श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः। श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्शेमाद्वृणीते ॥
॥ लिप्यन्तरणम् ॥
śreyaśca preyaśca manuṣyametastau samparītya vivinakti dhīraḥ | śreyo hi dhīro'bhi preyaso vṛṇīte preyo mando yogakśemādvṛṇīte ||
॥ अन्वयः ॥
श्रेयः च प्रेयः च मनुष्यम् एतः। धीरः तौ सम्परीत्य विविनक्ति। धीरः हि प्रेयसः श्रेयः अभिवृणीते। मन्दः योगक्षेमात् प्रेयः वृणिते ॥
॥ अन्वयलिप्यन्तरणम् ॥
śreyaḥ ca preyaḥ ca manuṣyam etaḥ| dhīraḥ tau samparītya vivinakti| dhīraḥ hi preyasaḥ śreyaḥ abhivṛṇīte| mandaḥ yogakṣemāt preyaḥ vṛṇite ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ मन्दज्ञानिभ्यां फलतया प्राप्यौ भोगमोक्षौ ]
श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः ।
श्रेयो हि धीरोऽभिप्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद्वृणीते ॥२॥
श्रेयश्च प्रेयश्च - इत्युभे - मोक्षतदितरपुरुषार्थौ इत्येतत् । मनुष्यम् स्वस्वसाधनानुष्ठानयोग्यकरणकलेवरयुक्तम् । एतः - आइतः आभिमुख्येन गच्छतः । पुरुषार्थत्वाऽविशेषात् । तौ - श्रेयः प्रेयः पदार्थौ नीरक्षीराविव, हंसो धीरः सम्परीत्य - सम्यक् पर्यालोच्य, विविनक्ति - पृथक्करोति । गुणदोषपरिज्ञानेन त्याज्योपादेयभेदमाकलयतीति यावत् । एवमाकलय्य धीरो हि प्रेयसोऽभि - प्रेयोऽर्थादभ्यर्हितं श्रेयो वृणीते । प्रेयस इति ल्यब्लोपे पञ्चमी वा, प्रेय: परित्यज्य इत्यर्थः, श्रेयोऽभिवृणीते । मन्दस्तु योगक्षेमेन निमित्तेन प्रेयो वृणीते । अज्ञो देवोऽहं मनुष्योऽहमित्याद्यभिमानयुक्तः तदनुगुणशारीरक्षेमचिन्तया पुत्रपश्वन्नादि- रूपभोग्यजातं वृणीत इति यावत् ॥२॥
॥ आङ्गल-अर्थः ॥
çreyaù ca preyaù ca manuñyam etaù| dhéraù tau samparétya vivinakti| dhéraù hi preyasaù çreyaù abhivåëéte| mandaù yogakñemät preyaù våëéte ||
॥ हिन्दी-अर्थः ॥
''श्रेय और प्रेय मनुष्य के पास आते हैं; विचारशील (धीर) पुरुष सब ओर से उनको परखता है और उनमें विवेक करता है। वह ज्ञानी पुरुष प्रेय की अपेक्षा श्रेय का ही वरण करता है, किन्तु मन्दबुद्धि व्यक्ति अपने श्रेय की प्राप्ति एवं उसको बनाये रखने (योग- क्षेम) की अपेक्षा प्रेय का चयन करता है।
॥ शब्दावली ॥
श्रेयः - śreyaḥ - the good
च - ca - and
प्रेयः - preyaḥ - the pleasant
च - ca - and
मनुष्यम् - manuṣyam - a man
एतः - etaḥ - come to
धीरः - dhīraḥ - the thoughtful mind
तौ सम्परीत्य - tau samparītya - turns all around them
विविनक्ति - vivinakti - distinguishes
धीरः - dhīraḥ - the wise
हि - hi - indeed
प्रेयसः - preyasaḥ - from the pleasant
श्रेयः - śreyaḥ - the good
अभिवृणीते - abhivṛṇīte - chooses out
मन्दः - mandaḥ - the dull soul
योगक्षेमात् - yogakṣemāt - rather than the getting of good and its having
प्रेयः - preyaḥ - the pleasant
वृणिते - vṛṇite - chooses
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know