Ad Code

आदित्यो ह वै बाह्यः

 


आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णानः। पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः ॥

लिप्यन्तरणम्

ādityo ha vai bāhyaḥ prāṇa udayatyeṣa hyenaṁ cākṣuṣaṁ prāṇamanugṛhṇānaḥ | pṛthivyāṁ yā devatā saiṣā puruṣasyāpānamavaṣṭabhyāntarā yadākāśaḥ sa samāno vāyurvyānaḥ ||

अन्वयः

आदित्यः ह वै बाह्यः प्राणः हि एषः एनं चाक्षुषं प्राणम् अनुगृह्णानः उदयति। पृथिव्यां या देवता सा एषा पुरुषस्य अपानम् अवष्टभ्य अन्तरा आकाशाः सः समानः वायुः व्यानः ॥

अन्वयलिप्यन्तरणम्

ādityaḥ ha vai bāhyaḥ prāṇaḥ hi eṣaḥ enaṁ cākṣuṣaṁ prāṇam anugṛhṇānaḥ udayati| pṛthivyāṁ yā devatā sā eṣā puruṣasya apānam avaṣṭabhya antarā ākāśāḥ saḥ samānaḥ vāyuḥ vyānaḥ ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

कथं बाह्यमभिधत्त इत्यस्योत्तरमाह - आदित्यो हवा इत्यादिना ।

आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णानः पृथिव्यां या देवता

सैषा पुरुषस्यापानमुपष्टभ्य अन्तरा यदाकाशः स समानो वायुर्व्यानः ॥८॥

तेजो ह वा उदानस्तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः ॥९॥

ह वै इति प्रसिद्धौ । प्रथमप्रश्नप्रतिवचन एव प्रसिद्धमिति भावः । एष हि चाक्षुषं प्राणमनुगृह्णान उदयति - यश्चक्षुः श्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतितिष्ठति तं चाक्षुषं प्राणमनुगृह्णात्यादित्यो बाह्यप्राण इत्यर्थ: । पृथिव्यां या देवता - पृथिव्यभिमानिनी येत्यर्थः । सा पुरुषस्यापानमवष्टभ्य वर्तते । अपानमनुगृह्णातीत्यर्थः । सर्वाण्येव हि मानुषादीनि भूतान्याकृष्यन्ते पृथिव्या । द्यावापृथिव्योर्मध्ये योऽयमाकाशः स समानः समानानुग्राहकः । यश्च वायुर्बाह्यः स व्यानः । यच्च बाह्यं तेजः स उदानः उदानानुग्राहकः । यद्यप्यादित्यादयो मुख्यप्राणतो भिन्ना:, तथापि तेषां प्राणादिवृत्तिविभेदभिन्ने चक्षुराद्यधिष्ठातरि तस्मिन्ननुग्राहकतया प्राणनतया नियमेन सन्निधानमस्तीति बहिरादित्यादिरूपेण धारकतोक्तिरुपपद्यते । अध्यात्मं च प्राणादिरूपेण धारकताया उक्तत्वात्कथमध्यात्म-मित्येतदप्युत्तरितम् । तेजस उदानानुग्राहकतामुपपादयति - तस्मादिति । यस्मात्तेजसोऽनुग्राहकता तस्मादेव मुमूर्षुः पुरुष उपशान्ततेजाः सन् उपरतदेहौष्ण्यः सन्, मनसि सम्पद्यमानैरिन्द्रियैः सह इन्द्रियैरुपलक्षितो वा पुनर्भवं शरीरान्तरं प्राप्नोतीत्यर्थः । उपशान्ततेजस्त्वं तेजस उदानानुग्राहकत्वे लिङ्गम्, उदाने शरीरादुत्क्रमणोन्मुखे शरीरौष्ण्यमपगच्छति ॥९॥

आङ्गल-Sun is the main breath outside this body, for it cherisheth the eye in its rising. The divinity in the earth, she attracteth the lower breath of man, and the ether between is the medial breath; air is the breath pervasor.

॥ हिन्दी-अर्थः ॥

"इस शरीर के बाहर सूर्य ही है मुख्य प्राण, कारण यह उदित होते हुए चक्षुओं को सम्पोषित करता है। पृथ्वी में जो देवत्व है वह मनुष्य के अपान वायु को आकृष्ट करता है, और जो अन्तरिक्ष है वह मध्यवर्ती वायु (समान) है; वायु व्यान है।

शब्दावली

आदित्यः ह वै - ādityaḥ ha vai - the Sun, indeed

बाह्यः प्राणः - bāhyaḥ prāṇaḥ - is the main breath outside this body

हि एषः - hi eṣaḥ - for it

एनम् चाक्षुषं प्राणम् - enam cākṣuṣaṁ prāṇam - the breath in the eye

अनुगृह्णानः - anugṛhṇānaḥ - cherisheth

उदयति - udayati - in its rising

पृथिव्याम् - pṛthivyām - in the earth

या देवता - yā devatā - the divinity that is

सा एषा - sā eṣā - she;

पुरुषस्य - puruṣasya - of man

अपानम् - apānam - the lower breath

अवष्टभ्य - avaṣṭabhya - attracteth

अन्तरा आकाशाः - antarā ākāśāḥ - the ether between is

सः समानः - saḥ samānaḥ - the medial breath

वायुः व्यानः - vāyuḥ vyānaḥ - air is the breath pervasor

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code