यथा सम्रादेवाधिकृतान् विनियुङ्क्ते। एतन् ग्रामानोतान् ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान् प्राणान् पृथक्पृथगेव सन्निधत्ते ॥
॥ लिप्यन्तरणम् ॥
yathā samrādevādhikṛtān viniyuṅkte | etan grāmānotān grāmānadhitiṣṭhasvetyevamevaiṣa prāṇa itarān prāṇān pṛthakpṛthageva sannidhatte ||
॥ अन्वयः ॥
यथा सम्राट् एव अधिकृतान् एतान् ग्रामान् एतान् अधितिष्ठस्व इति विनियुङ्क्ते एवम् एव एषः इतरान् प्राणान् पृथक् पृथक् एव सन्निधत्ते ॥
॥ अन्वयलिप्यन्तरणम् ॥
yathā samrāṭ eva adhikṛtān etān grāmān etān adhitiṣṭhasva iti viniyuṅkte evam eva eṣaḥ itarān prāṇān pṛthak pṛthak eva sannidhatte ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
आत्मानं वा प्रविभज्य कथं प्रातिष्ठते इत्यस्योत्तरमाह-
यथा सम्राडेवाधिकृतान्विनियुङ्गे एतान्ग्रामानेतान्ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान्प्राणान्पृथक्पृथगेव सन्निधत्ते ॥४॥
यथा सम्राट् राजा अधिकृतान् - अधिकारिणः पुरुषान् स्वयं विनियुङ्क्ते, त्वमेतान्ग्रामानधितिष्ठस्व त्वमेतान्ग्रामानधितिष्ठस्वेति । एवंप्रकारेण स्वस्य वशे वर्तमानानितरान्प्राणांश्चक्षुरादीनेष मुख्यप्राण एव पृथक्पृथगेव सन्निधत्ते तत्रासङ्कीर्णाधिकारं योजयति ॥४॥
॥ आङ्गल-अर्थः ॥
“As an Emperor commandeth his officers, and he sayeth to one 'Govern for me these villages', and to another 'Govern for me these others', so this breath, the Life, appointeth the other breaths each in his province.
॥ हिन्दी-अर्थः ॥
''जिस प्रकार कोई सम्राट् अपने अधिकारियों को नियुक्त करता है तथा किसी एक को आदेश देता है-'मेरे लिए इन ग्रामों पर तुम शासन करो', तथा किसी अन्य को आदेश देता है-'इन दूसरे ग्रामों पर मेरे लिए तुम शासन करो', इसी प्रकार यह वायु, यह 'प्राण' अन्य प्राणों को उनके पृथक्-पृथक् क्षेत्रों में नियुक्त करता है।
॥ शब्दावली ॥
यथा सम्राट् एव - yathā samrāṭ eva - as an Emperor
अधिकृतान् - adhikṛtān - to the officers
एतान् ग्रामान् अधितिष्ठस्व - etān grāmān adhitiṣṭhasva - govern for me these villages
इति विनियुङ्क्ते - iti viniyuṅkte - appoints and says
एवम् एव - evam eva - so
एषः - eṣaḥ - this breath, the Life
इतरान् प्राणान् - itarān prāṇān - the other breaths
पृथक् पृथक् एव - pṛthak pṛthak eva - each in his province separately
सन्निधत्ते - sannidhatte - appointeth
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know