देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः। अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ॥
॥ लिप्यन्तरणम् ॥
devairatrāpi vicikitsitaṁ purā na hi suvijñeyamaṇureṣa dharmaḥ | anyaṁ varaṁ naciketo vṛṇīṣva mā moparotsīrati mā sṛjainam ||
॥ अन्वयः ॥
देवैः अपि अत्र पुरा विचिकित्सितं हि इदं न सुज्ञेयम्। एषः धर्मः अणुः नचिकेतः अन्यं वरं वृणिष्व। मा मा उपरोत्सीः। मा एवम् अतिसृज ॥
॥ अन्वयलिप्यन्तरणम् ॥
devaiḥ api atra purā vicikitsitaṁ hi ( idaṁ ) na sujñeyam| eṣaḥ dharmaḥ aṇuḥ naciketaḥ anyaṁ varaṁ vṛṇiṣva | mā mā uparotsīḥ| mā evam atisṛja ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ मुक्तस्वरूपज्ञानस्य दुर्बोधकत्वोक्तिः ]
एवं पृष्टो मृत्युर्मुमुक्षुमेनं जानन्नपि गभीरस्यार्थस्याधिगमे उत्साहविशेषं स्थूणानिखननन्यायेन द्रढयितुं प्रतिवदति - देवैरति ।
देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः ।
अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ॥२१॥
यद्वा - द्वितीयेन वरेण प्रसिद्धस्वर्गसाधनमेवापृच्छत् । स्वर्गवर्णनपरे 'स्वर्गलोक' इति मन्त्रे ' न भयं किञ्चनास्ती 'ति मानुषलोकसंभावितभयाभाव एवोच्यते, 'न तत्र त्व'मिति यमशासनावश्यत्वमुच्यते, अमृतपानादिजनिता तृप्तिः 'उभे तीर्त्वा 'त्यादिनोच्यते, अमृतप्राप्तिश्चोच्यमाना चिरकालस्थायित्वमभिप्रेत्य । स्वर्गसाधनमग्नि पृष्टो यमस्तमुद्दिश्य तन्मतिकौशलेन प्रसन्नस्तेनापृष्टोऽपि तस्याग्नेर्माहात्म्यवर्णनप्रसङ्गेन त्रिरनुष्ठितस्य ज्ञानद्वारा परमपुरुषार्थलक्षणमोक्षोपयोगितामाह - त्रिणाचिकेत इत्यादिना । उक्त एवार्थः । तदेवं प्रसङ्गादस्य मोक्षसाधनत्वरूपं महिमानमुपश्रुत्य सञ्जातपरमपुरुषार्थरुचिः सन्मोक्ष- स्वरूपमपृच्छत् - येयं प्रेत इति । एवं पृष्टो यमस्तस्य मुमुक्षां परीक्षितुमाह - देवैरिति । यद्यपि प्राक् 'सस्यमिव मत्र्त्यः पच्यते सस्यमिवाजायते पुन 'रित्याह, न तावता तस्य स्वर्गादावपि वैतृष्ण्यं ज्ञायते, जन्ममरणयोरवर्जनीयत्वेन जीवितनिमित्ते न व्यलीकं वक्तव्यमित्येतावत्तु उच्यते । तदस्यां व्याख्यायामपि नातीव बाधकम् । परमनिः श्रेयसस्वरूपं हि सपदि नोपदेश्यमपरीक्ष्य शिष्याधिकारमिच्छामात्रेणेत्यभिप्रेत्य तत्परीक्षणायाह - देवैरिति ।
अत्र त्वया पृच्छ्यमाने मुक्तिस्वरूपे, देवैरपि पुरा विचिकित्सितम् - संशयितम्, अपिना मानुषेभ्यः प्रकृष्टज्ञानवत्ता देवानां व्यज्यते । तदेवं देवानामपि संशयास्पदमिदं भवादृशानां मनुष्याणां न सुविज्ञेयम् । देवानामप्यगम्यं भवादृशानामगम्यमित्येतत् कैमुतिकन्यायसिद्धमिति हिशब्देन व्यज्यते ।
दुर्ज्ञेयत्वे हेतुमाह - एष धर्मः, मुक्तस्वरूपमित्येतत्, मुक्तापेक्षया तत्स्वरूपं हि धर्मः । एतेन मुक्तावपि धर्मधर्मिभावो व्यञ्जितः । मुक्तात्मस्वरूपं मुक्तिस्वरूपं ससाधनं वा धर्मशब्देनोच्यते । हे नचिकेतः ! अन्यं वरं वृणीष्व मा मोपरोत्सीः, एनं मां प्रतिश्रुतवरं माम्, अतिसृज - मुञ्च । यद्यपि 'त्रीन् वरान् वृणीष्व' इति प्रतिजानता मया यावद्वरदानमधमर्णेनैव भूयते नाम, तथाऽपि भवादृशजनदुरधिगमे अस्मिन्नेकस्मिन् विषये मां त्यज, वृथा निर्बन्धं मा कुरु इत्याशयः ॥२१॥
॥ आङ्गल-अर्थः ॥
“Even by the gods was this debated of old; for it is not easy of knowledge, since very subtle is the law of it. Another boon choose, O Nachiketas; importune me not, nor urge me; this, this abandon.”
॥ हिन्दी-अर्थः ॥
(यम कहते हैं ː) ''पूर्वकाल में देवगणो में भी इस विषय में संशयात्मक विवाद हुआ था; यह सरलता से जानने योग्य नहीं है, क्योंकि इसका धर्म बहुत सूक्ष्म है। हे नचिकेता! तुम अन्य कोई वर चुन लो; इस वर के लिए मुझसे आग्रह मत करो, अनुरोध मत करो, इसे छोड़ दो।''
॥ शब्दावली ॥
पुरा - purā - of old
देवैः - devaiḥ - by the gods
अपि - api - even
अत्र - atra -
विचिकित्सितम् - vicikitsitam - debated
हि - hi - for
न सुज्ञेयम् - na sujñeyam - it is not easy of knowledge
एषः धर्मः - eṣaḥ dharmaḥ - the lav of it
अणुः - aṇuḥ - very subtle
नचिकेतः - naciketaḥ - O Nachiketas!
अन्यम् - anyam - other
वरम् - varam - boon
वृणिष्व - vṛṇiṣva -
मा मा उपरोत्सीः - mā mā uparotsīḥ - importune me not
मा उपरोत्सीः - mā uparotsīḥ - nor urge me
एवम् - evam - this
अतिसृज - atisṛja - abandon

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know