समाने वृक्षे पुरुषो निमग्नोऽनिशया शोचति मुह्यमानः। जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥
॥लिप्यन्तरणम्॥
samāne vṛkṣe puruṣo nimagno'niśayā śocati muhyamānaḥ | juṣṭaṁ yadā paśyatyanyamīśamasya mahimānamiti vītaśokaḥ ||
॥ अन्वयः ॥
समाने वृक्षे निमग्नः पुरुषः मुह्यमानः अनीशया शोचति हि। सः यदा अन्यं जुष्टम् ईशम् अस्य इति महिमानम् पश्यति तदा सः वीतशोकः भवति ॥
॥ अन्वयलिप्यन्तरणम् ॥
samāne vṛkṣe nimagnaḥ puruṣaḥ muhyamānaḥ anīśayā śocati hi| ( saḥ ) yadā anyaṁ juṣṭam īśam asya iti mahimānam paśyati ( tadā saḥ ) vītaśokaḥ ( bhavati ) ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ ईश्वरमाहात्मयज्ञानवतः मुक्तिनिरुपणम् ]
समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः ।
जुष्टं यदा पश्यत्यन्यमीशस्य महिमानमिति वीतशोकः ॥२॥
समाने वृक्षे पुरुषो निमग्नः - एवमेकस्मिन्वृक्षे द्वौ स्तः, तत्रैकः पुरुषो योऽसौ भोक्ता कर्मणः फलस्य, स तस्मिन्नेव वृक्षे निमग्नः - गाढं सक्त: । अन्यस्त्वीशस्तत्र वर्तमानोऽपि पुष्करपलाश इव सलिलमश्लेष: । अयं त्वनीशया - असामर्थ्येन निमग्नः । अत एव मुह्यमानः देवोऽहं मनुष्योऽहमिति स्वस्वरूपमोहं प्राप्तः शोचति ममायमर्थो नष्टो ममायमापतितोऽनर्थ इति । यदा पुनरयमीशं स्वस्मादन्यं स्वाधिष्ठित एव वृक्षे वर्तमानम्, अथापीशितृत्वादेव जुष्टम् - हृष्म्, ‘जुष - हर्षे' (पाणिनीयधातुपाठः - १८३५) कर्तरि क्तः । पश्यति - साक्षात्करोति । स वीतशोको भूत्वा महिमानमस्य अपहतपाप्मत्वादिलक्षणमस्य महिमानम्, इति - एति, प्राप्नोति । गुणाभावश्छान्दसः ॥
यद्वा - जुष्टं यदा पश्यत्यन्यमीशं तथा महिमानं च जगद्रूपमस्यैवेश्वरस्येति च पश्यति, तदा वीतशोको भवतीत्यन्वयः । अयं भावः शरीरे निमग्नो ह्ययं जीवोऽन्वहमहं ममेति मुह्यन् शोचति, यदा पुनरयमवसरप्रतीक्षेण परमकारुणिकेन पार्श्वगेन परमात्मना रिरक्षणाऽवसरे समुद्बोधितः समधिगत्य तत्त्वदर्शिनः प्रसन्नमुपदेशं - 'नेह किमपि जगति स्वतन्त्रमस्ति वस्तु, किन्तु तस्यैवेश्वरस्य परमात्मनः शेषभूतम्, तन्नाहमस्मि स्वतन्त्रो न मम किञ्चित्, परमात्मैव नः स्वामी स चात्यन्तविलक्षण' इति साक्षात्कुर्यात्तदा वीतशोको भवतीति ॥२॥
॥ आङ्गल-अर्थः ॥
The soul is the bird that sits immersed on the one common tree; but because he is not lord he is bewildered and has sorrow. But when he sees that other who is the Lord and beloved, he knows that all is His greatness and his sorrow passes away from him.
॥ हिन्दी-अर्थः ॥
'पुरुष' (आत्मा) ही वह पक्षी है जो समान वृक्ष पर बैठकर (आस्वाद लेने में) निमग्न है; क्योंकि वह 'अनीश' है (स्वयं का ईश नहीं है) वह मोह के वशीभूत होकर शोक करता है। किन्तु जब वह उस अन्य को देखता है जो 'ईश' है, प्रेमी है, तब वह जान जाता है कि जो कुछ भी है, वह 'उसकी' महिमा है, और वह शोकमुक्त हो जाता है। ४अथवा, "हमारे दायें भी और बायें भी।''
॥ शब्दावली ॥
समाने वृक्षे - samāne vṛkṣe - on the one common tree
निमग्नः - nimagnaḥ - sitting immersed
पुरुषः - puruṣaḥ - the soul, that is the bird
मुह्यमानः - muhyamānaḥ - is bewildered
अनीशया - anīśayā - because he is not lord
हि शोचति - hi śocati - and has sorrow
यदा - yadā - but when
अन्यम् - anyam - that other
जुष्टम् - juṣṭam - the beloved
ईशम् - īśam - the Lord
अस्य महिमानम् - asya mahimānam - (he knows that all is) His greatness
पश्यति - paśyati - he sees
वीतशोकः इति - vītaśokaḥ iti - and his sorrow passes away from him

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know