केनोपनिषद्
प्रथमः खण्डः
यन्मनसा न मनुते येनाहुर्मनो मतम्। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥
॥ लिप्यन्तरणम् ॥
yanmanasā na manute yenāhurmano matam | tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate ||
॥ अन्वयः ॥
मनसा यत् न मनुते। येन मनः मतं इति ब्रह्मविदः आहुः। तत् एव त्वं ब्रह्म विद्धि। यत् इदं उपासते इदं न ॥
॥ अन्वयलिप्यन्तरणम् ॥
manasā yat na manute | yena manaḥ mataṁ ( iti brahmavidaḥ ) āhuḥ | tat eva tvaṁ brahma viddhi | yat idaṁ upāsate idaṁ na ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
यन्मनसा न मनुते येनाऽऽहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥६॥
यत्परमात्मस्वरूपं कश्चिदपि जनो मनसा करणेन न मनुते । इदमित्थमिति साकल्येन न वेद । येन परमात्मना मनः, मतम् - विषयीकृतम्, प्रकाशितमित्येतत् ।
यद्वा - मतमिति भावे क्तः, मनोवृत्तिरुच्यते, अर्श आद्यच्, कर्तरि क्तो वा, येन परमात्मना मनो मननव्यापारयुक्तं भवति । मनसो मन इत्येतत् । तदेवेत्यादि व्याख्यातम् ॥६॥
॥ आङ्गल-अर्थः ॥
That which thinks not by the mind, that by which the mind is thought, know That to be the Brahman and not this which men follow after here.
॥ हिन्दी-अर्थः ॥
५. 'वह' जो मन के द्वारा मनन नहीं करता,१ 'वह' जिसके द्वारा मन स्वयं मनन का विषय बन जाता है, 'उसे' ही तुम 'ब्रह्म' जानो, न कि इसे जिसकी मनुष्य यहां उपासना करते हैं।
॥ शब्दावली ॥
मनसा - manasā - by the mind
यत् - yat - that which
न - na - not
मनुते - manute - thinks
येन - yena - that by which
मनः - manaḥ - the mind
मतम् - matam - is thought
आहुः - āhuḥ - is declared
तत् - tat - that
एव - eva - indeed
त्वम् - tvam - you
ब्रह्म - brahma - the Brahman
विद्धि - viddhi - know to be
न - na - not
इदम् - idam - this
यत् - yat - which
इदम् - idam - this
उपासते - upāsate - men follow after

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know