यः सेतुरीजानानामक्षरं ब्रह्म यत्परम्। अभयं तितीर्षतां पारं नाचिकेतं शकेमहि ॥
॥ लिप्यन्तरणम् ॥
yaḥ seturījānānāmakṣaraṁ brahma yatparam | abhayaṁ titīrṣatāṁ pāraṁ nāciketaṁ śakemahi ||
॥ अन्वयः ॥
ईजानानां यः सेतुः नचिकेतं शकेमहि। अपि च तितीर्षताम् अभयम् पारं यत् अक्षरं परं ब्रह्म ॥
॥ अन्वयलिप्यन्तरणम् ॥
ījānānāṁ yaḥ setuḥ naciketaṁ śakemahi| ( api ) ca titīrṣatām abhayam pāraṁ yat akṣaraṁ paraṁ brahma ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ संसारसागरोत्तारकं ब्रह्म नाचिकेताग्निप्राप्यम् ]
तद्योऽयमन्तर्यामितया सन्निहितः सर्वकर्मफलप्रदः अक्षरात्परतः परः, संसारं तितीर्षतां साधनभूतस्तमिमं सर्वे वयमुपासितुं शक्ताः स्मः परमिन्द्रियजये वक्ष्यमाणक्रमेण यत्न आधीयतां युष्माभिरित्याह - यः सेतुरिति ।
यस्सेतुरीजानानामक्षरं ब्रह्म यत् परम् ।
अभयं तितीर्षतां पारं नाचिकेतं शकेमहि ॥२॥
यः सेतुः ईजानानाम् - ये पुनरखिलहृदयगुहाशयमेकमन्तरात्मानमजानन्तः 'इन्द्रं यजामहे' 'वरुणं यजामहे' इति यजन्ते तेषामपीष्टलम्भको यः, तदन्तरात्मतया स्थित्वा फलं प्रयच्छतीति यावत् । अक्षरं ब्रह्म यत्परं यत्परकम्, अक्षरब्रह्मणोऽपि परमित्यर्थः । यत्परमिति भिन्नं वा पदम्, यदविकारि परंब्रह्म इत्यर्थः । पारं तितीर्षताम् - तरतिरत्र प्राप्तिवचन:, वेदान्तं तरतीतिवत् । संसारसागरे निपत्य सीदताम् परं तीरं जिगमिषताम् । अभयम् - निर्भयं साधनमित्यर्थः । साधनान्तरनिष्ठानां तु स्यात् कदाचिद्भयम्, एतन्निष्ठानां तु न तथेति व्यज्यते । संसारसागरं तितीर्षतामभयं पारमिति वा योजना । मुमुक्षवो यत्प्राप्याभयं गच्छन्तीति यावत् । एवम्भूतं नाचिकेतम् - नाचिकेताग्निप्राप्यम् । ज्ञानद्वारा चैतत् । एवम्भूतं परमात्मतत्त्वमधिगन्तुं वयं शक्ताः स्मः । सन्निहितमेव हीदमित्याशयः।
यद्वा - वक्ष्यमाणस्येन्द्रियनिग्रहप्रकारस्य कठिनतां मत्वा केचन न प्रवर्तेरन्नाम, तथाविधानपि अनभिज्ञान्प्रवर्तयितुम् उच्यते - ऋतमित्यादिना ।
एतदुक्तं भवति - हिरण्यनिधिं स्वक्षेत्रे वर्तमानं ज्ञात्वा क्षेत्री क्षणमपि नालसः तिष्ठेत्कश्चिदपि । महान्तमपि परिश्रमं सहेतैव तल्लाभे । सपदि प्रवर्तेत च त्वरया । तत्स्वस्यैव क्षेत्रे सन्निहितं ब्रह्मनिधि जानन्स्वकरणनियमनाय को वा क्षेत्री न त्वरेत । तदस्य प्रतिक्षेत्रं वर्तमानत्वं यदि ज्ञाप्येत, सर्वे तत्तत्क्षेत्रिणः सहसा यतेरन्नेव, तदधुना प्रथमतः क्षेत्रिण एव क्षेत्रे वर्तमानत्वमस्य निधेर्ज्ञापयाम इत्यभिप्रेत्योच्यते ऋतमिति । द्वितीयेन च मन्त्रेण एवम्भूतं निधिमधिगन्तुं क्षेत्रिणो वयं सर्वे अर्हाः स्मः, तद्यत्र आधीयतां वक्ष्यमाणे उपाये इत्युच्यते ॥२॥
॥ आङ्गल-अर्थः ॥
May we have strength to kindle Agni Nachiketas, for he is the bridge of those who do sacrifice and he is Brahman supreme and imperishable, and the far shore of security to those who would cross this ocean.
॥ हिन्दी-अर्थः ॥
''हम उस 'नचिकेता-अग्नि' को प्रदीप्त करने में समर्थ बनें नो यज्ञ करने वाली के लिए सेतु है तथा जो परम एवं अक्षर 'ब्रह्म' है और जो इस सागर को पार करने के इच्छुकों के लिए निर्भय-सुरक्षित तट है।
॥ शब्दावली ॥
ईजानानाम् - ījānānām - of those who do sacrifice
यः - yaḥ - he who is
सेतुः - setuḥ - the bridge
नचिकेतम् - naciketam - Agni Nachiketas
शकेमहि - śakemahi - may we have strength to kindle
यत् - yat - he is
अक्षरम् - akṣaram - imperishable
परम् ब्रह्म - param brahma - Brahman supreme
तितीर्षताम् - titīrṣatām - to those who would cross this ocean
अभयम् पारम् - abhayam pāram - the far shore of security
च - ca - and
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know