न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्श्म चेत्त्वा। जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव ॥
॥ लिप्यन्तरणम् ॥
na vittena tarpaṇīyo manuṣyo lapsyāmahe vittamadrākśma cettvā | jīviṣyāmo yāvadīśiṣyasi tvaṁ varastu me varaṇīyaḥ sa eva ||
॥ अन्वयः ॥
मनुष्यः वित्तेन न तर्पणीयः। वयं त्वा अद्राक्षाम चेत् वित्तं लप्स्यामहे। तथा यावत् त्वं ईशिष्यति जीविष्यामः। सः तु वरः एव मे वरणीयः ॥
॥ अन्वयलिप्यन्तरणम् ॥
manuṣyaḥ vittena na tarpaṇīyaḥ| ( vayaṁ ) tvā adrākṣāma cet vittaṁ lapsyāmahe| ( tathā ) yāvat tvaṁ īśiṣyati jīviṣyāmaḥ| saḥ tu varaḥ eva me varaṇīyaḥ ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ नचिकेतसः मुक्तस्वरूपजिज्ञासायां दृढाभिवेश: ]
न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत् त्वा ।
जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव ॥२७॥
वृणीष्व वित्तं चिरजीविकां च इत्यत्र प्रतिवदति न वित्तेनेति । को वा जगति वित्तं प्राप्य नः पर्याप्तमेतत् इति तृप्तः । यथा यथा लभ्यते तथा तथा आकाक्षैव वर्धते तन्न वित्तेन तर्पणीयो मनुष्यः । किञ्च - लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा - महोदारं त्वां यदा पश्यामः तदा लप्स्यामहे यावदपेक्षितं वित्तम् । भवादृशमहापुरुषदर्शने सति वित्ते का चिन्ता ? इति भाव: । अस्मासु अत्यन्तप्रणयी त्वं यावत्कालम् ईशिष्यसि अस्मिन्याम्ये पदे तावत्तु जीवितं नः सिद्धमेव । तत् चिरजीवितायां वा का चिन्ता ? तस्मात्स एव प्राक् पृष्ट एव वरो वरणीयः ॥२७॥
॥ आङ्गल-अर्थः ॥
“Man is not to be satisfied by riches, and riches we shall have if we have beheld thee and shall live as long as thou shalt be lord of us. This boon and no other is for my choosing.
॥ हिन्दी-अर्थः ॥
''मनुष्य को धन से तृप्त नहीं किया जा सकता और अगर हमने आपके दर्शन कर लिये तो धन हमे मिल ही जाएगा तथा जब तक आपका हम पर१० प्रभुत्व रहेगा तब तक हम जीते भी रहेंगे। मेरे वरण करने योग्य वर तो वही है।
॥ शब्दावली ॥
मनुष्यः - manuṣyaḥ - man
वित्तेन - vittena - by riches
न तर्पणीयः - na tarpaṇīyaḥ - not to be satisfied
त्वा - tvā - thee
अद्राक्षाम चेत् - adrākṣāma cet - if we have beheld
वित्तम् - vittam - riches
लप्स्यामहे - lapsyāmahe - we shall have
यावत् - yāvat - as long as
त्वम् - tvam - thou
ईशिष्यति - īśiṣyati - willest
जीविष्यामः - jīviṣyāmaḥ - shall live
सः एव वरः - this boon and no other - saḥ eva varaḥ
तु - tu - indeed
मे - me - for me
वरणीयः - varaṇīyaḥ - I choose

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know