Ad Code

ऋतं पिबन्तौ सुकृतस्य लोके



ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे। छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥

॥ लिप्यन्तरणम् ॥

ṛtaṁ pibantau sukṛtasya loke guhāṁ praviṣṭau parame parārdhe | chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ ||

॥ अन्वयः ॥

लोके सुकृतस्य ऋतम् पिवन्तौ परमे परार्धे गुहां प्रविष्टौ तौ तिष्ठतः । ब्रह्मविदः तौ छायातपौ इव वदन्ति। ये च पञ्चाग्नयः त्रिणाचिकेताः ॥

॥ अन्वयलिप्यन्तरणम् ॥

loke sukṛtasya ṛtam pivantau parame parārdhe guhāṁ praviṣṭau ( tau tiṣṭhataḥ )| brahmavidaḥ ( tau ) chāyātapau ( iva ) vadanti| ye ca pañcāgnayaḥ triṇāciketāḥ ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

तृतीया वल्ली

[ दुर्ज्ञेयस्य परमात्मन: स्वतन्त्रत्वात् सुज्ञेयता तथा सूपास्यता ]

'देवं मत्वा हर्षशोकौ जहाती 'त्यत्र प्रस्तुतस्य संसारशोकसन्तरणोपायभूतस्य परमात्मविज्ञानस्यालब्धपरमपुरुषप्रसादैः अजितेन्द्रियैः अलभ्यत्वमुक्तम् । अथेन्द्रियजये उपायो निरूप्यते तृतीयवल्ल्या । तत्रादौ परमात्मा सूपास्योऽस्माभिः सर्वैरपि सन्निहितो ह्ययम् । तद्यत्न आधीयतां वक्ष्यमाणे साधन इत्याशयेन आह - ऋतमिति ।

ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे पराद्धर्ये ।

छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥१॥

अहो विमोहः, सन्निहितमपि स्वयं न जानाति । न ह्युपासितुः स्वरूपमन्यत्र, उपास्यस्य स्वरूपमन्यत्र, किन्तु उपासितोपास्यश्च सदा सन्निहितावेव । इमौ हि छायातपौ अल्पज्ञत्वसर्वज्ञत्वाभ्यां रूप्येते छायातपाविति । प्रविष्टौ च एकां गुहाम्, गुहा च नातिदूरे, इहैव सुकृतस्य लोके सुकृतसाध्ये मानुषलोके, मानुषशरीर इत्यर्थः । हृदयगुहां प्रविश्य अन्तर्यामितया सर्वत्र सान्निध्ये सत्यप्युपासनस्य मनुष्याधिकारत्वात् लोकविशेषनिर्देश: । अनेन यदेव मानुषं वपुः समुत्तरणसाधनं सुकृतविशेषेणोपलभ्यते, सन्निहित एव तत्रेश्वर इति विज्ञायते । प्रवेशे हेतुमाह - ऋतं पिबन्ताविति । हेत्वर्थे शतृप्रत्ययः, ऋतमनुभवितुमिति यावत् । ऋतं सत्यम् । इह फलं लक्ष्यते । फलं च यथान्वयमेव वक्तव्यम् । तत्रैकस्य फलं कर्मणः, अन्यस्य तु संकल्पस्य । जीवो हि कर्मवश्यः, परमात्मा च सत्यसंकल्पः । तत् जीवो यथाकर्म फलभोगाय शरीरं प्रविशति । परमात्मा तु सर्गादिभिः क्रीडेयमिति सत्यसंकल्पः यथासंकल्पं निर्मायानुप्रविशति लीलारसानुभवाय । प्रविश्य गुहाम् ऋतं प्रिबन्तौ वर्तेत इति वा । गुहां प्रविष्टौ - तत्रापि परमे परार्ध्ये, वर्तमानौ - अत्यन्तम् उत्कृष्टे स्थाने वर्तमानौ । परार्ध्यमित्यनेनोत्कृष्टं लक्ष्यते । हार्दाकाशे वर्तमानावित्येतत् । अस्मिन्नर्थे आप्तसंवादमाह - ब्रह्मविदो वदन्ति इति । अधिगतब्रह्मसाक्षात्कारा वदन्तीत्यर्थः । ये च पञ्चाग्नयस्त्रिणाचिकेताः तेऽपि वदन्ति । नाचिकेतश्चितो वारत्रयमेवम्भूताः । पञ्चाग्नयः - गार्हपत्यो, दक्षिणाग्निः, आहवनीयः, सभ्य, आवसथ्यश्चेति पञ्चाग्नयो एषां ते । ब्रह्मसाक्षात्कारसाधने प्रवृत्ताः निष्पन्नब्रह्मसाक्षात्काराश्च तथा वदन्तीत्याशयः ॥१॥

॥ आङ्गल-अर्थः ॥

There are two that drink deep of the Truth in the world of work well accomplished: they are lodged in the secret plane of being and in the highest kingdom of the most High is their dwelling: as of light and shade the knowers of the Brahman speak of them and those of the five fires and those who have the three fires of Nachiketas.

॥ हिन्दी-अर्थः ॥

यम कहते हैं ː "सुसम्पन्न कर्म (सुकृत) के लोक में 'सत्य' का सुप्त होकर पान करने वाले जो हैं ː वे सत्ता के गुह्यलोक में अवस्थित हैं तथा 'परमोच्च' उच्च के उच्चतम धाम में जिनका निवास स्थान है। ब्रह्मवेत्ता उन्हें प्रकाश तथा छाया की तरह बताते हैं। पञ्चाग्नि का सेवन करने वाले तथा जो तीन नचिकेता-अग्नि वाले हैं वे भी ऐसा बताते हैं।

॥ शब्दावली ॥

सुकृतस्य लोके - sukṛtasya loke - in the world of work well accomplished

ऋतम् - ṛtam - deep of the Truth

पिवन्तौ - pivantau - those two who drink

परमे परार्धे - parame parārdhe - in the highest kingdom of the most High

गुहाम् - guhām - the secret plane of being

प्रविष्टौ - praviṣṭau - lodged in

ये च - ye ca - those who

ब्रह्मविदः - brahmavidaḥ - the knowers of the Brahman

पञ्चाग्नयः - pañcāgnayaḥ - those who are of the five fires

त्रिणाचिकेताः - triṇāciketāḥ - those who have the three fires of Nachiketas

छायातपौ - chāyātapau - as of light and shade

वदन्ति - vadanti - speak of them

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code