Ad Code

अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः



अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधःस्थः प्रजानन्‌। अभिध्यायन्वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत ॥

॥ लिप्यन्तरणम् ॥

ajīryatāmamṛtānāmupetya jīryanmartyaḥ kvadhaḥsthaḥ prajānan | abhidhyāyanvarṇaratipramodānatidīrghe jīvite ko rameta ||

॥ अन्वयः ॥

अजीर्यताम् अमॄतानां सकाशं उपेत्य प्रजानम् क्वधस्थः जीर्यन् कः मर्त्यः अपि च वर्णरतिप्रमोदान् अभिध्यायन् अतिदिर्घे जीविते रमेत ॥

॥ अन्वयलिप्यन्तरणम् ॥

ajīryatām amṝtānāṁ ( sakāśaṁ ) upetya prajānam kvadhasthaḥ jīryan kaḥ martyaḥ ( api ca ) varṇaratipramodān abhidhyāyan atidirghe jīvite rameta ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

अजीर्यताममृतानामुपेत्य जीर्यन् मर्त्यः कृतदास्थः ( क्वधःस्थः) प्रजानन् ।

अभिध्यायन् वर्णरतिप्रमोदान् अतिदीर्घे जीविते को रमेत ॥२८॥

किञ्च मादृशो जीर्यन् मर्त्यः - जरामरणधर्मा, क्वधःस्थः - कुत्सिते दुःखैकप्रचुरे अधोदेशे मानुषलोके स्थितः । एवम्भूतः प्रजानन् - स्वस्य जरामरणधर्मत्वं दुःखभूयिष्ठदेशवर्तित्वं प्रकर्षेण जानन्, अजीर्यताम् अमृतानामुपेत्य - जरामरणशून्यानां मुक्तानां स्वरूपमपि ज्ञात्वा, एवं विज्ञातसंसारतदपगमविशेषः को वा विवेकी वर्णरतिप्रमोदान् अभिध्यायन् अप्सरःप्रभृतिभोग्याभासगतान् लावण्यप्रभृतीनुत्कण्ठयाऽनुचिन्तयन् । अतिदीर्घे जीविते चिरजीविकायां रमेत । अनतिदीर्घे इति पाठे - अत्यल्पे जीविते को रमेत ? इत्यर्थः ।

यद्वा - जीर्यन् मर्त्यः क्वधःस्थः - दैवयोगेनाजीर्यताम् अमृतानां भवादृशानां देवानां सन्निधिम् उपेत्य - भवादृशमहापुरुषसंसर्गेण प्रजानन् - हिताहितविवेकमापन्नः को वा पुनरपि भोग्याभासान् वर्णरतिप्रमोदान् - अनुचिन्तयन् अत्यल्पे जीविते रमेत । अयं भावः - क्व मर्त्याः ? क्व देवाः ? क्व तयोः सङ्गतिः ? यदा दैवयोगेन ज्ञानाधिकानां समागमो मर्त्यस्य तदा मर्त्यभावापनोदनायैव प्रयतितव्यं न पुनः अधोगमनाय इति ॥२८॥

॥ आङ्गल-अर्थः ॥

“Who that is a mortal man and grows old and dwells down upon the unhappy earth, when he has come into the presence of the ageless Immortals and knows, yea, who when he looks very close at beauty and enjoyment and pleasure, can take delight in overlong living?

॥ हिन्दी-अर्थः ॥

''कौन ऐसा मर्त्य मनुष्य होगा जो जरावस्था को प्राप्त होते हुए, इस दुःखमय भूतल पर वास करते हुए जब अजर-अमृत पुरुषों के सान्निध्य में आ जाता है और ज्ञानवान् हो जाता है तो रूप-रंग के सौन्दर्य, रति तथा आमोद-प्रमोदो को बहुत समीपता से निरीक्षण करते हुए, अतिदीर्घ जीवन मे रमेगा?

॥ शब्दावली ॥

कः - kaḥ - who

मर्त्यः - martyaḥ - the mortal man

क्वधस्थः - kvadhasthaḥ - dwelling down upon the unhappy earth

जीर्यन् - jīryan - having grown old

वर्णरतिप्रमोदान् - varṇaratipramodān - beauty and enjoyment and pleasure

अभिध्यायन् - abhidhyāyan - looking very close at

अजीर्यताम् अमॄतानाम् - ajīryatām amṝtānām - of the ageless Immortals

उपेत्य - upetya - having come close to or into the presence of

प्रजानम् - prajānam - knowingly or with knowledge

अतिदिर्घे जीविते - atidirghe jīvite - in overlong living

रमेत - rameta - can take delight


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code