पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च रसयितव्यं च त्वक्च स्पर्शयितव्यं च वाक्च वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च यादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं चाहंकारश्चाहंकर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विद्यारयितव्यं च ॥
॥ लिप्यन्तरणम् ॥
pṛthivī ca pṛthivīmātrā cāpaścāpomātrā ca tejaśca tejomātrā ca vāyuśca vāyumātrā cākāśaścākāśamātrā ca cakṣuśca draṣṭavyaṁ ca śrotraṁ ca śrotavyaṁ ca ghrāṇaṁ ca ghrātavyaṁ ca rasaśca rasayitavyaṁ ca tvakca sparśayitavyaṁ ca vākca vaktavyaṁ ca hastau cādātavyaṁ copasthaścānandayitavyaṁ ca pāyuśca visarjayitavyaṁ ca yādau ca gantavyaṁ ca manaśca mantavyaṁ ca buddhiśca boddhavyaṁ cāhaṁkāraścāhaṁkartavyaṁ ca cittaṁ ca cetayitavyaṁ ca tejaśca vidyotayitavyaṁ ca prāṇaśca vidyārayitavyaṁ ca ||
॥ अन्वयः ॥
पृथिवी पृथिवीमात्रा च आपः आपोमात्रा च तेजः च तेजोमात्रा च वायुः च वायुमात्रा च आकाशः च आकाशमात्रा च चक्षुः च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसः च रसयितव्यं च त्वक् च स्पर्शयितव्यं च वाक् च वक्तव्यं च हस्तौ च आदातव्यं च उपस्थः च आनन्दयितव्यं च पायुः च विसर्जयितव्यं च पादौ च गन्तव्यम् मनः च मन्तव्यं च बुद्धिः च बोधव्यं च अहंकारः च अहंकर्तव्यम् च चित्तं च चेतयितव्यं च तेजः विद्योतयितव्यं च प्राणः च विधारयितव्यं च ॥
॥ अन्वयलिप्यन्तरणम् ॥
pṛthivī pṛthivīmātrā ca āpaḥ āpomātrā ca tejaḥ ca tejomātrā ca vāyuḥ ca vāyumātrā ca ākāśaḥ ca ākāśamātrā ca cakṣuḥ ca draṣṭavyaṁ ca śrotraṁ ca śrotavyaṁ ca ghrāṇaṁ ca ghrātavyaṁ ca rasaḥ ca rasayitavyaṁ ca tvak ca sparśayitavyaṁ ca vāk ca vaktavyaṁ ca hastau ca ādātavyaṁ ca upasthaḥ ca ānandayitavyaṁ ca pāyuḥ ca visarjayitavyaṁ ca pādau ca gantavyam manaḥ ca mantavyaṁ ca buddhiḥ ca bodhavyaṁ ca ahaṁkāraḥ ca ahaṁkartavyam ca cittaṁ ca cetayitavyaṁ ca tejaḥ vidyotayitavyaṁ ca prāṇaḥ ca vidhārayitavyaṁ ca ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
सर्वशब्देन क्रोडीकृतानर्थान्निर्दिशति - पृथिवीति ।
पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च रसयितव्यं च त्वक्च स्पर्शयितव्यं च वाक्च वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चाऽऽनन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं चाहंकारश्चाहंकर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च ॥८॥
पृथिवीमात्रा चेत्यादि कार्यकारणभावापन्नार्थप्रदर्शकम् । इन्द्रियार्थी निर्दिशति - चक्षुश्च द्रष्टव्यं चेति । मनस एव वृत्तिभेदेन बुद्धिश्व बोद्धव्यं चेत्यादि । तेजश्चेत्यनेन शारीरं तेजो विवक्षितम् । लक्ष्यते चौष्ण्येन तत् ॥८॥
॥ आङ्गल-अर्थः ॥
“Earth and the inner things of earth; water and the inner things of water; light and the inner things of light; air and the inner things of air; ether and the inner things of ether; the eye and its seeings; the ear and its hearings; smell and the objects of smell; taste and the objects of taste; the skin and the objects of touch; speech and the things to be spoken; the two hands and their takings; the organ of pleasure and its enjoyings; the anus and its excretions; the feet and their goings; the mind and its feelings; the intelligence and what it understandeth; the sense of Ego and that which is felt to be Ego; the conscious heart and that of which it is conscious; light and what it lighteneth; Life and the things it maintaineth.
॥ हिन्दी-अर्थः ॥
''पृथ्वी तथा पृथ्वी का अन्तर तत्त्व; जल तथा जल का अन्तर तत्व; तेज एवं तेज का अन्तर तत्त्व; वायु एवं वायु का अन्तर तत्त्व; एवं आकाश का अन्तर तत्त्व; चक्षु तथा उसका द्रष्टव्य, श्रोत्र उसका श्रोतव्य, घ्राण एवं घ्राण का विषय, रस (आस्वाद) एवं आस्वाद का विषय; त्वचा एवं स्पर्श के विषय; वाक् एवं वक्तव्य के विषय; दोनों हाथ तथा उनकी ग्रहण करने की प्रक्रिया, उपस्थ एवं उसके सुखभोग; वायु एवं उसकी विसर्जन प्रक्रिया; चरण एवं उनका गन्तव्य; मन तथा उसकी अनुभूतियाँ; बुद्धि तथा उसके बोद्धव्य विषय; अहंकार अहंकार की अनुभूतिः चित्त (सचेतन मन) एवं उसकी चेतना के विषय, तेज एवं वह जिसे यह तेज द्योतित (आलोकितः करता है; प्राण एवं वे पदार्थ जिन्हें प्राण धारण करता है।
॥ शब्दावली ॥
पृथिवी पृथिवीमात्रा च - pṛthivī pṛthivīmātrā ca - earth and the inner things of earth
आपः आपोमात्रा च - āpaḥ āpomātrā ca - water and the inner things of water
तेजः च तेजोमात्रा च - tejaḥ ca tejomātrā ca - light and the inner things of light
वायुः च वायुमात्रा च - vāyuḥ ca vāyumātrā ca - air and the inner things of air
आकाशः च आकाशमात्रा च - ākāśaḥ ca ākāśamātrā ca - ether and the inner things of ether
चक्षुः च द्रष्टव्यम् च - cakṣuḥ ca draṣṭavyam ca - the eye and its seeings
श्रोत्रम् च श्रोतव्यम् च - śrotram ca śrotavyam ca - the ear and its hearings
घ्राणम् च घ्रातव्यम् च - ghrāṇam ca ghrātavyam ca - smell and the objects of smell
रसः च रसयितव्यम् च - rasaḥ ca rasayitavyam ca - taste and the objects of taste
त्वक् च स्पर्शयितव्यम् च - tvak ca sparśayitavyam ca - the skin and the objects of touch
वाक् च वक्तव्यम् च - vāk ca vaktavyam ca - speech and the things to be spoken
हस्तौ च आदातव्यम् च - hastau ca ādātavyam ca - the two hands and their takings
उपस्थः च आनन्दयितव्यम् च - upasthaḥ ca ānandayitavyam ca - the organ of pleasure and its enjoyings
पायुः च विसर्जयितव्यम् च - pāyuḥ ca visarjayitavyam ca - the anus and its excretions
पादौ च गन्तव्यम् च - pādau ca gantavyam ca - the feet and their goings
मनः च मन्तव्यम् च - manaḥ ca mantavyam ca - the mind and its feelings
बुद्धिः च बोधव्यम् च - buddhiḥ ca bodhavyam ca - the intelligence and what it understandeth
अहंकारः च अहंकर्तव्यम् च - ahaṁkāraḥ ca ahaṁkartavyam ca - the sense of Ego and that which is felt to be Ego
चित्तम् च चेतयितव्यम् च - cittam ca cetayitavyam ca - the conscious heart and that of which it is conscious
तेजः च विद्योतयितव्यम् च - tejaḥ ca vidyotayitavyam ca - light and what it lighteneth
प्राणः च विधारयितव्यम् च - prāṇaḥ ca vidhārayitavyam ca - Life and the things it maintaineth
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know