Ad Code

यदा लेलायते ह्यर्चिः समिद्धे

 


यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने। तदाज्यभागावन्तरेणाहुतीः प्रतिपादयेत्‌ ॥

लिप्यन्तरणम्

yadā lelāyate hyarciḥ samiddhe havyavāhane | tadājyabhāgāvantareṇāhutīḥ pratipādayet ||

अन्वयः

यदा समिद्धे हव्यवाहने अर्चिः लेलायते तदा आज्यभागौ अन्तरेण आहुतीः प्रतिपादयेत् ॥

अन्वयलिप्यन्तरणम्

yadā samiddhe havyavāhane arciḥ lelāyate tadā ājyabhāgau antareṇa āhutīḥ pratipādayet ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ अपरविद्यानुष्ठानेन प्रयोजनम् ]

अथ कामिनां कर्मगतौ क्लेशबाहुल्यं परिमितफलतां च निरूपयन्नारभते - यदेत्यादिना । 

यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने ।

तदाऽऽज्यभागावन्तरेणाऽऽहुतीः प्रतिपादयेत् ॥२॥

हव्यवाहने समिद्धे यदाऽचिर्लेलायते प्रचलति तदा आज्यभागावन्तरेण आज्यभागयोर्मध्ये आहुती: प्रतिपादयेत् । तथा सति श्रद्धया हुतं भवति, अन्यथा त्वहुतसममिति भावः ॥२॥

आङ्गल-अर्थः

When the fire of the sacrifice is kindled and the flame sways and quivers, then between the double pourings of butter cast therein with faith thy offerings.

हिन्दी-अर्थः

जब यज्ञाग्नि प्रज्वलित हो जाये ओर उसकी ज्वालाएँ ऊँची-ऊँची होकर लपलपाने लगें, तब घृत की दो आहुतियों (आज्यभागों) के बीच अपनी आहुतियों को श्रद्धा से समर्पित करो।

शब्दावली

यदा - yadā - when

समिद्धे हव्यवाहने - samiddhe havyavāhane - the fire of the sacrifice is kindled

अर्चिः - arciḥ - the flame

लेलायते - lelāyate - sways and quivers

तदा - tadā - then

आज्यभागौ अन्तरेण - ājyabhāgau antareṇa - between the double pourings of butter

आहुतीः - āhutīḥ - thy offerings

प्रतिपादयेत् - pratipādayet - cast therein with faith


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code