द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥
॥ लिप्यन्तरणम् ॥
dvā suparṇā sayujā sakhāyā samānaṁ vṛkṣaṁ pariṣasvajāte | tayoranyaḥ pippalaṁ svādvattyanaśnannanyo abhicākaśīti ||
॥ अन्वयः ॥
सयुजा सखाया द्वा सुपर्णा समानं वृक्षं परिषस्वजाते। तयोः अन्यः पिप्पलं स्वादु अत्ति। अन्यः तु अनश्नन् अभिचाकशीति ॥
॥ अन्वयलिप्यन्तरणम् ॥
sayujā sakhāyā dvā suparṇā samānaṁ vṛkṣaṁ pariṣasvajāte| tayoḥ anyaḥ pippalaṁ svādu atti| anyaḥ ( tu ) anaśnan abhicākaśīti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
तृतीयमुण्डकम्
प्रथमः खण्डः
[ जीवब्रह्मणोः वैलक्षण्यम् ]
परविद्यागम्यतया प्रस्तुतस्य भूतयोन्यक्षरपुरुषस्य परस्य ब्रह्मणो हृदयगुहासम्बन्धोक्ते रात्मशब्देन निर्देशाच्च सम्भाव्यमानं जीवब्रह्मणोरभेदभ्रमं विशेषतः प्रतिक्षिपन्नुपायम- क्षराधिगतौ निरूपयत्यनेन खण्डेन । यद्यपि निवर्तितो नाम भ्रमः प्राग्यः सर्वज्ञ इति मन्त्रे, उपायश्चोपदिष्टः प्रणवो धनुरित्यादिना, अथापि तत्प्रतिक्षेपो नातिस्फुट: प्राक्, इह तु स्फुटीक्रियते । सत्यादिसहकारिनिरूपणं चोपायनिरूपणे विशेषः । पक्षिणाविव वृक्षमिदं शरीरमाश्रयतो जीवपरमात्मानाविति सादृश्यमवलम्ब्य रूपयति - द्वा सुपर्णेति ।
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्य: पिप्पलं स्वाद्वत्त्यनन्नन्योऽभिचाकशीति ॥१॥
द्विवचनेनैव यद्यपि द्वित्वमवगम्यते तथाऽपि जीवादर्थान्तरत्वं परमात्मनि द्रढयितुं द्वेति निर्देश: । आकारश्छान्दसः । सुपर्णी - शोभने ह्यनयो: पर्णे, ते चैकस्य ज्ञानकर्मणी, परस्य तु सङ्कल्पशक्ती, तौ हि ताभ्यां तत्र तत्र पततः । सयुजौ - सहैव युञ्जतस्तत्र शरीरे । अविनाभूतत्वात्सखायाविवेति सखायौ । समानं वृक्षम् एकं शरीराख्यवृक्षम् । परिषस्वजाते- प्रविष्टाविति यावत् । तयोरन्य: पिप्पलं स्वाद्वत्ति तयोरिति निर्धारणे षष्ठी, योऽन्यः परस्मात्स जीवः पिप्पलमत्ति - पिप्पलमिति फलं लक्ष्यते । फलं च यं वृक्षमेष प्रविष्टस्तस्य । कर्मणः फलमिति यावत् । स्वाद्विति क्रियाविशेषणम् । स्वादुता चेह बौद्धी । प्रीतिपूर्वकमत्तीति यावत् । अन्यस्तु परमात्मा तदनश्चन् प्रकाशते केवलम् । अन्य इत्युभयत्र निर्देशादनयोर्भेदो दृढीक्रियते ॥१॥
॥ आङ्गल-अर्थः ॥
Two birds, beautiful of wing, close companions, cling to one common tree: of the two one eats the sweet fruit of the tree, the other eats not but watches his fellow.
॥ हिन्दी-अर्थः ॥
दो सुन्दर पंखों वाले पक्षी, घनिष्ठ सखा, समान वृक्ष पर ही रहते हैं; उनमें से एक वृक्ष के स्वादिष्ट फलों को खाता है, अन्य खाता नहीं अपितु अपने सखा को देखता है।
॥ शब्दावली ॥
सयुजा सखाया - sayujā sakhāyā - close companions
द्वा सुपर्णा - dvā suparṇā - two birds, beautiful of wing
समानम् वृक्षम् - samānam vṛkṣam - one common tree
परिषस्वजाते - pariṣasvajāte - clinging to
तयोः - tayoḥ - of the two
अन्यः - anyaḥ - one
स्वादु पिप्पलम् - svādu pippalam - the sweet fruit of the tree
अत्ति - atti - eats
अन्यः - anyaḥ - the other
अनश्नन् - anaśnan - eats not
अभिचाकशीति - abhicākaśīti - but watches his fellow

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know