Ad Code

यस्यामतं तस्य मतं मतं यस्य न वेद सः।



यस्यामतं तस्य मतं मतं यस्य न वेद सः। अविज्ञातं विजानतां विज्ञातमविजानताम्‌ ॥

॥ लिप्यन्तरणम् ॥

yasyāmataṁ tasya mataṁ mataṁ yasya na veda saḥ | avijñātaṁ vijānatāṁ vijñātamavijānatām ||

॥ अन्वयः ॥

यस्य अमतं तस्य मतं यस्य मतं सः न वेद। यस्मात् विजानताम् अविज्ञातम् अविजानताम् विज्ञातम् ॥

॥ अन्वयलिप्यन्तरणम् ॥

yasya amataṁ tasya mataṁ yasya mataṁ saḥ na veda | ( yasmāt ) vijānatām avijñātam avijānatām vijñātam ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

गुरुशिष्यसमाधितो विरम्य श्रुतिः स्वेन रूपेणाह - यस्यामतमिति ।

यस्यामतं तस्य मतं मतं यस्य न वेद सः ।

अविज्ञातं विजानतां विज्ञातमविजानताम् ॥३॥

यस्यामतम् - यस्य बुद्ध्या ब्रह्म साकल्येनामतम्, य: साकल्येन ब्रह्मस्वरूपं न जानामीति मन्यत इति यावत् । तस्य ब्रह्म मतम् - तेन ज्ञातमिति यावत् । यस्य मतम् - यस्य बुद्ध्या साकल्येन मतम्, अशेषतो ब्रह्म जानामीति यो मन्यत इत्येतत् । न वेद स: । विजानताम् । विशेषतो जानताम्, ब्रह्माहं सम्यग्जानामीति मन्यमानानाम्, अविज्ञातं ब्रह्मस्वरूपम् । अविजानताम् विजानभ्यः अन्येऽविजानन्तः कार्त्स्न्येन न जानामीति मन्यमानानामित्यर्थः । विज्ञातं ब्रह्मस्वरूपम् । परोक्षापरोक्षज्ञानभेदेनापौनरुक्त्यम् ।

यद्वा - विजानताम् - शास्त्रतो यथाऽवस्थितं ब्रह्मस्वरूपं ये जानन्ति तेषां बुद्ध्या ब्रह्म अविज्ञातम्, ते ब्रह्मस्वरूपं कार्त्स्न्येन न जानीम इत्येव मन्यन्त इति भावः । अविजानताम् - यथावस्थितं ब्रह्म शास्त्रतो ये न जानन्ति तेषां बुद्ध्या ब्रह्म विज्ञातम्, त इदमेव ब्रह्म मयाऽवगतं सम्यगिति मन्यन्त इति भावः ।

सर्वात्मना वेद्यताऽत्र ब्रह्मणो न निषिद्ध्यते अत्रैव मतमित्युक्तं विरुध्येत तथा सति ।

सर्वथा तदवेद्यं चेत्तुच्छमेव भवेत्तदा प्रवृत्तिरपि शास्त्राणां नैव तस्मिन्घटेत च ॥३॥

॥ आङ्गल-अर्थः ॥

He by whom It is not thought out, has the thought of It; he by whom It is thought out, knows It not. It is unknown to the discernment of those who discern of It, by those who seek not to discern of It, It is discerned.

॥ हिन्दी-अर्थः ॥

३. जिसके द्वारा इसको 'विचारबद्ध' नहीं किया जाता, उसके पास 'इसका' विचार है; जिसके द्वारा 'इसका' मननपूर्वक विचार किया गया है वह 'इसे' नहीं जानता। जो 'इसका' विवेचन करते हैं उनके लिए ‘यह' अविज्ञात है, जो 'इसके' विवेचन का प्रयत्न नहीं करते, उनके लिए 'यह' विज्ञात है।

॥ शब्दावली ॥

यस्य - yasya - by whom

अमतम् - amatam - It is not thought out

तस्य - tasya - he

मतम् - matam - has the thought of It

यस्य - yasya - by whom

मतम् - matam - It is thought out

सः - saḥ - he

न वेद - na veda - knows It not

विजानताम् - vijānatām - (to the discernment) of those who discern of It

अविज्ञातम् - avijñātam - It is unknown

अविजानताम् - avijānatām - by those who seek not to discern of It

विज्ञातम् - vijñātam - It is discerned


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code