पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रातिष्ठते मध्ये तु समानः। एष ह्येतद्धुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति ॥
॥ लिप्यन्तरणम् ॥
pāyūpasthe'pānaṁ cakṣuḥśrotre mukhanāsikābhyāṁ prāṇaḥ svayaṁ prātiṣṭhate madhye tu samānaḥ | eṣa hyetaddhutamannaṁ samaṁ nayati tasmādetāḥ saptārciṣo bhavanti ||
॥ अन्वयः ॥
पायूपस्थे अपानं मुखनासिकाभ्यां चक्षुःश्रोत्रे स्वयम् प्राणः प्रतिष्ठते। मध्ये तु समानः हि एषः एतत् हुतम्। अन्नं समं नयति। तस्मात् एताः सप्तार्चिषः भवन्ति ॥
॥ अन्वयलिप्यन्तरणम् ॥
pāyūpasthe apānaṁ mukhanāsikābhyāṁ cakṣuḥśrotre svayam prāṇaḥ pratiṣṭhate| madhye tu samānaḥ hi eṣaḥ etat hutam| annaṁ samaṁ nayati| tasmāt etāḥ saptārciṣaḥ bhavanti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
सम्राडिवायमधिकृतान्प्राणान्विनियुङ्क्ते नाम, विशेषश्च ततोऽस्मिन् यदेष स्वात्मानं प्रविभज्य तत्र सन्निधत्ते इत्याह- पायूपस्थ इत्यादिना ।
पायूपस्थेऽपानं चक्षुः श्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रातिष्ठते मध्ये तु समानः ।
एष ह्येतद्भुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति ॥५॥
तत्र - अपानं भूत्वा पायूपस्थे प्रातिष्ठते - अपानवृत्त्या मूत्रपुरीषापकर्षणं कुर्वन्पायूपस्थे अधितिष्ठतीत्यर्थः । प्राणः स्वयं मुखनासिकाभ्यां चक्षुः श्रोत्रे प्रातिष्ठते प्राणवृत्त्या मुखनासिकाभ्यां निर्गतश्चक्षुः श्रोत्रे अधितिष्ठतीत्यर्थः । मध्ये तु समानः समानः सन् प्राणापानस्थानयोर्मध्ये - नाभ्यामिति यावत् तिष्ठति । एष ह्येतद्भुतमन्नं समं नयति - जाठराग्नौ हुतमन्नं समं नयति समान: । हिर्हेतौ, यस्मादेष समानो जाठराग्नौ प्रक्षिप्तमन्नमविषमं तत्तद्धातुभावं गमयति, तस्मादेव हेतोः सप्तार्चिषो जाठराग्नेः प्रभवन्ति । कास्ता अर्चिष: ? एताः सर्वेषामस्माकं गोचरीभूताः, प्रसिद्धा इत्येतत् । दर्शनश्रवणादिलक्षणा इत्यर्थः । सप्तसङ्ख्याकता च श्रवणद्वयं दर्शनद्वयं घ्राणद्वयमास्यमेकमिति सप्त । शब्दादिप्रकाशकारणतया तेष्वर्चिष्ट्वारोपः। अन्नरसबलेनैव तेषां सम्भवात्तस्माद्भवन्तीत्युक्तिः ॥५॥
॥ आङ्गल-अर्थः ॥
“In the anus and the organ of pleasure is the lower breath, and in the eyes and the ears, the mouth and the nose, the main breath itself is seated; but the medial breath is in the middle. This is he that equally distributeth the burnt offering of food; for from this are the seven fires born.
॥ हिन्दी-अर्थः ॥
"वायू एवं उपस्थ में अपान (निम्न वायु) स्थित है, तथा चक्षु, कर्ण मुख एवं नासिका में स्वयं प्राण (मुख्य वायु) स्थित है, किन्तु मध्य में स्थित है समान (मध्यवर्ती वायु)। यही है जो हुतात्र (दग्ध अन्नाहुति) को समान रूप से वितरित करता है; कारण, इसी से सप्त-आग्नियों का जन्म होता है।
॥ शब्दावली ॥
पायूपस्थे - pāyūpasthe - in the anus and the organ of pleasure
अपानम् - apānam - is the lower breath
मुखनासिकाभ्याम् - mukhanāsikābhyām - in the mouth and the nose
चक्षुःश्रोत्रे - cakṣuḥśrotre - in the eyes and the ears
स्वयम् प्राणः - svayam prāṇaḥ - the main breath itself
प्रतिष्ठते - pratiṣṭhate - is seated
मध्ये तु - madhye tu - but, in the middle
समानः हि - samānaḥ hi - the medial breath
एषः एतत् - eṣaḥ etat - this is he that
हुतम् अन्नम् - hutam annam - the burnt offering of food
समम् नयति - samam nayati - equally distributeth
तस्मात् - tasmāt - from this
एताः सप्तार्चिषः भवन्ति - etāḥ saptārciṣaḥ bhavanti - are the seven fires born

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know