येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके। एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः ॥
॥ लिप्यन्तरणम् ॥
yeyaṁ prete vicikitsā manuṣye'stītyeke nāyamastīti caike | etadvidyāmanuśiṣṭastvayā'haṁ varāṇāmeṣa varastṛtīyaḥ ||
॥ अन्वयः ॥
मनुष्य प्रेते या इयं विचिकित्सा एके अयं अस्ति इति आहुः एके अयं न सति इति च आहुः । त्वया अनुशिष्टः एतत् अहं विद्याम् एषः वराणाम् तॄतीयः वरः
॥ अन्वयलिप्यन्तरणम् ॥
manuṣya prete yā iyaṁ viucikitsā eke ayaṁ asti iti ( āhuḥ ) eke ayaṁ na sati iti ca ( āhuḥ )| tvayā anuśiṣṭaḥ etat ahaṁ vidyām eṣaḥ varāṇām tṝtīyaḥ varaḥ
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ तृतीयेन वरेण मोक्षस्वरूपकथनप्रार्थना ]
अथ मुमुक्षुर्नचिकेता द्वितीयेन वरेणाधिगत्यात्मविद्यां मोक्षोपायभूतां, स्वेनावगतमपि मोक्षस्वरूपं द्रढयितुं तृतीयेन वरेण मोक्षस्वरूपोपदेशं वृणुते - येयम् इति ।
येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके ।
एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः ॥२०॥
अवगतस्याप्यर्थस्य जिज्ञास्यतायां हेतुं व्यञ्जयन् वादिविप्रतिपत्तिं निरूपयति अस्तीत्येके नायमस्तीति चैक इति । इदं विप्रतिपत्त्यन्तराणाम् उपलक्षकम् । येयं विचिकित्सा विचार:, प्रेते प्रकर्षेणेते, अत्यन्तं निर्गते, प्रकृतिविनिर्मुक्ते सतीत्यर्थः । अयमात्मा अस्तीति केचिन्नास्तीति केचित् कथयन्तीति शेषः । मुक्तिस्वरूपमधिकृत्य हि विविधं वदन्ति वादिनः - वित्तिमात्रस्यात्मस्वरूपस्यैव समुच्छेदो मुक्तिः, सत एव वित्तिमात्रस्यात्मनोऽविद्यास्तमयो मुक्तिः, ज्ञानाद्यशेषगुणस्याऽऽत्यन्तिको च्छेदेन पाषाणकल्पावस्था मुक्ति: नित्यशुद्धस्य ब्रह्मण औपाधिकजीवभावापगमेन तद्भावापत्तिर्मुक्तिरिति । तदेवं विविधवादतः संशयाकुलेन निश्चयायेदं व्रियते । तस्मात्त्वयाऽनुशिष्ट एतन्मुक्तिस्वरूपं विद्याम् । त्वया प्रदत्तानां त्रयाणां वराणां मध्ये एष तृतीयो वर इति भावः ॥२०॥
॥ आङ्गल-अर्थः ॥
“This debate that there is over the man who has passed and some say 'This he is not' and some that he is, that, taught by thee, I would know; this is the third boon of the boons of my choosing.”
॥ हिन्दी-अर्थः ॥
(नचिकेता कहता हैː) "प्रयाण किये हुए मनुष्य के विषय में यह जो संशयात्मक विवाद है, कोई कहता है 'वह 'यह' नहीं है' और कोई कहता है कि 'वह है'। इसे आपसे शिक्षा लेकर मैं जान लूँ; वरों में यह मेरा तृतीय वर है।''
॥ शब्दावली ॥
मनुष्य प्रेते - manuṣya prete - over the man who has passed away
या - yā - that
इयम् - iyam - this
विचिकित्सा - vicikitsā - debate
एके - eke - some
अयम् अस्ति - ayam asti - he is
इति - iti - thus
आहुः - āhuḥ - speak
एके - eke - some
अयम् न अस्ति - ayam na asti - he is not
इति - iti - thus
च - ca - and
आहुः - āhuḥ - speak
त्वया - tvayā - by you
अनुशिष्टः - anuśiṣṭaḥ - taught
एतत् - etat - this
अहम् - aham - I
विद्याम् - vidyām - know
एषः - eṣaḥ - this
वराणाम् - varāṇām - of the boons
तॄतीयः - tṝtīyaḥ - third
वरः - varaḥ - boon

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know