Ad Code

यद्वाचानभ्युदितं येन वागभ्युद्यते

 


केनोपनिषद्

प्रथमः खण्डः

यद्वाचानभ्युदितं येन वागभ्युद्यते। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥

॥ लिप्यन्तरणम् ॥

yadvācāanabhyuditaṁ yena vāgabhyudyate | tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate ||

॥ अन्वयः ॥

यत् वाचा अनभ्युदितम्। येन वाक् अभ्युद्यते। तत् एव त्वं ब्रह्म विद्धि। यत् इदं उपासते इदं न ॥

॥ अन्वयलिप्यन्तरणम् ॥

yat vācā anabhyuditam | yena vāk abhyudyate | tat eva tvaṁ brahma viddhi | yat idaṁ upāsate idaṁ na ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ ब्रह्मणः इदङ्कारगोचरादन्यत्वम् ]

वागादिप्रकाशकं तैरप्रकाश्यं परमात्मस्वरूपमिदङ्कारगोचरादन्यदेवापरिच्छिन्नमित्याह - यद्वाचेत्यादिना ।

यद्वाचाऽनभ्युदितं येन वागभ्युद्यते ।

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥५॥

यत् - परमात्मस्वरूपम्, वाचा - वागिन्द्रियेण, अनभ्युदितम् अप्रकाश्यम्, वेदवाण्या अपि सुदूरम् । येन - परमात्मना, वाक् - वागिन्द्रियम्, अभ्युद्यते - प्रकाश्यते, तदेव ब्रह्म, विद्धि जानीहि । परिछिन्नतया हस्तामलकवदिदङ्कारगोचरं यदुपासते नेदं ब्रह्मेति शेषः । स्वरूपतो गुणतश्च सर्वतो यत् बृहत्, तस्मिन्निन्द्रियाणामपि प्रकाशके तैरप्रकाश्ये, परिच्छिन्न इव कथमिदं ब्रह्मेति सुस्पष्टनिर्देशो घटेत । तदिदमिति यदुपासते न तत् ब्रह्मेति भावः ॥५॥


॥ आङ्गल-अर्थः ॥

That which is unexpressed by the word, that by which the word is expressed, know That to be the Brahman and not this which men follow after here.

॥ हिन्दी-अर्थः ॥

४. 'वह' जो वाणी के द्वारा अभिव्यक्त नहीं हो पाता, जिसके द्वारा वाणी अभिव्यक्त होती है, 'उसे' तुम 'ब्रह्म' जानो, न कि इसे जिसकी मनुष्य यहाँ उपासना करते हैं।

॥ शब्दावली ॥

यत् - yat - that which

वाचा - vācā - by the word

अनभ्युदितम् - anabhyuditam - is unexpressed

येन - yena - that by which

वाक् - vāk - the word

अभ्युद्यते - abhyudyate - is expressed

तत् - tat - That

एव - eva - indeed

त्वम् - tvam - you

ब्रह्म - brahma - the Brahman

विद्धि - viddhi - know to be

यत् - yat - which

इदम् - idam - this

उपासते - upāsate - men follow after

इदम् - idam - this

न - na - not

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code