Ad Code

कामान्‌ यः कामयते मन्यमानः स



कामान्‌ यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र। पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः ॥

लिप्यन्तरणम्

kāmān yaḥ kāmayate manyamānaḥ sa kāmabhirjāyate tatra tatra | paryāptakāmasya kṛtātmanastu ihaiva sarve pravilīyanti kāmāḥ ||

अन्वयः

यः मन्यमानः कामान् कामयते सः कामभिः तत्र तत्र जायते। पर्याप्तकामस्य कृतात्मनः सर्वे कामाः इह एव प्रविलीयन्ति ॥

अन्वयलिप्यन्तरणम्

yaḥ manyamānaḥ kāmān kāmayate saḥ kāmabhiḥ tatra tatra jāyate | paryāptakāmasya kṛtātmanaḥ sarve kāmāḥ iha eva pravilīyanti ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

[ आत्मज्ञस्य पर्याप्तकामत्वम् ]

ये ह्यकामा इति निर्देशेन विवक्षितं कामत्यागस्य प्राधान्यं प्रदर्शयति - कामान्य इति । 

कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र । पर्याप्तकामस्य कृतात्मनस्त्विहैव सर्वे प्रविलीयन्ति कामाः ॥२॥

यः पुनरनुदिनं कामान् - शब्दादीननुभूतानननुभूतान्वा, अहो शब्दस्य मधुरिमा, अहो स्पर्शस्य सौकुमार्यम्, अहो रूपस्य रमणीयता, अहो रसस्य स्वादः इति मन्यमानः पुनः पुनरनुचिन्तयन्कामयते । स तैः कामैः प्रवृत्तिबीजभूतैर्धर्माधर्मपरिणामैस्तत्र तत्र योनौ जायते । तत् संसरणबीजं कामनैव । यस्तु पर्याप्तकामः परित आप्तः कामो विषयो येन सः, निवृत्तकामन इति यावत्, असति विषये हि कामना, समन्तादुपलब्धे तु विषये निवर्तते कामना, तस्य निवृत्तकामस्य । अत एव कृतात्मनः कृतः संस्कृतः आत्मा अन्तःकरणं यस्य तस्य, शुद्धान्तःकरणस्येति यावत् । कामनया हि रागद्वेषादिदूषितमन्तःकरणं भवति । अपगतायां च कामनायां भवति शुद्धात्मा । एवंभूतस्य तु सर्वे कामा: - शब्दादय:, इहैव - यस्मिन्देशे विषयाणां साम्राज्यं तस्मिन्नेवास्मिन्संसृतिमण्डले, प्रविलीयन्ति - अदर्शनं यान्ति । परितः प्रवर्तमाना अपि शब्दादयः प्रभवन्तोऽप्यन्यत्र पर्याप्तकामस्य कृतात्मनः क्षोभाय न प्रभवन्तीति भावः । असति च विषयतः क्षोभे जन्मबीजाभावाच्छुक्रमतिवर्तन्ते नाम ॥२॥

आङ्गल-अर्थः ॥

He who cherishes desires and his mind dwells with his longings, is by his desires born again wherever they lead him, but the man who has won all his desire and has found his soul, for him even here in this world vanish away all desires.

हिन्दी-अर्थः

जो कामनाओं की अभिलाषा करता है तथा जिसका मन उन कामनाओं में लीन रहता है, वह उन कामनाओं के द्वारा प्रेरित वहीं-वहीं जन्म ग्रहण करता है, किन्तु जिसने अपनी कामनाओं को जीत लिया है१० तथा अपनी आत्मा को प्राप्त कर लिया है, ऐसे 'कृतात्मा' जन की यहीं, इसी लोक में समस्त कामनाएँ विलुप्त हो जाती हैं।

शब्दावली

यः मन्यमानः - yaḥ manyamānaḥ - whose mind dwells with his longings

कामान् कामयते - kāmān kāmayate - cherishes desires

सः - saḥ - he

कामभिः - kāmabhiḥ - by desires

तत्र तत्र - tatra tatra - wherever the desires lead

जायते - jāyate - born again

पर्याप्तकामस्य - paryāptakāmasya - but the man who has won all his

कृतात्मनः - kṛtātmanaḥ - has found his soul

सर्वे कामाः - sarve kāmāḥ - even here in this world

इह एव - iha eva - even here in this world

प्रविलीयन्ति - pravilīyanti - vanish away

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code