Ad Code

अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे

 


अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः। तयोः श्रेय आददानस्य साधुर्भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥

॥ लिप्यन्तरणम् ॥

anyacchreyo'nyadutaiva preyaste ubhe nānārthe puruṣaṁ sinītaḥ | tayoḥ śreya ādadānasya sādhurbhavati hīyate'rthādya u preyo vṛṇīte ||

॥ अन्वयः ॥

अन्यत् श्रेयः उत अन्यत् एव प्रेयः। ते उभे नानार्थे सती पुरुषं सिनीतः। तयोः श्रेयः आददानस्य साधु भवति उ सः अर्थात् हीयते यः प्रेयः वृणीते ॥

॥ अन्वयलिप्यन्तरणम् ॥

anyat śreyaḥ uta anyat eva preyaḥ| te ubhe nānārthe ( satī ) puruṣaṁ sinītaḥ| tayoḥ śreyaḥ ādadānasya sāadhu bhavati u ( saḥ ) arthāt hīyate yaḥ preyaḥ vṛṇīte ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

द्वितीया वल्ली

[ श्रेयः प्रेयोमार्गयोः मोक्षबन्धकारणत्वम् ]

अथ यमः, शिष्यस्य परीक्ष्य मुमुक्षाम् अप्रतिहतां विज्ञाय तां, स्तोतुमुपक्रमते अन्यत् इत्यादिना ।

अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः ।

तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थात् य उ प्रेयो वृणीते ॥१॥

श्रेयोऽन्यत् प्रेयोऽन्यत् - यच्छ्रेयो न तत्प्रेयः, यत्प्रेयो न तच्छ्रेय: । अयमाशयः प्रकृतिसंसृष्टस्य प्राणिमात्रस्य इन्द्रियारामस्य इन्द्रियसम्प्रयोगमात्रेण प्रियतामाविशति तु प्राकृत एवार्थो भोग्यभूतः । प्रकृतिविसजातीयं विशुद्धं मनोमात्रगोचरमात्मनोऽत्यन्तहितं परमनिः श्रेयसशब्दवाच्यं स्वस्वरूपमपि अनादिवासनया सहसा न प्रियतामाविशति । परन्तु सर्वतः प्रशस्तं हितमिति श्रेय एव तु तत् । तस्मात् अन्यदेव प्रेयः - भोग्यजातम्, अन्यदेव श्रेयः - शुद्धात्मस्वरूपं चेति । तदेते उभे, नानार्थे - एको मोक्षाय अपरो बन्धाय । ते पुरुषं स्वस्वनिष्ठम्, सिनीतः - बध्नीतः, स्ववशमापादयतः । अभ्युदयार्थी प्रेयसि, मोक्षार्थी श्रेयसि प्रवर्तत इति भावः । तयोः मध्ये श्रेय आददानस्य - मोक्षार्थे प्रयतमानस्य, साधु भवति - भद्रं भवति । यस्तु बाह्यारामः प्रेयो वृणीते, सः अर्थात् - पारमार्थिकात्प्रयोजनात्, हीयते प्रच्यवते । प्रेयोमार्गे प्रसक्तोऽर्थाभासमेव प्राप्नोति, न त्वर्थमिति भावः ॥१॥

॥ आङ्गल-अर्थः ॥

One thing is the good and quite another thing is the pleasant, and both seize upon a man with different meanings. Of these whoso takes the good, it is well with him; he falls from the aim of life who chooses the pleasant.

॥ हिन्दी-अर्थः ॥

यम कहते हैंː १०'जीवन' मृत्यु का ही एक रूप, और 'मृत्यु' जीवन का ही एक रूप होने के नाते एकमात्र सत्य अस्तित्व अनन्त है, दिव्य तथा अमर है । ''श्रेय एक वस्तु है और उससे सर्वथा भिन्न वस्तु है प्रेय, और ये दोनों मनुष्यों को भिन्न-भिन्न अर्थों में बाँधते हैं। इन दोनों में से जो व्यक्ति श्रेय को ग्रहण करता है उसका कल्याण होता है और जो प्रेय का वरण करता है वह जीवन के लक्ष्य से च्युत हो जाता है।

॥ शब्दावली ॥

अन्यत् - anyat - one thing

श्रेयः - śreyaḥ - the good

उत - uta - and

अन्यत् - anyat - quite another thing

एव - eva - indeed

प्रेयः - preyaḥ - the pleasant

ते उभे - te ubhe - both of those

नानार्थे - nānārthe - with different meanings

पुरुषम् - puruṣam - a man

सिनीतः - sinītaḥ - seize upon

तयोः - tayoḥ - of these

श्रेयः - śreyaḥ - of these

आददानस्य - ādadānasya - whoso takes

साधु भवति - sāadhu bhavati - it is well with him

यः - yaḥ - who

प्रेयः - preyaḥ - the pleasant

वृणीते - vṛṇīte - chooses

अर्थात् उ - arthāt u - from the aim of life

हीयते - hīyate - he falls

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code