पदार्थों एवं प्रिय रूपों का गहराई से निरीक्षण करके, उनका परित्याग कर दिया है। तुम धन-ऐश्वर्य के उस जाल में नहीं फँसे जिसमें फँस कर बहुत से मनुष्य नष्ट हो जाते हैं।
॥ शब्दावली ॥
नचिकेतः - naciketaḥ - O Nachiketas!
सः त्वम् - saḥ tvam - that thou
प्रियान् - priyān - at pleasant things
प्रियरूपान् - priyarūpān - at the beautiful things
च - ca - and
कामान् - kāmān - at the objects of desire
अभिध्यायन् - abhidhyāyan - haveing looked close
अत्यस्नाक्षीः - atyasnākṣīḥ - thou hast cast them from thee
वित्तमयीम् - vittamayīm - full of riches
एताम् - etām - this
सङ्काम् - saṅkām - the net
न अवाप्तः - na avāptaḥ - thou hast not entered into
यस्याम् - yasyām - in which
बहवः - bahavaḥ - many
मनुष्याः - manuṣyāḥ - men
मज्जन्ति - majjanti - sink to perdition

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know