प्रतिबोधविदितं मतममृतत्वं हि विन्दते। आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥
॥ लिप्यन्तरणम् ॥
pratibodhaviditaṁ matamamṛtatvaṁ hi vindate | ātmanā vindate vīryaṁ vidyayā vindate'mṛtam ||
॥ अन्वयः ॥
प्रतिबोधविदितं मतं हि अमृतत्वं विन्दते। आत्मना वीर्यं विन्दते। विद्यया अमृतं विन्दते ॥
॥ अन्वयलिप्यन्तरणम् ॥
pratibodhaviditaṁ mataṁ hi amṛtatvaṁ vindate | ātmanā vīryaṁ vindate | vidyayā amṛtaṁ vindate ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ प्रकारान्तरेण ब्रह्मस्वरूपज्ञानम् ]
ब्रह्मणः साकल्येनावेद्यत्वे तद्वेदनं कथम्, कथं वा मोक्षसिद्धिस्तत्राह - प्रतिबोध इति ।
प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।
आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥४॥
यद्यपि ब्रह्म साकल्येन न ज्ञातुं योग्यम्, तथाऽपि प्रतिबोधतो विदितं चेन्मतं भवति । बुध्यतेऽनेनेति बोध: - बोधकधर्मः, प्रतिनियतो बोधः प्रतिबोधः - असाधारणधर्मः, स च सत्यत्वज्ञानत्वानन्दत्वादिः, तैरसाधारणाकारैः स्वेतरनिखिलविलक्षणत्वेन विदितं चेत्तदा तद् ब्रह्मस्वरूपं मतमेव ज्ञातमेव । अमृतत्वं विन्दते - मोक्षं प्राप्नोति । येन प्रतिबोधविदितं तेन मतम्, सोऽमृतत्वं विन्दत इत्यन्वयः।
अमृतत्वप्राप्तिप्रकारम् आह - आत्मनेति । आत्मना प्रसन्नेन परमात्मना वीर्यम् - विद्यानिष्पत्त्यनुकूलं मनोऽवधानरूपं वीर्यं विन्दते ।
यद्वा - आत्मना - मनसेत्यर्थः, मनः कृतं वीर्यम्, प्रणिधानसामर्थ्यमिति यावत् । ततश्च निष्पन्नया विद्ययाऽमृतत्वमश्नुते ।
यद्वा बोधः बुध्यमानं वस्तु, कर्मणि घञ्, बोधे बोधे प्रतिबोधम्, प्रतिबोधं विदितं प्रतिबोधविदितम् - प्रतिवेद्यं येन ब्रह्मस्वरूपं विदितमित्यर्थः । सर्वशरीरत्वाद् ब्रह्मणः प्रतिवेद्यम् 'ज्योतींषि विष्णुर्भुवनानि विष्णुः' (विष्णुपुराणम् - २. १२.३८) इति न्यायेन येन विदितं तेन ब्रह्म मतमिति भावः ॥४॥
॥ आङ्गल-अर्थः ॥
When It is known by perception that reflects It, then one has the thought of It, for one finds immortality; by the self one finds the force to attain and by the knowledge one finds immortality.
॥ हिन्दी-अर्थः ॥
जब यह ऐसे प्रत्यक्ष बोध के द्वारा जाना जाता है जो ‘इसे’ प्रतिबिम्बित करता है, तभी व्यक्ति 'इसका’ विचार बना पाता है, क्योंकि उससे व्यक्ति को अमृतत्व की उपलब्धि होती है; उपलब्धि के लिए व्यक्ति को आत्मा से वीर्य (शक्ति) प्राप्त होता है तथा विद्या से अमृतत्व की प्राप्ति होती है।
॥ शब्दावली ॥
प्रतिबोधविदितम् - pratibodhaviditam - known by perception that reflects
मतम् - matam - has the thought (of It)
हि - hi - since / for
अमृतत्वम् - amṛtatvam - immortality
विन्दते - vindate - one finds
आत्मना - ātmanā - by the self
वीर्यम् - vīryam - the force (to attain)
विन्दते - vindate - one finds
विद्यया - vidyayā - by the knowledge
अमृतम् - amṛtam - immortality
विन्दते - vindate - one finds

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know